Skip to main content

First Night · Chapter 12

Chapter 12

Unit 12 of 60First Night · Chapter 12First Night · Chapter 121 source entries

First Night · Chapter 12

Source

द्वादशो ऽध्यायः शुक उवाच— महोत्सवे सुनिष्पन्ने दानस्योत्तर-कालतः । किꣳ बभूव रहस्यꣳ च तन् माꣳ व्याख्यातुम् अर्हसि ॥१॥ श्री-व्यास उवाच— सꣳप्राप्य दानꣳ देवानाꣳ गन्धर्वश् चोपवर्हणः । तेषाꣳ च पुरतो भक्त्या विदयाम् आस वै सदा ॥२॥ श्रुत्वा तद् वचनꣳ ब्रह्मा तम् उवाच च सꣳसदि । शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगताम् अपि ॥३॥ मथुरा-गमनꣳ चैव कृष्णस्य परमात्मनः । विलापꣳ गोप-गोपीनाꣳ श्रावयास्माꣳश् च साम्प्रतम् ॥४॥ महोत्सवꣳ कुरु पुनः शृण्वन्तु मुनयः सुराः । गायन्तु ताश् च सꣳगीतꣳ नृत्यन्त्व् अप्सराꣳ गणाः ॥५॥ ब्रह्मणश् च वचः श्रुत्वा ननृत्युश् चाप्सरोगणाः । चक्रुस् ताः सरसꣳ गीतꣳ विद्याधर्यश् च सꣳसदि ॥६॥ मायिनाꣳ चैव प्रवरो गन्धर्वश् चोपवर्हणः । जगौ सन्धान-भावेन मथुरा-गमनꣳ हरेः ॥७॥ विलापꣳ गोकुल-स्थानाꣳ श्रुत्वा विप्राः सुरादयः । मूर्च्छाꣳ प्रापुश् च रुरुदुर् ददुर् दानꣳ पुनः पुनः ॥८॥ गोपीनाꣳ विरहालापैर् मूर्च्छितश् चोपवर्हणः । विस्वरेण वितनात् तु ताल-भङ्गो बभूव ह ॥९॥ तत् ताल-भङ्गꣳ विज्ञाय देवाश् च मुनयस् तथा । चुकुपुः सहसा सर्वे निर्गतास् तन् मुखाग्नयः ॥१०॥ तद् दृष्ट्वा सहसा भीतो गन्धर्वश् चोपवर्हणः । सस्मार कृष्णꣳ स्वभीष्टꣳ परमात्मानम् ईश्वरम् ॥११॥ ददृशुः स्मृति-मात्रेण तत्-तेजो नभसि स्थितम् । स्तम्भिता देवताः सर्वाशि-चक्र-पुत्तलिका यथा ॥१२॥ स्तम्भिता वह्नयः सर्वे मुनयश् च विजृम्भिताः । हरि-स्मृतिश् चाभयदा शुभदा विघ्न-नाशिनी ॥१३॥ ददृशुर् देवताः सर्वाः मुनयश् चापि योषितः । गन्धर्वाश् च तथैवान्ये तेजो दृश्यꣳ सुख-प्रदम् ॥१४॥ परꣳ कुञ्ज्ञटिकाकारꣳ कोटीन्दु-किरण-प्रभम् । योजनायत-विस्तीर्णꣳ सुस्निग्धꣳ सुमनोहरम् ॥१५॥ तत् तेजो ऽभ्यन्तरे सर्वे ददृशू रथम् उत्तमम् । गव्यूतिमानꣳ विस्तीर्णꣳ धनुष्-कोटि-समुच्छ्रितम् ॥१६॥ श्वेताश्वानाꣳ च चक्राणाꣳ सहस्रेण समावृतम् । अमूल्य-रत्न-रचितम् ईश्वरेच्छा-विनिर्मितम् ॥१७॥ नाना-चित्र-विचित्राढ्यꣳ मनोयायि ममोहरम् । मुक्तामाणिक्य-परम-हीराहारैर् विराजितम् ॥१८॥ रत्न-दर्पण-लक्षैश् च त्रि-लक्षैः श्वेत-चामरैः । वह्नि-शुद्धाꣳशुकानाꣳ च त्रि-लक्षैः परिशोभितम् ॥१९॥ त्रि-कोटिभिश् च ज्वलितꣳ क्रीडा-सुन्दर-मन्दिरैः । पारिजात-प्रसूनानाꣳ मन्दराणाꣳ मनोहरैः ॥२०॥ मालाजालैस् त्रि-लक्षैश् च मालतीनाꣳ च मण्डितम् । एवꣳभूतꣳ रथꣳ दृष्ट्वा ददृशुस् ते तद्-अनन्तरे ॥२१॥ मध्य-कोष्ठाभ्यन्तरे च किशोरꣳ श्याम-सुन्दरम् । वह्नि-शुद्धाꣳशुकेनैव पीत-वर्णेन शोभितम् ॥२२॥ रत्न-केयूर-वलय-रत्न-मञ्जीर-रञ्जितम् । रत्न-कुण्डल-युग्मेन गण्ड-स्थल-समुज्ज्वलम् ॥।२३॥ ईषद्धास्य-प्रसन्नास्यꣳ नित्योपास्यꣳ सुरासुरैः । चन्दनोक्षित-सर्वाङ्गꣳ मालती-माल्य-मण्डितम् ॥२४॥ मणिना कौस्तुभेन्द्रेण गण्ड-स्थल-विभूषितम् । परꣳ प्रधानꣳ परमꣳ परमात्मानम् ईश्वरम् ॥२५॥ स्तुतꣳ ब्रह्मेश-शेषैश् च राधा-वक्षः स्थल-स्थितम् । वेदानिर्वचनीयꣳ च स्वेच्छामयम् अनीश्वरम् ॥