Bhakti · Sanskrit §84 · English §72
Source[८४] पृथक् पृथक् ज्ञानादि-फलेऽपि साध्ये नास्तीत्य् आह -- यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् । योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥ सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भ्प् ११.२०.३२-३३] इतरैस् तीर्थ-यात्रा-व्रतादिभिर् अपि यद् भाव्यं तत् सर्वं मद्-भक्ति-योगेन मद्-भक्तौ लभते । तत्राप्य् अञ्जसा अनायासेनैव किं तत् सर्वम् । तद् आह - स्वर्गावर्गम् इति । स्वर्गः प्रापञ्चिक-सुखं सत्त्व-शुद्ध्य्-आदि- क्रमेणापवर्गो मोक्ष-सुखं च । तद्-अतिक्रमि-सुखं च भवतीत्य् आह - मद्-धाम वैकुण्ठं चेति । कथञ्चिद् भक्त्य्-उपकरणत्वेनैव यदि वाञ्छति कश्चित्, तत्र श्री-चित्रकेत्व्-आदिवत् स्वर्ग-वाञ्छा । तस्य भक्त्य्- उपकरणत्वं चोक्तं - रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् [भ्प् ६.१७.३] इति । श्री-शुकादिवद्-अपवर्ग-वाञ्छा । तत्-प्रार्थनया गो- शृङ्गोपरि-सर्षप-स्थिति-कालं व्याप्य श्री-कृष्णेन दूरीकृतायां मायायां सत्यां मातृ-गर्भाद् बहिर्बभूव इति ब्रह्म-वैवर्त-कथा । तत्र च भक्त्य्-उपकरणत्वं ब्रह्म-भूतः प्रसन्नात्मा इत्य्-आदि-गीता-वचनात् । तथा प्राप्त-भगवत्-पार्षद-तदीय-वृन्द-विशेषवद् वैकुण्ठेच्छा । ते हि प्रेम्णा साक्षात् श्री-भगवच्-चरणारविन्द-सेवेच्छयैव तत्-प्रार्थ्यं (पगे २८) प्राप्तवन्तः । यच् च व्रजन्त्य् अनिमिषामृषभानु-वृत्त्या [भ्प् ३.१५.२५] ॥ ११.२० ॥ श्री-भगवान् ॥ ८१-८४॥
[84] pṛthak pṛthak jñānādi-phale'pi sādhye nāstīty āha -- yat karmabhir yat tapasā jñāna-vairāgyataś ca yat | yogena dāma-dharmeṇa śreyobhir itarair api || sarvaṃ mad-bhakti-yogena mad-bhakto labhate'ñjasā | svargāpavargaṃ mad-dhāma kathañcid yadi vāñchati || [BhP 11.20.32-33] itarais tīrtha-yātrā-vratādibhir api yad bhāvyaṃ tat sarvaṃ mad-bhakti-yogena mad-bhaktau labhate | tatrāpy añjasā anāyāsenaiva kiṃ tat sarvam | tad āha - svargāvargam iti | svargaḥ prāpañcika-sukhaṃ sattva-śuddhy-ādi- krameṇāpavargo mokṣa-sukhaṃ ca | tad-atikrami-sukhaṃ ca bhavatīty āha - mad-dhāma vaikuṇṭhaṃ ceti | kathañcid bhakty-upakaraṇatvenaiva yadi vāñchati kaścit, tatra śrī-citraketv-ādivat svarga-vāñchā | tasya bhakty- upakaraṇatvaṃ coktaṃ - reme vidyādhara-strībhir gāpayan harim īśvaram [BhP 6.17.3] iti | śrī-śukādivad-apavarga-vāñchā | tat-prārthanayā go- śṛṅgopari-sarṣapa-sthiti-kālaṃ vyāpya śrī-kṛṣṇena dūrīkṛtāyāṃ māyāyāṃ satyāṃ mātṛ-garbhād bahirbabhūva iti brahma-vaivarta-kathā | tatra ca bhakty-upakaraṇatvaṃ brahma-bhūtaḥ prasannātmā ity-ādi-gītā-vacanāt | tathā prāpta-bhagavat-pārṣada-tadīya-vṛnda-viśeṣavad vaikuṇṭhecchā | te hi premṇā sākṣāt śrī-bhagavac-caraṇāravinda-sevecchayaiva tat-prārthyaṃ (page 28) prāptavantaḥ | yac ca vrajanty animiṣāmṛṣabhānu-vṛttyā [BhP 3.15.25] || 11.20 || śrī-bhagavān || 81-84||
English translation
English witness · section(s) 72
Anuccheda 72
1 Then the Lord says (Srimad Bhagavatam 11.11.23-24): "My dear Uddhava, narrations of My pastimes and qualities are all-auspicious and purify the entire universe. A faithful person who constantly hears, glorifies and remembers such transcendental activities, who through dramatic performances relives My pastimes, beginning with My appearance, and who takes full shelter of Me, dedicating his religious, sensual and occupational activities for My satisfaction, certainly obtains unflinching devotional service to Me, the eternal Personality of Godhead."*** 2 Srila Sridhara Svami comments: "In this verse the Lord describes confidential devotional service, which is eventually attained by offering fruits of one's work to the Lord, and which is performed by a person in pure goodness." 3 Here the word "abhinayan" means "the devotees portray the Lord's birth and pastimes in theatrical performances". Here "dharma" means "pious activities, such as giving cows in charity", and "mad-arthe" means "when these pious activities are performed to celebrate great festivals in honour of My birthday and other days sacred to Me." "Kama" means "the desire to live in a great palace and other desires like that", and "mad-arthe" means "when that desire is fulfilled by living in My temple in order to serve Me". "Artha" means "great wealth in My service". "Mad-apasrayah" means "in one's heart taking shelter of Me and no one else". "Labhate niscalam bhaktim mayi" means "he attains eternally unwavering devotional service to Me, service that consists of many activities beginning with hearing about Me". By tasting the happiness of devotional service one treats impersonal liberation and other things with contempt. The object of the devotees' service is eternal and never changes or ceases to exist. For this reason the Lord says He is "sanatane" (eternal).
