Skip to main content

First Night · Chapter 4

Chapter 4

Unit 4 of 60First Night · Chapter 4First Night · Chapter 41 source entries

First Night · Chapter 4

Source

चतुर्थो ऽध्यायः ब्रह्मोवाच— ब्राह्मणस्य स्तवꣳ श्रुत्वा परितुष्टो जनार्दनः । कृपाꣳ चकार भगवान् भक्तेशो भक्त-वत्सलः ॥१॥ एतस्मिन्न् अन्तरे तत्र भगवान् नन्द-नन्दनः । नारायणर्षिः कृपया चाजगाम सरोवरम् ॥२॥ ददर्श ब्राह्मण-वटुꣳ तम् एव मुनि-पुङ्गवम् । तेजसा सुख-दृश्येन सुन्दरꣳ सुमनोहरम् ॥३॥ पीत-वस्त्र-परीधानꣳ नवीन-जलद-प्रभम् । चन्दनोक्षित-सर्वाङ्गꣳ वन-माला-विभूषितम् ॥४॥ प्रसन्न-वदनꣳ शुद्धꣳ सस्मितꣳ सर्व-पूजितम् । विभान्तꣳ च जपन्तꣳ शुद्ध-स्फटिक-मालया ॥५॥ दृष्ट्वा ननाम सहसा शिरसा विप्र-पुङ्गवः । शुभाशिषꣳ ददौ तस्मै दत्वा शिरसि हस्तकम् ॥६॥ तम् उवाच मुनि-श्रेष्ठः कृपया दीन-वत्सलः । हितꣳ तथ्यꣳ नीति-सारꣳ परिणाम-सुखावहम् ॥७॥ श्री-नारायणर्षिर् उवाच— अये विप्र महा-भाग सफलꣳ जीवनꣳ तव । यस्मिन् कुले च जातो ऽसि तद्-धन्यꣳ सुप्रशꣳसितम् ॥८॥ भज त्वꣳ परमानन्दꣳ सानन्दꣳ नन्द-नन्दनम् । ध्रुवꣳ यास्यसि गोलोकꣳ परमानन्दम् ईप्सितम् ॥९॥ तत् कुलꣳ पावनꣳ धन्यꣳ यशस्यꣳ च निरापदम् । यस्मिन् स्वयꣳ भवान् जातः पुण्यः कृष्ण-परायणः ॥१०॥ नैवेद्यꣳ पतितꣳ मार्गे जीर्नꣳ श्वापद-भक्षितम् । भुक्त्वा तवैषा बुद्धिश् च कृष्ण-भक्तिर् बभूव च ॥११॥ कृष्ण-नैवेद्य-माहात्म्यꣳ को वत्स कथितुꣳ क्षमः । यद् वक्तुꣳ न हि शक्ताश् च वेदाश् चत्वार एव च ॥१२॥ वरꣳ वृणुष्व भद्रꣳ ते सुभद्र द्विज-पुङ्गव । सर्वꣳ दातुम् अहꣳ शक्तो यत् ते मनसि वाञ्च्छितम् ॥१३॥ नारायण-वचः श्रुत्वा तम् उवाच शिषुः स्वयम् । पुनः कम्पित-सर्वाङ्गः साश्रु-नेत्रः पुटाञ्जलिः ॥१४॥ सुभद्र उवाच— देहि मे कृष्ण-पादाब्जे दृढꣳ भक्तिꣳ सुदुर्लभम् । तद्-दास्यꣳ तत्-पदे वासꣳ जरा-मृत्यु-हरꣳ परम् ॥१५॥ अन्यꣳ वरꣳ न गृह्णामि न मे किꣳचित् प्रयोजनम् । नाहꣳ वरार्थी कामी च रागी वेतन-भुग् यथा ॥१६॥ नारायणर्षिर् उवाच— श्री-कृष्णो यस्य भक्तिश् च तस्यात्र किꣳ सुदुर्लभम् । अणिमादिक-द्व-त्रिꣳशत्-सिद्धिः कर-तले परा ॥१७॥ निर्विकल्पो ददात्य् अस्य नैव गृह्णाति वैष्णवः । अनिमित्ताꣳ हरेर् भक्तिꣳ भक्ता वाञ्च्छन्ति सन्ततम् ॥१८॥ गृहाण मन्त्रꣳ कृष्णस्य परꣳ कल्प-तरुꣳ वरम् । भक्तिदꣳ दास्यदꣳ शुद्धꣳ कर्म-मूल-निकृन्तनम् ॥१९॥ लक्ष्मीर् माया-काम-बीजꣳ ङे ऽन्तꣳ कृष्ण-पदꣳ तथा । वह्नि-जायान्त-मन्त्रꣳ च मन्त्र-राजꣳ मनोहरम् ॥२०॥ इत्य् एवम् उक्त्वा तत्-कर्णे कथयाम् आस दक्षिणे । वार-त्रयꣳ मुनि-श्रेष्ठः शुद्ध-भावेन पुत्रक ॥२१॥ येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरम् । आज्ञाꣳ चकार स ऋषिस् तद् एव पठितुꣳ मुदा ॥२२॥ कवचꣳ च ददौ तस्मै जगन्-मङ्गल-मङ्गलम् । ध्यानꣳ च साम-वेदोक्तꣳ सर्व-पूजा-विधि-क्रमम् ॥२३॥ हरेर् दास्यꣳ च तद्-भक्तिर् गोलोक-वासम् ईप्सितम् । जन्म-द्वयान्तरे चैव कर्म-भोग-क्षये सति ॥२४॥ सुभद्र उवाच— सत्यꣳ कुरु महा-भाग वरꣳ मे यदि दास्यसि । वरꣳ वृणोमि तत् पश्चात् यन् मे मनसि वाञ्च्छितम् ॥२५॥ नारायणर्षिर् उवाच— ओꣳ सत्यꣳ वत्स दास्यामि वरꣳ वृणु यथेप्सितम् । ममाशक्यꣳ नास्ति किꣳचित् दाताहꣳ सर्व-सम्पदाम् ॥२६॥ सुभद्र उवाच— कण्ठे ते किꣳ च कवचꣳ कस्य वा सर्व-पूजितम् । अमूल्य-रत्न-गुटिका-युक्तꣳ च सुमनोहरम् ॥२७॥ कवचꣳ देहि मे देव स्व-सत्य-रक्षणꣳ कुरु । विप्रस्य वचनꣳ श्रुत्वा शुष्क-कण्ठौष्ठातालुकः ॥२८॥ वक्तुꣳ न शक्तस् तद् वाक्यꣳ दध्यौ कृष्ण-पदाम्बुजम् । प्रददौ गुटिकाꣳ तस्मै नोवाच कवचꣳ मुनिः ॥