Prīti · Sanskrit §285 · English §250
Source[२८५] अथ तासु सामान्यासु सैरिन्ध्री मुख्या । सर्वत्र ख्यातत्वात् । स्वकीयासु पट्ट-महिषीषु श्री-रुक्मिणी-सत्यभामे मुख्ये । यथा श्री-हरि-वंशे- कुटुम्बस्येश्वरी यासीद् रुक्मिणी भीष्मकात्मजा । सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत् ॥ अथ श्री-व्रज-देवीषु मुख्या भविष्योत्तरोक्ताः - गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका । राधानुराधा सोमाभा तारका दशमी तथा ॥ इति । दशम्य् अपि तारका-नाम्नीत्य् अर्थः । स्कान्दे प्रह्लाद-संहितायां तु ललिता शैव्या पद्मा चतस्रोऽन्याः । अन्यत्र चन्द्रावली च श्रूयते । सा चात्रार्थ- साम्यात् सोमाभैवानुमेया । कार्त्स्न्येन तु प्रमदा-शत-कोटिभिर् आकुलिता इत्य् आगमोपदेशः । एतास्व् अपि श्री-राधिकैव मुख्या । सैव रासोत्सवे श्री- कृष्णेन परम-प्रेम्णान्तर्धापितेति श्री-कृष्ण-सन्दर्भे सन्दर्शितम् अस्ति । प्रसिद्धा च तथा सैव सर्वत्रेति । अतः श्रैष्ठ्य-चिह्नेन गोपाल-तपन्य्- उक्ता गान्धर्विकैव सेत्य् अनुमेया । अथ ताः श्री-कृष्ण-वल्लभास् त्रिधा दृश्यन्ते मुग्धा मध्या प्रगल्भा इति । तादृश्यं च नव-यौवन-स्पष्ट-यौवन-सम्यग्-यौवनैर् वयो-भेदैस् तत्- तच्-चेष्टाभिश् च । सम्यग्-यौवनं च प्राप्त-षोडश-वर्षत्वम् एव नाधिकम् कन्याभिर् द्व्य्-अष्ट-वर्षाभिः इति गौतमीय-तन्त्रात् । तथा स्वभाव-भेदेन धीरा अधीरा मिश्र-गुणाश् चेति पुनस् त्रिधावगन्तव्याः । प्रेम-तारतम्येन श्रेष्ठाः समाः लघव इति च । अथ ता लीलावस्था-भेदेनैकैका । अभिसारिका वासक-सज्जोत्कण्ठिता खण्डिता विप्रलब्धा (पगे १२३) कलहान्तरिता प्रोषित-भर्तृका स्वाधीन-भर्तृका इत्य् अष्टौ नामानि भजन्ति । तथा परस्परं भावानां सादृश्य-किञ्चित्- सादृश्यास्फुट-सादृश्यानि । विरोधित्वं चैतद् भेद-चतुष्टयात् पुनश् चत्वारि सखी सुहृत् तटस्था प्रातिपक्षिकी चेति । भाव-भेदाश् च स्थायि- निरूपणे ज्ञेयाः । तत्र सखी यथा अप्य् एण-पत्नी [भ्प् १०.३३.११] इत्य् आदि द्वये पुरतो दर्शनीया । अत्र हि तन्वन् दृशां सखि सुनिर्वृतिम् इति स्वीय-तद्- दिदृक्षा-द्योतनात् । सखीति तद्-दर्शन-सुखोपभोग-सौभाग्य-भागिता- साम्येन तस्यां सख्यारोपणात् कान्तेति कृष्ण-सङ्गिन्याः सौभाग्यातिशयस्य चानुमोदनात् सख्यम् एव स्पष्टम् । अतएव तल्-लीलानुमोदनम् अपि बाहुं प्रियांसा- [भ्प् १०.३०.१२] इत्य् आदिना । सुहृद् यथा - अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥ [भ्प् १०.३०.२८] अस्याश् च तद्-भाग्य-मात्र-प्रशंसनात् व्यक्तं सौहृद्यम् ।
[285] atha tāsu sāmānyāsu sairindhrī mukhyā | sarvatra khyātatvāt | svakīyāsu paṭṭa-mahiṣīṣu śrī-rukmiṇī-satyabhāme mukhye | yathā śrī-hari-vaṃśe- kuṭumbasyeśvarī yāsīd rukmiṇī bhīṣmakātmajā | satyabhāmottamā strīṇāṃ saubhāgye cādhikābhavat || atha śrī-vraja-devīṣu mukhyā bhaviṣyottaroktāḥ - gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā | rādhānurādhā somābhā tārakā daśamī tathā || iti | daśamy api tārakā-nāmnīty arthaḥ | skānde prahlāda-saṃhitāyāṃ tu lalitā śaivyā padmā catasro'nyāḥ | anyatra candrāvalī ca śrūyate | sā cātrārtha- sāmyāt somābhaivānumeyā | kārtsnyena tu pramadā-śata-koṭibhir ākulitā ity āgamopadeśaḥ | etāsv api śrī-rādhikaiva mukhyā | saiva rāsotsave śrī- kṛṣṇena parama-premṇāntardhāpiteti śrī-kṛṣṇa-sandarbhe sandarśitam asti | prasiddhā ca tathā saiva sarvatreti | ataḥ śraiṣṭhya-cihnena gopāla-tapany- uktā gāndharvikaiva sety anumeyā | atha tāḥ śrī-kṛṣṇa-vallabhās tridhā dṛśyante mugdhā madhyā pragalbhā iti | tādṛśyaṃ ca nava-yauvana-spaṣṭa-yauvana-samyag-yauvanair vayo-bhedais tat- tac-ceṣṭābhiś