Bhakti · Sanskrit §85 · English §73
Source[८५] अन्ते च - एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् । यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ [भ्प् ११.२९.२२] टीका च - अतो मद्-भजनम् एव बुद्धेर् विवेकस्य मनीषायाश् चातुर्यस्य च फलम् इत्य् आह एषेति । ताम् एव दर्शयति सत्यम् अमृतं च मा माम् अनृतेनासत्येन मर्त्येन विनाशिना मनुष्य-देहेन इह अस्मिन्न् एव जन्मनि प्राप्नोतीति यत् सैव बुद्धिर् मनीषा चेति । बुद्धिर् विवेको मनीषा चातुर्यम् इत्य् एषा । पूर्वं भक्ति-प्रकरणस्य गतत्वाद् इत्य् अतो हेतूपन्यासः कृतः - हरिश्चन्द्रो रन्तिदेव उञ्छ-वृत्तिः शिविर् बलिः । व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः ॥ [भ्प् १०.७२.१९] इति । ॥ ११.२९ ॥ ८५ ॥
[85] ante ca - eṣā buddhimatāṃ buddhir manīṣā ca manīṣiṇām | yat satyam anṛteneha martyenāpnoti māmṛtam || [BhP 11.29.22] ṭīkā ca - ato mad-bhajanam eva buddher vivekasya manīṣāyāś cāturyasya ca phalam ity āha eṣeti | tām eva darśayati satyam amṛtaṃ ca mā mām anṛtenāsatyena martyena vināśinā manuṣya-dehena iha asminn eva janmani prāpnotīti yat saiva buddhir manīṣā ceti | buddhir viveko manīṣā cāturyam ity eṣā | pūrvaṃ bhakti-prakaraṇasya gatatvād ity ato hetūpanyāsaḥ kṛtaḥ - hariścandro rantideva uñcha-vṛttiḥ śivir baliḥ | vyādhaḥ kapoto bahavo hy adhruveṇa dhruvaṃ gatāḥ || [BhP 10.72.19] iti | || 11.29 || 85 ||
English translation
English witness · section(s) 73
Anuccheda 73
1 Fearing that someone may ask, "What does one do on the path of devotional service?' or "How does one attain faith in the path of devotional service?" the Lord tells what and how in these words (Srimad Bhagavatam 11.11.25): 2 "One who has obtained pure devotional service by association with My devotees always engages in worshipping Me."* 3 Here "bhaktya" means "with attraction to devotional service", "sah" means "the devotee" and "mam upasita" means "worships Me". The Lord says, "In this way the devotee easily attains knowledge of the spiritual form of Me, the Supreme Personality of Godhead."
Bhakti · Sanskrit §86–91 · English §74
Source[८६] श्री-शुकोपदेशोपसंहारे च श्रवणम् उपलक्ष्य - संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर् नान्यः प्लवो भगवतः पुरुषोत्तमस्य । लीला-कथा-रस-निषेवणम् अन्तरेण पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ [भ्प् १२.४.४०] टीका च - अन्यः प्लव उत्तरण-साधनं न भवेद् उपायान्तराभावाद् इत्य् एषा । अन्यासाम् अपि भक्तीनां तत्-पूर्वकत्वेनैव प्रवृत्तेर् उपायान्तरासम्भवत्वम् उक्तम् । एतद्-अनन्तराध्यायश् च तादृशोपक्रमोपसंहार-मय एव । अत्रानुगीयतेऽभीक्ष्णं भगवान् हरिर् ईश्वरः । यस्य प्रसादजो ब्रह्मा रुद्रः क्रोध-समुद्भवः ॥ [भ्प् १२.५.१] इत्य् उपक्रम्य, एतत् कथितं तात यद् आत्मा पृष्टवान् नृपः [भ्प् १.१९.५] हरेर् विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि [भ्प् १२.५.१४] इत्य् उपसंहारेऽपि । तादृश-महिमत्वेन पूर्वोक्त-लीला-कथा-श्रवणस्यैव प्राधान्यात् अत उपक्रमोपसंहार-निर्दिष्टत्वात् श्रवणोपलक्षित-भक्तेर् एवात्रापि प्राधान्यम् । यस् तु तन्-मध्ये त्वं तु राजन् मरिष्यति [भ्प् १२.५.२] इत्य् आदिना ज्ञानोपदेशः स च तस्य या प्राग् अवगता भक्ति-निष्ठाया एव स्वयं दर्शयिष्यमाणत्वात् । तत्र प्राचीना तन्-निष्ठा यथा प्रथमे कृष्णाङ्घ्रि-सेवाम् अधिमन्यमानः [भ्प् १.१९.५] इति । दध्यौ मुकुन्दाङ्घ्रिम् अनन्य-भावः [भ्प् १.१९.७] इत्य् आदि तन्-निष्ठतैव । तद्- भय-परित्यागो यथा तद्-वाक्ये - (पगे २९) द्विजोपसृष्टः कुहकस् तक्षको वा दशत्व् अलं गायत विष्णु-गाथाः ॥ [भ्प् १.१९.१५] इति । तज्-ज्ञानोपदेशम् अबहु मत्वा श्रवण-लक्षणया भक्त्यैव स्व- कृतार्थत्वम् उक्तम् । सिद्धोऽस्म्य् अनुगृहीतोऽस्मि भवता करुणात्मना । श्रावितो यच् च मे साक्षाद् अनादि-निधनो हरिः ॥ नात्यद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् । अज्ञेषु ताप-तप्तेषु भूतेषु यद्-अनुग्रहः ॥ पुराण-संहिताम् एताम् अश्रौष्म भवतो वयम् । यस्यां खलूत्तमःश्लोको भगवान् अनुवर्ण्यते ॥ [भ्प् १२.६.२-४] इति । पुनश् चैकेन पद्येन तद्-वाक्य-गौरव-मात्रेणाङ्गीकृतस्य ब्रह्म- ज्ञानस्य तक्षकादि-भय-निवृत्ति-हेतुत्वम् उक्त्वाप्य् अन्येन तद्-ऊर्ध्वम् अधोक्षज एव वाक्-चेतसोस् तन्-नाम-कीर्तन-ध्यानावेशानुज्ञा प्रार्थिता । भगवंस् तक्षकादिभ्यो मृत्युं यो न बिभेम्य् अहम् । प्रविष्टो भ्रम-निर्वाणम् अभयं दर्शितं त्वया ॥ अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे । मुक्त-कामाशयं चेतः प्रवेश्य विसृजाम्य् असून् ॥ [भ्प् १२.६.५-६] इति । अथ पुनर् अन्येन पद्येनाज्ञान-निरासक-ज्ञान-विज्ञान-सिद्धिश् च भगवत्- पदारविन्द-दर्शनानन्दान्तर्भूतैव मम स्फुरतीति विज्ञापितम् । यथा - अज्ञानं च निरस्तं मे ज्ञा-विज्ञान-निष्ठया । भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ [भ्प् १२.६.७] इति । अत्र पद-शब्दस्य चरणारविन्दाभिधायकत्वे ज्ञानेन वैयासकि-शब्दितेन भेजे खगेन्द्र-ध्वज-पाद-मूलम् [भ्प् १.१८.१६] इत्य् एवास्ति प्रथमे साधकम् । तद् एतत् प्रकरणार्थस् तत्र श्री-सूतेनैव स्पष्टीकृतः । ब्रह्म-कोपोत्थिताद् यस् तु तक्षकात् प्राण-विप्लवात् । न सम्मुमोहोरु-भयाद् भगवत्य् अर्पिताशयः ॥ [भ्प् १.१८.२] नोत्तमश्लोक-वार्तानां जुषतां तत्-कथामृतम् । स्यात् सम्भ्रमोऽन्त-कालेऽपि स्मरतां तत्-पदाम्बुजम् ॥ [भ्प् १.१८.