२६॥ नित्यꣳ नित्यꣳ निर्गुणꣳ च ज्योति-रूपꣳ सनातनम् । प्रकृतेः परम् ईशानꣳ भक्तानुग्रहकातरम् ॥२७॥ कोटि-कन्दर्प-लावण्य-लीला-धाम-मनोहरम् । मयूर-पुच्छ-चूडꣳ च वरꣳ वꣳशी-धरꣳ परꣳ ॥२८॥ दृष्ट्वा तम् अद्भुतꣳ रूपꣳ तुष्टाव कमलोद्भवः । गणेशः शेषः शम्भुश् च तद्-अन्ये मुनयः सुराः ॥२९॥ ब्रह्मोवाच— परꣳ ब्रह्म परꣳ धाम परमात्मानम् ईश्वरम् । वन्दे वन्द्यꣳ च सर्वेषाꣳ सर्व-कारण-कारणम् ॥३०॥ सर्वेश्वरꣳ सर्व-रूपꣳ सर्वाद्यꣳ सद्भिर् ईडितम् । वेदावेद्यꣳ च विद्वद्भिर् न दृष्टꣳ स्वप्न-गोचरे ॥३१॥ श्री-महादेव उवाच— सिद्ध-स्वरूपꣳ सिद्धाद्यꣳ सिद्ध-बीजꣳ सनातनम् । प्रसिद्धꣳ सिद्धिदꣳ शान्तꣳ सिद्धानाꣳ च गुरोर् गुरुम् ॥३२॥ वन्दे वन्द्यꣳ च महताꣳ परात् परतरꣳ विभुम् । स्वात्मा-रामꣳ पूर्ण-कामꣳ भक्तानुग्रहकातरम् ॥३३॥ भक्ति-प्रियꣳ च भक्तेशꣳ स्व-भक्ति-दास्यदꣳ परम् । स्व-पद-प्रदम् एकꣳ च दातारꣳ सर्व-सम्पदाम् ॥३४॥ अनन्त उवाच— वक्त्राणाꣳ च सहस्रेण किꣳ वा स्तौमि श्रुति-श्रुतम् । कोटिभिः कोटिभिर् वक्त्रैः को वा स्तोतुꣳ क्षमः प्रभो ॥३५॥ किम् उ स्तोष्यति शम्भुश् च पञ्च-वक्त्रेण वाञ्च्छितम् । कर्ता चतुर्णाꣳ वेदानाꣳ किꣳ स्तोष्यति चतुर्-मुखः ॥३६॥ षड्-वक्त्रो गज-वक्त्रश् च देवाश् च मुनयो ऽपि वा । वेदा वा किꣳ वेद-विदः स्तुवन्ति प्रकृतेः परम् ॥३७॥ वेदानिर्वचनीयꣳ च वेदा निर्वक्तुम् अक्षमाः । वेद-विज्ञात-वाक्येन विद्वाꣳसः किꣳ स्तुवन्ति तम् ॥३८॥ श्री-गणेश उवाच— मूर्खो वदति विष्णाय बुधो वदति विष्णवे । नम इत्य् एवम् अर्थम् च द्वयोर् एव समꣳ फलम् ॥३९॥ यस्मै दत्तꣳ च यज् ज्ञानꣳ ज्ञान-दाता हरिः स्वयम् । ज्ञानेन तेन स स्तौति भाव-ग्राही जनार्दनः ॥४०॥ एक-वक्त्रो ऽनेक-वक्त्रो मूर्खो विद्वान् स्व-कर्मणा । अधनी च धनी वापि सपुत्रो वाप्य् अपुत्रकः ॥४१॥ कर्मणा परम् ईशꣳ च स्तोतुꣳ को वाप्य् अनुत्तमम् । यथा-शक्ति स्तुतिः पूजा वन्दनꣳ स्मरणꣳ हरेः ॥४२॥ सꣳकीर्तनꣳ च भजनꣳ जपनꣳ बुद्ध्य्-अनुक्रमम् । कुर्वन्ति सन्तो ऽसन्तश् च सन्ततꣳ परमात्मनः ॥४३॥ कार्तिकेय उवाच— सर्वान्तरात्मा भगवान् ज्ञानꣳ च सर्व-जीविनाꣳ । ज्ञानानुरूपꣳ स्तवनꣳ सन्तो नैव हसन्ति तम् ॥४४॥ भवेषु त्रि-विधो लोको ऽप्य् उत्तमो मध्यमो ऽधमः । सर्वे स्व-कर्म-वश-गा निषेकः केन वार्यते ॥४५॥ सर्वेश्वरꣳ च सꣳवीक्ष्य सर्वो वदति मत्-प्रभुम् । मद्-ईश्वरस्य समता सर्वेषु किꣳकरेषु च ॥४६॥ भजन्ति केचित् शुद्धान्तꣳ परमात्मानम् ईश्वरम् । केचित् तद्-अꣳशाꣳशꣳ प्राप्नुवन्ति क्रमेण तम् ॥४७॥ धर्म उवाच— अहꣳ साक्षी च सर्वेषाꣳ विधिना निर्मितः पुरा । विधातुश् च विधाता त्वꣳ सर्वेश्वरꣳ नमो ऽस्तु ते ॥४८॥ देवा ऊचुः— यꣳ स्तोतुम् असमर्थश् च सहस्रायुः स्वयꣳ विधिः । ज्ञानाधिदेवः शम्भुश् च तꣳ स्तोतुꣳ किꣳ वयꣳ क्षमाः ॥४९॥ वेदा ऊचुः— किꣳ जानीमो वयꣳ के वाप्य् अनन्तेशस्य यो गुणः । वयꣳ वेदाश् त्वम् अस्माकꣳ कारणस्यापि कारकः ॥५०॥ मुनयः ऊचुः— यदि वेदा न जानन्ति माहात्म्यꣳ परमात्मनः । न जानीमस् तव गुणꣳ वेदानुसारिणो वयम् ॥५१॥ सरस्वत्य् उवाच— विद्याधिदेवताहꣳ च वेदा विद्याधिदेवकाः । वेदाधिदेवो धाता च तद्-ईशꣳ स्तौमि किꣳ प्रभो ॥५२॥ पद्मोवाच— यत् पाद-पद्मꣳ पद्मेशः शेषाश् चान्ये सुरास् तथा । ध्यायन्ते मुनयो देवा ध्याये तꣳ प्रकृतेः परम् ॥५३॥ सावित्र्य् उवाच— सावित्री वेद-माताहꣳ वेदानाꣳ जनको विधिः । त्वाम् एव धत्ते धातरꣳ नमामि त्रि-गुणात् परम् ॥५४॥ श्री-पार्वत्य् उवाच— तव वक्षसि राधाहꣳ रासे वृन्दावने वने । महा-लक्ष्मीश् च वैकुण्ठे पाद-पद्मार्चने रता ॥५५॥ श्वेत-द्वीपे सिन्धु-कन्या विष्णोर् उरसि भू-तले । ब्रह्म-लोके च ब्रह्माणी वेद-माता च भारती ॥५६॥ तवाज्ञया च देवानाम् अविर्भूता च तेजसि । निहत्य दैत्यान् देवारीन् दत्वा राज्यꣳ सुराय च ॥५७॥ तत्-पश्चाद् दक्ष-कन्याहम् अधुना पार्वती हरे । तवाज्ञया हर-क्रोडे त्वद्-भक्ता प्रति-जन्मनि ॥५८॥ नारायण-प्रिया शश्वत् तेन नारायणी श्रुतौ । विष्णोर् अहꣳ परा-शक्तिर् विष्णु-माया च वैष्णवी ॥५९॥ अनन्त-कोटि ब्रह्माण्डꣳ मया सम्मोहितꣳ सदा । विदुषाꣳ रसनाग्रे च प्रत्यक्षꣳ हि सरस्वती ॥६०॥ महा-विष्णोश् च माताहꣳ विश्वानि यस्य लोमसु । रामेश्वरी च सर्वाद्या सर्व-शक्ति-स्वरूपिणी ॥६१॥ तद्-रासे धारणाद् राधा विद्वद्भिः परिकीर्तिता । परमानन्द-पादाब्जꣳ वन्दे सानन्द-पूर्वकम् ॥६२॥ यत्-पाद-पद्मꣳ ध्यायन्ते परमानन्द-कारणम् । पाद-पद्मेश-शेषाद्या मुनयो मनवः सुराः ॥६३॥ योगिनः सन्ततꣳ सन्तः सिद्धाश् च वैष्णवास् तथा । अनुग्रहꣳ कुरु विभो बुद्धि-शक्तिर् अहꣳ तव ॥६४॥ इति सꣳवृतꣳ स्तोत्रꣳ यः पठेत् सꣳयतः शुचिः । इहैव च सुखꣳ भुङ्क्ते यात्य् अन्ते श्री-हरेः पदम् ॥६५॥ निवृत्तेषु च वेदेषु देवीषु मुनि-पुङ्गवे । उपवर्हण-गन्धर्वः स्तुतिꣳ कर्तुꣳ समुद्यतः ॥६६॥ अथ गन्धर्व-कृत-स्तोत्रम् गन्धर्व उवाच— वन्दे नव-घन-श्यामꣳ पीत-कौशेय-वाससम् । सानन्दꣳ सुन्दरꣳ शुद्धꣳ श्री-कृष्णꣳ प्रकृतेः परम् ॥६७॥ राधेशꣳ राधिका-प्राण-वल्लभꣳ वल्लवी-सुतम् । राधा-सेवित-पादाब्जꣳ राधा-वक्षः-स्थल-स्थितम् ॥६८॥ राधानुरागꣳ राधिकेष्टꣳ राधापहृत-मानसम् । राधाधरꣳ भवाधारꣳ सर्वाधारꣳ नमामि तम् ॥६९॥ राधा-हृत्-पद्म-मध्ये च वसन्तꣳ सन्ततꣳ शुभम् । राधा-सह-चरꣳ शश्वत् राधाज्ञा-परि-पालकम् ॥७०॥ ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश् च यम् । तꣳ ध्याये सततꣳ शुद्धꣳ भगवन्तꣳ सनातनम् ॥७१॥ सेवन्ते सन्ततꣳ सन्तो ब्रह्मेश-शेष-सꣳज्ञकाः । सेवन्ते निर्गुणꣳ ब्रह्म भगवन्तꣳ सनातनम् ॥७२॥ निर्लिप्तꣳ च निरीहꣳ च परमात्मानम् ईश्वरम् । नित्यꣳ सत्यꣳ च परꣳ भगवन्तꣳ सनातनम् ॥७३॥ यꣳ सृष्टेर् आदि-भूतꣳ च सर्व-बीजꣳ परात् परम् । योगिनस् तꣳ प्रपद्यन्ते भगवन्तꣳ सनातनम् ॥७४॥ बीजꣳ नानावताराणाꣳ सर्व-कारण-कारणम् । वेदावेद्यꣳ वेद-बीजꣳ वेद-कारण-कारणम् ॥७५॥ योगिनस् तꣳ प्रपद्यन्ते भगवन्तꣳ सनातनम् । इत्य् एवम् उक्त्वा गन्धर्वः पपात धरणी-तले ॥७६॥ ननाम दण्डवद् भूमौ देव-देवꣳ परात् परम् । इति तेन कृतꣳ स्तोत्रꣳ यः पठेत् प्रयतः शुचिः ॥७७॥ इहैव जीवन्-मुक्तश् च परे याति पराꣳ गतिम् । हरि-भक्तिꣳ हरेर् दास्यꣳ गोलोके च निरामयः । पार्षद-प्रवरत्वꣳ च लभते नात्र सꣳशयः ॥७८॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे गन्धर्व-कृत-स्तोत्रꣳ नाम द्वादशो ऽध्यायः ॥१२॥ …