ca | samyag-yauvanaṃ ca prāpta-ṣoḍaśa-varṣatvam eva nādhikam kanyābhir dvy-aṣṭa-varṣābhiḥ iti gautamīya-tantrāt | tathā svabhāva-bhedena dhīrā adhīrā miśra-guṇāś ceti punas tridhāvagantavyāḥ | prema-tāratamyena śreṣṭhāḥ samāḥ laghava iti ca | atha tā līlāvasthā-bhedenaikaikā | abhisārikā vāsaka-sajjotkaṇṭhitā khaṇḍitā vipralabdhā (page 123) kalahāntaritā proṣita-bhartṛkā svādhīna-bhartṛkā ity aṣṭau nāmāni bhajanti | tathā parasparaṃ bhāvānāṃ sādṛśya-kiñcit- sādṛśyāsphuṭa-sādṛśyāni | virodhitvaṃ caitad bheda-catuṣṭayāt punaś catvāri sakhī suhṛt taṭasthā prātipakṣikī ceti | bhāva-bhedāś ca sthāyi- nirūpaṇe jñeyāḥ | tatra sakhī yathā apy eṇa-patnī [BhP 10.33.11] ity ādi dvaye purato darśanīyā | atra hi tanvan dṛśāṃ sakhi sunirvṛtim iti svīya-tad- didṛkṣā-dyotanāt | sakhīti tad-darśana-sukhopabhoga-saubhāgya-bhāgitā- sāmyena tasyāṃ sakhyāropaṇāt kānteti kṛṣṇa-saṅginyāḥ saubhāgyātiśayasya cānumodanāt sakhyam eva spaṣṭam | ataeva tal-līlānumodanam api bāhuṃ priyāṃsā- [BhP 10.30.12] ity ādinā | suhṛd yathā - anayārādhito nūnaṃ bhagavān harir īśvaraḥ | yan no vihāya govindaḥ prīto'yam anayad rahaḥ || [BhP 10.30.28] asyāś ca tad-bhāgya-mātra-praśaṃsanāt vyaktaṃ sauhṛdyam |
English translation
English witness · section(s) 250
Anuccheda 250
Sakhya-rasa is also seen in these words of srimad-Bhagavatam (10.15.52):
anvamamsata tad rajan govindanugraheksitam. . .
"O King, the cowherd boys then considered that although they had drunk poison and in fact had died, simply by the merciful glance of Govinda they had regained their lives and stood up by their own strength."
The meaning of this verse is clear. This verse was spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §286–287 · English §251
Source[२८६] तटस्था यथा - पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः । नूनं तत्करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो ॥ [भ्प् १०.३०.१३] अत्र सखी-वचनं श्रुत्वापि ततौदासीन्यात् ताटस्थ्यम् एव व्यक्तम् । एवम् अनयाराधितो नूनम् इति सुहृद्-वाक्यानन्तरम् अपि धन्या अहो अमी आल्यः [भ्प् १०.३०.२९] इत्य्-आदि-वाक्ये च । [२८७] अथ प्रातिपक्षिका यथा- अस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् । यैकापहृत्य गोपीनां रहो भुङ्क्ते ऽच्युताधरम् ॥ [भ्प् १०.३०.३०] अथ प्रकट एव मत्सर इति ताभ्यो विलक्षणत्वम् । तथैव श्री- हरिवंशादौ पारिजात-हरणे श्री-रुक्मिणीं प्रति सत्यभामायाः । स्पष्टम् । ॥ १०.३० ॥ श्री-शुकः ॥ २८५-२८७ ॥
[286] taṭasthā yathā - pṛcchatemā latā bāhūn apy āśliṣṭā vanaspateḥ | nūnaṃ tatkaraja-spṛṣṭā bibhraty utpulakāny aho || [BhP 10.30.13] atra sakhī-vacanaṃ śrutvāpi tataudāsīnyāt tāṭasthyam eva vyaktam | evam anayārādhito nūnam iti suhṛd-vākyānantaram api dhanyā aho amī ālyaḥ [BhP 10.30.29] ity-ādi-vākye ca | [287] atha prātipakṣikā yathā- asyā amūni naḥ kṣobhaṃ kurvanty uccaiḥ padāni yat | yaikāpahṛtya gopīnāṃ raho bhuṅkte 'cyutādharam || [BhP 10.30.30] atha prakaṭa eva matsara iti tābhyo vilakṣaṇatvam | tathaiva śrī- harivaṃśādau pārijāta-haraṇe śrī-rukmiṇīṃ prati satyabhāmāyāḥ | spaṣṭam | || 10.30 || śrī-śukaḥ || 285-287 ||
English translation
English witness · section(s) 251
Anuccheda 251
Sakhya-rasa is again seen in these words of srimad- Bhagavatam (10.13.5):
aho 'tiramyam pulinam vayasyah. . .