४] इति । तथा पूर्वं द्वादशस्यैव तृतीये प्रथम-स्कन्धान्तःस्थस्य - अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा ॥ [भ्प् १.१९.३४] इत्य् अस्य राज-प्रश्नस्योत्तरत्वेन भगवद्-ध्यान-कीर्तने एव स्वयं श्री- शुकदेवेनाप्य् उपदिष्टे -- तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्य् अवहितस् ततो याति परां गतिम् ॥ म्रियमाणैर् अभिध्येयो भगवान् परमेश्वरः । आत्म-भावं नयत्य् अङ्ग सर्वात्मा सर्व-सम्भवः ॥ कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् ॥ [भ्प् १२.३.४८-५०] इत्य् आदिना ततस् तत्र केशव अवहितः कृतावधान आत्म-भावम् आत्मनो भक्तिम् । अस्तु तावद् आयास-(पगे ३०) साध्यं ज्ञानम् । हि यस्माद् अनायास- साध्यात् कीर्तनाद् एवेत्य् अर्थः । द्वितीय-स्कन्धेऽपि न ह्य् अतोऽन्यः शिवः पन्था [भ्प् २.२.३३] इत्य् आदिना एवम् एतन् निगदितम् [भ्प् २.३.१] इत्य् अन्तेन ग्रन्थेन नानाङ्गवान् शुद्ध-भक्ति-योग एव तत्रोत्तरत्वेन पर्यवसितः । तत्रापि पिबन्ति ये भगवतः [भ्प् २.२.३७] इत्य् आदिना लीला-कथा-श्रवण एव परम-पर्यवसानं दृश्यते । तस्मात् साधूक्तं त्वं तु राजन् मरिष्येति इत्य् आदिकं तद्-भक्ति-निष्ठा-प्रकटनार्थम् एवेति । यथो भक्ताव् एव तद्- उपदेशस्य तात्पर्यम् । अतएव द्वितीयस्याष्टमे राज-प्रार्थना च नान्यथा स्यात् । कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् [भ्प् २.८.२] इत्य् आदि । ॥ १२.४ ॥ श्री-शुकः ॥ ८६ ॥ [८७-९१] श्री-सूतोपदेशान्तेऽपि पञ्चभिः - नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् । कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भ्प् १२.१२.५२] टीका च - इदानीं ज्ञान-कर्मादराद् अपि भगवत्-कीर्तनादिष्व् एवादरः कर्तव्य इत्य् आह नैष्कर्म्यं तत्-प्रकाशकं यज् ज्ञानं यतो निरञ्जनम् उपाधि-निवर्तकं, तद् अपि अच्युत-भक्ति-वर्जितं चेन् न शोभते नापरोक्ष- पर्यन्तं भवतीत्य् अर्थ इत्य् आदिका । यशः-श्रियाम् एव परिश्रमः परो वर्णाश्रमाचार-तपः-श्रुतादिषु । अविस्मृतिः श्रीधर-पाद-पद्मयोर् गुणानुवाद-श्रवणादिभिर् हरेः ॥ [भ्प् १२.१२.५३] टीका च -किं च वर्णाश्रमाचारादिषु यः परो महान् परिश्रमः स यशो- युक्तायां श्रियाम् एव कीर्तो सम्पदि वा केवलं न परम-पुरुषार्थः । गुणानुवादादिभिस् तु श्रीधर-पाद-पद्मयोर् अविस्मृतिर् भवति इत्य् एषा । तथा -- अविस्मृतिः कृष्ण-पदारविन्दयोः क्षिणोत्य् अभद्राणि च शं तनोति च । सत्त्वस्य शुद्धिं परमां च भक्तिं ज्ञानं च विज्ञान-विराग-युक्तम् ॥ [भ्प् १२.१२.५४] स्पष्टम् । तथा - यूयं द्विजाग्र्या बत भूरि-भागा यच्-छश्वद्-आत्मन्य्-अखिलात्म-भूतम् । नारायणं देवम् अदेवम् ईशम् अजस्र-भावा भजताविवेश्य ॥ [भ्प् १२.१२.५५] टीका च - तद् एवं श्रोतॄण् आत्मानं चाभिनन्दयन्न् आह । तथा यूयम् इति द्वाभ्याम् । त्था हि द्व्जाग्र्या यद् यस्माद् आत्मन्य् अन्तःकरणे श्री- नारायणम् आविवेश्य शश्वद् भजत । सम्भावनायां लोट् । अतो भूरि-भागा बहु-पुण्यवन्तः कथम्भूतम् अखिलात्म-भूतं सर्वानर्यामिणम् अत एव देवं सर्वोपास्यम् । अदेवं न देवोऽन्यो यस्य तम् । कुत ईशम् । यद् वा यस्माद् यूयं भूरि-भागास् तप आदिना सम्पन्नास् ततो नारायणं भजतेति विधिः इत्य् एषा । (पगे ३१) अत्र तप-आदि-सम्पत्तेः सार्थकत्वं नारायण-भजनेन भवतीति स्वाम्य्- अभिप्रायः । तथा - अहं च संसारित आत्म-तत्त्वं श्रुतं पुराणे परमर्षि-वक्त्रात् । प्रायोपवेशे नृपतेः परीक्षितः सदस्य् ऋषीणां महतां च शृण्वताम् ॥ [भ्प् १२.१२.५६] एतत्-प्रसङ्गेनाहं चात्म-तत्त्वम् अखिलात्म-भूतं नारायणं स्मारितः । तं प्रति परमोत्कण्ठितीकृतोऽस्मीत्य् अर्थः । यद् आत्म-तत्त्वं मे मया महर्षि-वक्त्राच् छ्रुतम् ॥ ॥ १२.१२ ॥ श्री-सूतः ॥ ८७-९१ ॥
[86] śrī-śukopadeśopasaṃhāre ca śravaṇam upalakṣya - saṃsāra-sindhum atidustaram uttitīrṣor nānyaḥ plavo bhagavataḥ puruṣottamasya | līlā-kathā-rasa-niṣevaṇam antareṇa puṃso bhaved vividha-duḥkha-davārditasya || [BhP 12.4.40] ṭīkā ca - anyaḥ plava uttaraṇa-sādhanaṃ na bhaved upāyāntarābhāvād ity eṣā | anyāsām api bhaktīnāṃ tat-pūrvakatvenaiva pravṛtter upāyāntarāsambhavatvam uktam | etad-anantarādhyāyaś ca tādṛśopakramopasaṃhāra-maya eva | atrānugīyate'bhīkṣṇaṃ bhagavān harir īśvaraḥ | yasya prasādajo brahmā rudraḥ krodha-samudbhavaḥ || [BhP 12.5.1] ity upakramya, etat kathitaṃ tāta yad ātmā pṛṣṭavān nṛpaḥ [BhP 1.19.5] harer viśvātmanaś ceṣṭāṃ kiṃ bhūyaḥ śrotum icchasi [BhP 12.5.14] ity upasaṃhāre'pi | tādṛśa-mahimatvena pūrvokta-līlā-kathā-śravaṇasyaiva prādhānyāt ata upakramopasaṃhāra-nirdiṣṭatvāt śravaṇopalakṣita-bhakter evātrāpi prādhānyam | yas tu tan-madhye tvaṃ tu rājan mariṣyati [BhP 12.5.2] ity ādinā jñānopadeśaḥ sa ca tasya yā prāg avagatā bhakti-niṣṭhāyā eva svayaṃ darśayiṣyamāṇatvāt | tatra prācīnā tan-niṣṭhā yathā prathame kṛṣṇāṅghri-sevām adhimanyamānaḥ [BhP 1.19.5] iti | dadhyau mukundāṅghrim ananya-bhāvaḥ [BhP 1.19.7] ity ādi tan-niṣṭhataiva | tad- bhaya-parityāgo yathā tad-vākye - (page 29) dvijopasṛṣṭaḥ kuhakas takṣako vā daśatv alaṃ gāyata viṣṇu-gāthāḥ || [BhP 1.19.15] iti | taj-jñānopadeśam abahu matvā śravaṇa-lakṣaṇayā bhaktyaiva sva- kṛtārthatvam uktam | siddho'smy anugṛhīto'smi bhavatā karuṇātmanā | śrāvito yac ca me sākṣād anādi-nidhano hariḥ || nātyadbhutam ahaṃ manye mahatām acyutātmanām | ajñeṣu tāpa-tapteṣu bhūteṣu yad-anugrahaḥ || purāṇa-saṃhitām etām aśrauṣma bhavato vayam | yasyāṃ khalūttamaḥśloko bhagavān anuvarṇyate || [BhP 12.6.2-4] iti | punaś caikena padyena tad-vākya-gaurava-mātreṇāṅgīkṛtasya brahma- jñānasya