dvādaśo 'dhyāyaḥ śuka uvāca— mahotsave suniṣpanne dānasyottara-kālataḥ | kiṁ babhūva rahasyaṁ ca tan māṁ vyākhyātum arhasi ||1|| śrī-vyāsa uvāca— saṁprāpya dānaṁ devānāṁ gandharvaś copavarhaṇaḥ | teṣāṁ ca purato bhaktyā vidayām āsa vai sadā ||2|| śrutvā tad vacanaṁ brahmā tam uvāca ca saṁsadi | śambhunā ca samālocya brahmovāca vidhātā jagatām api ||3|| mathurā-gamanaṁ caiva kṛṣṇasya paramātmanaḥ | vilāpaṁ gopa-gopīnāṁ śrāvayāsmāṁś ca sāmpratam ||4|| mahotsavaṁ kuru punaḥ śṛṇvantu munayaḥ surāḥ | gāyantu tāś ca saṁgītaṁ nṛtyantv apsarāṁ gaṇāḥ ||5|| brahmaṇaś ca vacaḥ śrutvā nanṛtyuś cāpsarogaṇāḥ | cakrus tāḥ sarasaṁ gītaṁ vidyādharyaś ca saṁsadi ||6|| māyināṁ caiva pravaro gandharvaś copavarhaṇaḥ | jagau sandhāna-bhāvena mathurā-gamanaṁ hareḥ ||7|| vilāpaṁ gokula-sthānāṁ śrutvā viprāḥ surādayaḥ | mūrcchāṁ prāpuś ca rurudur dadur dānaṁ punaḥ punaḥ ||8|| gopīnāṁ virahālāpair mūrcchitaś copavarhaṇaḥ | visvareṇa vitanāt tu tāla-bhaṅgo babhūva ha ||9|| tat tāla-bhaṅgaṁ vijñāya devāś ca munayas tathā | cukupuḥ sahasā sarve nirgatās tan mukhāgnayaḥ ||10|| tad dṛṣṭvā sahasā bhīto gandharvaś copavarhaṇaḥ | sasmāra kṛṣṇaṁ svabhīṣṭaṁ paramātmānam īśvaram ||11|| dadṛśuḥ smṛti-mātreṇa tat-tejo nabhasi sthitam | stambhitā devatāḥ sarvāśi-cakra-puttalikā yathā ||12|| stambhitā vahnayaḥ sarve munayaś ca vijṛmbhitāḥ | hari-smṛtiś cābhayadā śubhadā vighna-nāśinī ||13|| dadṛśur devatāḥ sarvāḥ munayaś cāpi yoṣitaḥ | gandharvāś ca tathaivānye tejo dṛśyaṁ sukha-pradam ||14|| paraṁ kuñjñaṭikākāraṁ koṭīndu-kiraṇa-prabham | yojanāyata-vistīrṇaṁ susnigdhaṁ sumanoharam ||15|| tat tejo 'bhyantare sarve dadṛśū ratham uttamam | gavyūtimānaṁ vistīrṇaṁ dhanuṣ-koṭi-samucchritam ||16|| śvetāśvānāṁ ca cakrāṇāṁ sahasreṇa samāvṛtam | amūlya-ratna-racitam īśvarecchā-vinirmitam ||17|| nānā-citra-vicitrāḍhyaṁ manoyāyi mamoharam | muktāmāṇikya-parama-hīrāhārair virājitam ||18|| ratna-darpaṇa-lakṣaiś ca tri-lakṣaiḥ śveta-cāmaraiḥ | vahni-śuddhāṁśukānāṁ ca tri-lakṣaiḥ pariśobhitam ||19|| tri-koṭibhiś ca jvalitaṁ krīḍā-sundara-mandiraiḥ | pārijāta-prasūnānāṁ mandarāṇāṁ manoharaiḥ ||20|| mālājālais tri-lakṣaiś ca mālatīnāṁ ca maṇḍitam | evaṁbhūtaṁ rathaṁ dṛṣṭvā dadṛśus te tad-anantare ||21|| madhya-koṣṭhābhyantare ca kiśoraṁ śyāma-sundaram | vahni-śuddhāṁśukenaiva pīta-varṇena śobhitam ||22|| ratna-keyūra-valaya-ratna-mañjīra-rañjitam | ratna-kuṇḍala-yugmena gaṇḍa-sthala-samujjvalam |||23|| īṣaddhāsya-prasannāsyaṁ nityopāsyaṁ surāsuraiḥ | candanokṣita-sarvāṅgaṁ mālatī-mālya-maṇḍitam ||24|| maṇinā kaustubhendreṇa gaṇḍa-sthala-vibhūṣitam | paraṁ pradhānaṁ paramaṁ paramātmānam īśvaram ||25|| stutaṁ brahmeśa-śeṣaiś ca rādhā-vakṣaḥ sthala-sthitam | vedānirvacanīyaṁ ca svecchāmayam anīśvaram ||26|| nityaṁ nityaṁ nirguṇaṁ ca jyoti-rūpaṁ sanātanam | prakṛteḥ param īśānaṁ bhaktānugrahakātaram ||27|| koṭi-kandarpa-lāvaṇya-līlā-dhāma-manoharam | mayūra-puccha-cūḍaṁ ca varaṁ vaṁśī-dharaṁ paraṁ ||28|| dṛṣṭvā tam adbhutaṁ rūpaṁ tuṣṭāva kamalodbhavaḥ | gaṇeśaḥ śeṣaḥ śambhuś ca tad-anye munayaḥ surāḥ ||29|| brahmovāca— paraṁ brahma paraṁ dhāma paramātmānam īśvaram | vande vandyaṁ ca sarveṣāṁ sarva-kāraṇa-kāraṇam ||30|| sarveśvaraṁ sarva-rūpaṁ sarvādyaṁ sadbhir īḍitam | vedāvedyaṁ ca vidvadbhir na dṛṣṭaṁ svapna-gocare ||31|| śrī-mahādeva uvāca— siddha-svarūpaṁ siddhādyaṁ siddha-bījaṁ sanātanam | prasiddhaṁ siddhidaṁ śāntaṁ siddhānāṁ ca guror gurum ||32|| vande vandyaṁ ca mahatāṁ parāt parataraṁ vibhum | svātmā-rāmaṁ pūrṇa-kāmaṁ bhaktānugrahakātaram ||33|| bhakti-priyaṁ ca bhakteśaṁ sva-bhakti-dāsyadaṁ param | sva-pada-pradam ekaṁ ca dātāraṁ sarva-sampadām ||34|| ananta uvāca— vaktrāṇāṁ ca sahasreṇa kiṁ vā staumi śruti-śrutam | koṭibhiḥ koṭibhir vaktraiḥ ko vā stotuṁ kṣamaḥ prabho ||35|| kim u stoṣyati śambhuś ca pañca-vaktreṇa vāñcchitam | kartā caturṇāṁ vedānāṁ kiṁ stoṣyati catur-mukhaḥ ||36|| ṣaḍ-vaktro gaja-vaktraś ca devāś ca munayo 'pi vā | vedā vā kiṁ veda-vidaḥ stuvanti prakṛteḥ param ||37|| vedānirvacanīyaṁ ca vedā nirvaktum akṣamāḥ | veda-vijñāta-vākyena vidvāṁsaḥ kiṁ stuvanti tam ||38|| śrī-gaṇeśa uvāca— mūrkho vadati viṣṇāya budho vadati viṣṇave | nama ity evam artham ca dvayor eva samaṁ phalam ||39|| yasmai dattaṁ ca yaj jñānaṁ jñāna-dātā hariḥ svayam | jñānena tena sa stauti bhāva-grāhī