२९॥ तम् उवाच महर्षिश् च वितुष्टश् चोन्मनाः सुत । वत्स क्रोधो हि देवस्य वरꣳ तुल्यꣳ च वाञ्च्छितम् ॥३०॥ नारायणर्षिर् उवाच— त्रिꣳषत्-सहस्र-वर्षꣳ च भुङ्क्ष्व राज्यꣳ सुदुर्लभम् । लभस्व दुर्लभाꣳ लक्ष्मीꣳ मायया मोहितो भव ॥३१॥ मद्-इष्ट-देव-कवचꣳ गृहीतꣳ येन हेतुना । सप्त-कल्पान्त-जीवस्य परत्र च भविष्यति ॥३२॥ सुचिरेणैव कालेन गोलोकꣳ च प्रायस्यसि । परे मृकण्डु-पुत्रस् त्वꣳ मार्कण्डेयो भविष्यसि ॥३३॥ मया दत्तꣳ च कवचꣳ त्वाꣳ च रक्षति पुत्रक । तव कण्ठे स्थितिश् चाश्य प्रति जन्मनि जन्मनि ॥३४॥ पुनश् च गुटिका-युक्तꣳ कृत्वा च कवचꣳ मुनिः । गले दधार भक्त्या च तद्-भक्तो धर्म-नन्दनः ॥३५॥ वरꣳ दत्वा च स मुनिर् ययौ गेहꣳ स उन्मनाः । विप्राय कवचꣳ दत्वा नष्ट-वत्सा गौर् यथा ॥३६॥ भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना । मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः ॥३७॥ विप्रः सम्प्राप्य कवचꣳ मन्त्रꣳ कल्प-तरुꣳ परम् । सरोवरात् समुत्थाय प्रज्वलन् ब्रह्म-तेजसा ॥३८॥ क्षणꣳ तस्थौ सरस्-तीरे वट-मूले मनोहरे । जजाप परमꣳ मन्त्रꣳ सम्पूज्य जगद्-ईश्वरम् ॥३९॥ अथ तत्-तात-विप्रो हि समन्विष्य सुतꣳ चिरम् । गत्वा च स्व-गृहꣳ दुःखी शोकार्तः स रुरोद च ॥४०॥ समुद्यता तनुꣳ त्यक्तुꣳ तन्-माता पुत्र-वार्तया । न तत्याज तनुꣳ विप्रो दृष्ट्वा सुस्वप्नम् उत्तमम् ॥४१॥ विप्रो विप्रा गृहꣳ त्यक्त्वा पुत्रान्वेषण-पूर्वकम् । प्रययौ काननꣳ घोरꣳ सर्वैश् च बान्धवैः सहः ॥४२॥ सर्वꣳ वनꣳ समन्विष्य प्रययुस् ते सरोवरम् । ददृशुस् ते शिशुꣳ गृह्यꣳ सूर्याभꣳ वट-मूलके ॥४३॥ चुचुम्ब गण्डꣳ पुत्रस्य विप्रो विप्रा च सारदम् । आशिश्लेष क्रमेणैव माता तातः पुनः पुनः ॥४४॥ पुत्रश् च सर्व-वृत्तान्तꣳ कथयाम् आस सादरम् । श्रुत्वा पुत्रस्य विप्रश् च विप्रा बान्धवस् तथा ॥ ४५॥ ययुः सर्वे स्व-देशꣳ च परमाह्लाद-मानसाः । चन्द्र-भागाꣳ समुत्तीर्य विवेश नगरꣳ परम् ॥४६॥ नगर-स्थो नृपेन्द्रश् च दृष्ट्वा तेजस्विनꣳ शिशुम् । ददौ तस्मै स्व-कन्याꣳ च रत्नालङ्कार-भूषितम् ॥४७॥ युवतीꣳ सुन्दरीꣳ श्यामाꣳ तप्त-कञ्चन-सꣳनिभाम् । पति-व्रताꣳ महा-भागाꣳ सुन्दरीꣳ कमलाकलाꣳ ॥४८॥ गजेन्द्राणाꣳ सहस्रꣳ च प्रददौ यौतुकꣳ मुदा । अश्वानाꣳ दश-लक्षꣳ च रत्नानाꣳ च सहस्रकम् ॥४९॥ दासीनाꣳ निष्क-कण्ठीनाꣳ सौन्दरीणाꣳ सहस्रकम् । वस्त्र-रत्न-सहस्रꣳ च बहु-मूल्यꣳ सुदुर्लभम् ॥५०॥ दासानाꣳ च सहस्रꣳ च पदातीनाꣳ त्रि-लक्षकम् । दश-लक्षꣳ सुवर्णꣳ च रत्न-मालाꣳ सुदुर्लभाम् ॥५१॥ दत्वा तस्मै च कन्याꣳ च रुरोद च सभार्यकः । राजा च कन्यया सार्धꣳ प्रययौ विप्र-मन्दिरम् ॥५२॥ गत्वा चापि कियद् दूरꣳ ददर्श नगरꣳ नृपः । अतीव सुन्दरꣳ रम्यꣳ विजित्य चामरावतीम् ॥५३॥ शुद्ध-स्फटिक-सꣳकाशꣳ रत्न-सार-विनिर्मितम् । त्रि-कोटि-चट्टालिका-गेहꣳ नव-कोटि-सुमन्दिरम् ॥५४॥ सप्त-प्राकार-युक्तꣳ च परिखा-त्रय-सम्युक्तम् । दुर्लङ्घ्यम् अति-दुर्गम्यꣳ रिपूणाम् अपि पुत्रक ॥५५॥ शिशोश् च स्वाश्रमꣳ रम्यꣳ सद्-रत्न-सार-निर्मितम् । स्फुरत् वज्र-कपाटꣳ च रत्नेन्द्र-कलशान्वितम् ॥५६॥ सद्-रत्न-दर्पणाइर् दीपꣳ रत्न-कुम्भैर् विराजितम् । प्राङ्गणꣳ रत्न-साराढ्यꣳ रत्न-सोपान-शोभितम् ॥५७॥ मनोहरꣳ राज-मार्गꣳ सिन्दूरादि-परिष्कृतम् । प्राकारꣳ मणि-भूषाढ्यम् उच्चैर् आकाश-स्पर्शि च ॥५८॥ जगाम विस्मयꣳ राजा दृष्ट्वा नगरम् उत्तमम् । पित्रा मात्रा सह शिशुर् विस्मयꣳ च ययौ मुदा ॥५९॥ गजेन्द्राणाꣳ त्रि-लक्षꣳ च श्वानाꣳ शत-लक्षकम् । चतुर्-गुणꣳ पदातीनाम् आययुस् ते ऽप्य् अनुव्रजम् ॥६०॥ वारणेन्द्रꣳ पुरस् कृत्य वेश्याꣳ च नर्तकꣳ तथा । द्विजाꣳश् च पूर्ण-कुम्भाꣳश् च पति-पुत्रवतीꣳ सतीꣳ ॥६१॥ महा-पात्रः शिशुꣳ दृष्ट्वा गजेन्द्रोपरि-सꣳस्थितम् । मूर्ध्ना ननाम वेगेनाप्य् अवरुह्य गजाद् अपि ॥६२॥ शिशुꣳ प्रवेशयाꣳ आस रत्न-निर्माण-मन्दिरम् । रत्न-सिꣳहासनꣳ तस्मै प्रददौ सादरꣳ मुदा ॥६३॥ कन्या-दात्रे च पित्रे च मात्रे च सादरꣳ मुदा । रत्न-सिꣳःआसनꣳ रम्यꣳ प्रददौ पात्र एव च ॥६४॥ शिशुम् सिषेव पात्रश् च स्वयꣳ च श्वेत-चामरैः । दधार रत्न-छत्रꣳ च हीराहार-परिष्कृतम् ॥६५॥ उवास स स-भार्याꣳ च सुधर्म्याꣳ महेन्द्रवत् । श्वसुरश् च ययौ गेहꣳ शिशुना च पुरस्कृतः ॥६६॥ त्रिꣳशत्-सहस्र-वर्षꣳ च राजा राज्यꣳ चकार सः । कालान्तरे तत्-पिता च वने व्याघ्रेण भक्षितः ॥६७॥ पति-व्रता महा-भागा माता सह-मृता सुत । रत्न-यानेन रम्येण स-स्त्रीकः कृष्ण-मन्दिरम् ॥६८॥ प्रययौ सादरꣳ विप्रः कृष्ण-नैवेद्य-भक्षणात् । तद्-अस्थि भुक्त्वा व्याघ्रश् च पूतः सद्यश् च साꣳप्रतम् ॥६९॥ ताभ्याꣳ सार्धꣳ च प्रययौ गोलोकꣳ सुमनोहरम् । शिशुर् देहꣳ परित्यज्य हिमाद्रौ स्वर्-णदी-तटे ॥७०॥ दत्वा पुत्राय राज्यꣳ च स्वर्गाद् अपि सुदुर्लभम् । मृकण्डु-पत्नी-गर्भे च लेभे जन्म स्व-कर्मणा ॥७१॥ मार्कण्डेयो मुनि-श्रेष्ठो बभूव पर-जन्मनि । सप्त-कल्पान्त-जीवी च नारायण-वरेण सः ॥७२॥ बभूव साꣳप्रतꣳ विप्रः कृष्ण-नैवेद्य-भक्षणात् । श्व-भक्षितꣳ च नैवेद्यꣳ भुक्त्वा चेद् ईदृशी गतिः । अकामतश् चाप्य् अज्ञातो जीर्ण-मार्ग-स्थितꣳ सुत ॥७३॥ यो भक्षेत् कामतो ज्ञातो नित्यꣳ नैवेद्यम् ईप्सितम् । न जानन्ति गतिस् तस्य वेदाश् चत्वार एव च ॥७४॥ इति ते कथितꣳ ब्रह्मन्न् इतिहासꣳ पुरातनम् । आश्चर्यꣳ मधुरꣳ रम्यꣳ किꣳ भूयः श्रोतुम् इच्छसि ॥७५॥ श्री-नारद उवाच— श्रुतꣳ नैवेद्य-माहात्म्यम् अतीव सुमनोहरम् । ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः ॥७६॥ अधुना श्रोतुम् इच्छामि स्वात्म-सन्देह-भञ्जनम् । नारायणर्षेर् कण्ठे च कवचꣳ तस्य तद् वद ॥७७॥ अथ कवच-प्रश्नः सनत्-कुमार उवाच— ममाप्य् अस्तीति सन्देहो वचने प्रपितामह । कस्य तत् कवचꣳ ब्रह्मन्न् इदꣳ वक्तुꣳ त्वम् अर्हसि ॥७८॥ स पिता स गुरुः स्वच्छः करोति भ्रम-भञ्जनम् । शीघ्रꣳ ब्रूहि महा-भाग नारदꣳ माꣳ सुत-प्रिय ॥७९॥ पुत्रयोश् च वचः श्रुत्वा शुष्क-कण्ठौष्ठतालुकः । उवाच वचनꣳ ब्रह्मा स्मरन् कृष्ण-पदाम्बुजम् ॥८०॥ ब्रह्मोवाच— नारायणेन मुनिना जगन्-मङ्गल-मङ्गलम् । विप्राय कवचꣳ दत्तम् ध्यानꣳ च पर्मात्मनः ॥८१॥ तद् ब्रवीमि महा-भाग त्वाम् एव नारदꣳ प्रति । कण्ठ-स्थꣳ कवचꣳ वक्तुꣳ नैव शक्नोमि साꣳप्रतम् ॥८२॥ मत्-कण्ठे कवचꣳ यस्य गोपनीयꣳ सुदुर्लभम् । नारायणर्षि-कण्ठे च तद् एव परमाद्भुतम् ॥८३॥ तद् एव धर्म-कण्ठे च नरस्य च महात्मनः । अगस्त्यस्य च कण्ठे च लोमशस्य महा-मुनेः ॥८४॥ तुलस्याश् चापि सꣳज्ञायाः सावित्र्याश् चापि पुत्रक । अन्येषाꣳ च भाग्यवताꣳ भारते च सुदुर्लभे ॥८५॥ नारद उवाच— पश्चात् श्रोष्यामि कवचꣳ जगन्-मङ्गल-मङ्गलम् । ध्यानꣳ पूजाꣳ विधानꣳ च कृष्णस्य परमात्मनः ॥८६॥ आदौ कथय भद्रꣳ ते परꣳ परम-भद्रकम् । सुभद्र-प्राप्तꣳ कवचꣳ माहात्म्यꣳ यस्य दुर्लभम् ॥८७॥ ब्रह्मोवाच— सुभद्र-प्राप्तꣳ कवचꣳ पश्चात् श्रोष्यसि पुत्रक । शङ्करस्य मुखाद् विप्र स्व-गुरोर् ज्ञानिनस् तथा ॥८८॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे ब्रह्मा-नारद-सꣳवादे प्रथमैक-रात्रे कवच-प्रश्नो नाम चतुर्थो ऽध्यायः ॥४॥ …