takṣakādi-bhaya-nivṛtti-hetutvam uktvāpy anyena tad-ūrdhvam adhokṣaja eva vāk-cetasos tan-nāma-kīrtana-dhyānāveśānujñā prārthitā | bhagavaṃs takṣakādibhyo mṛtyuṃ yo na bibhemy aham | praviṣṭo bhrama-nirvāṇam abhayaṃ darśitaṃ tvayā || anujānīhi māṃ brahman vācaṃ yacchāmy adhokṣaje | mukta-kāmāśayaṃ cetaḥ praveśya visṛjāmy asūn || [BhP 12.6.5-6] iti | atha punar anyena padyenājñāna-nirāsaka-jñāna-vijñāna-siddhiś ca bhagavat- padāravinda-darśanānandāntarbhūtaiva mama sphuratīti vijñāpitam | yathā - ajñānaṃ ca nirastaṃ me jñā-vijñāna-niṣṭhayā | bhavatā darśitaṃ kṣemaṃ paraṃ bhagavataḥ padam || [BhP 12.6.7] iti | atra pada-śabdasya caraṇāravindābhidhāyakatve jñānena vaiyāsaki-śabditena bheje khagendra-dhvaja-pāda-mūlam [BhP 1.18.16] ity evāsti prathame sādhakam | tad etat prakaraṇārthas tatra śrī-sūtenaiva spaṣṭīkṛtaḥ | brahma-kopotthitād yas tu takṣakāt prāṇa-viplavāt | na sammumohoru-bhayād bhagavaty arpitāśayaḥ || [BhP 1.18.2] nottamaśloka-vārtānāṃ juṣatāṃ tat-kathāmṛtam | syāt sambhramo'nta-kāle'pi smaratāṃ tat-padāmbujam || [BhP 1.18.4] iti | tathā pūrvaṃ dvādaśasyaiva tṛtīye prathama-skandhāntaḥsthasya - ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum | puruṣasyeha yat kāryaṃ mriyamāṇasya sarvathā || [BhP 1.19.34] ity asya rāja-praśnasyottaratvena bhagavad-dhyāna-kīrtane eva svayaṃ śrī- śukadevenāpy upadiṣṭe -- tasmāt sarvātmanā rājan hṛdisthaṃ kuru keśavam | mriyamāṇo hy avahitas tato yāti parāṃ gatim || mriyamāṇair abhidhyeyo bhagavān parameśvaraḥ | ātma-bhāvaṃ nayaty aṅga sarvātmā sarva-sambhavaḥ || kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ kīrtanād eva kṛṣṇasya mukta-saṅgaḥ paraṃ vrajet || [BhP 12.3.48-50] ity ādinā tatas tatra keśava avahitaḥ kṛtāvadhāna ātma-bhāvam ātmano bhaktim | astu tāvad āyāsa-(page 30) sādhyaṃ jñānam | hi yasmād anāyāsa- sādhyāt kīrtanād evety arthaḥ | dvitīya-skandhe'pi na hy ato'nyaḥ śivaḥ panthā [BhP 2.2.33] ity ādinā evam etan nigaditam [BhP 2.3.1] ity antena granthena nānāṅgavān śuddha-bhakti-yoga eva tatrottaratvena paryavasitaḥ | tatrāpi pibanti ye bhagavataḥ [BhP 2.2.37] ity ādinā līlā-kathā-śravaṇa eva parama-paryavasānaṃ dṛśyate | tasmāt sādhūktaṃ tvaṃ tu rājan mariṣyeti ity ādikaṃ tad-bhakti-niṣṭhā-prakaṭanārtham eveti | yatho bhaktāv eva tad- upadeśasya tātparyam | ataeva dvitīyasyāṣṭame rāja-prārthanā ca nānyathā syāt | kṛṣṇe niveśya niḥsaṅgaṃ manas tyakṣye kalevaram [BhP 2.8.2] ity ādi | || 12.4 || śrī-śukaḥ || 86 || [87-91] śrī-sūtopadeśānte'pi pañcabhiḥ - naiṣkarmyam apy acyuta-bhāva-varjitaṃ na śobhate jñānam alaṃ nirañjanam | kutaḥ punaḥ śaśvad abhadram īśvare na cārpitaṃ karma yad apy akāraṇam || [BhP 12.12.52] ṭīkā ca - idānīṃ jñāna-karmādarād api bhagavat-kīrtanādiṣv evādaraḥ kartavya ity āha naiṣkarmyaṃ tat-prakāśakaṃ yaj jñānaṃ yato nirañjanam upādhi-nivartakaṃ, tad api acyuta-bhakti-varjitaṃ cen na śobhate nāparokṣa- paryantaṃ bhavatīty artha ity ādikā | yaśaḥ-śriyām eva pariśramaḥ paro varṇāśramācāra-tapaḥ-śrutādiṣu | avismṛtiḥ śrīdhara-pāda-padmayor guṇānuvāda-śravaṇādibhir hareḥ || [BhP 12.12.53] ṭīkā ca -kiṃ ca varṇāśramācārādiṣu yaḥ paro mahān pariśramaḥ sa yaśo- yuktāyāṃ śriyām eva kīrto sampadi vā kevalaṃ na parama-puruṣārthaḥ | guṇānuvādādibhis tu śrīdhara-pāda-padmayor avismṛtir bhavati ity eṣā | tathā -- avismṛtiḥ kṛṣṇa-padāravindayoḥ kṣiṇoty abhadrāṇi ca śaṃ tanoti ca | sattvasya śuddhiṃ paramāṃ ca bhaktiṃ jñānaṃ ca vijñāna-virāga-yuktam || [BhP 12.12.54] spaṣṭam | tathā - yūyaṃ dvijāgryā bata bhūri-bhāgā yac-chaśvad-ātmany-akhilātma-bhūtam | nārāyaṇaṃ devam adevam īśam ajasra-bhāvā bhajatāviveśya || [BhP 12.12.55] ṭīkā ca - tad evaṃ śrotṝṇ ātmānaṃ cābhinandayann āha | tathā yūyam iti dvābhyām | tthā hi dvjāgryā yad yasmād ātmany antaḥkaraṇe śrī- nārāyaṇam āviveśya śaśvad bhajata | sambhāvanāyāṃ loṭ | ato bhūri-bhāgā bahu-puṇyavantaḥ kathambhūtam akhilātma-bhūtaṃ sarvānaryāmiṇam ata eva devaṃ sarvopāsyam | adevaṃ na devo'nyo yasya tam | kuta īśam | yad vā yasmād yūyaṃ bhūri-bhāgās tapa ādinā sampannās tato nārāyaṇaṃ bhajateti vidhiḥ ity eṣā | (page 31) atra tapa-ādi-sampatteḥ sārthakatvaṃ nārāyaṇa-bhajanena bhavatīti svāmy- abhiprāyaḥ | tathā - ahaṃ ca saṃsārita ātma-tattvaṃ śrutaṃ purāṇe paramarṣi-vaktrāt | prāyopaveśe nṛpateḥ parīkṣitaḥ sadasy ṛṣīṇāṃ mahatāṃ ca śṛṇvatām || [BhP 12.12.56] etat-prasaṅgenāhaṃ cātma-tattvam akhilātma-bhūtaṃ nārāyaṇaṃ smāritaḥ | taṃ prati paramotkaṇṭhitīkṛto'smīty arthaḥ | yad ātma-tattvaṃ me mayā maharṣi-vaktrāc chrutam || || 12.12 || śrī-sūtaḥ || 87-91 ||
English translation
English witness · section(s) 74
Anuccheda 74
1 Then the Lord says (Srimad Bhagavatam 11.11.25): "Thus he very easily goes to My abode, which is revealed by My pure devotees."* 2 Here "anjasa" (very easily) means "by engaging in devotional service" and "padam" means "My abode". This verse was spoken by the Supreme Personality of Godhead.