janārdanaḥ ||40|| eka-vaktro 'neka-vaktro mūrkho vidvān sva-karmaṇā | adhanī ca dhanī vāpi saputro vāpy aputrakaḥ ||41|| karmaṇā param īśaṁ ca stotuṁ ko vāpy anuttamam | yathā-śakti stutiḥ pūjā vandanaṁ smaraṇaṁ hareḥ ||42|| saṁkīrtanaṁ ca bhajanaṁ japanaṁ buddhy-anukramam | kurvanti santo 'santaś ca santataṁ paramātmanaḥ ||43|| kārtikeya uvāca— sarvāntarātmā bhagavān jñānaṁ ca sarva-jīvināṁ | jñānānurūpaṁ stavanaṁ santo naiva hasanti tam ||44|| bhaveṣu tri-vidho loko 'py uttamo madhyamo 'dhamaḥ | sarve sva-karma-vaśa-gā niṣekaḥ kena vāryate ||45|| sarveśvaraṁ ca saṁvīkṣya sarvo vadati mat-prabhum | mad-īśvarasya samatā sarveṣu kiṁkareṣu ca ||46|| bhajanti kecit śuddhāntaṁ paramātmānam īśvaram | kecit tad-aṁśāṁśaṁ prāpnuvanti krameṇa tam ||47|| dharma uvāca— ahaṁ sākṣī ca sarveṣāṁ vidhinā nirmitaḥ purā | vidhātuś ca vidhātā tvaṁ sarveśvaraṁ namo 'stu te ||48|| devā ūcuḥ— yaṁ stotum asamarthaś ca sahasrāyuḥ svayaṁ vidhiḥ | jñānādhidevaḥ śambhuś ca taṁ stotuṁ kiṁ vayaṁ kṣamāḥ ||49|| vedā ūcuḥ— kiṁ jānīmo vayaṁ ke vāpy ananteśasya yo guṇaḥ | vayaṁ vedāś tvam asmākaṁ kāraṇasyāpi kārakaḥ ||50|| munayaḥ ūcuḥ— yadi vedā na jānanti māhātmyaṁ paramātmanaḥ | na jānīmas tava guṇaṁ vedānusāriṇo vayam ||51|| sarasvaty uvāca— vidyādhidevatāhaṁ ca vedā vidyādhidevakāḥ | vedādhidevo dhātā ca tad-īśaṁ staumi kiṁ prabho ||52|| padmovāca— yat pāda-padmaṁ padmeśaḥ śeṣāś cānye surās tathā | dhyāyante munayo devā dhyāye taṁ prakṛteḥ param ||53|| sāvitry uvāca— sāvitrī veda-mātāhaṁ vedānāṁ janako vidhiḥ | tvām eva dhatte dhātaraṁ namāmi tri-guṇāt param ||54|| śrī-pārvaty uvāca— tava vakṣasi rādhāhaṁ rāse vṛndāvane vane | mahā-lakṣmīś ca vaikuṇṭhe pāda-padmārcane ratā ||55|| śveta-dvīpe sindhu-kanyā viṣṇor urasi bhū-tale | brahma-loke ca brahmāṇī veda-mātā ca bhāratī ||56|| tavājñayā ca devānām avirbhūtā ca tejasi | nihatya daityān devārīn datvā rājyaṁ surāya ca ||57|| tat-paścād dakṣa-kanyāham adhunā pārvatī hare | tavājñayā hara-kroḍe tvad-bhaktā prati-janmani ||58|| nārāyaṇa-priyā śaśvat tena nārāyaṇī śrutau | viṣṇor ahaṁ parā-śaktir viṣṇu-māyā ca vaiṣṇavī ||59|| ananta-koṭi brahmāṇḍaṁ mayā sammohitaṁ sadā | viduṣāṁ rasanāgre ca pratyakṣaṁ hi sarasvatī ||60|| mahā-viṣṇoś ca mātāhaṁ viśvāni yasya lomasu | rāmeśvarī ca sarvādyā sarva-śakti-svarūpiṇī ||61|| tad-rāse dhāraṇād rādhā vidvadbhiḥ parikīrtitā | paramānanda-pādābjaṁ vande sānanda-pūrvakam ||62|| yat-pāda-padmaṁ dhyāyante paramānanda-kāraṇam | pāda-padmeśa-śeṣādyā munayo manavaḥ surāḥ ||63|| yoginaḥ santataṁ santaḥ siddhāś ca vaiṣṇavās tathā | anugrahaṁ kuru vibho buddhi-śaktir ahaṁ tava ||64|| iti saṁvṛtaṁ stotraṁ yaḥ paṭhet saṁyataḥ śuciḥ | ihaiva ca sukhaṁ bhuṅkte yāty ante śrī-hareḥ padam ||65|| nivṛtteṣu ca vedeṣu devīṣu muni-puṅgave | upavarhaṇa-gandharvaḥ stutiṁ kartuṁ samudyataḥ ||66|| atha gandharva-kṛta-stotram gandharva uvāca— vande nava-ghana-śyāmaṁ pīta-kauśeya-vāsasam | sānandaṁ sundaraṁ śuddhaṁ śrī-kṛṣṇaṁ prakṛteḥ param ||67|| rādheśaṁ rādhikā-prāṇa-vallabhaṁ vallavī-sutam | rādhā-sevita-pādābjaṁ rādhā-vakṣaḥ-sthala-sthitam ||68|| rādhānurāgaṁ rādhikeṣṭaṁ rādhāpahṛta-mānasam | rādhādharaṁ bhavādhāraṁ sarvādhāraṁ namāmi tam ||69|| rādhā-hṛt-padma-madhye ca vasantaṁ santataṁ śubham | rādhā-saha-caraṁ śaśvat rādhājñā-pari-pālakam ||70|| dhyāyante yogino yogāt siddhāḥ siddheśvarāś ca yam | taṁ dhyāye satataṁ śuddhaṁ bhagavantaṁ sanātanam ||71|| sevante santataṁ santo brahmeśa-śeṣa-saṁjñakāḥ | sevante nirguṇaṁ brahma bhagavantaṁ sanātanam ||72|| nirliptaṁ ca nirīhaṁ ca paramātmānam īśvaram | nityaṁ satyaṁ ca paraṁ bhagavantaṁ sanātanam ||73|| yaṁ sṛṣṭer ādi-bhūtaṁ ca sarva-bījaṁ parāt param | yoginas taṁ prapadyante bhagavantaṁ sanātanam ||74|| bījaṁ nānāvatārāṇāṁ sarva-kāraṇa-kāraṇam | vedāvedyaṁ veda-bījaṁ veda-kāraṇa-kāraṇam ||75|| yoginas taṁ prapadyante bhagavantaṁ sanātanam | ity evam uktvā gandharvaḥ papāta dharaṇī-tale ||76|| nanāma daṇḍavad bhūmau deva-devaṁ parāt param | iti tena kṛtaṁ stotraṁ yaḥ paṭhet prayataḥ śuciḥ ||77|| ihaiva jīvan-muktaś ca pare yāti parāṁ gatim | hari-bhaktiṁ harer dāsyaṁ goloke ca nirāmayaḥ | pārṣada-pravaratvaṁ ca labhate nātra saṁśayaḥ ||78|| iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre gandharva-kṛta-stotraṁ nāma dvādaśo 'dhyāyaḥ ||12|| …