caturtho 'dhyāyaḥ brahmovāca— brāhmaṇasya stavaṁ śrutvā parituṣṭo janārdanaḥ | kṛpāṁ cakāra bhagavān bhakteśo bhakta-vatsalaḥ ||1|| etasminn antare tatra bhagavān nanda-nandanaḥ | nārāyaṇarṣiḥ kṛpayā cājagāma sarovaram ||2|| dadarśa brāhmaṇa-vaṭuṁ tam eva muni-puṅgavam | tejasā sukha-dṛśyena sundaraṁ sumanoharam ||3|| pīta-vastra-parīdhānaṁ navīna-jalada-prabham | candanokṣita-sarvāṅgaṁ vana-mālā-vibhūṣitam ||4|| prasanna-vadanaṁ śuddhaṁ sasmitaṁ sarva-pūjitam | vibhāntaṁ ca japantaṁ śuddha-sphaṭika-mālayā ||5|| dṛṣṭvā nanāma sahasā śirasā vipra-puṅgavaḥ | śubhāśiṣaṁ dadau tasmai datvā śirasi hastakam ||6|| tam uvāca muni-śreṣṭhaḥ kṛpayā dīna-vatsalaḥ | hitaṁ tathyaṁ nīti-sāraṁ pariṇāma-sukhāvaham ||7|| śrī-nārāyaṇarṣir uvāca— aye vipra mahā-bhāga saphalaṁ jīvanaṁ tava | yasmin kule ca jāto 'si tad-dhanyaṁ supraśaṁsitam ||8|| bhaja tvaṁ paramānandaṁ sānandaṁ nanda-nandanam | dhruvaṁ yāsyasi golokaṁ paramānandam īpsitam ||9|| tat kulaṁ pāvanaṁ dhanyaṁ yaśasyaṁ ca nirāpadam | yasmin svayaṁ bhavān jātaḥ puṇyaḥ kṛṣṇa-parāyaṇaḥ ||10|| naivedyaṁ patitaṁ mārge jīrnaṁ śvāpada-bhakṣitam | bhuktvā tavaiṣā buddhiś ca kṛṣṇa-bhaktir babhūva ca ||11|| kṛṣṇa-naivedya-māhātmyaṁ ko vatsa kathituṁ kṣamaḥ | yad vaktuṁ na hi śaktāś ca vedāś catvāra eva ca ||12|| varaṁ vṛṇuṣva bhadraṁ te subhadra dvija-puṅgava | sarvaṁ dātum ahaṁ śakto yat te manasi vāñcchitam ||13|| nārāyaṇa-vacaḥ śrutvā tam uvāca śiṣuḥ svayam | punaḥ kampita-sarvāṅgaḥ sāśru-netraḥ puṭāñjaliḥ ||14|| subhadra uvāca— dehi me kṛṣṇa-pādābje dṛḍhaṁ bhaktiṁ sudurlabham | tad-dāsyaṁ tat-pade vāsaṁ jarā-mṛtyu-haraṁ param ||15|| anyaṁ varaṁ na gṛhṇāmi na me kiṁcit prayojanam | nāhaṁ varārthī kāmī ca rāgī vetana-bhug yathā ||16|| nārāyaṇarṣir uvāca— śrī-kṛṣṇo yasya bhaktiś ca tasyātra kiṁ sudurlabham | aṇimādika-dva-triṁśat-siddhiḥ kara-tale parā ||17|| nirvikalpo dadāty asya naiva gṛhṇāti vaiṣṇavaḥ | animittāṁ harer bhaktiṁ bhaktā vāñcchanti santatam ||18|| gṛhāṇa mantraṁ kṛṣṇasya paraṁ kalpa-taruṁ varam | bhaktidaṁ dāsyadaṁ śuddhaṁ karma-mūla-nikṛntanam ||19|| lakṣmīr māyā-kāma-bījaṁ ṅe 'ntaṁ kṛṣṇa-padaṁ tathā | vahni-jāyānta-mantraṁ ca mantra-rājaṁ manoharam ||20|| ity evam uktvā tat-karṇe kathayām āsa dakṣiṇe | vāra-trayaṁ muni-śreṣṭhaḥ śuddha-bhāvena putraka ||21|| yena stotreṇa tuṣṭāva subhadraḥ parameśvaram | ājñāṁ cakāra sa ṛṣis tad eva paṭhituṁ mudā ||22|| kavacaṁ ca dadau tasmai jagan-maṅgala-maṅgalam | dhyānaṁ ca sāma-vedoktaṁ sarva-pūjā-vidhi-kramam ||23|| harer dāsyaṁ ca tad-bhaktir goloka-vāsam īpsitam | janma-dvayāntare caiva karma-bhoga-kṣaye sati ||24|| subhadra uvāca— satyaṁ kuru mahā-bhāga varaṁ me yadi dāsyasi | varaṁ vṛṇomi tat paścāt yan me manasi vāñcchitam ||25|| nārāyaṇarṣir uvāca— oṁ satyaṁ vatsa dāsyāmi varaṁ vṛṇu yathepsitam | mamāśakyaṁ nāsti kiṁcit dātāhaṁ sarva-sampadām ||26|| subhadra uvāca— kaṇṭhe te kiṁ ca kavacaṁ kasya vā sarva-pūjitam | amūlya-ratna-guṭikā-yuktaṁ ca sumanoharam ||27|| kavacaṁ dehi me deva sva-satya-rakṣaṇaṁ kuru | viprasya vacanaṁ śrutvā śuṣka-kaṇṭhauṣṭhātālukaḥ ||28|| vaktuṁ na śaktas tad vākyaṁ dadhyau kṛṣṇa-padāmbujam | pradadau guṭikāṁ tasmai novāca kavacaṁ muniḥ ||29|| tam uvāca maharṣiś ca vituṣṭaś conmanāḥ suta | vatsa krodho hi devasya varaṁ tulyaṁ ca vāñcchitam ||30|| nārāyaṇarṣir uvāca— triṁṣat-sahasra-varṣaṁ ca bhuṅkṣva rājyaṁ sudurlabham | labhasva durlabhāṁ lakṣmīṁ māyayā mohito bhava ||31|| mad-iṣṭa-deva-kavacaṁ gṛhītaṁ yena hetunā | sapta-kalpānta-jīvasya paratra ca bhaviṣyati ||32|| sucireṇaiva kālena golokaṁ ca prāyasyasi | pare mṛkaṇḍu-putras tvaṁ mārkaṇḍeyo bhaviṣyasi ||33|| mayā dattaṁ ca kavacaṁ tvāṁ ca rakṣati putraka | tava kaṇṭhe sthitiś cāśya prati janmani janmani ||34|| punaś ca guṭikā-yuktaṁ kṛtvā ca kavacaṁ muniḥ | gale dadhāra bhaktyā ca tad-bhakto dharma-nandanaḥ ||35|| varaṁ datvā ca sa munir yayau gehaṁ sa unmanāḥ | viprāya kavacaṁ datvā naṣṭa-vatsā gaur yathā ||36|| bhrātrā nareṇa pitrā ca dharmeṇa ca mahātmanā | mātrā mūrtyā ca patnyā ca śāntyā ca bhartsito muniḥ ||37|| vipraḥ samprāpya kavacaṁ mantraṁ kalpa-taruṁ param | sarovarāt samutthāya prajvalan brahma-tejasā ||38|| kṣaṇaṁ tasthau saras-tīre vaṭa-mūle manohare | jajāpa paramaṁ mantraṁ sampūjya jagad-īśvaram ||39|| atha tat-tāta-vipro hi samanviṣya sutaṁ ciram | gatvā ca sva-gṛhaṁ duḥkhī śokārtaḥ sa ruroda ca ||40|| samudyatā tanuṁ tyaktuṁ tan-mātā putra-vārtayā | na tatyāja tanuṁ vipro dṛṣṭvā susvapnam uttamam ||41|| vipro viprā gṛhaṁ tyaktvā putrānveṣaṇa-pūrvakam | prayayau kānanaṁ ghoraṁ sarvaiś ca bāndhavaiḥ sahaḥ ||42|| sarvaṁ vanaṁ samanviṣya prayayus te sarovaram | dadṛśus te śiśuṁ gṛhyaṁ sūryābhaṁ vaṭa-mūlake ||43|| cucumba gaṇḍaṁ putrasya vipro viprā ca sāradam | āśiśleṣa krameṇaiva mātā tātaḥ punaḥ punaḥ ||44|| putraś ca sarva-vṛttāntaṁ kathayām āsa sādaram | śrutvā putrasya vipraś ca viprā bāndhavas tathā || 45|| yayuḥ sarve sva-deśaṁ ca paramāhlāda-mānasāḥ | candra-bhāgāṁ samuttīrya viveśa nagaraṁ param ||46|| nagara-stho nṛpendraś ca dṛṣṭvā tejasvinaṁ śiśum | dadau tasmai sva-kanyāṁ ca ratnālaṅkāra-bhūṣitam ||47|| yuvatīṁ sundarīṁ śyāmāṁ tapta-kañcana-saṁnibhām | pati-vratāṁ mahā-bhāgāṁ sundarīṁ kamalākalāṁ ||48|| gajendrāṇāṁ sahasraṁ ca pradadau yautukaṁ mudā | aśvānāṁ daśa-lakṣaṁ ca ratnānāṁ ca sahasrakam ||49|| dāsīnāṁ niṣka-kaṇṭhīnāṁ saundarīṇāṁ sahasrakam | vastra-ratna-sahasraṁ ca bahu-mūlyaṁ sudurlabham ||50|| dāsānāṁ ca sahasraṁ ca padātīnāṁ tri-lakṣakam | daśa-lakṣaṁ suvarṇaṁ ca ratna-mālāṁ sudurlabhām ||51|| datvā tasmai ca kanyāṁ ca ruroda ca sabhāryakaḥ | rājā ca kanyayā sārdhaṁ prayayau vipra-mandiram ||52|| gatvā cāpi kiyad dūraṁ dadarśa nagaraṁ nṛpaḥ | atīva sundaraṁ ramyaṁ vijitya cāmarāvatīm ||53|| śuddha-sphaṭika-saṁkāśaṁ ratna-sāra-vinirmitam | tri-koṭi-caṭṭālikā-gehaṁ nava-koṭi-sumandiram ||54|| sapta-prākāra-yuktaṁ ca parikhā-traya-samyuktam | durlaṅghyam ati-durgamyaṁ ripūṇām api putraka ||55|| śiśoś ca svāśramaṁ ramyaṁ sad-ratna-sāra-nirmitam | sphurat vajra-kapāṭaṁ ca ratnendra-kalaśānvitam ||56|| sad-ratna-darpaṇāir dīpaṁ ratna-kumbhair virājitam | prāṅgaṇaṁ ratna-sārāḍhyaṁ ratna-sopāna-śobhitam ||57|| manoharaṁ rāja-mārgaṁ sindūrādi-pariṣkṛtam | prākāraṁ maṇi-bhūṣāḍhyam uccair ākāśa-sparśi ca ||58|| jagāma vismayaṁ rājā dṛṣṭvā nagaram uttamam | pitrā mātrā saha śiśur vismayaṁ ca yayau mudā ||59|| gajendrāṇāṁ tri-lakṣaṁ ca śvānāṁ śata-lakṣakam | catur-guṇaṁ padātīnām āyayus te 'py anuvrajam ||60|| vāraṇendraṁ puras kṛtya veśyāṁ ca nartakaṁ tathā | dvijāṁś ca pūrṇa-kumbhāṁś ca pati-putravatīṁ satīṁ ||61|| mahā-pātraḥ śiśuṁ dṛṣṭvā gajendropari-saṁsthitam | mūrdhnā nanāma vegenāpy avaruhya gajād api ||62|| śiśuṁ praveśayāṁ āsa ratna-nirmāṇa-mandiram | ratna-siṁhāsanaṁ tasmai pradadau sādaraṁ mudā ||63|| kanyā-dātre ca pitre ca mātre ca sādaraṁ mudā | ratna-siṁḥāsanaṁ ramyaṁ pradadau pātra eva ca ||64|| śiśum siṣeva pātraś ca svayaṁ ca śveta-cāmaraiḥ | dadhāra ratna-chatraṁ ca hīrāhāra-pariṣkṛtam ||65|| uvāsa sa sa-bhāryāṁ ca sudharmyāṁ mahendravat | śvasuraś ca yayau gehaṁ śiśunā ca puraskṛtaḥ ||66|| triṁśat-sahasra-varṣaṁ ca rājā rājyaṁ cakāra saḥ | kālāntare tat-pitā ca vane vyāghreṇa bhakṣitaḥ ||67|| pati-vratā mahā-bhāgā mātā saha-mṛtā suta | ratna-yānena ramyeṇa sa-strīkaḥ kṛṣṇa-mandiram ||68|| prayayau sādaraṁ vipraḥ kṛṣṇa-naivedya-bhakṣaṇāt | tad-asthi bhuktvā vyāghraś ca pūtaḥ sadyaś ca sāṁpratam ||69|| tābhyāṁ sārdhaṁ ca prayayau golokaṁ sumanoharam | śiśur dehaṁ parityajya himādrau svar-ṇadī-taṭe ||70|| datvā putrāya rājyaṁ ca svargād api sudurlabham | mṛkaṇḍu-patnī-garbhe ca lebhe janma sva-karmaṇā ||71|| mārkaṇḍeyo muni-śreṣṭho babhūva para-janmani | sapta-kalpānta-jīvī ca nārāyaṇa-vareṇa saḥ ||72|| babhūva sāṁprataṁ vipraḥ kṛṣṇa-naivedya-bhakṣaṇāt | śva-bhakṣitaṁ ca naivedyaṁ bhuktvā ced īdṛśī gatiḥ | akāmataś cāpy ajñāto jīrṇa-mārga-sthitaṁ suta ||73|| yo bhakṣet kāmato jñāto nityaṁ naivedyam īpsitam | na jānanti gatis tasya vedāś catvāra eva ca ||74|| iti te kathitaṁ brahmann itihāsaṁ purātanam | āścaryaṁ madhuraṁ ramyaṁ kiṁ bhūyaḥ śrotum icchasi ||75|| śrī-nārada uvāca— śrutaṁ naivedya-māhātmyam atīva sumanoharam | īśvarasyāpi he tāta kṛṣṇasya paramātmanaḥ ||76|| adhunā śrotum icchāmi svātma-sandeha-bhañjanam | nārāyaṇarṣer kaṇṭhe ca kavacaṁ tasya tad vada ||77|| atha kavaca-praśnaḥ sanat-kumāra uvāca— mamāpy astīti sandeho vacane prapitāmaha | kasya tat kavacaṁ brahmann idaṁ vaktuṁ tvam arhasi ||78|| sa pitā sa guruḥ svacchaḥ karoti bhrama-bhañjanam | śīghraṁ brūhi mahā-bhāga nāradaṁ māṁ suta-priya ||79|| putrayoś ca vacaḥ śrutvā śuṣka-kaṇṭhauṣṭhatālukaḥ | uvāca vacanaṁ brahmā smaran kṛṣṇa-padāmbujam ||80|| brahmovāca— nārāyaṇena muninā jagan-maṅgala-maṅgalam | viprāya kavacaṁ dattam dhyānaṁ ca parmātmanaḥ ||81|| tad bravīmi mahā-bhāga tvām eva nāradaṁ prati | kaṇṭha-sthaṁ kavacaṁ vaktuṁ naiva śaknomi sāṁpratam ||82|| mat-kaṇṭhe kavacaṁ yasya gopanīyaṁ sudurlabham | nārāyaṇarṣi-kaṇṭhe ca tad eva paramādbhutam ||83|| tad eva dharma-kaṇṭhe ca narasya ca mahātmanaḥ | agastyasya ca kaṇṭhe ca lomaśasya mahā-muneḥ ||84|| tulasyāś cāpi saṁjñāyāḥ sāvitryāś cāpi putraka | anyeṣāṁ ca bhāgyavatāṁ bhārate ca sudurlabhe ||85|| nārada uvāca— paścāt śroṣyāmi kavacaṁ jagan-maṅgala-maṅgalam | dhyānaṁ pūjāṁ vidhānaṁ ca kṛṣṇasya paramātmanaḥ ||86|| ādau kathaya bhadraṁ te paraṁ parama-bhadrakam | subhadra-prāptaṁ kavacaṁ māhātmyaṁ yasya durlabham ||87|| brahmovāca— subhadra-prāptaṁ kavacaṁ paścāt śroṣyasi putraka | śaṅkarasya mukhād vipra sva-guror jñāninas tathā ||88|| iti śrī-nārada-pañca-rātre jñānāmṛta-sāre brahmā-nārada-saṁvāde prathamaika-rātre kavaca-praśno nāma caturtho 'dhyāyaḥ ||4|| …

English translation

CHAPTER IV

Brahma said :—The God of the Bhaktas (devotees) is kind to them ; Bhagavan Janardan became pleased with the praise offered by the Brahmana and showed favour to him. (1)

In the meanwhile Narayana Rgi, the son of Nanda (some say the son of Dharma) came there out of mercy. (2)

The Brahmana son saw that Chief Muni exceedingly beautiful and lovely and very agreeable and brilliant like fire. (3)

He was wearing yellow robes, looking like fresh rain-cloud, decked with sandal-paste all over and adorned with garlands of forest flowers. (4)

His face was serene, smiling and shining, fit to be worshipped by all and he was turning his holy rosary made of crystals. (5)

Seeing him, the Brahmana suddenly bent his head low and saluted him, duly ; the Muni, the supporter of the poor and needy, touched his head and blessed him and out of favour began to speak words to him beneficial and moral and leading to his welfare 10 the world. (6-7) ; .

Sri Narayana Rsi spoke :--O fortunate Brabmana ! your tirth is successful and the family in which you are born is blessed and highly praised. (8) :

Now meditate most gladly on the son of Nanda, the Highest Bliss and you will go certainly to the region of Go-loka full of the Highest Bliss and desired by the Devas. (9)

You are very holy and your heart is full of Sri Krsna and you are all virtue. The family in which you are born is blessed, sanctified and become famous and free from danger. (10)

Such knowledge and Bhakti to Sri Krsna Candra have come to you by your having eaten His Naivedya lying stale on the ground, and eaten by an animal. (11)

O Child! Who can describe the greatness of His Naiyedya. The four Vedas are unable to declare it. (12)

O Brahmana Subhadra! now ask boon from me ; good will come to you. Icjn give all one can ask. (13)

Hearing thus the words of Narayana, the boy trembled and with tears in his eyes and with folded hands spoke :—(14)

Subhadra said :—O Sri Krsna ! grant unto me that infallible devotion to Thy lotus feet, which is acquired by the highly fortunate and which takes away birth, death and old age and let me live at Thy holy feet. (15)

Ido not want any other boon. I donot crave for the enjoyment of worldly objects and I do want no other boon which a man, drawing his salary, wants. (16)

Narayana Rsi said :—What is there that is rare toa man who has got his devotion to Sti Krsna ? The thirty-two highest siddhis (perfections) Anima, etc., come easily to him. (17)

A Sri Vaisnava does not want even if he be granted Nirvikalpa ‘Samadhi ; for the bhaktas, want always only that devotion to Hari which is without any motive, the Ahaituki Hari bhakti (18)

Now take the Highest Mantra, that of Sri Krsna which like a Kalpataru (a tree yielding all objects of desires), holy and fully capable to sever the roots of Karma. This gives devotion to Sri Krsna as His servant. (19)

The beautiful mantra is Srim Hrim Klim Krsnaya Svaha. Laksmi Vija is Srim; Maya Vija is Hrim; Kama Vija is Klim ; Vahnijayad is Svaha. (20)

Son ! Thus saying, the great Muni, ina state of great purity repeated twice the holy Mantra on his Tight ear. (21)

Then Narayana Rsi ordered the boy to recite the stotram which he ere long recited in praise of Sri Krsna. (22) Moreover he gave him the famous Kavaca named Jaganman-

galamangalam, then the meditation mantra of Sri Krsna and the method of worship according to Sima Veda. (23)

On the Highest Knowledge -

. Note :—The method of worship—how and in what succession which Devas are to be worshipped.

The servantship and devotion to Hari and life in Go-loka (or Vrndaban, if not, 10 Go-loka) occurs when the two births (past and future) and the effects of Karma end. (24)

Subhadra : —““O Respectful one ! If Thou likest to grant boon into me, then say truly and make a promise ; afterwards I will ask from thou the boon that I desire. (25)

Narayana Rsi said :—‘‘Om satyam, O child! I speak truly. I will grant you the boon you ask ; there is nothing impracticable to me ; I can give you all the wealth. (26)

Subhadra said :—What is that Kavaca, so beautiful and located within an invaluable jewel, worshipped by all. (27)

O Deva! Now give me that Kavaca and thus fulfil your promise hearing the Brahman’s words the throat, lips, and palate of the Muni became parched and dry. (28)

And being unable to speak any word, he began to meditate on the lotus feet of Sri Krsna and gave him that gutika (the globular pebble involving Kavacam) but he did not mention to the boy any single word about Kavaca (a mystical syllable considered as a preservative like armour) Kavaca—an amulet ; a charm. (29)

O Child ! The wrath of the Devas and boon according to one’s wishes look alike. Though the great Rsi was angry, yet he spoke to the Vipra with a sad and absent-minded heart. (30)

Narayana Rsi said :—O Brahmana ! Enjoy the pleasures of the kingdom for three hundred thousand years an attain Laksmi (property) so very rare but you will be deluded with Maya. (31)

O Brahmana! As you are taking the Kavaca of my Ista Deva you will live for a period seven Kalpas (by virtue of this). (32)

And after a long, long time you will go to Go-loka ; then you will be born as the son of Mrkanda Muni, and will be known far and with wide name of Markandeya Muni. (33)

O Child ! The Kavac?, given by me, will protect you and the said Kavaca will be seen suspended from your neck in your every birth. (34)

ey

32 Narada Pajicaratram

Then the Muni, the son of Dharma and a devotee of Sri Krsna inclosed the Kavaca in another jewel stons and put on, on his. neck, with devotion. (35)

Thus granting boon and Kavacam to the Brahmana, the Muni were back to his place, absent-minded like a cow bereft of her calf. (36)

The Muni, on his return, was reproached very much by his. broth Nara, by his high souled father Dharma, and by his mother Marti and by his wife Santi. (37)

The Brahmana, on the other hand, began to shine with Brahma Tej (the fire of Brahman) no sooner he got the above Kavaca and

mantra like a Kalpa tree and got up from the tank. (38)

He waited for a short time under a beautiful banyan tree; on the edge of that tank and finishing his Pcoja (worship) of Sri Krsna, the Lord of the three worlds, began to repeat silently that highest Mantra. (39)

Here, on the other hand, the father of the boy searched for his son fora while and unable to find him out returned home and gave vent to his sorrow and wept bitterly. (40)

His mother, hearing all this was ready, to quit her life but she desisted from doing so when she heard that her husband had seen an auspicious dream, (41)

Then both father and mother, accompanied by friends went out in the deep jungle in quest of their son. (42)

They looked every tree in the forest when at last they came to

the tank and saw their son, burning like the Sun, under that banyan tree. (43)

The father and mother both embraced and kissed their son again and again. (44)