"My dear friends, just see how this riverbank is extremely beautiful because of its pleasing atmosphere. And just see how the blooming lotuses are attracting bees and birds by their aroma. The humming and chirping of the bees and birds is echoing throughout the beautiful trees in the forest. Also, here the sands are clean and soft. Therefore, this must be considered the best place for our sporting and pastimes."
The meaning of this verse is clear. This verse was spoken by the Supreme Personality of Godhead.
Prīti · Sanskrit §288 · English §252
Source[२८८] अत्र विचार्यते । ननु भगवद्-भक्तेषु परस्परं प्रतिपक्षित्वम् असम्भवम् अहृद्यं च । तथा तासां तत् सौभग-मदम् [भ्प् १०.२९.४८] इत्य् आदौ तद्-ईर्षामदमानादि-दूरीचिकीर्षां श्री-भगवतोऽपि दृश्यते । तथा श्रीमता मुनिना स्वयम् अपि ताभिस् तत्र दौरात्म्य-शब्दः प्रयुक्तोऽस्तीति । तत्रोच्यते सर्वैव हि श्री-भगवतः क्रीडा प्रीति-पोषायैव प्रवर्तते । भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [भ्प् १०.३३.३६] इत्य् आदि । श्रुत्वापीत्य् अर्थः । तत्र शृङ्गार-क्रीडायाश् चास्याः स्वभावोऽयं यत् खल्व् ईर्षा-मद-मानादि-लक्षण- (पगे १२४) तत्-तद्-भाव-वैचित्री-परिकरतयैव रसं पुष्णाति । यत एव तादृशतयैव कविभिर् वर्ण्यते । श्री-भगवता च स्व=लीलायाम् अङ्गीक्रियते । स्वस्मिन्न् अपि दक्षिणानुकूल-शठ-धृष्टतेति चतुर्भेद-नायकत्वं यथा-स्थानं व्यज्यते । तस्मात् तल्-लीला-शक्तिर् एव तासु तत्-तद्-भावं दधाति । तं च भावानुरूपेणैवेति दर्शितम् । अतएव यदा सर्वासाम् एव तद्-विरहो भवति तदा दैन्यनैक-जातीय- भावत्वापत्त्या सर्वत्र सख्यम् एवाभिव्यज्यते । यथा- अन्विच्छन्त्यो भगवतो मार्गे गोप्यो ऽविदूरतः । ददृशुः प्रियविश्लेषान् मोहितां दुःखितां सखीम् ॥ [भ्प् १०.३०.४१] इत्य् अत्र तस्यां पूर्वासाम् एव सखीत्व-व्यञ्जना । विरह-लीला च तासां झटिति श्री-कृष्ण-विषयक-तृष्णातिशय-वर्धनार्थैव । नागर-चूडामणीन्द्राय श्री-कृष्णाय च तासां तद्-वृद्धिर् अथ्यर्थं रोचते । यथोक्तं नाहं तु सख्यो भजतोऽपि जन्तून् [भ्प् १०.३२.१०] इत्य् आदिना । तस्मान् मध्ये विरहोऽपि भवति । तदा श्री-कृष्णस्य मद-मानादि-विनोदम् अतिक्रम्यापि तद्- अध्यवसायः स्यात् । ततो मद-मानयोः प्रशमाय स्व-विषयक- तृष्णातिशय-रूप-प्रसादाय चेति तासां तत् सौभगेत्य् अत्रार्थः । सर्व- समुदित-रास-लीलार्थं मदस्य प्रशमाय मानस्य च प्रसादाय प्रसादनायेत्य् अर्थो वा । ततस् तद्-वर्धनेच्छाप्य् आनुषङ्गीति समानम् । अथ जाते च विरहे दैन्येनैव तासां तत्र दौरात्म्य-बुद्धिः । न तु वस्तुत एव तद्-दौरात्म्यं प्रेमैक-विलास-रूपत्वात् । श्री-मुनीन्द्रोऽपि तद्- भावानुसारित्वेनैव तद्-वाक्यम् अनुवदति तया कथित्म् आकर्ण्य [भ्प् १०.३०.४२] इत्य् आदि । स्वयं तु पूर्वं तस्मिंस् तदीये मदे दोषं प्रत्याख्यातवान् अस्ति । यथा- रेमे तया चात्मरत आत्मारामो ऽप्य् अखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ [भ्प् १०.३०.३५] स्वात्म-रतः स्वतस् तुष्टोऽपि आत्मरामः स्व-क्रीडोऽपि अखण्डितः । तस्यां सततासक्तः सन् रेमे । तादृशश् चेत् किम् इति तद्-आसक्तो बभूव, तथा रेमे च । अत आह तया इत्थम्भूत-गुणो हरिः [भ्प् १.७.