English translation

CHAPTER XII

Sti Suka said :—When the Mahotsava ( grand festivity) ended and when presenting the gifts finished, what mysterious thing happened afterwards : kindly speak to me. _—(1)

Sri Vyasa said :—The Gandharva Upavarhana, when he got

all the gifts from the Devas, asked humbly their permission to good bye. (2)

Hearing his words in the assembly, Brahma_ began to consult with Mahadeva and said :—Now please sing the songs about

Krgna’s coming to Mathura and the lamentations of Gopas and Gopis. (3-4)

Let the Devas and Munis listen these again, giving great satis~ faction to all ; and let all the Apsaras dance and sing also.

On Brahma saying so, the Apsaras began their dancing in the assembly and the Vidyadharis began to sing in sweet tunes. (6)

Upavarhana, the chief of the singers began to recite the play

of Hari’s going to Mathura with airs and gestures and Sandhana, appealing direct to he heart. (7)

Hearing the wailings and lamentations of the inhabitants of Gokula, the Brahmanas and the Devas repeatedly became unconscious. Whenever they regained their consciousness,

they began to weep and repeatedly gave away presents of all things (8)

Becoming semiunconscious, while he was playing the separation of the Gopis from Krsna, the voice of the Gandharva Upavarhana became somewhat choked and the tune also became somewhat different aad the musical beating broke. Q)

Knowing the break in the musical beats, all the Devas and the

Munis became very angry and suddenly fire’came out of the mouths of them all. (10)

On the Highest Knowledge 17

Seeing that mass of fire allon a sudden, the Gandharva: Upavarhana became very much afraid and began to remember his. own Deity, the God, the Supreme Spirit Sri Krspa. (1)

No sooner he remembered, than he saw the shining substance in the air above. The Devas became astounded at the sight of that, and stood stand-still like pictures standing on a painting, (12)