Bhakti · Sanskrit §92 · English §75
Source[९२] तद् एवम् अस्मिन् श्रीमति महा-पुराणे गुरु-शिष्य-भावेन प्रवृत्तानाम् उपदेश-शिक्षा-वाक्येषु हक्तेर् एवाभिधेयत्वं साधितम् । तथा - तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् । अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥ [भ्प् १.१६.६] इत्य् अनुसारेण सर्वेषाम् इतिहासानाम् अपि तन्-मात्र-तात्पर्यत्वं ज्ञेयम् । विस्तर-भिया तु न विव्रियते । अन्यत्र च तद् एव दृश्यते । तत्रान्वयेन यथा - एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥ [भ्प् ६.३.२२] पुंसां जीव-मात्राणां परः धर्मः सार्वभौमो धर्म एतावान् एव स्मृतो नैतद् अधिकः । एतावत् त्वम् एवाह - तन्-नाम-ग्रहणादिभिर् यो भक्ति-योगः साक्षाद् भक्तिर् इति । एव-कारेणान्य-व्यावृत्तत्वं स्पष्टयति भवतीति । नाम-ग्रहणादीन्य् अपि यदि कर्मादौ तत्-साद्गुण्याद्य्-अर्थं प्रयुज्यन्ते । तदा तस्य परत्वं नास्ति । तुच्छ-फलार्थ-प्रयोज्यत्वेन तद्- अपराधाद् इत्य् अर्थः । तथैव क्षयिष्णु-फल-दातृत्वं च भवतीति भावः । ॥ ६.३ ॥ श्री-यमः स्व-भटान् ॥ ९२ ॥
[92] tad evam asmin śrīmati mahā-purāṇe guru-śiṣya-bhāvena pravṛttānām upadeśa-śikṣā-vākyeṣu hakter evābhidheyatvaṃ sādhitam | tathā - tat kathyatāṃ mahā-bhāga yadi kṛṣṇa-kathāśrayam | athavāsya padāmbhoja- makaranda-lihāṃ satām || [BhP 1.16.6] ity anusāreṇa sarveṣām itihāsānām api tan-mātra-tātparyatvaṃ jñeyam | vistara-bhiyā tu na vivriyate | anyatra ca tad eva dṛśyate | tatrānvayena yathā - etāvān eva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ | bhakti-yogo bhagavati tan-nāma-grahaṇādibhiḥ || [BhP 6.3.22] puṃsāṃ jīva-mātrāṇāṃ paraḥ dharmaḥ sārvabhaumo dharma etāvān eva smṛto naitad adhikaḥ | etāvat tvam evāha - tan-nāma-grahaṇādibhir yo bhakti-yogaḥ sākṣād bhaktir iti | eva-kāreṇānya-vyāvṛttatvaṃ spaṣṭayati bhavatīti | nāma-grahaṇādīny api yadi karmādau tat-sādguṇyādy-arthaṃ prayujyante | tadā tasya paratvaṃ nāsti | tuccha-phalārtha-prayojyatvena tad- aparādhād ity arthaḥ | tathaiva kṣayiṣṇu-phala-dātṛtvaṃ ca bhavatīti bhāvaḥ | || 6.3 || śrī-yamaḥ sva-bhaṭān || 92 ||
English translation
English witness · section(s) 75
Anuccheda 75
1 The path of devotional service is most perfect, important, and ancient because it is personally taught by the Lord. Other paths, being taught by various conditioned souls according to their own speculations, are insignificant by comparison and relatively modern. This is confirmed by Uddhava (Srimad Bhagavatam 11.14.1-2): 2 "My dear Krsna, the learned sages who explain Vedic literature recommend various processes for perfecting one's life. Considering the varieties of viewpoint, my Lord, please tell me whether all these processes are equally important, or whether one of them is supreme.*** 3 "My dear Lord, You have clearly explained the process of unalloyed devotional service, by which a devotee removes all material association from his life, enable him to fix his mind on You."*** 4 Srila Sridhara Svami comments: "Here the word 'sreyamsi' means 'the means for attaining the best thing'. Here he asks 'Are all these processes important, or is one of them supreme?' To establish that one of them actually is supreme, he speaks the second of these two verses. Here he says, 'The other paths are not spoken directly by You (the Lord), but the path of devotional service is directly spoken by You. Others claim that their methods are the best ways to attain perfection. How can they all be the best ways to attain it? How can they all give the same result? One of them must be the best.'"
Bhakti · Sanskrit §93 · English §76–77
Source[९३] तथा च -- सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमोऽकुतो-भयः । सुशीलाः साधवो यत्र नारायण-परायणाः ॥ [भ्प् ६.१०.१७] अयं पन्थाः श्री-नारायण-भक्ति-मार्गः ॥ ॥ ६.१ ॥ श्री-शुकः ॥ ९३ ॥
[93] tathā ca -- sadhrīcīno hy ayaṃ loke panthāḥ kṣemo'kuto-bhayaḥ | suśīlāḥ sādhavo yatra nārāyaṇa-parāyaṇāḥ || [BhP 6.10.17] ayaṃ panthāḥ śrī-nārāyaṇa-bhakti-mārgaḥ || || 6.1 || śrī-śukaḥ || 93 ||
English translation
English witness · section(s) 76–77
Anuccheda 76
1 The Supreme Personality of Godhead answered (Srimad Bhagavatam 11.14.3): "By the influence of time, the transcendental sound of Vedic knowledge was lost at the time of annihilation. Therefore, when the subsequent creation took place, I spoke the Vedic knowledge to Brahma because I Myself am the religious principles enunciated in the Vedas."*** 2 Srila Sridhara Svami comments: Because it brings the best result devotional service is the best. The other paths, each according to its own nature, bring results insubstantial as flowers imagined to float in the sky, although the followers think their path is the best. To distinguish between these different paths and to establish the actual message of the Vedas, the Lord speaks these seven verses (Srimad Bhagavatam 11.14.3-9). Here the word "mad-atmakah" means "he who fixes his thoughts on Me." "Mad-atmakah" may also mean "manifested from My transcendental form". The Lord's form is free from the modes of material nature. This will be proved later in this book.