१०] इतिवत् तथा-भूत-गुणतया तदीय-प्रेम-सर्वस्व-सार-रूपयेत्य् अर्थः । अतस् तस्यान्येन तादृशत्वासम्भवात् प्रेम-विशेष एवासौ स्फुरति न तु कामः । स च प्रेम-विशेष ईदृश-प्रबलः यत् कामिवद् एव दैन्यादिकं तयोः प्रकटीभवतीत्य् आह कामिताम् इति । मद-मानाद्य्-आत्मके कामिनीनां प्रेम्णि कामिनां यद् दैन्यं लोक-प्रसिद्धं तद् एव स्व-द्वारा तत्-प्रेम- विशेष-पारवेश्येन दर्शयन् प्रकटयन् रेमे । यद् वा ययैव लीलया स्वयम् एव तुच्छीभूताः सर्वेऽप्य् अन्ये नागरं-मन्या इत्य् आह कामिनाम् इति । स्व- लीला-महिम्ना कामिनां प्राकृतानां दैन्यं रस-सम्पत्ति-हीनत्वं स्त्रीणां च प्राकृतानां तं विनान्यस्य भजनेन दुरात्मतां दुष्ट-भावतां दर्शयन्न् इति दर्शयद् विधु-पराजयं रसावक्तुं उल्लसति धूत-लाञ्छनम् इतिवत् । ॥ १०.३० ॥ श्री-शुकः ॥ २८८ ॥ (पगे १२५)
[288] atra vicāryate | nanu bhagavad-bhakteṣu parasparaṃ pratipakṣitvam asambhavam ahṛdyaṃ ca | tathā tāsāṃ tat saubhaga-madam [BhP 10.29.48] ity ādau tad-īrṣāmadamānādi-dūrīcikīrṣāṃ śrī-bhagavato'pi dṛśyate | tathā śrīmatā muninā svayam api tābhis tatra daurātmya-śabdaḥ prayukto'stīti | tatrocyate sarvaiva hi śrī-bhagavataḥ krīḍā prīti-poṣāyaiva pravartate | bhajate tādṛśīḥ krīḍā yāḥ śrutvā tat-paro bhavet [BhP 10.33.36] ity ādi | śrutvāpīty arthaḥ | tatra śṛṅgāra-krīḍāyāś cāsyāḥ svabhāvo'yaṃ yat khalv īrṣā-mada-mānādi-lakṣaṇa- (page 124) tat-tad-bhāva-vaicitrī-parikaratayaiva rasaṃ puṣṇāti | yata eva tādṛśatayaiva kavibhir varṇyate | śrī-bhagavatā ca sva=līlāyām aṅgīkriyate | svasminn api dakṣiṇānukūla-śaṭha-dhṛṣṭateti caturbheda-nāyakatvaṃ yathā-sthānaṃ vyajyate | tasmāt tal-līlā-śaktir eva tāsu tat-tad-bhāvaṃ dadhāti | taṃ ca bhāvānurūpeṇaiveti darśitam | ataeva yadā sarvāsām eva tad-viraho bhavati tadā dainyanaika-jātīya- bhāvatvāpattyā sarvatra sakhyam evābhivyajyate | yathā- anvicchantyo bhagavato mārge gopyo 'vidūrataḥ | dadṛśuḥ priyaviśleṣān mohitāṃ duḥkhitāṃ sakhīm || [BhP 10.30.41] ity atra tasyāṃ pūrvāsām eva sakhītva-vyañjanā | viraha-līlā ca tāsāṃ jhaṭiti śrī-kṛṣṇa-viṣayaka-tṛṣṇātiśaya-vardhanārthaiva | nāgara-cūḍāmaṇīndrāya śrī-kṛṣṇāya ca tāsāṃ tad-vṛddhir athyarthaṃ rocate | yathoktaṃ nāhaṃ tu sakhyo bhajato'pi jantūn [BhP 10.32.10] ity ādinā | tasmān madhye viraho'pi bhavati | tadā śrī-kṛṣṇasya mada-mānādi-vinodam atikramyāpi tad- adhyavasāyaḥ syāt | tato mada-mānayoḥ praśamāya sva-viṣayaka- tṛṣṇātiśaya-rūpa-prasādāya ceti tāsāṃ tat saubhagety atrārthaḥ | sarva- samudita-rāsa-līlārthaṃ madasya praśamāya mānasya ca prasādāya prasādanāyety artho vā | tatas tad-vardhanecchāpy ānuṣaṅgīti samānam | atha jāte ca virahe dainyenaiva tāsāṃ tatra daurātmya-buddhiḥ | na tu vastuta eva tad-daurātmyaṃ premaika-vilāsa-rūpatvāt | śrī-munīndro'pi tad- bhāvānusāritvenaiva tad-vākyam anuvadati tayā kathitm ākarṇya [BhP 10.30.42] ity ādi | svayaṃ tu pūrvaṃ tasmiṃs tadīye made doṣaṃ pratyākhyātavān asti | yathā- reme tayā cātmarata ātmārāmo 'py akhaṇḍitaḥ | kāmināṃ darśayan dainyaṃ strīṇāṃ caiva durātmatām || [BhP 10.30.35] svātma-rataḥ svatas tuṣṭo'pi ātmarāmaḥ sva-krīḍo'pi akhaṇḍitaḥ | tasyāṃ satatāsaktaḥ san reme | tādṛśaś cet kim iti tad-āsakto babhūva, tathā reme ca | ata āha tayā itthambhūta-guṇo hariḥ [BhP 1.7.10] itivat tathā-bhūta-guṇatayā tadīya-prema-sarvasva-sāra-rūpayety arthaḥ | atas tasyānyena tādṛśatvāsambhavāt prema-viśeṣa evāsau sphurati na tu kāmaḥ | sa ca prema-viśeṣa īdṛśa-prabalaḥ yat kāmivad eva dainyādikaṃ tayoḥ prakaṭībhavatīty āha kāmitām iti | mada-mānādy-ātmake kāminīnāṃ premṇi kāmināṃ yad dainyaṃ loka-prasiddhaṃ tad eva sva-dvārā tat-prema- viśeṣa-pāraveśyena darśayan prakaṭayan reme | yad vā yayaiva līlayā svayam eva tucchībhūtāḥ sarve'py anye nāgaraṃ-manyā ity āha kāminām iti | sva- līlā-mahimnā kāmināṃ prākṛtānāṃ dainyaṃ rasa-sampatti-hīnatvaṃ strīṇāṃ ca prākṛtānāṃ taṃ vinānyasya bhajanena durātmatāṃ duṣṭa-bhāvatāṃ darśayann iti darśayad vidhu-parājayaṃ rasāvaktuṃ ullasati dhūta-lāñchanam itivat | || 10.30 || śrī-śukaḥ || 288 || (page 125)
English translation
English witness · section(s) 252
Anuccheda 252
Sakhya-rasa is again seen in these words of srimad- Bhagavatam (10.15.16):
kvacit pallava-talpesu niyuddha-srama-karsitah vrksa-mulasrayah sete gopotsangopabarhanah
"Sometimes Lord Krsna grew tired from fighting and lay down at the base of a tree, resting upon a bed made of soft twigs and buds and using the lap of a cowherd friend as His pillow."
The meaning of this verse is clear. This verse was spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §289 · English §253
Source[२८९] इत्य् आलम्बनो व्याख्यातः । अथोद्दीपनेषु गुणाः । नारी-मोहन-शीलत्वम् । अवयव-वर्ण-रस-गन्ध-स्पर्श-शब्द-सल्-लक्षण-नव-यौवनानां कमनीयता । नित्य-नूतनत्वम् अभिव्यक्त-भावत्वं प्रेम-वश्यत्वं सौबुद्ध्य-सत्-प्रतिभादयश् च । तत्र नारी-मोहन-शीलत्वादिकं, यथा- कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलम् [भ्प् १०.२१.१२] इति । स्पष्टम् । ॥ १०.२१ ॥ श्री-व्रज-देव्यः ॥ २८९ ॥
[289] ity ālambano vyākhyātaḥ | athoddīpaneṣu guṇāḥ | nārī-mohana-śīlatvam | avayava-varṇa-rasa-gandha-sparśa-śabda-sal-lakṣaṇa-nava-yauvanānāṃ kamanīyatā | nitya-nūtanatvam abhivyakta-bhāvatvaṃ prema-vaśyatvaṃ saubuddhya-sat-pratibhādayaś ca | tatra nārī-mohana-śīlatvādikaṃ, yathā- kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlam [BhP 10.21.12] iti | spaṣṭam | || 10.21 || śrī-vraja-devyaḥ || 289 ||
English translation
English witness · section(s) 253
Anuccheda 253
Sakhya-rasa is again seen in these words of srimad- Bhagavatam (10.35.20):
kunda-dama. . .narma-dah pranayinam vijahara
"O sinless Yasoda, your darling child, the son of Maharaja Nanda, has festively enhanced His attire with a jasmine garland, and He is now playing along the Yamuna in the company of the cows and cowherd boys, amusing His dear companions."
