Skip to main content

First Night · Chapter 14

Chapter 14

Unit 14 of 60First Night · Chapter 14First Night · Chapter 141 source entries

First Night · Chapter 14

Source

चतुर्दशो ऽध्यायः श्री-शुक उवाच— प्रयाते राधिका-नाथे गोलोकꣳ च निरामयम् । बभूव किꣳ रहस्यꣳ च गते गन्धर्व-पुङ्गवे ॥१॥ श्री-व्यास उवाच— सर्वे देवाश् च मुनयः प्रयाते परमात्मनि । सर्वे बभूवुस् ते तूष्णीꣳ वयाꣳसीव दिनात्यये ॥२॥ उवाच शम्भुर् ब्रह्माणꣳ नीति-सार-विशारदम् । ज्ञानाधिदेवो भगवान् परिणाम-सुखꣳ वचः ॥३॥ श्री-महा-देव उवाच— रक्षिता यस्य भगवान् कल्याणꣳ तस्य सन्ततम् । स यस्य विघ्न-कर्ता च रक्षितुꣳ तꣳ च कः क्षमः ॥४॥ स्मृति-मात्रेण निर्विघ्ना ये च कृष्ण-परायणः । विघ्नꣳ कर्तुꣳ के समर्थास् तेषाꣳ च मुनयः सुराः ॥५॥ कोपाग्निनाꣳ स्थलꣳ कुत्र स्तम्भितानाꣳ च साम्प्रतम् । देवानाꣳ च मुनीनाꣳ च क्षणेनैवेश्वरेच्छया ॥६॥ यदि तिष्ठन्ति भूमौ च दग्ध-शस्या वसुन्धरा । जले यदि ततस् तप्तꣳ नष्ठास्ते जल-जन्तवः ॥७॥ स्थाले दहन्ति लोकाꣳश् च वृक्षाꣳश् च प्रलयाग्नयः । विधानꣳ कर्तुम् उचितम् एषाꣳ च जगताꣳ विधे ॥८॥ त्वम् एव धाता जगताꣳ पिता च विष्णुर् ईश्वरः । कालाग्नि-रुद्रः सꣳहर्ता नेदानी प्रलय-क्षमः ॥९॥ एते विषयिणः सर्वे कृष्णस्य परमात्मनः । आज्ञावहाश् च सततꣳ दिक्-पालाश् च दिग्-ईश्वराः ॥१०॥ तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणाꣳ नृणाम् । भ्रमन्ति विषये शश्वन् मोहिता मायया हरेः ॥११॥ अहꣳ न पाता न स्रष्टा न सꣳहर्ता च जीवनाम् । निर्लिप्तो ऽ हꣳ तपस्वी च हरेर् आराधनोन्मुखः ॥१२॥ सꣳहार-विषयꣳ मह्यꣳ श्री-कृष्णश् च पुरा ददौ । दत्वा रुद्राय तद् अहꣳ तपस्यासु रतो हरेः ॥१३॥ तद्-अर्चनेन ध्यानेन तपसा पूजनेन च । स्तवेन कवचनेनैव नाम-मन्त्र-जपेन च ॥१४॥ मृत्युञ्जयो ऽ हꣳ अधुना न च कालाद् भयꣳ मम । कालः सꣳहरते सर्वꣳ माꣳ विना च तथेश्वरम् ॥१५॥ पुरा सर्वादि-सर्गे च कस्यचित् स्रष्टुर् एव च । भालोद्भवाश् च ते रुद्रास् तेष्व् एको ऽ हꣳ शङ्करः ॥१६॥ कल्पश् च ब्रह्मणः पाते लये प्राकृतिके तथा । सर्वे नष्टा विषयिणो न भक्ताश् च यथेश्वरः ॥१७॥ असꣳख्य-ब्रह्मणः पातः कल्पश् चासꣳख्य एव च । समतीतः कति-विधो भविता या पुनः पुनः ॥१८॥ श्री-कृष्णस्य निमेषेण ब्रह्मणः पतनꣳ भवेत् । तत्र प्राकृतिकाः सर्वे तिरो-भूताः पुनः पुनः ॥१९॥ न प्राकृतो न विषयी नित्य-देही च वैष्णवः । हरेर् वरेणामरो ऽहꣳ शिवाधारस् ततस् ततः ॥२०॥ जल-प्लुतꣳ च विश्वौघꣳ लये प्राकृतिके ध्रुवम् । आब्रह्म-लोक-पर्यन्तꣳ परꣳ कृष्णालयꣳ विना ॥२१॥ सर्वा देव्यो विलीनाश् च कृष्णः सत्यꣳ सुनिश्चितम् । सर्वे पुमाꣳसो लीनाश् च सत्ये नित्ये सनातने ॥२२॥ अहꣳ कृष्णश् च प्रकृतिः पार्षद-प्रवरो हरेः । नित्यꣳ नित्या विद्यमाना गोलोके च निरामये ॥२३॥ एक ईशो न द्वितीय इति सर्वादि-सर्गतः । नहि नश्यन्ति तद्-भक्ताः प्रकृति-प्राकृते लये ॥२४॥ तस्य भक्तोत्तमानाꣳ च सततꣳ स्मरणेन च । आयुर्-व्ययो नहि भवेत् कथꣳ मृत्युर् भविष्यति ॥२५॥ न वासुदेव-भक्तानाम् अशुभꣳ विद्यते क्वचित् । तेषाꣳ भक्तोत्तमानाꣳ च सततꣳ स्मरणेन च ॥२६॥ जन्म-मृत्यु-जरा-व्याधि-भयꣳ नाप्य् उपजायते । अत्र कल्पे भवान् ब्रह्मा व्यवस्थाता च कर्मसु ॥२७॥ स्थलꣳ कोपानलानाꣳ च विधानꣳ यद् विधे कुरु । शम्भोश् च वचनꣳ श्रुत्वा कम्पितः कमलासनः । स्थलꣳ चकार वह्नीनाम् आज्ञया शङ्करस्य च ॥२८॥ ब्रह्मोवच ज्वरस् त्रि-पादस् त्रि-शिराः षड्-भुजो नव-लोचनः । भस्म-प्रहरणो रौद्रः कालान्तकयमोपमः ॥२९॥ भवे भवतु सर्वत्र भव-कोपानलो ऽधुना । प्राकृतेषु च देहेषु व्यापारो ऽस्य मया कृतः ॥३०॥ मम कोपानलः शम्भो सꣳस्कृताग्निर् द्विजस्य च । भवे भवतु सर्वत्र व्यापारो ऽस्य मया कृतः ॥३१॥ शेषस्य कोप-वह्निश् च शेषास्ये ऽस्त्व् अधुना शिव । यतो विश्वꣳ च प्रलये दहेद् गोमय-पिण्डवत् ॥३२॥ वह्नेर् मुख्यानलो विश्वे व्यवहाराग्निर् ईश्वरः । भ्वत्व् एव हि सर्वत्र सर्वेषाम् उपकारकः ॥३३॥ धर्मास्य-कोप-वह्निश् च कृष्णाग्निश् च भवत्व् अयम् । अधर्मꣳ कुर्वताꣳ सर्वꣳ दाहनꣳ च करिष्यति ॥३४॥ सूर्य-कोपानलश् चायꣳ दावाग्निश् च वनेषु च । स्थितिर् अस्य तरोः स्कन्धे तद्-भक्ष्याः पशु-पक्षिणः ॥३५॥ चन्द्र-कोपानलो विश्वे कामिनाꣳ विरहानलः । दम्पत्योर् विरहे शश्वद् भक्ष्यति स्म द्वयोस् तनुम् ॥३६॥ इन्द्र-कोपानलः सद्यो वज्राग्निश् च बभूव ह । उपेन्द्रस्यानलश् चैव विद्युद् एव भ्वत्व् अयम् ॥३७॥ रुद्राणाम् आस्य-वह्निश् च महोल्काग्निर् भवत्व् अयम् । गणेशाग्निः पृथिव्याꣳ तु यथास्थाने तु तिष्ठति ॥३८॥ यत्र तिष्ठेत् तद् उषरम् एवम् एवꣳ विदुर् बुधाः । स्कन्द-कोपानलश् चैव रणास्त्राग्निर् बभूव ह ॥३९॥ कामेतराणाꣳ देवानाꣳ मुनीनाꣳ च मुखानलः । जग्राहौर्व-मुनिस् तत्र तेजसि ब्रह्मणः सुतः ॥४०॥ स्व-दक्षिणोरौ स मुनिः सꣳस्थाप्य वेद-मन्त्रतः । ब्रह्मणꣳ च नमस्-कृत्य शङ्करꣳ तपसे ययौ ॥४१॥ कालेन तस्मान् निःसृत्य समुद्रे वाडवानलः । स बभूव पुरा पुत्र परमौर्वानलः स्वयम् ॥४२॥ कामाग्निम् उल्वणꣳ दृष्ट्वा विचिन्त्य मनसा विधिः । समालोच्य सुरैः सार्धꣳ मुनीन्द्रैः सह सꣳसदि ॥४३॥ अजुहाव स्त्रियः सर्वाः सुव्रताश् च पति-व्रताः । आयुयुर् योषितः सर्वास् ता ऊचुः कमलोद्भवम् ॥४४॥ स्त्रिय ऊचुः— किम् अस्मान् ब्रूहि भगवन् शाधि नः करवाम किम् । आलोच्य मनसा सर्वꣳ देहि भारꣳ वयꣳ स्त्रियः ॥४५॥ ब्रह्मोवाच— गृहीत्वा मदनाग्निꣳ च मैथुने सुख-दायकम् । विश्वे च योषितः सर्वाः शश्वत्-कामा भवन्तु च ॥४६॥ ब्रह्मणश् च वचः श्रुत्वा कोप-रक्तास्य-लोचनः । तम् ऊचुः योषितः सर्वा भयꣳ त्यक्त्वा च सꣳसदि ॥४७॥ स्त्रिय ऊचुः— धिक् त्वाꣳ जगद्-विधिꣳ व्यर्थꣳ चकार परमेश्वरः । अपूज्यो मोहिनी-शापात् पुत्र-शापेन साम्प्रतम् ॥४८॥ गृहीत्वा मदनाग्निꣳ च पुरुषाश् च तथा स्त्रियः । नित्यꣳ दहन्ति सततꣳ वास्तवꣳ दुःसहꣳ परम् ॥४९॥ तद्-एक-भागः पुरुषे त्रि-भागश् चापि योषिति । तेन दुग्धाः स्त्रियः सर्वाश् चास्माकम् अपरेण किम् ॥५०॥ समर्पणꣳ चेत् पुरुषे यद् यस्मासु स्मरानलः । भस्मी-भूतꣳ करिष्यामो रक्षिता को भवेत् तव ॥५१॥ पति-व्रता-वचः श्रुत्वा तम् उवाच शिवः स्वयम् । हितꣳ सत्यꣳ निति-सारꣳ परिणाम-सुखावहम् ॥५२॥ अथ कुलटोत्पत्तिः श्री-महा-देव उवाच— त्यज द्वन्द्वꣳ महा-भाग सुव्रताभिः सहाधुना । पति-व्रतानाꣳ तेजश् च सर्वेभ्यश् च परꣳ भवेत् ॥५३॥ निर्माणꣳ कुरु देवेन्द्र कृत्याꣳ स्त्री-जातिम् ईश्वर । तस्यै देहि दुःख-बीजꣳ काम-कोपानलꣳ परम् ॥५४॥ शङ्करस्य वचः श्रुत्वा सत्वरꣳ जगताꣳ विधिः । ससृजे तत्-क्षणꣳ मूर्तिꣳ स्त्री-रूपाꣳ सुमनोहराꣳ ॥५५॥ अहो रूपम् अहो वेशम् अहो अस्या नवꣳ वयः । अहो चक्षुः कटाक्षꣳ च मुनीनाꣳ मोहयन् मनः ॥५६॥ अहो कठिनꣳ चारु स्तन-युग्मꣳ सुवर्तुलम् । विचित्रꣳ कठिनꣳ स्थूलꣳ श्रोणि-युग्मꣳ च सुन्दरम् ॥५७॥ नितम्ब-युग्मꣳ वलितꣳ चक्राकारꣳ सुकोमलम् । श्वेत-चम्पक-वर्णाभꣳ सर्वावयम् ईप्सितम् ॥५८॥ शरत्-पार्वण-कोटीन्दु-विनिन्दास्यꣳ सुशोभनम् । ईषद्धास्य-प्रसन्नास्यꣳ वस्त्रेणाच्छादितꣳ मुदा ॥५९॥ वपुः सुकोमलम् चालꣳ नाति-दीर्घꣳ न वखरम् । वह्नि-शुद्धाꣳशुकꣳ रत्न-भूषणैर् भूषितꣳ सदा ॥६०॥ दाडिम्ब-कुमुदाकारꣳ सान्द्रꣳ सिन्दूर-सुन्दरम् । कस्तूरी-विन्दुना सार्धꣳ स्निग्ध-चन्दन-विन्दुभिः ॥६१॥ पक्व-बिम्ब-फलाकारम् अध-रौष्ठ-पुटꣳ परम् । दन्त-पꣳक्ति-युगꣳ चैव दाडिम्ब-बीज-सन्निभम् ॥६२॥ सुचारु कवरी-भारꣳ मालती-माल्य-मण्डितम् । तस्यै ददौ च कामाग्निꣳ दृष्ट्वा ताꣳ कमलोद्भवः ॥६३॥ दृष्ट्वा सा चन्द्र-रूपꣳ च कामोन्मत्ता विचेतना । कृत्वा कटाक्षꣳ स्मेराश्या माꣳ भजस्वेत्य् उवाच सा ॥६४॥ सस्पितः प्रययौ चन्द्रो लज्जया च सभा-तलात् । कामꣳ दृष्ट्वा च चकमे कामार्ता सा गत-त्रपा ॥६५॥ दुद्राव कामस् तस्माच् च तत्-पश्चात् सा दधाव च । जहसुर् देवताः सर्वा मुनयश् चापि सꣳसदि ॥६६॥ लज्जिता योषितह् सर्वास् ताꣳ वारयितुम् अक्षमाः । सर्वे चक्रुः परीहासꣳ स्त्री-वर्गꣳ शङ्करादयः ॥६७॥ कामꣳ न लब्ध्वा सा च स्त्री निवृत्यागत्य सꣳसदि । तम् अश्विनी-कुमारꣳ चाप्य् उवाच सुर-सन्निधौ ॥६८॥ कृत्या-कामिन्य् उवाच— माꣳ भजस्व रवेः पुत्र प्रियाꣳ रसवतीꣳ मुदा । शृङ्गारे सुखदाꣳ शान्ताꣳ पराꣳ कामातुराꣳ वराꣳ ॥६९॥ त्वया शार्धꣳ भ्रमिष्यामि सुन्दरे गहने वने । रहसि रहसि क्रीडाꣳ करिष्यामि दिवानिशम् ॥७०॥ मधु-पानꣳ च दास्यामि वासितꣳ चामलꣳ जलम् । सकर्पूरꣳ च ताम्बूलꣳ भोग-वस्तु मनोहरम् ॥७१॥ शय्याꣳ मनोरमाꣳ कृत्वा सपुष्प-चन्दनार्चिताम् । भगवन्तꣳ करिष्यामि पुष्प-चन्दन-चर्चितम् ॥७२॥ कुमार उवाच— वचनꣳ वद वामे माम् आत्मनो हृदयङ्गम । विहाय कपटꣳ कान्ते कपटꣳ धर्म-नाशनम् ॥७३॥ स्त्री-धर्मꣳ स्त्री-मनस्-कामꣳ स्त्री-स्वभावꣳ च कीदृशम् । तद्-आचारꣳ कति-विधꣳ तन् माꣳ व्याख्यातुम् अर्हसि ॥७४॥ अश्विनीज-वचः श्रुत्वा कामार्ता तम् उवाच सा । कामार्तानाꣳ क्व लज्जा च क्व भयꣳ मानम् एव च ॥७५॥ अथ कुलटा-स्वभाव-कथनम् कामिन्य् उवाच— स्थानꣳ नास्ति क्षणꣳ नास्ति नास्ति दूती तद् उत्तमा । तेनैव युवतीनाꣳ च सतीत्वम् उपजायते ॥७६॥ सुवेशꣳ कामुकꣳ दृष्ट्वा कामिनी मदनातुरा । तद् रात्रꣳ च पुलकितꣳ योनौ कण्डूयनꣳ परꣳ ॥७७॥ विचेतना भवेत् सा च काम-ज्वर-प्रपीडिता । सर्वꣳ त्यजति तद्-धेतोः पुत्रꣳ कान्तꣳ गृहꣳ धनम् ॥७८॥ लब्ध्वा युवानꣳ पुरुषꣳ देश-त्यागꣳ करोति सा । तद्-उत्तमꣳ पुनर् लब्ध्वा तꣳ त्यजेत् सा क्षणेन च ॥७९॥ विषꣳ दातुꣳ समर्था सा स्वामिनꣳ गुणिनाꣳ वरम् । म्लेच्छꣳ युवानꣳ सम्प्राप्य सर्वस्वꣳ दातुम् उत्सुका ॥८०॥ त्यजेत् कुल-भयꣳ लज्जाꣳ धर्मꣳ बन्धुꣳ यशः श्रियम् । सम्प्राप्य रति-शूरꣳ च युवानꣳ सुरतोन्मुखम् ॥८१॥ सुदृश्यꣳ सुन्दर-मुखꣳ शश्वन्-मधुरितꣳ वचः । हृदयꣳ क्षुर-धाराभꣳ को वा जानाति तन्-मनः ॥८२॥ विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे । तथास्थिरा च कुलटा-प्रीतिः स्वप्नꣳ च तद्-वचः ॥८३॥ कुलटानाꣳ न सत्यꣳ च न च धर्मो भयꣳ दया । न लौकिकꣳ न लज्जा स्याज् जार-जिन्ता निरन्तरम् ॥८४॥ स्वप्ने जागरणे चैव भोजने शयने सदा । निरन्तरꣳ काम-चिन्ता जारे स्नेहो न चान्यतः ॥८५॥ कुलटा नर-घातिभ्यो निर्दया दुष्ट-मानसाः । जारार्थे च सुतꣳ हन्ति बान्धवस्य च का कथा ॥८६॥ न हि वेदा विदन्त्य् एवꣳ कुलता-हृदयङ्गमम् । कथꣳ देवास् च मुनयः सन्तो जानन्ति निश्चयम् ॥८७॥ रति-शूरꣳ प्रियꣳ दृष्ट्वा क्षीरꣳ घृतम् इवाचरेत् । गते वयसि जीर्णꣳ तꣳ विषꣳ दृष्ट्वा त्यजेत् क्षणात् ॥८८॥ न विश्वसेयुस् ताꣳ दुष्टो तस्मात् सन्तो हि सन्ततꣳ । न रिपुः पुरुषाणाꣳ च दुष्ट-स्त्रीभ्यः परो भुवि ॥८९॥ विषꣳ मन्त्राद् उपशमꣳ जलाद् वह्निश् च निश्चितꣳ । अग्नेश् च कण्ठकोच्छन्नꣳ दुर्जनः स्तवनाद् वशः ॥९०॥ लुब्धो धनेन राजा च सेवया सततꣳ वशः । मिश्रꣳ स्वच्छ-स्वभावेन भयेन च रिपुर् वशः ॥९१॥ आदरेण वशो विप्रो यौवती प्रेम-भारतः । बन्धुर् वशः समतया गुरुः प्रणतिभिः सदा ॥९२॥ मूर्खो वशः कथायाꣳ च विद्वान् विद्या-विचारतः । न हि दुष्टा च कुलटा पुꣳसश् च वशगा भवेत् ॥९३॥ स्व-कार्ये तत्-परा शश्वत् प्रीतिः कार्यानुरोधतः । न सर्वस्य वशी-भूता विना शृङ्गारम् उल्वणम् ॥९४॥ न प्रीत्या न धनेनैव न स्तवान् न सेवया । न प्राण-दानतो वेश्या वशी-भूता भवेत् क्षणम् ॥९५॥ आहारो द्वि-गुणस् तासाꣳ बुद्धिस् तासाꣳ चतुर्-गुणा । षड्-गुणा मन्त्रणा तासाꣳ कामश् चाष्ट-गुनः स्मृतः ॥९६॥ शश्वत्-कामा च कुलटा न च तृप्तिश् च क्रीडया । हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥९७॥ दिवानिशꣳ च शृङ्गारꣳ कुरुते तत्-पुमान् यदि । न तृप्तिः कुलटानाꣳ च पुमाꣳसꣳ ग्रस्तुम् इच्छति ॥९८॥ नाग्निस् तृप्यति काष्ठानाꣳ नापगानाꣳ महोदधिः । नान्तकः सर्व-भूतानाꣳ नासाꣳ तृप्यति सम्पदाम् ॥९९॥ न श्रेयसाꣳ मनस् तृप्तꣳ वाडवाग्निर् न पाथसाम् । वसुन्धरा न रजसाꣳ न पुꣳसाꣳ कुलटा तथा ॥१००॥ इत्य् एवꣳ कथितꣳ किꣳचित् सर्वꣳ वक्तुꣳ च नोचितम् । लज्जा बीजꣳ योषिताꣳ च निबोध भास्करात्मज ॥१०१॥ श्रुत्वा च कृत्या-स्त्री-वाक्यꣳ जहसुर् मुनयः सुराः । चुकुपुर् योषितः सर्वाः पद्माद्या लज्जिताः सुत ॥१०२॥ लज्जा-नतानना लक्ष्मीर् निर्ययौ देव-मण्डलात् । तत् पश्चात् पार्वती सार्धꣳ सरस्वत्या नतानना ॥१०३॥ सावित्री रोहिनी स्वाहा वारुणी च रतिः शची । सर्वा बभूवुर् एकत्र प्रचक्रुर् मन्त्रणाꣳ च ताः ॥१०४॥ कृत्या-स्त्रियः समाहूय ता ऊचुश् च क्रमेण च । रोधयाम् आसुर् इष्टाꣳ ताꣳ सुगोप्याꣳ अपि योषितः ॥१०५॥ तस्या मुखे ददौ हस्तꣳ सुशीला कमलालया । सलज्जिता भव सुते शान्ता चेति शुभाशिषम् ॥१०६॥ सरस्वती ददौ तस्यै चाभिमानꣳ च धैर्यताम् । मौखर्यꣳ वावदूकत्वꣳ मन्त्रणाम् आत्म-रक्षणम् ॥१०७॥ सावित्री च ददौ तस्यै सौशील्यꣳ चातिदुर्लभम् । आत्म-सꣳगोपनꣳ चैव गाम्भीर्यꣳ कुलतो भयम् ॥१०८॥ पार्वत्य् उवाच— धिक् त्वाꣳ स्व-भाव-कुलटाꣳ लज्जिता भव सुन्दरि । स्व-मानꣳ गौरवꣳ रक्ष ह्य् अस्माकꣳ च स्मरातुर ॥१०९॥ जनि लभ पृथिव्याꣳ च काय-व्यूहꣳ विधाय च । पुꣳसाम् अष्ट-गुणꣳ कामꣳ लभस्व च पृथक् प्रृथक् ॥११०॥ लज्जाꣳ चतुर्-गुणाꣳ चापि द्विगुणाꣳ धैर्यताꣳ तथा । अभोगेच्छधमे गच्छ दूरꣳ गच्छ ममान्तिकात् ॥१११॥ पुꣳसाꣳ च द्वि-गुणः कामो वास्तवीणाꣳ च योषिताम् । लज्जा चाष्ट-गुणा चापि धैर्यता च चतुर्-गुणा ॥११२॥ कुल-धर्मः कुल-भयꣳ सौशील्यꣳ मानम् ऊर्जितम् । शश्वत् तिष्ठतु पुꣳस्य् एव स्त्रीषु च ममाज्ञया ॥११३॥ यस्मात् सदसि सर्वेभ्यो लज्जा-हीनः सुराधमः । स्त्री-स्व-भावꣳ च पप्रच्छ यज्ञ-भाक् न भवेत् ततः ॥११४॥ अद्य-प्रभृति विश्वेषु नाग्राह्यꣳ पाप-सꣳयुतम् । चिकित्सकानाꣳ विदुषाꣳ न भक्ष्य ममाज्ञया ॥११५॥ इत्य् एवम् उक्त्वा प्रययुर् देव्यश् च सर्व-योषितः । देवाश् च मुनयश् चापि ये चान्ये च समागतः ॥११६॥ देवाश् च मुनयश् चापि ये चान्ये सर्वतः सुत । पति-व्रताणाꣳ स्त्रीणाꣳ च लज्जा बीज-स्वरूपिणी ॥११७॥ इति श्री-नारद-पञ्च-रात्रे ज्ञाणामृत-सारे प्रथमैक-रात्रे कुलटोत्त्पतिर् नाम चतुर्दशो ऽध्यायः ॥१४॥ …