Anuccheda 77
1 Next the Lord gives the reason the followers of these different patha each claim their path is the best (Srimad Bhagavatam 11.14.9): 2 "O best among men, the intelligence of human beings is bewildered by My illusory potency, and thus, according to their own activities and whims, they speak in innumerable ways about what is actually good for people."*** 3 This verse means that according to their own natures their intelligence is bewildered by My illusory potency (man-maya-mohita-dhiyah). In this way they proclaim many different things (anekantam) to be the goal of life (sreyah) and the way to attain the goal of life.
Bhakti · Sanskrit §94 · English §78
Source[९४] तत्रैवान्वयेन सर्व-शास्त्र-फलत्वं स-कैमुत्यम् आह - श्रुतस्य पुंसां सुचिर-श्रमस्य नन्व् अञ्जसा सूरिभिर् ईडितोऽर्थः । तत्-तद्-गुणानुश्रवणं मुकुन्द- पादारविन्दं हृदयेषु येषाम् ॥ [भ्प् ३.१३.४] (पगे ३२) पुंसां श्रुतस्य वेदार्थावगतेर् अयम् एवार्थः प्रयोजनम् ईडितः श्लाघितः । कोऽसौ ? मुकुन्दस्य पादारविन्दं येषां हृदयेषु वर्तते तेषां तद्-गुणानां भगवद्-भक्त्य्-आत्मकानाम् अनुस्मरणं तत् सोऽयम् इति । ततः सुतराम् एव श्री-मुकुन्दस्येत्य् अर्थः । एवम् एवोक्तं वासुदेव-परा वेदाः [भ्प् २.२.२८] इत्य् आदि । भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया । तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् ॥ [भ्प् २.२.३४] तथा च पाद्मे बृहत्-सहस्र-नाम्नि - स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥ स्कान्दे प्रभास-खण्डे, लिङ्ग-पुराणे च - आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः । इदम् एव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ [लिप् २.७.११] अत एव वेदाद्य्-अर्पण-मन्त्र इति - विद्या-तपो-ध्यान-योनिर् अयोनिर् विष्णुर् ईडितः । ब्रह्म-यज्ञस् ततो देवः प्रीयतां मे जनार्दनः ॥ ॥ ३.१३ ॥ श्री-विदुरः ॥९४॥
[94] tatraivānvayena sarva-śāstra-phalatvaṃ sa-kaimutyam āha - śrutasya puṃsāṃ sucira-śramasya nanv añjasā sūribhir īḍito'rthaḥ | tat-tad-guṇānuśravaṇaṃ mukunda- pādāravindaṃ hṛdayeṣu yeṣām || [BhP 3.13.4] (page 32) puṃsāṃ śrutasya vedārthāvagater ayam evārthaḥ prayojanam īḍitaḥ ślāghitaḥ | ko'sau ? mukundasya pādāravindaṃ yeṣāṃ hṛdayeṣu vartate teṣāṃ tad-guṇānāṃ bhagavad-bhakty-ātmakānām anusmaraṇaṃ tat so'yam iti | tataḥ sutarām eva śrī-mukundasyety arthaḥ | evam evoktaṃ vāsudeva-parā vedāḥ [BhP 2.2.28] ity ādi | bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā | tad adhyavasyat kūṭa-stho ratir ātman yato bhavet || [BhP 2.2.34] tathā ca pādme bṛhat-sahasra-nāmni - smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit | sarve vidhi-niṣedhāḥ syur etayor eva kiṅkarāḥ || skānde prabhāsa-khaṇḍe, liṅga-purāṇe ca - āloḍya sarva-śāstrāṇi vicārya ca punaḥ punaḥ | idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā || [LiP 2.7.11] ata eva vedādy-arpaṇa-mantra iti - vidyā-tapo-dhyāna-yonir ayonir viṣṇur īḍitaḥ | brahma-yajñas tato devaḥ prīyatāṃ me janārdanaḥ || || 3.13 || śrī-viduraḥ ||94||
English translation
English witness · section(s) 78
Anuccheda 78
Then the Lord says (Srimad Bhagavatam 11.14.20): "My dear Uddhava, neither through astanga-yoga (the mystic yoga-system to control the senses), nor through impersonal monism or an analytical study of the Absolute Truth, nor through study of the Vedas, nor through practice of austerities, nor through charity, nor through acceptance of sannyasa can one satisfy Me as much as one can by developing unalloyed devotional service unto Me."*
Bhakti · Sanskrit §95 · English §79
Source[९५] यतो यश् च शास्त्रे वर्णाश्रमाचारो विधीयते तस्याप्य् अनुपम-चरितं फलं भक्तिर् एव । यथा - दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः । श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ [भ्प् १०.४७.२१] दानादिभिः श्री-कृष्ण-सन्तोषार्थेर् इति ज्ञेयम् । तज् जन्म तानि कर्माणि तद्- आयुस् तन्-मनः [भ्प् ४.३१.७] इत्य् आदि । बृहन्-नारदीये (१.३९.५१) - जन्म-कोटि-सहस्रेषु पुण्यं यैः समुपार्जितम् । तेषां भक्तिर् भवेच् छुद्धा देव-देवे जनार्दने ॥ इति । अगस्त्य-संहितायाम् - व्रतोपवास-नियम-जन्म-कोट्याप्य् अनुष्ठितैः । यज्ञैश् च विविधैः सम्यग् भक्तिर् भवति माधवे ॥ इति । एतद् एव व्यतिरेकेणोक्तं धर्मः स्वनुष्ठितः पुंसाम् [भ्प् १.२.८] इत्य् आदौ । यशः श्रियाम् एव [भ्प् १२.१२.४] इत्य् आदौ च । ॥ १०.४७ ॥ उद्धवः श्री-व्रज-देवीम् ॥९५॥
[95] yato yaś ca śāstre varṇāśramācāro vidhīyate tasyāpy anupama-caritaṃ phalaṃ bhaktir eva | yathā - dāna-vrāta-tapo-homa- japa-svādhyāya-saṃyamaiḥ | śreyobhir vividhaiś cānyaiḥ kṛṣṇe bhaktir hi sādhyate || [BhP 10.47.21] dānādibhiḥ śrī-kṛṣṇa-santoṣārther iti jñeyam | taj janma tāni karmāṇi tad- āyus tan-manaḥ [BhP 4.31.7] ity ādi | bṛhan-nāradīye (1.39.51) - janma-koṭi-sahasreṣu puṇyaṃ yaiḥ samupārjitam | teṣāṃ bhaktir bhavec chuddhā deva-deve janārdane || iti | agastya-saṃhitāyām - vratopavāsa-niyama-janma-koṭyāpy anuṣṭhitaiḥ | yajñaiś ca vividhaiḥ samyag bhaktir bhavati mādhave || iti | etad eva vyatirekeṇoktaṃ dharmaḥ svanuṣṭhitaḥ puṃsām [BhP 1.2.8] ity ādau | yaśaḥ śriyām eva [BhP 12.12.4] ity ādau ca | || 10.47 || uddhavaḥ śrī-vraja-devīm ||95||
English translation
English witness · section(s) 79
Anuccheda 79
1 The Lord also says (Srimad Bhagavatam 11.14.22): "Neither religious activities endowed with honesty and mercy nor knowledge obtained with great penance can completely purify one's consciousness if they are bereft of loving service to Me."* 2 Here "dharma" means "religious duties performed without material motive", "vidya" means "the spiritual knowledge taught in the Vedic scriptures", and "tapah" means "austerities performed to become able to see the Supreme Personality of Godhead".