Prīti · Sanskrit §290–291 · English §254
Source[२९०] नित्य-नूतनं च यद्यप्य् असौ पार्श्व-गतः [भ्प् १.११.३४] इत्य् आदौ दृष्टम् । अथाभिव्यक्त-भावत्वम् । तत्र पूर्व-रागे- शरद्-उदाशये साधु-जात-सत्-सरसिजोदरे श्री-मुषा दृषा । सुरत-नाथ ते ऽशुल्क-दासिका वरद निघ्नतो नेह किं वधः ॥ [भ्प् १०.३१.२] हे दृशैव सुरत-याचक तत्रापि हे कात्यायन्य्-अर्चनान्ते वर-प्रद, तत्राइ भाव-विशेष-दर्शितया दृशा कृत्वैवाशुल्क-दासिका-तुल्यत्वं प्राप्तास् तयैव पुनर् निघ्नतस् तव न किं वधः स्त्री-हत्यापि न भवति । दृशस् तादृशत्वे महा-मोहन-चौरत्वं दर्शयति । शरद्-उदाशय इत्य् आदि । तत्र मोहनत्वं द्विविधं-स्वरूप-कृतं दुष्कर-क्रिया-कृतं च । तद् उभयम् अपि तत्-तद्-विशेषणैर् व्यक्तम् । तथा- मधुरया गिरा वल्गु-वाक्यया बुध-मनो-ज्ञया पुष्करेक्षण । विधि-करीर् इमा वीर मुह्यतीर् अधर-सीधुनाप्याययस्व नः ॥ [भ्प् १०.३१.८] मधुरयेति स्वरूप-माधुर्यं वल्गु-वाक्ययेत्य् अर्थ-माधुर्यं बुध- मनोज्ञयेति बुधानां तादृश-भावाभिज्ञानाम् एव मनोज्ञयेति भाव- विशेष-माधुर्यं व्यञ्जितम् ।
[290] nitya-nūtanaṃ ca yadyapy asau pārśva-gataḥ [BhP 1.11.34] ity ādau dṛṣṭam | athābhivyakta-bhāvatvam | tatra pūrva-rāge- śarad-udāśaye sādhu-jāta-sat-sarasijodare śrī-muṣā dṛṣā | surata-nātha te 'śulka-dāsikā varada nighnato neha kiṃ vadhaḥ || [BhP 10.31.2] he dṛśaiva surata-yācaka tatrāpi he kātyāyany-arcanānte vara-prada, tatrāi bhāva-viśeṣa-darśitayā dṛśā kṛtvaivāśulka-dāsikā-tulyatvaṃ prāptās tayaiva punar nighnatas tava na kiṃ vadhaḥ strī-hatyāpi na bhavati | dṛśas tādṛśatve mahā-mohana-cauratvaṃ darśayati | śarad-udāśaya ity ādi | tatra mohanatvaṃ dvividhaṃ-svarūpa-kṛtaṃ duṣkara-kriyā-kṛtaṃ ca | tad ubhayam api tat-tad-viśeṣaṇair vyaktam | tathā- madhurayā girā valgu-vākyayā budha-mano-jñayā puṣkarekṣaṇa | vidhi-karīr imā vīra muhyatīr adhara-sīdhunāpyāyayasva naḥ || [BhP 10.31.8] madhurayeti svarūpa-mādhuryaṃ valgu-vākyayety artha-mādhuryaṃ budha- manojñayeti budhānāṃ tādṛśa-bhāvābhijñānām eva manojñayeti bhāva- viśeṣa-mādhuryaṃ vyañjitam |
English translation
English witness · section(s) 254
Anuccheda 254
Sakhya-rasa is again seen in these words of srimad- Bhagavatam (10.35.18):
mani-dharah. . .pranayino 'nucarasya kadamse praksipan bhujam agayata yatra
"Now Krsna is standing somewhere counting His cows on a string of gems. He wears a garland of tulasi flowers that bear the fragrance of His beloved, and He has thrown His arm over the shoulder of an affectionate cowherd boyfriend. "
The meaning of this verse is clear. This verse was spoken by the gopis.
Prīti · Sanskrit §292 · English §255
Source[२९२] तथा- प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदि-स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ [भ्प् १०.३१.१०] संविदाः सङ्केत-नर्माणि ।
[292] tathā- prahasitaṃ priya premavīkṣaṇaṃ viharaṇaṃ ca te dhyānamaṅgalam | rahasi saṃvido yā hṛdi-spṛśaḥ kuhaka no manaḥ kṣobhayanti hi || [BhP 10.31.10] saṃvidāḥ saṅketa-narmāṇi |
English translation
English witness · section(s) 255
Anuccheda 255
When Lord Krsna enjoys pastimes as a ksatriya (at Mathura and Dvaraka), the suhrt friends are more numerous. When Lord Krsna enjoys pastimes as a gopa, the sakha friends are more numerous. For these suhrt friends Lord Krsna's pastimes as a heroic warrior and other like pastimes are prominent. For the gopa sakha freinds Lord Krsna's pastimes of joking, singing, conversing, calling the cows, playing the flute, showing artistic skill, and other like pastimes are prominent. Lord Krsna's pastimes of joking are seen in these words of srimad-Bhagavatam (10.13.11):
bibhrad venum jathara-patayoh. . . . . .tisthan madhye sva-parisuhrdo hasayan narmabhih svaih. . .
"Krsna is yajna-bhuk - that is, He eats only offerings of yajna - but to exhibit His childhood pastimes, He now sat with His flute tucked between His waist and His tight cloth on His right side and with His horn bugle and cow-driving stick on His left. Holding in His hand a very nice preparation of yogurt and rice, with pieces of suitable fruit between His fingers, He sat like the whorl of a lotus flower, looking forward toward all His friends, personally joking with them and creating jubilant laughter among them as He ate. At that time, the denizens of heaven were watching, struck with wonder at how the Personality of Godhead, who eats only in yajna, was now eating with His friends in the forest."