All the fires became extinguished ; the Munis became excited Oh ! what a great wonder is this, that the mere remembrance of. Hari is auspicious, a source of ‘“‘no fear”, and a remedy of all evils and obstacles. (13)

That luminous sight was pleasant, lovely, and blissful. All the Devas, Munis, women, Gandharvas and others beheld that. (14)

It appeared like a very dense fog or mist, at the same time radiant with crore beams of the moon, cooling, very beautiful and extending to one yojana. (15)

And within that celestial Light he saw one super-excellent chariot measuring four miles in length wide enough-land crore dhanus high. (16)

It was drown by white horses; it had one thousand wheels ; it was built by the will of God and made up of precious gems: (17)

It was decorated with variously designed beautiful, paintings and adorned with excellent diamonds, gems and jewels. It could go with the speed of mind. (18)>

One lakh jewel mirrors, three lakhs of white camaras and. three lakhs of banners and flags, pure like fire, beautified the chariot- (19)

It looked very bright with three crores of beautiful temples intended for sport and amusement and it was adorned with Parijata and Mandira flowers, (20)

It was garlanded with three lakhs of garlands of Malati flowers. All saw that. excellent chariot ; and within the chariot in the inmost middle, saw Sri Krsna, a Deva of wonderful form, young boy (below fifteen), beautifully blue, wearing yellow clothes, pure as fire, having jewel armlets, bracelets. and anktets, his cheek

8 Nar ada-Pajicaratnam ‘brightened with a pair of jewel ear-rings, of smiling peer pleasant face, always worshipped by the Suras and Asuras, anointe : all over his body with sandalpaste and decorated with gerlanty 0

Malati flowers ; His breast was adorned with Kaustubha Bem He ‘was highest, higher then the highest, Chief, Supreme Spirit, va He was praised by Brahma, Iga, Sesa and others ! He was situate

within the breast of Radha ; He was inancessible to the Vedas, ‘doing as He wills and Himself the God of all; no other can become His God. He is eternal, true, beyond any qualities, of the form of light, everlasting, beyond Prakrti Téaina, and very eager to shew His grace on His devotees. His charming loveliness bie equal to one Koti Kandarpa (God of love) ; He is the rn of Leela (Divine Pastimes), His crest was beautifully made 0

excellent pea-cock feathers ; He was holding fiute in His hand and He was superior and highest. Seeing the above wonderful form,

Brahma praised Him first ; next Ganesa, Sesa, Sambhu and other Munis and Devas Praised Him, - (21-29)

Brahma said :—Thou art Para-Brahma, the Highest body ‘the Supreme Spirit, Isvara, praised by all and the Causes of al causes. Thou art Lord of all, the Form of all, the Origin of all, r to be worshipped by the saints, Unknowable by the Vedas, an beyond the dreams, even of the learned. I salute Thee. (30-31)

Sti Mahadeva said :—

“Thou art Siddhasvaripa (the perfection ‘incarnate), Siddhadya (th

e origin of perfection) ; Siddhavija- Eternal, Prasiddha, the giver of Siddhis (perfections), Peaceful, and

the Teacher of the teachers of the Siddhis. I salute Thee, worshipped by the higtsouled once, higher than the highest, Omnipresent, Tevelling in Thyown self, and always anxious to favour Thy devotees. Isalute Thee. Thou art beloved by the devotees, the Lord of the devotees ; Thou givest devotion to Thee and service devotion

‘to Thee. Thou givest Thy own feet (or regien) ; Thou art secondless, the bestower of all wealth. J] salute Thee. (32-34)

Ananta said :—The knowers of the Vedas cannot praise Thee, even if they had got crores of faces. What praise can I offer to Thee by my thousand mouths. What praise can Mahadeva make by His five mouths or Brahma, the author of the four Vedas, by His four

a

‘On the Highest Knowledge 79

mouths ? What praise can Kartikeya, Ganega, the Devas, Munis, the knowers of the Vedas, and the four Vedas, offer to Thee who art beyond Prakrti? When the Vedas are unable to ascertain Thy nature, unknowable to th2 Vedas, what, then, can the learned who derive their learning from the Vedas, utter in praise of Thee. (35-38)

§ri Gane$a said :—The illiterate speak “‘Visndya namah” the Panditas speak—Visnave namah. But the real meanings of both the sentences are one add the same. (39)

People praise God in words, literate or illiterate, according to the knowledge that Hari Himself, the bestower of all learning,

‘gives to every man. Hari accepts the intrinsic feelings of every

man. (40) It is only through one’s Karma that one gets one mouth or

Many mouths, one becomes learned or one becomes stupid and ‘illiterate ; some one becomes rich, or poor ; some one becomes sonless, whereas some others get many sons. (41)

So who can praise the excellent God who is beyond Karma ; it

is only according to one’s power and means, that the praise, ‘worship, chanting hymns, and remembrance of Hari are done. (42)

The saints and sinners all are chanting always the name of Sri Hari, the Supreme Spirit, worship Him, and repeat His names according to their learning. (43)

Kartikeya said :—‘‘Thou art the Inner Self (Antaratm4) of all and the Wisdom of all tbe beings ; all, therefore, praise Thee according to their respective knowledge ; the saints, therefore, do not Jaguh at them. In this world, people are of three kinds :—(1) Uttama (good) ; (2) Madbyama (middling) and (3) Adhama (bad); allare under the control of Karmas proper to their departments ; by whom can the Law be violated ? Thou art the Lord of all; witnessing Thee, every one calls ‘my Lord”. Thou lookest with equanimity on all Thy servants. Some worship God, the Supreme Spirit, pure and holy ; some worship the part thereof and some others worship part of that part. But all attain Thee, step by

step. (44-47)