Bhakti · Sanskrit §96 · English §80
Source[९६] यच् च यत्र ज्ञानम् अभिधीयते तद् अपि भक्त्य्-अन्तर्-भूततयिअव लभ्यम् । यथा - पुरेह भूमन् बहवोऽपि योगिनस् त्वद्-अर्पितेहा निज-कर्म-लब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ [भ्प् १०.१४.५] हे भूमन्, इह लोके पूर्वं बहवो योगिनोऽपि सन्तो योगैर् ज्ञानम् अप्राप्य पश्चात् त्वयि अर्पितेहा लौकिक्य् अप्पि चेष्टा । तथार्पितानि यानि निजानि कर्माणि तैर् लब्धया कथा-रुचिर्-रूपया, पुनश् च (पगे ३३) कथोपनीतया त्वत्- समीपं प्रापितया भक्त्यैवाञ्जसा सुखेन विभुध्यात्म-तत्त्वम् आरभ्य श्री-भगवत्-तत्त्व-पर्यन्तम् अनुभूय तव परामन्तरङ्गां गतिं प्राप्ताः । श्री-गीतोपनिषत्सु च अहं सर्वस्य प्रभवो मत्तः [गीता १०.८] इत्य् आदिभिः शुद्धां भक्तिम् उपदिश्याह -- तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः । नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥ [गीता १०.११] इति । ॥ १०.१४ ॥ ब्रह्मा श्री-भगवन्तम् ॥ ९६ ॥
[96] yac ca yatra jñānam abhidhīyate tad api bhakty-antar-bhūtatayiava labhyam | yathā - pureha bhūman bahavo'pi yoginas tvad-arpitehā nija-karma-labdhayā | vibudhya bhaktyaiva kathopanītayā prapedire'ñjo'cyuta te gatiṃ parām || [BhP 10.14.5] he bhūman, iha loke pūrvaṃ bahavo yogino'pi santo yogair jñānam aprāpya paścāt tvayi arpitehā laukiky appi ceṣṭā | tathārpitāni yāni nijāni karmāṇi tair labdhayā kathā-rucir-rūpayā, punaś ca (page 33) kathopanītayā tvat- samīpaṃ prāpitayā bhaktyaivāñjasā sukhena vibhudhyātma-tattvam ārabhya śrī-bhagavat-tattva-paryantam anubhūya tava parāmantaraṅgāṃ gatiṃ prāptāḥ | śrī-gītopaniṣatsu ca ahaṃ sarvasya prabhavo mattaḥ [Gītā 10.8] ity ādibhiḥ śuddhāṃ bhaktim upadiśyāha -- teṣām evānukampārtham aham ajñānajaṃ tamaḥ | nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā || [Gītā 10.11] iti | || 10.14 || brahmā śrī-bhagavantam || 96 ||
English translation
English witness · section(s) 80
Anuccheda 80
1 The Lord describes devotional service in these words (Srimad Bhagavatam 11.14.26): "When a diseased eye is treated with medicinal ointment it gradually recovers its power to see. Similarly, as a conscious living entity cleanses himself of material contamination by hearing and chanting the pious narrations of My glories, he regains his ability to see Me, the Absolute Truth, in My subtle spiritual form."* 2 Srila Sridhara Svami comments: "Someone may object, 'Is it not true that the Sruti-sastra says: One who knows Brahman attains the Supreme. -Taittiriya Upanisad 2.1.2 and By understanding the Supreme one crosses beyond death - Svetasvatara Upanisad 3.8 and therefore one attains the Supreme by attaining knowledge and becoming free of ignorance? What is the need for devotional service?' "Srimad Bhagavatam 11.14.26 answers this objection. There the word 'atma' means 'the heart', and 'parimrjyate' means 'becomes purified'. This occurs by hearing (sravanah) My names and the sacred songs about Me (mat-punya-gatha). The path of knowledge is a secondary aspect of devotional service. It is not completely separate from devotional service." This verse was spoken by the Supreme Personality of Godhead.
Bhakti · Sanskrit §97 · English §81
Source[९७] यान्य् अन्यानि सर्वाणि तत्र पुरुषार्थ-साधनान्य् उच्यन्ते तान्य् अपि तथैव भक्ति-मूलान्य् एव । यथा - स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् ॥ [भ्प् १०.८१.१९] मन्त्रतस् तन्त्रतश् छिद्रम् [भ्प् ८.२३.१६] इत्य् आदि-न्यायेन मुख-बाहूरु- पादेभ्यः [भ्प् ११.५.२] इत्य् आद्य्-उक्त-नित्यत्वेन च सर्वथा तद्- बहिर्मुखानां तु तत्-तद्-अलाभ एव स्याद् इत्य् अर्थः । यथा स्कान्दे -- विष्णु-भक्ति-विहीनानां श्रौताः स्मार्ताश् च याः क्रियाः । काय-क्लेशः फलं तासां स्वैरिणी-व्यभिचारवत् ॥ इति । तद् उक्तं श्री-युधिष्ठिरेण - त्वत्-पादुके अविरतं परि ये चरन्ति ध्यायन्त्य् अभद्र-नशने शुचयो गृणन्ति । विन्दन्ति ते कमल-नाभ भवापवर्गम् आशासते यदि त आशिष ईश नान्ये ॥ [भ्प् १०.७२.४] इति । अत उक्तं बृहन्-नारदीये (१.४.४) - यथा समस्त-लोकानां जीवनं सलिलं स्मृतम् । तथा समस्त-सिद्धीनां जीवनं भक्तिर् इष्यते ॥ ॥ १०.८२ ॥ श्रीदाम-विप्रः ॥९७॥
[97] yāny anyāni sarvāṇi tatra puruṣārtha-sādhanāny ucyante tāny api tathaiva bhakti-mūlāny eva | yathā - svargāpavargayoḥ puṃsāṃ rasāyāṃ bhuvi sampadām | sarvāsām api siddhīnāṃ mūlaṃ tac-caraṇārcanam || [BhP 10.81.19] mantratas tantrataś chidram [BhP 8.23.16] ity ādi-nyāyena mukha-bāhūru- pādebhyaḥ [BhP 11.5.2] ity ādy-ukta-nityatvena ca sarvathā tad- bahirmukhānāṃ tu tat-tad-alābha eva syād ity arthaḥ | yathā skānde -- viṣṇu-bhakti-vihīnānāṃ śrautāḥ smārtāś ca yāḥ kriyāḥ | kāya-kleśaḥ phalaṃ tāsāṃ svairiṇī-vyabhicāravat || iti | tad uktaṃ śrī-yudhiṣṭhireṇa - tvat-pāduke avirataṃ pari ye caranti dhyāyanty abhadra-naśane śucayo gṛṇanti | vindanti te kamala-nābha bhavāpavargam āśāsate yadi ta āśiṣa īśa nānye || [BhP 10.72.4] iti | ata uktaṃ bṛhan-nāradīye (1.4.4) - yathā samasta-lokānāṃ jīvanaṃ salilaṃ smṛtam | tathā samasta-siddhīnāṃ jīvanaṃ bhaktir iṣyate || || 10.82 || śrīdāma-vipraḥ ||97||
English translation
English witness · section(s) 81
Anuccheda 81
1 Discussing the relative merits of the yogas of work (karma-yoga), knowledge (jnana-yoga), and devotional service (bhakti-yoga), in the next five verses the Lord treats knowledge and work with contempt and declares the primacy of devotional service. There, to show contempt for the diligent performance of austerities, He says (Srimad Bhagavatam 11.20.29): 2 "When an intelligent person engages constantly in worshipping Me through loving devotional service as described by Me, his heart becomes firmly situated in Me. Thus all material desires within the heart are destroyed."*** 3 Here the word "ma" means "to Me".