caturdaśo 'dhyāyaḥ śrī-śuka uvāca— prayāte rādhikā-nāthe golokaṁ ca nirāmayam | babhūva kiṁ rahasyaṁ ca gate gandharva-puṅgave ||1|| śrī-vyāsa uvāca— sarve devāś ca munayaḥ prayāte paramātmani | sarve babhūvus te tūṣṇīṁ vayāṁsīva dinātyaye ||2|| uvāca śambhur brahmāṇaṁ nīti-sāra-viśāradam | jñānādhidevo bhagavān pariṇāma-sukhaṁ vacaḥ ||3|| śrī-mahā-deva uvāca— rakṣitā yasya bhagavān kalyāṇaṁ tasya santatam | sa yasya vighna-kartā ca rakṣituṁ taṁ ca kaḥ kṣamaḥ ||4|| smṛti-mātreṇa nirvighnā ye ca kṛṣṇa-parāyaṇaḥ | vighnaṁ kartuṁ ke samarthās teṣāṁ ca munayaḥ surāḥ ||5|| kopāgnināṁ sthalaṁ kutra stambhitānāṁ ca sāmpratam | devānāṁ ca munīnāṁ ca kṣaṇenaiveśvarecchayā ||6|| yadi tiṣṭhanti bhūmau ca dagdha-śasyā vasundharā | jale yadi tatas taptaṁ naṣṭhāste jala-jantavaḥ ||7|| sthāle dahanti lokāṁś ca vṛkṣāṁś ca pralayāgnayaḥ | vidhānaṁ kartum ucitam eṣāṁ ca jagatāṁ vidhe ||8|| tvam eva dhātā jagatāṁ pitā ca viṣṇur īśvaraḥ | kālāgni-rudraḥ saṁhartā nedānī pralaya-kṣamaḥ ||9|| ete viṣayiṇaḥ sarve kṛṣṇasya paramātmanaḥ | ājñāvahāś ca satataṁ dik-pālāś ca dig-īśvarāḥ ||10|| tasyaivājñāvaho dharmaḥ sākṣī ca karmaṇāṁ nṛṇām | bhramanti viṣaye śaśvan mohitā māyayā hareḥ ||11|| ahaṁ na pātā na sraṣṭā na saṁhartā ca jīvanām | nirlipto ' haṁ tapasvī ca harer ārādhanonmukhaḥ ||12|| saṁhāra-viṣayaṁ mahyaṁ śrī-kṛṣṇaś ca purā dadau | datvā rudrāya tad ahaṁ tapasyāsu rato hareḥ ||13|| tad-arcanena dhyānena tapasā pūjanena ca | stavena kavacanenaiva nāma-mantra-japena ca ||14|| mṛtyuñjayo ' haṁ adhunā na ca kālād bhayaṁ mama | kālaḥ saṁharate sarvaṁ māṁ vinā ca tatheśvaram ||15|| purā sarvādi-sarge ca kasyacit sraṣṭur eva ca | bhālodbhavāś ca te rudrās teṣv eko ' haṁ śaṅkaraḥ ||16|| kalpaś ca brahmaṇaḥ pāte laye prākṛtike tathā | sarve naṣṭā viṣayiṇo na bhaktāś ca yatheśvaraḥ ||17|| asaṁkhya-brahmaṇaḥ pātaḥ kalpaś cāsaṁkhya eva ca | samatītaḥ kati-vidho bhavitā yā punaḥ punaḥ ||18|| śrī-kṛṣṇasya nimeṣeṇa brahmaṇaḥ patanaṁ bhavet | tatra prākṛtikāḥ sarve tiro-bhūtāḥ punaḥ punaḥ ||19|| na prākṛto na viṣayī nitya-dehī ca vaiṣṇavaḥ | harer vareṇāmaro 'haṁ śivādhāras tatas tataḥ ||20|| jala-plutaṁ ca viśvaughaṁ laye prākṛtike dhruvam | ābrahma-loka-paryantaṁ paraṁ kṛṣṇālayaṁ vinā ||21|| sarvā devyo vilīnāś ca kṛṣṇaḥ satyaṁ suniścitam | sarve pumāṁso līnāś ca satye nitye sanātane ||22|| ahaṁ kṛṣṇaś ca prakṛtiḥ pārṣada-pravaro hareḥ | nityaṁ nityā vidyamānā goloke ca nirāmaye ||23|| eka īśo na dvitīya iti sarvādi-sargataḥ | nahi naśyanti tad-bhaktāḥ prakṛti-prākṛte laye ||24|| tasya bhaktottamānāṁ ca satataṁ smaraṇena ca | āyur-vyayo nahi bhavet kathaṁ mṛtyur bhaviṣyati ||25|| na vāsudeva-bhaktānām aśubhaṁ vidyate kvacit | teṣāṁ bhaktottamānāṁ ca satataṁ smaraṇena ca ||26|| janma-mṛtyu-jarā-vyādhi-bhayaṁ nāpy upajāyate | atra kalpe bhavān brahmā vyavasthātā ca karmasu ||27|| sthalaṁ kopānalānāṁ ca vidhānaṁ yad vidhe kuru | śambhoś ca vacanaṁ śrutvā kampitaḥ kamalāsanaḥ | sthalaṁ cakāra vahnīnām ājñayā śaṅkarasya ca ||28|| brahmovaca jvaras tri-pādas tri-śirāḥ ṣaḍ-bhujo nava-locanaḥ | bhasma-praharaṇo raudraḥ kālāntakayamopamaḥ ||29|| bhave bhavatu sarvatra bhava-kopānalo 'dhunā | prākṛteṣu ca deheṣu vyāpāro 'sya mayā kṛtaḥ ||30|| mama kopānalaḥ śambho saṁskṛtāgnir dvijasya ca | bhave bhavatu sarvatra vyāpāro 'sya mayā kṛtaḥ ||31|| śeṣasya kopa-vahniś ca śeṣāsye 'stv adhunā śiva | yato viśvaṁ ca pralaye dahed gomaya-piṇḍavat ||32|| vahner mukhyānalo viśve vyavahārāgnir īśvaraḥ | bhvatv eva hi sarvatra sarveṣām upakārakaḥ ||33|| dharmāsya-kopa-vahniś ca kṛṣṇāgniś ca bhavatv ayam | adharmaṁ kurvatāṁ sarvaṁ dāhanaṁ ca kariṣyati ||34|| sūrya-kopānalaś cāyaṁ dāvāgniś ca vaneṣu ca | sthitir asya taroḥ skandhe tad-bhakṣyāḥ paśu-pakṣiṇaḥ ||35|| candra-kopānalo viśve kāmināṁ virahānalaḥ | dampatyor virahe śaśvad bhakṣyati sma dvayos tanum ||36|| indra-kopānalaḥ sadyo vajrāgniś ca babhūva ha | upendrasyānalaś caiva vidyud eva bhvatv ayam ||37|| rudrāṇām āsya-vahniś ca maholkāgnir bhavatv ayam | gaṇeśāgniḥ pṛthivyāṁ tu yathāsthāne tu tiṣṭhati ||38|| yatra tiṣṭhet tad uṣaram evam evaṁ vidur budhāḥ | skanda-kopānalaś caiva raṇāstrāgnir babhūva ha ||39|| kāmetarāṇāṁ devānāṁ munīnāṁ ca mukhānalaḥ | jagrāhaurva-munis tatra tejasi brahmaṇaḥ sutaḥ ||40|| sva-dakṣiṇorau sa muniḥ saṁsthāpya veda-mantrataḥ | brahmaṇaṁ ca namas-kṛtya śaṅkaraṁ tapase yayau ||41|| kālena tasmān niḥsṛtya samudre vāḍavānalaḥ | sa babhūva purā putra paramaurvānalaḥ svayam ||42|| kāmāgnim ulvaṇaṁ dṛṣṭvā vicintya manasā vidhiḥ | samālocya suraiḥ sārdhaṁ munīndraiḥ saha saṁsadi ||43|| ajuhāva striyaḥ sarvāḥ suvratāś ca pati-vratāḥ | āyuyur yoṣitaḥ sarvās tā ūcuḥ kamalodbhavam ||44|| striya ūcuḥ— kim asmān brūhi bhagavan śādhi naḥ karavāma kim | ālocya manasā sarvaṁ dehi bhāraṁ vayaṁ striyaḥ ||45|| brahmovāca— gṛhītvā madanāgniṁ ca maithune sukha-dāyakam | viśve ca yoṣitaḥ sarvāḥ śaśvat-kāmā bhavantu ca ||46|| brahmaṇaś ca vacaḥ śrutvā kopa-raktāsya-locanaḥ | tam ūcuḥ yoṣitaḥ sarvā bhayaṁ tyaktvā ca saṁsadi ||47|| striya ūcuḥ— dhik tvāṁ jagad-vidhiṁ vyarthaṁ cakāra parameśvaraḥ | apūjyo mohinī-śāpāt putra-śāpena sāmpratam ||48|| gṛhītvā madanāgniṁ ca puruṣāś ca tathā striyaḥ | nityaṁ dahanti satataṁ vāstavaṁ duḥsahaṁ param ||49|| tad-eka-bhāgaḥ puruṣe tri-bhāgaś cāpi yoṣiti | tena dugdhāḥ striyaḥ sarvāś cāsmākam apareṇa kim ||50|| samarpaṇaṁ cet puruṣe yad yasmāsu smarānalaḥ | bhasmī-bhūtaṁ kariṣyāmo rakṣitā ko bhavet tava ||51|| pati-vratā-vacaḥ śrutvā tam uvāca śivaḥ svayam | hitaṁ satyaṁ niti-sāraṁ pariṇāma-sukhāvaham ||52|| atha kulaṭotpattiḥ śrī-mahā-deva uvāca— tyaja dvandvaṁ mahā-bhāga suvratābhiḥ sahādhunā | pati-vratānāṁ tejaś ca sarvebhyaś ca paraṁ bhavet ||53|| nirmāṇaṁ kuru devendra kṛtyāṁ strī-jātim īśvara | tasyai dehi duḥkha-bījaṁ kāma-kopānalaṁ param ||54|| śaṅkarasya vacaḥ śrutvā satvaraṁ jagatāṁ vidhiḥ | sasṛje tat-kṣaṇaṁ mūrtiṁ strī-rūpāṁ sumanoharāṁ ||55|| aho rūpam aho veśam aho asyā navaṁ vayaḥ | aho cakṣuḥ kaṭākṣaṁ ca munīnāṁ mohayan manaḥ ||56|| aho kaṭhinaṁ cāru stana-yugmaṁ suvartulam | vicitraṁ kaṭhinaṁ sthūlaṁ śroṇi-yugmaṁ ca sundaram ||57|| nitamba-yugmaṁ valitaṁ cakrākāraṁ sukomalam | śveta-campaka-varṇābhaṁ sarvāvayam īpsitam ||58|| śarat-pārvaṇa-koṭīndu-vinindāsyaṁ suśobhanam | īṣaddhāsya-prasannāsyaṁ vastreṇācchāditaṁ mudā ||59|| vapuḥ sukomalam cālaṁ nāti-dīrghaṁ na vakharam | vahni-śuddhāṁśukaṁ ratna-bhūṣaṇair bhūṣitaṁ sadā ||60|| dāḍimba-kumudākāraṁ sāndraṁ sindūra-sundaram | kastūrī-vindunā sārdhaṁ snigdha-candana-vindubhiḥ ||61|| pakva-bimba-phalākāram adha-rauṣṭha-puṭaṁ param | danta-paṁkti-yugaṁ caiva dāḍimba-bīja-sannibham ||62|| sucāru kavarī-bhāraṁ mālatī-mālya-maṇḍitam | tasyai dadau ca kāmāgniṁ dṛṣṭvā tāṁ kamalodbhavaḥ ||63|| dṛṣṭvā sā candra-rūpaṁ ca kāmonmattā vicetanā | kṛtvā kaṭākṣaṁ smerāśyā māṁ bhajasvety uvāca sā ||64|| saspitaḥ prayayau candro lajjayā ca sabhā-talāt | kāmaṁ dṛṣṭvā ca cakame kāmārtā sā gata-trapā ||65|| dudrāva kāmas tasmāc ca tat-paścāt sā dadhāva ca | jahasur devatāḥ sarvā munayaś cāpi saṁsadi ||66|| lajjitā yoṣitah sarvās tāṁ vārayitum akṣamāḥ | sarve cakruḥ parīhāsaṁ strī-vargaṁ śaṅkarādayaḥ ||67|| kāmaṁ na labdhvā sā ca strī nivṛtyāgatya saṁsadi | tam aśvinī-kumāraṁ cāpy uvāca sura-sannidhau ||68|| kṛtyā-kāminy uvāca— māṁ bhajasva raveḥ putra priyāṁ rasavatīṁ mudā | śṛṅgāre sukhadāṁ śāntāṁ parāṁ kāmāturāṁ varāṁ ||69|| tvayā śārdhaṁ bhramiṣyāmi sundare gahane vane | rahasi rahasi krīḍāṁ kariṣyāmi divāniśam ||70|| madhu-pānaṁ ca dāsyāmi vāsitaṁ cāmalaṁ jalam | sakarpūraṁ ca tāmbūlaṁ bhoga-vastu manoharam ||71|| śayyāṁ manoramāṁ kṛtvā sapuṣpa-candanārcitām | bhagavantaṁ kariṣyāmi puṣpa-candana-carcitam ||72|| kumāra uvāca— vacanaṁ vada vāme mām ātmano hṛdayaṅgama | vihāya kapaṭaṁ kānte kapaṭaṁ dharma-nāśanam ||73|| strī-dharmaṁ strī-manas-kāmaṁ strī-svabhāvaṁ ca kīdṛśam | tad-ācāraṁ kati-vidhaṁ tan māṁ vyākhyātum arhasi ||74|| aśvinīja-vacaḥ śrutvā kāmārtā tam uvāca sā | kāmārtānāṁ kva lajjā ca kva bhayaṁ mānam eva ca ||75|| atha kulaṭā-svabhāva-kathanam kāminy uvāca— sthānaṁ nāsti kṣaṇaṁ nāsti nāsti dūtī tad uttamā | tenaiva yuvatīnāṁ ca satītvam upajāyate ||76|| suveśaṁ kāmukaṁ dṛṣṭvā kāminī madanāturā | tad rātraṁ ca pulakitaṁ yonau kaṇḍūyanaṁ paraṁ ||77|| vicetanā bhavet sā ca kāma-jvara-prapīḍitā | sarvaṁ tyajati tad-dhetoḥ putraṁ kāntaṁ gṛhaṁ dhanam ||78|| labdhvā yuvānaṁ puruṣaṁ deśa-tyāgaṁ karoti sā | tad-uttamaṁ punar labdhvā taṁ tyajet sā kṣaṇena ca ||79|| viṣaṁ dātuṁ samarthā sā svāminaṁ guṇināṁ varam | mlecchaṁ yuvānaṁ samprāpya sarvasvaṁ dātum utsukā ||80|| tyajet kula-bhayaṁ lajjāṁ dharmaṁ bandhuṁ yaśaḥ śriyam | samprāpya rati-śūraṁ ca yuvānaṁ suratonmukham ||81|| sudṛśyaṁ sundara-mukhaṁ śaśvan-madhuritaṁ vacaḥ | hṛdayaṁ kṣura-dhārābhaṁ ko vā jānāti tan-manaḥ ||82|| vidyucchaṭā jale rekhā cāsthirā ca yathāmbare | tathāsthirā ca kulaṭā-prītiḥ svapnaṁ ca tad-vacaḥ ||83|| kulaṭānāṁ na satyaṁ ca na ca dharmo bhayaṁ dayā | na laukikaṁ na lajjā syāj jāra-jintā nirantaram ||84|| svapne jāgaraṇe caiva bhojane śayane sadā | nirantaraṁ kāma-cintā jāre sneho na cānyataḥ ||85|| kulaṭā nara-ghātibhyo nirdayā duṣṭa-mānasāḥ | jārārthe ca sutaṁ hanti bāndhavasya ca kā kathā ||86|| na hi vedā vidanty evaṁ kulatā-hṛdayaṅgamam | kathaṁ devās ca munayaḥ santo jānanti niścayam ||87|| rati-śūraṁ priyaṁ dṛṣṭvā kṣīraṁ ghṛtam ivācaret | gate vayasi jīrṇaṁ taṁ viṣaṁ dṛṣṭvā tyajet kṣaṇāt ||88|| na viśvaseyus tāṁ duṣṭo tasmāt santo hi santataṁ | na ripuḥ puruṣāṇāṁ ca duṣṭa-strībhyaḥ paro bhuvi ||89|| viṣaṁ mantrād upaśamaṁ jalād vahniś ca niścitaṁ | agneś ca kaṇṭhakocchannaṁ durjanaḥ stavanād vaśaḥ ||90|| lubdho dhanena rājā ca sevayā satataṁ vaśaḥ | miśraṁ svaccha-svabhāvena bhayena ca ripur vaśaḥ ||91|| ādareṇa vaśo vipro yauvatī prema-bhārataḥ | bandhur vaśaḥ samatayā guruḥ praṇatibhiḥ sadā ||92|| mūrkho vaśaḥ kathāyāṁ ca vidvān vidyā-vicārataḥ | na hi duṣṭā ca kulaṭā puṁsaś ca vaśagā bhavet ||93|| sva-kārye tat-parā śaśvat prītiḥ kāryānurodhataḥ | na sarvasya vaśī-bhūtā vinā śṛṅgāram ulvaṇam ||94|| na prītyā na dhanenaiva na stavān na sevayā | na prāṇa-dānato veśyā vaśī-bhūtā bhavet kṣaṇam ||95|| āhāro dvi-guṇas tāsāṁ buddhis tāsāṁ catur-guṇā | ṣaḍ-guṇā mantraṇā tāsāṁ kāmaś cāṣṭa-gunaḥ smṛtaḥ ||96|| śaśvat-kāmā ca kulaṭā na ca tṛptiś ca krīḍayā | haviṣā kṛṣṇa-vartmeva bhūya evābhivardhate ||97|| divāniśaṁ ca śṛṅgāraṁ kurute tat-pumān yadi | na tṛptiḥ kulaṭānāṁ ca pumāṁsaṁ grastum icchati ||98|| nāgnis tṛpyati kāṣṭhānāṁ nāpagānāṁ mahodadhiḥ | nāntakaḥ sarva-bhūtānāṁ nāsāṁ tṛpyati sampadām ||99|| na śreyasāṁ manas tṛptaṁ vāḍavāgnir na pāthasām | vasundharā na rajasāṁ na puṁsāṁ kulaṭā tathā ||100|| ity evaṁ kathitaṁ kiṁcit sarvaṁ vaktuṁ ca nocitam | lajjā bījaṁ yoṣitāṁ ca nibodha bhāskarātmaja ||101|| śrutvā ca kṛtyā-strī-vākyaṁ jahasur munayaḥ surāḥ | cukupur yoṣitaḥ sarvāḥ padmādyā lajjitāḥ suta ||102|| lajjā-natānanā lakṣmīr niryayau deva-maṇḍalāt | tat paścāt pārvatī sārdhaṁ sarasvatyā natānanā ||103|| sāvitrī rohinī svāhā vāruṇī ca ratiḥ śacī | sarvā babhūvur ekatra pracakrur mantraṇāṁ ca tāḥ ||104|| kṛtyā-striyaḥ samāhūya tā ūcuś ca krameṇa ca | rodhayām āsur iṣṭāṁ tāṁ sugopyāṁ api yoṣitaḥ ||105|| tasyā mukhe dadau hastaṁ suśīlā kamalālayā | salajjitā bhava sute śāntā ceti śubhāśiṣam ||106|| sarasvatī dadau tasyai cābhimānaṁ ca dhairyatām | maukharyaṁ vāvadūkatvaṁ mantraṇām ātma-rakṣaṇam ||107|| sāvitrī ca dadau tasyai sauśīlyaṁ cātidurlabham | ātma-saṁgopanaṁ caiva gāmbhīryaṁ kulato bhayam ||108|| pārvaty uvāca— dhik tvāṁ sva-bhāva-kulaṭāṁ lajjitā bhava sundari | sva-mānaṁ gauravaṁ rakṣa hy asmākaṁ ca smarātura ||109|| jani labha pṛthivyāṁ ca kāya-vyūhaṁ vidhāya ca | puṁsām aṣṭa-guṇaṁ kāmaṁ labhasva ca pṛthak prṛthak ||110|| lajjāṁ catur-guṇāṁ cāpi dviguṇāṁ dhairyatāṁ tathā | abhogecchadhame gaccha dūraṁ gaccha mamāntikāt ||111|| puṁsāṁ ca dvi-guṇaḥ kāmo vāstavīṇāṁ ca yoṣitām | lajjā cāṣṭa-guṇā cāpi dhairyatā ca catur-guṇā ||112|| kula-dharmaḥ kula-bhayaṁ sauśīlyaṁ mānam ūrjitam | śaśvat tiṣṭhatu puṁsy eva strīṣu ca mamājñayā ||113|| yasmāt sadasi sarvebhyo lajjā-hīnaḥ surādhamaḥ | strī-sva-bhāvaṁ ca papraccha yajña-bhāk na bhavet tataḥ ||114|| adya-prabhṛti viśveṣu nāgrāhyaṁ pāpa-saṁyutam | cikitsakānāṁ viduṣāṁ na bhakṣya mamājñayā ||115|| ity evam uktvā prayayur devyaś ca sarva-yoṣitaḥ | devāś ca munayaś cāpi ye cānye ca samāgataḥ ||116|| devāś ca munayaś cāpi ye cānye sarvataḥ suta | pati-vratāṇāṁ strīṇāṁ ca lajjā bīja-svarūpiṇī ||117|| iti śrī-nārada-pañca-rātre jñāṇāmṛta-sāre prathamaika-rātre kulaṭottpatir nāma caturdaśo 'dhyāyaḥ ||14|| …