The meaning of this verse is clear. This verse was spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §293–294 · English §256
Source[२९३] तथा- दिन-परिक्षये नील-कुन्तलैर् वन-रुहाननं बिभ्रद् आवृतम् । घन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि ॥ [भ्प् १०.३१.१२] मुहुः पुनः पुनर् व्याजेन परावृत्येत्य् अर्थः । [२९४] तथा- पति-सुतान्वय-भार्तृ-बान्धवान् अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः । गति-विदस् तवोद्गीत-मोहिताः कितव योषितः कस् त्यजेन् निशि ॥ रहसि संविदं हृच्-छयोदयं प्रहसिताननं प्रेम-वीक्षणम् । बृहद्-उरः श्रियो वीक्ष्य धाम ते मुहुर् अतिस्पृहा मुह्यते मनः ॥ [भ्प् १०.३१.१६-१७] गति-विदस् तवोद्गीत-मोहिता इति अस्माकं मोहन-प्रकार-ज्ञानेनैव त्वं तथा वेणुना गीतवान् इत्य् अर्थः । ॥ १०.३१ ॥ श्री-गोप्यः परोक्ष-स्थितं श्री-भगवन्तम् ॥ २९२-२९४ ॥
[293] tathā- dina-parikṣaye nīla-kuntalair vana-ruhānanaṃ bibhrad āvṛtam | ghana-rajasvalaṃ darśayan muhur manasi naḥ smaraṃ vīra yacchasi || [BhP 10.31.12] muhuḥ punaḥ punar vyājena parāvṛtyety arthaḥ | [294] tathā- pati-sutānvaya-bhārtṛ-bāndhavān ativilaṅghya te 'nty acyutāgatāḥ | gati-vidas tavodgīta-mohitāḥ kitava yoṣitaḥ kas tyajen niśi || rahasi saṃvidaṃ hṛc-chayodayaṃ prahasitānanaṃ prema-vīkṣaṇam | bṛhad-uraḥ śriyo vīkṣya dhāma te muhur atispṛhā muhyate manaḥ || [BhP 10.31.16-17] gati-vidas tavodgīta-mohitā iti asmākaṃ mohana-prakāra-jñānenaiva tvaṃ tathā veṇunā gītavān ity arthaḥ | || 10.31 || śrī-gopyaḥ parokṣa-sthitaṃ śrī-bhagavantam || 292-294 ||
English translation
English witness · section(s) 256
Anuccheda 256
Some of the other pastimes Lord Krsna enjoys with the gopa sakhas are seen in these words of srimad-Bhagavatam (10.15.9-10):
evam vrndavanam srimat krsnah prita-manah pasun reme sancarayann adreh sarid-rodhahsu sanugah
"Thus expressing His satisfaction with the beautiful forest of Vrndavana and its inhabitants, Lord Krsna enjoyed tending the cows and other animals with His friends on the banks of the river Yamuna below Govardhana Hill.
kvacid gayati gayatsu madandhalisv anuvrataih upagiyamana-caritah pathi sankarsananvitah. . .
"Sometimes the honeybees in Vrndavana became so mad with ecstasy that they closed their eyes and began to sing. Lord Krsna, moving along the forest Path with His cowherd boyfriends and Baladeva, would then respond to the bees by imitating their singing while His friends sang about His pastimes. Sometimes Lord Krsna would imitate the chattering of a parrot, sometimes, with a sweet voice, the call of a cuckoo, and sometimes the cooing of swans. Sometimes He vigorously imitated the dancing of a peacock, making His cowherd boyfriends laugh."
Prīti · Sanskrit §295 · English §257
Source[२९५] एवं- गवां हिताय तुलसि गोपीनां रति-हेतवे । वृन्दावने त्वं वपिता सेविता विष्णुना स्वयम् ॥ इति स्कान्दे रेवा-खण्डीय-तुलसी-स्तव-वचनम् अपि तत्-पूर्व-रागे दर्शनीयम् । तथा सम्भोगेऽपि इति विक्लवितं तासाम् [भ्प् १०.२९.४२] इत्य् आदौ प्रहस्य इति ताभिः समेताभिर् उदार-चेष्टितः [भ्प् १०.२९.४३] इति, उदार-हास- द्विज-कुन्द-दीधिति [भ्प् १०.२९.४६] चाभिव्यक्त-भावत्वोदाहरणम् । अथ प्रेम्णा वश्यत्वं द्विविधम् । प्रेमान्तरेण प्रेयसी-प्रेम्णा च । तत्र पूर्वेण नर्मदः प्रणयिनां (पगे १२६) विजहार १०.३५.२०] इत्य् अत्र दर्शितम् । तथोत्तरेण । तत्र पूर्व-रागात्मकेन यथा - तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि [भ्प् १०.५३.२] इति । स्पष्टम् । ॥ १०.५३ ॥ श्री-भगवान् रुक्मिणी-दूतम् ॥ २९५ ॥
[295] evaṃ- gavāṃ hitāya tulasi gopīnāṃ rati-hetave | vṛndāvane tvaṃ vapitā sevitā viṣṇunā svayam || iti skānde revā-khaṇḍīya-tulasī-stava-vacanam api tat-pūrva-rāge darśanīyam | tathā sambhoge'pi iti viklavitaṃ tāsām [BhP 10.29.42] ity ādau prahasya iti tābhiḥ sametābhir udāra-ceṣṭitaḥ [BhP 10.29.43] iti, udāra-hāsa- dvija-kunda-dīdhiti [BhP 10.29.46] cābhivyakta-bhāvatvodāharaṇam | atha premṇā vaśyatvaṃ dvividham | premāntareṇa preyasī-premṇā ca | tatra pūrveṇa narmadaḥ praṇayināṃ (page 126) vijahāra 10.35.20] ity atra darśitam | tathottareṇa | tatra pūrva-rāgātmakena yathā - tathāham api tac-citto nidrāṃ ca na labhe niśi [BhP 10.53.2] iti | spaṣṭam | || 10.53 || śrī-bhagavān rukmiṇī-dūtam || 295 ||
English translation
English witness · section(s) 257
Anuccheda 257
These pastimes are also seen in these words of srimad- Bhagavatam (10.13.12-13):
megha-gambhiraya vaca namabhir dura-gan pasun kvacid ahvayati pritya go-gopala-manojnaya
"Sometimes, with a voice as deep as the rumbling of clouds, He would call out with great affection the names of the animals who had wandered far from the herd, thus enchanting the cows and the cowherd boys."