Bhakti · Sanskrit §98 · English §82
Source[९८] तद् एवं तानि साधनानि भक्ति-जीवनान्य् एवेति भक्तेर् एव सर्वत्राभिधेयत्वम् । तानि विनापि भक्तेर् एव श्री-विष्णु-पुराणे (१.११.४८) पुलह-वाक्यम् - यो यज्ञ-पुरुषो यज्ञे योगे च परमः पुमान् । तस्मिंस् तुष्टे यद् अप्राप्यं किं तद् अस्ति जनार्दने ॥ अतएव मोक्ष-धर्मे - या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति । तस्मात् साधूक्तं सर्व-शास्त्र-श्रवण-फलत्वेन तद्-अभिधेयत्वम् । अतएव प्रथमं स्वयं भगवता सैव प्रवर्तितेत्य् उक्तं कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता मया [भ्प् ११.१४.३] इत्य्-आदिना । तद् एवं सति ये तु नातिकोविदास् ते तत्-तद्-अर्थं कर्माद्य्-अङ्गत्वेनैव श्री- विष्णूपासनं कुर्वते । (पगे ३४) ततस् तद्-अपराधेन निज-कामना-मात्र- फल-प्रदत्वम् । न च तत्-तन्-मात्र-दानेन पर्याप्तिः किन्तु पर्यावसाने परम-फल-प्रदत्वम् एवेति । ततस् तस्या एव परम-हितत्वेनाभिधेयत्वम् आह -- सत्यं दिशत्य् अर्थितम् अर्थितो नृणां नैवार्थदो यत् पुनर् अर्थिता यतः । स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवम् ॥ [भ्प् ५.१९.२८] अर्थितः प्रार्थितः सन् नॄणाम् अर्थितं सत्यम् एव ददाति । न तत्र कदाचिद् व्यभिचार इत्य् अर्थः । किन्तु तथापि तन्-मन्त्रेणार्थदो न भवति, तन्- मात्रं दत्त्वा निवृत्तो न भवतीत्य् अर्थः । यत उपासकस् तत्रापूर्णत्वाद् भोग-क्षये सति तदैव पुनर् अर्थिता भवति । न जातु कामः कामानां [मनुस् २.९४] इत्य् आदेः । तद् एवम् अभिप्रेत्य स तु परम-कारुणिकस् तत्-पाद- पल्लवम् एव विधत्ते तेभ्यो ददातीत्य् अर्थः । यथा माता चर्व्यमाणां मृत्तिकां बालक-मुखाद् अपसार्य तत्र खण्डं ददाति तद्वद् इति भावः । एवम् अप्य् उक्तं अकामः सर्व-कामो वा [भ्प् २.३.१०] इत्य् आदौ तीव्रत्वं भक्तेः । तथोक्तं गारुडे - यद् दुर्लभं यद् अप्राप्तं मनसो यन् न गोचरम् । तद् अप्य् अप्रार्थितं ध्यातो ददाति मधुसूदनः ॥ [गर्प् २.२३४.१२] इति । एवं श्री-सनकादीनाम् अपि ब्रह्म-ज्ञानिनां भक्त्य्-अनुवृत्त्या तत्-पाद- पल्लव-प्राप्तिर् ज्ञेया ॥ ॥ ५.१९ ॥ देवाः परस्परम् ॥९८॥
[98] tad evaṃ tāni sādhanāni bhakti-jīvanāny eveti bhakter eva sarvatrābhidheyatvam | tāni vināpi bhakter eva śrī-viṣṇu-purāṇe (1.11.48) pulaha-vākyam - yo yajña-puruṣo yajñe yoge ca paramaḥ pumān | tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane || ataeva mokṣa-dharme - yā vai sādhana-sampattiḥ puruṣārtha-catuṣṭaye | tayā vinā tad āpnoti naro nārāyaṇāśrayaḥ || iti | tasmāt sādhūktaṃ sarva-śāstra-śravaṇa-phalatvena tad-abhidheyatvam | ataeva prathamaṃ svayaṃ bhagavatā saiva pravartitety uktaṃ kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā mayā [BhP 11.14.3] ity-ādinā | tad evaṃ sati ye tu nātikovidās te tat-tad-arthaṃ karmādy-aṅgatvenaiva śrī- viṣṇūpāsanaṃ kurvate | (page 34) tatas tad-aparādhena nija-kāmanā-mātra- phala-pradatvam | na ca tat-tan-mātra-dānena paryāptiḥ kintu paryāvasāne parama-phala-pradatvam eveti | tatas tasyā eva parama-hitatvenābhidheyatvam āha -- satyaṃ diśaty arthitam arthito nṛṇāṃ naivārthado yat punar arthitā yataḥ | svayaṃ vidhatte bhajatām anicchatām icchāpidhānaṃ nija-pāda-pallavam || [BhP 5.19.28] arthitaḥ prārthitaḥ san nṝṇām arthitaṃ satyam eva dadāti | na tatra kadācid vyabhicāra ity arthaḥ | kintu tathāpi tan-mantreṇārthado na bhavati, tan- mātraṃ dattvā nivṛtto na bhavatīty arthaḥ | yata upāsakas tatrāpūrṇatvād bhoga-kṣaye sati tadaiva punar arthitā bhavati | na jātu kāmaḥ kāmānāṃ [ManuS 2.94] ity ādeḥ | tad evam abhipretya sa tu parama-kāruṇikas tat-pāda- pallavam eva vidhatte tebhyo dadātīty arthaḥ | yathā mātā carvyamāṇāṃ mṛttikāṃ bālaka-mukhād apasārya tatra khaṇḍaṃ dadāti tadvad iti bhāvaḥ | evam apy uktaṃ akāmaḥ sarva-kāmo vā [BhP 2.3.10] ity ādau tīvratvaṃ bhakteḥ | tathoktaṃ gāruḍe - yad durlabhaṃ yad aprāptaṃ manaso yan na gocaram | tad apy aprārthitaṃ dhyāto dadāti madhusūdanaḥ || [GarP 2.234.12] iti | evaṃ śrī-sanakādīnām api brahma-jñānināṃ bhakty-anuvṛttyā tat-pāda- pallava-prāptir jñeyā || || 5.19 || devāḥ parasparam ||98||
English translation
English witness · section(s) 82
Anuccheda 82
1 To show contempt for the diligent pursuit of knowledge the Lord says (Srimad Bhagavatam 11.20.30): "Thus the knot in the heart is pierced, and all misgivings are cut to pieces. The chain of fruitive actions is terminated when I am seen as the Supreme Personality of Godhead".* 2 The Lord is seen (drste), that is He personally appears before the devotee, by the power of devotional service.