English translation

CHAPTER XIV

Sri Suka said :—On the Lord of Radhika going back to the region of Go-loka, free from all disease and death, Upavarhana Gandharva went away from that place. What secrets happened afterwards, I desire to hear. (1)

Sri Vyasa said :—When the Supreme Spirit went away, the Devas and the Munis remained in silence, a5 the birds do at the close of the evening. (2)

Then Bhagavan Sambbu, the Deity of Knowledge, spoke beneficial words, whose consequences were happy, to Brahma, versed in Nitisastra (the science of morals). (3)

Mahadeva said:—All victory and good attend to him whose protector is Bhagavan ; and who can save him who is opposed by

Him. (4) Those who are devoted to Krqna, become free from all dangers, no sooner they remember Him. There is none amongst the Devas and Munis who can do him any injury. (5) Now where will the fire, raised up by the wrath of the re be lodged which was, fora time, checked by the will of the Lord. (6) If that Fire resides on earth, it will burn all the corps and grains. If it resides in water, the water will get warm and all the aquatic animals will be destroyed. (7)

If the fire rests on earth, it will burn all the ani

so you ought to determine where it would rest properly. (8)

rid, Visnu is the Preserver and

d it is not as yet the time for

mals and trees:

You are the Creatar of this wo Kalagni Rudra is the Destroyer ; an

the Dissolution of the world. (9) The Regents of the several quarters and all the worldly beings.

are always ready to obey the orders of Sri Krgna. (10) Dharma, too, the Witness of all actions of men is also

38 Narada Pejcaratram conveying His orders ;

deluded by the Maya of Hari engaged in the pursuit of

the objects of senses. (11)

Iam neither the Creator, nor the Preserver nor the Destroyer of beings ; I am unattached, ascetic and ready to worship Hari. (12) » the post of Destroyer ; but I handed now engaged in the tapasya, in

all are

worshipping Hari. (13)

Iam now Mrtyuiijaya (the conqueror of death) by worshipping Him, meditating Him, Practising austerities for His sake, by adoring Him and reciting His praises and kavaca and muttering

His name-mantra. I have now no fear from Kala. Kala destroys . everything excepting I¢vara and Myself. (14-15)

I was one of them ; and my name was San

When the Universal Dissolution Brahma dies ;

kara. (16)

takes place, one Creator and this period is called one Kalpa. At this time

all worldly things are destroyed. Isvara and His devotees only remain. (17)

Innumerable Brahmas come into existence ; ~ innumerable Kalpas ; Many innumerable | how many more will come ? (18g)

and there are alpas passed away and

often, (19)

The Vaisnavas are not Hari I am become immort; of all auspiciousness. (20)

When Universal Dissolution takes place, Go-loka, the abode of Sri Krgna excepted, the whole Brahmanda, including the region of Brahmaloka become floded with water 3 there is no doubt in this. (21)

Prakrts, nor worldly ; by the boon of

al and gradually wil] become the abode

Krgna is True, no doubt ; all the Devis and allt

he Purusas gct themselves merged in that Eternal Truth. (22)

_——_

“On the Highest Knowledge 89

In the region of Go-loka, free from all diseases and deaths, I and Bhagavan Sri Krsna and Prakrti and the Parsadas (attendants) of Hari exist. (23)

Early in the beginning of the Creation there was one God and the only God without a second; but in the Prakrta Pralaya (the cyclic dissolution of the Universe) His bbaktas and Prakrti remain ; they are not destroyed. (24)

The life-periods of the excellent (Uttama) Bhaktas do not get lessened, since they meditate on Hari always. How, then, can death occur to them. (25)

There is nochance of any evil overtaking the devotees of Vasudeva, and other excellent Bhaktas, since they incessantly Temember Hari. (26) ;

They have no fear of birth, death, disease and old age. It is in this Kalpa that you have become Brahma and have veen told to ordain all things. (27) A

O Vidhata ! Now find a place for rest, of this mass of fire arising from the wraths, of the Munis ‘and the Devas. Hearing these words of Mahadeva, the lotus-seated Brahma trembled and, according to the order of Mahadeva, alloted proper positions ior the above fire. (28)

Brahma said :—Fever is three footed, : nine eyed capable to burn to ashes, terrible, and lookin the God of Death. (29)

Now let the fire springing from Mahadeva’s wrath be turned by My Command, into fever everywhere in this world ; so I have ordained the place of this in hnman and ot world. (30) ae

O Sambhu ! Let My wrath fire be turned into the consecrated fires of the Brahmanas ; thus I have ordained its place every where in this world. (31)

O Siva! Let the wrate-fire of Sega rem -will burn the universe, like balls of cow-dung, Pralaya, (32)

three headed, six armed, g like Yama,

her bodies in this

ain in His mouth, that at the time of

50 Narada Pajicaratram-

O I¥vara! Let the wrath fire of Fire be the ordinary beneficent fire for general usage in all countries. (33)

Let the wrath of Dharma be turned into black fire that will burn everything of the irreligious Kings. (34)

Let the wrath of the Sun be the conflagration fire in the

forests ; and let Him remain on the trunks of trees. And let Him eat the birds and beasts thereof. (35)

Let the wrath of the Moon be the fire arising amongst the

lovers from their Separation ; and let him burn the bodies of both the married bridegroom and bride, due to separation. (36)

Let the wrath of Indra be turned at once into the thunder-

bolt fire ; and let the wrath of Upendra be converted into lightning. (37)

Let the wrath of Rudras be meteorite fires, Let the wrath of © Ganesa rest on earth in its proper place where the Earth will be Converted into barren or usar land. Let the wrath of Kartik be turned into the fires of weapons in battle fields. (38-39)

Let the wrath of the Devas excepting those of Kamadeva and

the Munis be accepted by the Muni Urva, the son of Brahma. Urva assimilated the fire into his own fire. (40)

That Muni Tetained the above fire in his right thigh by the

Power of the Vedic mantras, bowed down to Brahma and went away to practise tapasya. (41)

O Son ! In time, that fire came out of itself of the above Rgi Was turned into Badava fire, in the waters of the ocean. (42)

Then the Creator,

and

seeing the fire of Kama (sexual union) too Powerful, thought within Himself and, consulting with the Devas and Munis, called the chaste women, observing vows, before His

presence. All the ladies came and began speaking to Brahma, thus. (43-44)

The ladies said :—O Bhagavan! what are we to do, kindly order ; we are helpless ladies ; so think on this point ; and then throw on us any duty to perform. (45)

On the Highest Knowledge or Brahma said :—Let all the ladies in this world take the fire of Madana (Cupid), so pleasant in sexual intercourse and let them all become passionate. (46) Hearing Brahma speaking thus in the assembly, the ladies became very wrathful, their faces turned red with anger and, redeyed, they fearlessly spoke out to Brahma. (47)

The ladies said :—Fie on Thee; God has created Thee in vain: Thou hast become unfit to be worshipped by one and all, due to the curse, cast on The by the Mohinis (ladies) in days of old, and

now by the curse inflicted on Thee, by Thy son. (48) ing-burnt by hardly"

The men and women are incessantly be lways reign-

unbearable fire of Cupid (sexual intercourse), that is a ing in their breasts. (49)

One part of that fire of Cupid is in man and three parts are in the female sex; all the females are being burnt by that. So what

more can be inflicted on us. (50) If Thou laidest more fire of passion on the males and add 51

we would then burn Thee to ashes. See, who saves Thee ! Hearing these words of chaste women, Mahadeva aon spoke to Brahma, the following moral and beneficent words. Mahadeva spoke :—O highly intelligent one ! Foret ae these quarrels with these vow-observing ladies. The fire a pi chastity is more powerful than all other fires (or energies) P together. (53)

O Isvara ! O Chief of tbe Devas ! now crea Krtya, and locate the fire arising from the wrat the source of all miseries, in her. (54)

Hearing these words of Mahadeva, Br. female form, exquisitely beautiful to behold.

What in form, what in dress, how youthful she her age, beautiful eyes, what nice sidelong glances, the minds of the Yogis even. (56)

How nice are her breasts, hard, captivati

te a woman named h of Kama Deva,

abma created soon a

(55) is as regards she captivates

pg and circular ! Ob !