The son repeated to them all what had happened to him and his father, mother and all the friends heard him. (45)

Then they were ready to return and, crossing the river Candrabhaga, came again to their city. (46)

On the Highest Knowledge 33

The King, the Lord of that city, when he saw that fiery son, married his daughter with jewels and ornaments to that boy. (47)

That girl was young, beautiful, of Syama colour, like burnished gold chaste, highly fortunate and a part of Kamala (Laksmi). (48)

The King also gladly gave him thousand elephants, ten lak horses and thousand jewelled ornaments as dowry. (49)

He also gave thousand slave girls very handsome, having golden ornaments round their necks and thousands of other valuable and rare clothings and jewels. (50)

Thousand slaves, three lakhs infantry, ten lakhs gold pieces, and valuable and rare garlands of gems and jewels were also offered. (51) ie

After giving his daughter in marriage, he with his wife began to weep, and went with his daughter to the house of the Brahmana. (52)

Going tosome distance the King sawa very beautiful and lovely city as it were, the heaven of Indra. (53)

That city was very charming and adorned with pure gems. There to three crores of palatial buildings and nine crores of temples, all decked with pure gems and jewels. (54)

The city was guarded by seven enclosure walls and three diches and thus came quite impregnable to the enemies. (55) _

The palace of the bridegroom was decked with excellent gems and vels and fitted with thunderbolt-like hard doors and provided with jewel jars. (56)

The brilliancy of the gems looking like mirrors and the ‘Beau of the jewel jars added to the lustre of the place ; in addition the court-yard was carved with jewels and the steps were of the same materials. (57)

The beautiful highways were clear like red powder of vermillion and the enclosure walls were very lofty, reaching to the skies and ornamented the gems and jewels. (58) .

34 Narada Pajicarétram The King was greatly surprised with the exceeding beauty of the city and the father and mother of the boy were greatly ; delighted and astonished. (59)

There had already arrived before their entrance three

lakhs of elephants, one hundred lakhs of horses, four crores of infantry. (60)

Elephants, prostitutes, dancing girls, Brahmanas, pitchers filled with water, and chaste women with their husbands and sons all went forward ; and lastly the prime minister succeeded, and on seeing the Brahmana boy, he descended quickly from his elephant and bowed down his head and saluted him. (61-62)

The boy entered into the temple, built of gems and jewels, and very gladly took his seat on the jewel led throne. (63)

In the same reverential way, the prime minister offered the jewel-thrones to the bride’s father and to the father and the mother of the Brahmana boy respectively for their honoured seats. (64)

He began to wave chowrie fans over the head of the boy and

held the jewelled umbrella bedecked with diamonds. Thus he served him with all care and attention. (65)

The Brahmana boy appeared at that time in that religious assembly as Indra looks in the assembly of the Devas. His fatherin-law stayed there fora few days and then returned to his place, highly respected. (66)

The Brahmana reigned there for three hundred years. When

his father went out on an occasion toa forest; a tiger devoured him. (67)

; His mother was highly fortunate and chaste died a sati. Oson! Both father and to a region of Sri Krgna. (68)

That tiger, too, quickly assumed a holy body, due to the naiveedya o* Sri Krsna that he ate. (69)

; she therefore mother went on a jewel-car

And attained to the beautiful region of Go-loka along with father and mother of the Brahmana boy. The boy, too sacrificed body on the banks of the celestial Ganges (Svarganga). (70)

On the Highest Knowledge 35

He gave over the charge of the kingdom to his son and, as result of his Karma, took his birth in the womb of the wife i Mrkanda Muni. (71)

He thus became famous in his next birth as Markandeya Muni and by the grace of the boon granted by Narayana Rsi, liveg for a period of seven Kalpas. (72)

The Brahmana’s state has thus been improved ; it is, therefore evident that the naivedya of Sri Krsna, though eaten by an animal, produces such a glorious result. (73) ,

Naivedya was lying on the road side in a worn out state ; so athe fruit of eating the naivedya unknowingly and without any desire of fruits, produces such a glorious result, then imagine what will be the fruit when one eats the naivedya knowingly and with a desire to get excellent results, the four Vedas cannot describe

the greatness of these fruits. Thus I have related to you the old

history. What more beautiful sweet and wondrous thing you want

to hear! (74-75) $ri Narada said :—I have heard the glory of naivedyam of

Sri Krgna. It is so very captivating. (76)

Now I am eager to hear of the Kavacam on the neck of Sri Narayana Rsi ; Kindly solve this doubt of mine. (77)

Sanat-kumara said:—O Grand sire! I have got doubts also on this point; so, O Brahmana! Explain to which Devata that Kavaca belongs. (78)

He who solves the doubt and removes the error is called father and holy preceptor. O Thou ! kind to son ! O highly, fortunate One! So say this quickly to me and to Narada. (79)

Hearing their words, the throat, lips, and palate of Brahma got dried, He remembered the lotus feet of Sri Krsna and began to say as follows: (80)

Brahma said :—Sri Narayana gave to thatBrahmana boy “Jaganmangalamangala” Kavacam and the meditation mantra

of Sri Krsna. (81)

36 Narada Pajicaratram

O highly fortunate one! I am telling that to you and the Muni Narada ; but at present I am unable to tell you regarding the Kavaca that was on the neck of Narayana Rsi. (12)

The Kavaca, so very secret and rare, that you seein my neck was also on the throat of Sri Narayana Muni in a Strange manner. (83) And the same Kavaca wason the neck of Dharma and on the high souled Nara— Narayana and the great Muni Agastya and Lomaga Muni. (84) O Son! Again that same Kavaca is on the neck of Tulasi and Savitri and on the necks of other highly fortunate souls in such a rarely sacred place as Bharatavarsa. (85)

Narada said:—I will hear later about the Jaganmangala Kavacam and the dhyana and worship of Sri Krsna. (86)

Kindly tell at present about the glory of that highly auspicious. and rare kavacam that Subhadra, the Brahmana boy got. (87)

Brahma said :—O Son! you better hear this from your own: Guru, Sri Mahadeva and you would know then how Subhadra. obtained the above kavacam. (88)

Here ends the Fourth Chapter of the first Ratra on the discourse between Brahma and Narada.

Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 29–36 (scan pages 46–53). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.