cakora-kraunca. . .
"Sometimes He would cry out in imitation of birds such as the cakoras, krauncas, cakrahvas, bharadiajas and Peacocks, and sometimes He would run away with the smaller animals in mock fear of lions and tigers."
The meaning of this verse is clear. This verse was spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §296 · English §258
Source[२९६] तथा -- भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायाम् उपाश्रितः ॥ [भ्प् १०.२९.१] योग-मायां तासाम् असङ्ख्यानाम् असङ्ख्य-वाञ्छा-पूरिकां स्व-शक्तिं स्वभावत एवाश्रित्य इत्य् अर्थः ।
[296] tathā -- bhagavān api tā rātrīḥ śaradotphullamallikāḥ | vīkṣya rantuṃ manaścakre yogamāyām upāśritaḥ || [BhP 10.29.1] yoga-māyāṃ tāsām asaṅkhyānām asaṅkhya-vāñchā-pūrikāṃ sva-śaktiṃ svabhāvata evāśritya ity arthaḥ |
English translation
English witness · section(s) 258
Anuccheda 258
These pastimes are also seen in these words of srimad- Bhagavatam (10.18.19):
tatropahuya gopalan krsnah praha vihara-vit he gopa viharisyamo dvandvi-bhuya yatha-yatham
"Krsna, who knows all sports and games, then called together the cowherd boys and spoke as follows: ``Hey cowherd boys! Let's play now! We'll divide ourselves into two even teams.''"
The meaning of this verse is clear. This verse was spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §297 · English §259
Source[२९७] सम्भोगात्मकेन यथा - इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीर् आत्मारामो ऽप्य् अरीरमत् ॥ [भ्प् १०.२९.४२] अत्र विक्लवितम् इति तासां प्रेमातिशय-ज्ञापकं सदयम् इति तस्य तत्-प्रेम- वश्यत्वातिशयाभिधायकम् । आत्मारामोऽपीति तासां प्रेम-गुण-माहात्म्य- दर्शकम् । आत्मारामाश् च मुनयः [भ्प् १.७.१०] इत्य् आदौ इत्थम्भूत-गुणो हरिः इतिवत् । ॥ १०.२९ ॥ श्री-शुकः ॥ २९६-२९७ ॥
[297] sambhogātmakena yathā - iti viklavitaṃ tāsāṃ śrutvā yogeśvareśvaraḥ | prahasya sadayaṃ gopīr ātmārāmo 'py arīramat || [BhP 10.29.42] atra viklavitam iti tāsāṃ premātiśaya-jñāpakaṃ sadayam iti tasya tat-prema- vaśyatvātiśayābhidhāyakam | ātmārāmo'pīti tāsāṃ prema-guṇa-māhātmya- darśakam | ātmārāmāś ca munayaḥ [BhP 1.7.10] ity ādau itthambhūta-guṇo hariḥ itivat | || 10.29 || śrī-śukaḥ || 296-297 ||
English translation
English witness · section(s) 259
Anuccheda 259
These pastimes are also seen in these words of srimad- Bhagavatam (10.14.47):
barha-prasuna-vana-dhatu-vicitritangah proddama-venu-dala-srnga-ravotsavadhyah. . .
"When Krsna returned home to Vrajabhumi, He was seen by all the inhabitants of Vrndavana. He was wearing a peacock feather in His helmet, which was also decorated with forest flowers. Krsna was also garlanded with flowers and painted with different colored minerals collected from the caves of Govardhana Hill. Govardhana Hill is always famous for supplying natural red dyes, and Krsna and His friends painted their bodies with them. Each of them had a bugle made of buffalo horn and a stick and a flute, and each called his respective calves by their particular names. They were so proud of Krsna's wonderful activities that, while entering the village, they all sang His glories. All the gopis in Vrndavana saw beautiful Krsna entering the village."
The meaning of this verse is clear. This verse was spoken by srila sukadeva Gosvami.