92 Narada Pajicaratram

how lovely are her hips, wonderful, hard,

capacious, and beautiful! (57)

The pair of their nitambas (buttocks) is nicely curved and curled off, circular and soft. Her colour is like that of white champakas; all her limbs are so proportionate and lovely. (58)

Her smiling lovely faces, lovely like crores of autumnal moons

Covered partially by their clothes, have assumed an unspeakable beauty. (59)

Her bodies are very tender, beautiful, neither very long nor very short covered by clean clothes pure like fire, and decorated with jewel ornaments, beautified with soft and pleasing sindura (red powders) looking like pomegranate flowers, and adorned with dots of saffron and cool sandalpaste. (60-61)

Her lips looked like ripe Bimba fruits; and her rows of tooth looked like the seeds of pomegranates. (62)

Her hairs on the head were adorned with garlands of Malati

flowers. The lotus-born Brahma saw the woman and located the fire of Kama in her. (63)

Seeing the form of Candra (moon), the created woman, dened with lust, became almost unconscious and casting side ces on Him spoke smilingly :—‘‘come unto me”’, (64)

mad glan

Candra smiled and, out of shame, quitted that as Went away. Then Seeing Kamadeva, the Krtya woma and passionate, asked for Him. (65)

Kama Deva also Tan awa’ woman followed h laughed. (66)

sembly and n, shameless

y quick from that place. The Krtya im. At this the Devas and the Munis

When the other ladies saw, that the Krtya woman could not be prevented, they became very much abashed. Sankara and other Devas began to cut Jokes with them. (67)

When the Krtya women could not to the assembly and s Kumiras. -(68)

get Kamadeva, she returned poke before all the Devas, to the twin Aégvini

———

On the Highest Knowledge OF

‘The Kytya Kamini said :—O sons of Surya! Now come, enjoy and mingle with me gradly, who is full of Rasa (amorous juicy sentiments), and who can yield you-pleasures of intercourse abundantly peaceful, passionate, excellent, and lovely. I will go with you to dense forests and, day and night, will play with you in

lovely places. I will give you nice drinks of spirituous liquors, scented cool waters, betels mixed with camphors and other excellent things of enjoyments. I will make ready for you nice beddings, scented with flowers, sandalpastes, and will anoint you also with sandalpaste. (69—72)

Kumiras said :—O fair one ! Now quit your hypocricy, that destroys Dharma; and speak out frankly what is in your mind. (73)

What is the dharma of women? What is the mental desire of women? What is their nature ? and what are their conducts. You ought to answer to my above querries. (74)

Hearing the words of Aévini, that passionate woman spoke :— Where is the shame, fear, and honour of those who are stricken with passion ? (75)

When proper place. proper moment and proper procuress cannot be obtained, then the chastity of youthful women is: preserved. (76)

On seeing a well-dressed passionate man, women become stricken with passion ; the hairs of her body stand erect with delight and her vaginal parts get itching sensations very much.. (77)

She suffers very much from fever, arising from her passionate feelings, and becomes almost unconscious. For her lover’s sake, she quits her son, husband, houses, wealth and everything. (78)

Getting that young man, she quits her town. But if she gets a better man than the former one, instantly she Sage him even. (79)

Getting that young mleccha person, and can give poison even to her very well husband. (80)

If she finds a young man who is exceptionally strong in

she can quit everything qualified literate

“94 iMVarada Pajicaratram

holding sexual intercourse, she quits family, fear, shame, dharma, friends, fame and wealth, etc. (81)

She looks very beautiful 3 her face is very lovely and captivating ; her words are always very sweet, as if mixed with honey ;

but her heart is like a very sharp edged knife ; and no one is able to fathom her mind. (82)

The love of a loose woman is very unsteady and her words are like lightning in the sky or like lines on water, (83)

An unchaste woman has no slightest trace even of truth, dharma, fear, Pity, popular customs, shame, etc ; she always think intently on her lover. (84)

She always indulges in waking states, eating, sleeping, concentrates on her lover and

Passionate through, in her dreams, and at all other times; her love on nothing else. (85)

An unchaste woman is murderers ; for her lover’s sake, her other friends ! (86)

more harsh and wicked, than she kills her son ; what to speak of

The Vedas are unable to ascertain the minds of these unchaste Women ; then what to speak of the Devas and Munis and the Saints (they are quite unable to ascertain their minds). Seeting her beloved a hero in amorous dealings, she uses him like clarified butter obtained from milk; and when her beloved gets old, she considers him like a poison and does not lose a moment to quit him. Man has no other enemy, more dreadful, than an unchaste

and vile wife; the Saints, therefore, ought never to trust on her. (87-89)

fire can be quenched by de passable by fire; a

greedy man can be made to turn round by Tiches, a king turns favourable by constant service ;

3 a friend can be winned by pure and honest dealings; an enemy becomes submissive by fear. (90-91)

A Brahmana comes under if he gets honour and love, a lady turns round by affection and love; a friend yields, when equality in

‘times ; their power of counselling is six times an

‘flame inereases by the pouring of ghee.

«On the Highest Knowledge 95

-dealings is dealt with ; a spiritual teacher or an elderly man turns

round by bowins one’s head down to him. (92)

By words and discourse, an illiterate becomes friendly, a Jearned man turns round by learning and argumentation, but a wicked unchaste woman never comes under a man by any means. (93)

She is always ready to do her own concerns ; shows herself satisfied on some particular business or other ; but she never comes under one’s control except by a powerful sexual intercourse. (94)

A prostitute never yields, for a moment even, whether by love or affection, riches, prayers, service or even by sacrifice of one’s

life. (95)

their intellect is four d their passion (for An unchaste woman is | any pleasure in

The food of women is twice that of men ;

intercourse) is eight times that of men. always stricken with passion ; she does not fee

amusements and amorous sports ; rather her passion increases, as Even ifa man co-habits,

day and night, with an unchaste woman she does not get satisfied ; she wants to devour that man. (96-95)

od, as an ocean js not satisfied not satisfied with all the ed with all wealth. As d, as Badava fire is earth is not satisfied tisfied even with all

As fire is not satisfied with wo with rivers, as Yama (the God of Death) is beings, as hopes and desires are not satisfi mind is not satisfied even with all that is goo not satisfied with all waters of the ocean, as with all dust, so an unchaste woman in not sa’ persons. (99-100)

© Surya’s son ! Thus I have spoken a little whole ought not to be said ; the shame and mo strong. (101)

OSon! Hearing the words of Krtya Kamini, the Devas and the Munis began to laugh ; Padma and other ladies became very angry and abashed. Laksmi Devi bent her head low, due to shame, and went away from that assembly. Parvati and Sarasvati, too, followed them. (102-103)

on this point; the desty of women are -

96 Narada Pajicaratram: Savitri Rohini, Svaha, Varuni. Rati. Saci, and all other ladies then assembled and began to consult. (104)

Then they called Krty4-Kamini, one by one, and requested

her that women should keep their most dear and desired objects under concealment. (105)

The modest Laksmi Devi put her hands on her mouth and

blessed her saying ‘‘child !| be shameful and let you be calm and quiet,” (106)

The Devi Sarasvati gave her patience, talkativeness ; power of eloquence, egoism and how to preserve her own self. (107)

The Devi Savitri gave her the excellent quality of good conduct and manners, how to conceal her self, gravity and fear of her

family (not to bring blame on_ her family by her bad conduct). (108)

Parvati Devi said :—O ! Fie to you, stricken with passion ! fie to you who, by your very nature, is unchaste; O fair one! have Some sense of shame and modesty. Keep your honour and _ pride as well as of us, too. Quit this body and take your birth on earth ; and let your lust be sight times that of a man. (109-110)

Let your shame be four times and patience twice that of a man, O vile! wretch !| go away from me to a very far off country, and let you cherish desires to enjoy what ought not to be enjoyed. (Ql)

And by My command, let ordinary women have Passion twice, sham eight times and patience four times that of a man. (112)

And let chaste women observe like men, the family dharma, the fear of one’s family, modesty and good conduct, strong prestige of their own selves. And as that vile wretch, the Deva (the Asvins) asked shamelessly in this assembly of the nature of women, he has

committed a ‘Serious ‘offence ; and let him, for their offence, be deprived of his share in the sacrifices, (113-114)

And from todays by My command, let the food offered by

physicians be reckored as-sinful, and not worthy to be accepted by the learned. (115)

On the Highest Knowledge 97

Thus saying, all the Devis, all the ladies, the Devas and the Munis and others that came there, all went away to their respective places. (116)

O Child ! Thus arose the class of prostitutes, unchaste women in all parts of the world ; and they are the objects of shame to the chaste ones. (117)

Here ends the fourteenth chapter in the first night of Sri Narada Pancaratra on the origin of the unchaste women and prostitutes.

Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 87–97 (scan pages 104–114). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.