80 ‘Narada Paficardtram

Dharma said ; -I am created by Brahma as the Witness of all, actions of all the beings , But Thou art the Creator of my Creator Brahma. Therefore, O Lord of ali! I bow down to Thee. (48)

The Devas said :—What praise can we offer to Thee, when Brahma Himself who lives for one thousand years and Sambhu, the Deity of Knowledge are unable to praise Thee ! (49)

The Vedas said :—O Infinite One! Thou art the Lord of all! How many qualities Thou hast, and what are the nature of those qualities, how can we know ! For we are merely the Vedas ; though we are the Cause of all, yet Thou art the Great Cause of us. (50)

The Munis said :—When the Vedas are unable to know the glories of the Supreme Spirit, how can we, the followers of the Vedas, realise They qualities ! (51)

Sarasvati spoke :—O Lord ! I am the presiding Deity of Vidy4 (learning) ; The Vedas are the Deity again of that Vidya ; Brahma is the presiding Deity of those Vedas: and Thou art the God of Brahma ; so what praise can I offer to Thee ! (52)

Padma said :—Na@rayana, Ananta etc., the Devas and Munis meditate Thy lotus feet, beyond Prakrti: I meditate on Thee. (53)

Savitri said :—Vidhata, the author of the four Vedas and

TSavitri, the mother of the Vedas both take Thee as our Refuge. Thou art the Creator of us both 380 we bow downto Thee, who art beyond Prakriti, (54)

: Sri Parvati said :-In Vrndavana, the groves, thereof, and in the: Rasa festival 1 am Radhika, residing in Thy breast; and in Vaikuntha, 1am Maha Lakgmi, ready in serving Thy lotus feet. (55)

{n Sveta dvipa, in this earth I am Laksmi, residing in the breast of Visnu. and I am born from the ocean. In Brahmaloka, Tam Brahmani ; and I am Bharati, the mother of the Vedas. (56) It is by Thy command that T incarnate, Myself as the parts of the Devas and kill the Daityas, that rebel against the Devas and. give their kingdom of Heavens back to them. (57)

And now I am born as the daughter of Daksa and am playing,

On the Highest Knowledge 82

by Thy command, on the lap of Sankara; but I am Thy devotee in every incarnation of mine. (58)

I am always the beloved of Narayana ; therefore I am named Narayani in the Vedas. I am the chief Sakti of Visnu, J am Vignumaya and I am Vaisnavi. (59) ;

Iam always causing illusion to the endless kotis of Brahmandas (universes). And I am Sarasvati, mainfest on the lips of the learned people. (60)

All the universes exist in the pores. of Mahavisnu ; Iam His Mother ; the Origin of all ; and it is I that am the RaseSvari (the Lady in the circle of dance of R4sa) embodying all the forces (Saktis). (61)

And I produce pleasure in Thee, in Rasamandal ; and, therefore, 1am named by the Pandits as Radha. I bow down with gladness that louts feet of Thine, which is of the nature of highest bliss. (62)

That lotus feet of Thine is meditated by Brahma, Visnu, Sesa, and other Devas, the Munis and the Manus. The Yogis, the saints, the hosts of Siddhas, and the Vaisnavas always meditate on Thy lotus feet. O Lord! Iam Thy Buddhi Sakti (intellect). Pray, be gracious unto me. (63-64)

He who recites the above stotras composed by all, self controlled and pure, enjoys bliss here and obtains hereafter the Jotus feet of Sri Hari. (65)

When the Devas, Devis, and Munindras finished their praisegivings, the Gandharva Upavarhana began to chant hymns, thus:— (66)

[salute Sri Krsna, who is beyond Prakrti, holy, beautiful, full of abundant bliss, wearing the yellow silken dress, beautifully blue like the fresh rain-cloud. (67)

I bow down to thee, who art the Lord of Radha, the Dearest to the life of Radhika ; the son of Vallavi, whose lotus feet have been served by Radha, and residing in the heart of Radha ; who is

the follower of Radha; who is the desired Deity of Radha, whose

82 NGrada Paitcardtram

mind has been stolen by Radha, who is the support of Radha and Bhava and the support of all. I salute Thee. (68-69)

I always meditate on that Eterenal Bhagavan who is made of pure Sattva substance who resides constantly in the lotus of the heart of Radha, who does auspicious things and is the constant ‘companion of Radha and who carries out the injunctions of Radha and who is always meditated upon in the Samadhi (intense concentration) of Siddhas, Siddhesvaras and the Yogis. I meditate on Him. (70-71)

Ialways serve that Rternal Bhagavan, who is Unattached, ‘without any desires, the Supreme Spirit, Eternal, True, the Highest ‘God, who is always served by Brahma, Iéa, Sesa and other Sadhus {virtuous persons), and who is Nirguna Brahma. (72-73)

T salute the Eternal Bhagavan, who is realised by the Yogis as ‘the First born in creation, the Seed of all, higher than the Highest, who is the Seed of various incarnations, the Cause of all causes, Unknowable by the Vedas, the Seed of the Vedas, the cause of the ‘Vedas and who is obtained by the Yogis. Saying this, the ‘Gandharva fell Prostrate on the ground. (74-76)

Thus, falling Prostrate on the ground, he made pranams to ‘the Deva of the Devas. Whoever reads this praise of the God, composed by Upavarhana, becoming self controlled and pure, becomes liberated, while living in this life ; and g0es in the next of Go-loka, free from all diseases, and

e : i © Hari), servitude to Hari ; and obtains his place in the list of the chief Parsadas (constant companions) of Hari. There is not a bit of doubt in this. (77-78)

Here ends the twelfth chapter of the first night of Narada Pa‘ica Ratram on Wisdom and on the hymn in Praise chanted by the Gandharva.

Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 76–82 (scan pages 93–99). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.