Prīti · Sanskrit §147 · English §126
Source[१४७] अथ पूर्ववत् स्थैर्य-विरोधी बाल्यादि-चाञ्चल्यम् अपि गुणत्वेनैव स्फुटं दृश्यते । यथा वत्सान् मुञ्चन् क्वचिद् असमये [भ्प् १०.८.२९] इत्य् आदि । अथ रक्त-लोकत्वं च यथाह- स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया । चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥ इमं लोकम् अमुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्त- क्षण-स्त्री-क्षण-सौहृदः ॥ [भ्प् ३.३.२०-२१] रजन्या दत्तावसरः स्त्रीणां क्षणं उत्सव-रूपं सौहृदं यस्य ॥ ॥ ३.३ ॥ श्रीमान् उद्धवः ॥ १४७ ॥
[147] atha pūrvavat sthairya-virodhī bālyādi-cāñcalyam api guṇatvenaiva sphuṭaṃ dṛśyate | yathā vatsān muñcan kvacid asamaye [BhP 10.8.29] ity ādi | atha rakta-lokatvaṃ ca yathāha- snigdha-smitāvalokena vācā pīyūṣa-kalpayā | caritreṇānavadyena śrī-niketena cātmanā || imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn | reme kṣaṇadayā datta- kṣaṇa-strī-kṣaṇa-sauhṛdaḥ || [BhP 3.3.20-21] rajanyā dattāvasaraḥ strīṇāṃ kṣaṇaṃ utsava-rūpaṃ sauhṛdaṃ yasya || || 3.3 || śrīmān uddhavaḥ || 147 ||
English translation
English witness · section(s) 126
Anuccheda 126
The Supreme Lord's melting weith love for His gopi beloveds is described in these words of srimad-Bhagavatam (10.33.20):
tasam rati-viharena srantanam vadanani sah pramrjat karunah premna santamenanga panina
"Seeing that the gopis were fatigued from conjugal enjoyment, my dear King, merciful Krsna lovingly wiped their faces with His comforting hand."
In this verse the word "tasam" means "of the gopis", and "premnah karunah" means "with tears in His eyes". These loving feelings of sattvika-bhava are also described in these words of Visnu Purana (5.13.54):
gopi-kapola-samslesam abhipatya harer bhujau pulakodgama-sasyaya svedambu-ghanatam gatau
"With His two hands Lord Krsna wiped the perspiration from the gopis' cheeks. The hairs of His arms stood erect with ecstasy. His hairs were like many plants growing luxuriantly in the monsoon rains of the gopis' perspiration."
srimad-Bhagavatam 10.33.20 quoted here was spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §148–149 · English §127
Source[१४८] अत्र एवं लीला-नर-वपुः [भ्प् १०.२३.३३] इत्य्-आदिकम् अपि उदाहार्यम् । एवम् अपि यद् असुराणाम् अपरक्तत्वम् । तत्र कारणम् आह- पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् । अकल्प एषाम् अधिरोढुम् अञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ [भ्प् ४.३.२१] स्पष्टम् । ॥ ४.३ ॥ श्री-शिवः ॥ १४८ ॥ [१४९] यद्यप्य् एषां गुणानां सर्वेषाम् अपि भगवति नित्यत्वम् एव तथापि तत्-तल्- लीला-सिद्ध्य्-अर्थं तेषां क्वचित् कस्यचित् प्रकाशः कस्यचिद् अप्रकाशश् च भवति । अतएवाह- अश्रूयन्ताशिषः सत्यास् तत्र तत्र द्विजेरिताः । नानुरूपानुरूपाश् च निर्गुणस्य गुणात्मनः ॥ [भ्प् १.११.१९] निर्गुणस्य मध्य-पद-लोपेन निर्गता गुणेभ्यो गुणा यस्य तस्य, प्राकृत- गुणातीत-नित्य- (पगे ८३) गुणस्य नानुरूपाः नित्य-तत्-परिपूर्णत्वेन लाभान्तरायोगात् । गुणात्मनः तदाशीर्वादाङ्गीकार-द्वारा तत्-तद्-गुण- विशेष-प्रवर्तक-निवर्तकस्य अनुरूपाश् च । तद्-अङ्गीकारे हेतुः सत्या इति । तद् एवं प्रकाशनाप्रकाशन-हेतोर् एव श्री-भगवतश् चन्द्र-पर- परार्धोज्ज्वलतादिके सत्य् अपि तल्-लीला-माधुर्य-विस्तारकस् तमिस्रादि- व्यवहारः सिध्यति । ॥ १.१० ॥ श्री-सूतः ॥ १४९ ॥
[148] atra evaṃ līlā-nara-vapuḥ [BhP 10.23.33] ity-ādikam api udāhāryam | evam api yad asurāṇām aparaktatvam | tatra kāraṇam āha- pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām | akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim || [BhP 4.3.21] spaṣṭam | || 4.3 || śrī-śivaḥ || 148 || [149] yadyapy eṣāṃ guṇānāṃ sarveṣām api bhagavati nityatvam eva tathāpi tat-tal- līlā-siddhy-arthaṃ teṣāṃ kvacit kasyacit prakāśaḥ kasyacid aprakāśaś ca bhavati | ataevāha- aśrūyantāśiṣaḥ satyās tatra tatra dvijeritāḥ | nānurūpānurūpāś ca nirguṇasya guṇātmanaḥ || [BhP 1.11.19] nirguṇasya madhya-pada-lopena nirgatā guṇebhyo guṇā yasya tasya, prākṛta- guṇātīta-nitya- (page 83) guṇasya nānurūpāḥ nitya-tat-paripūrṇatvena lābhāntarāyogāt | guṇātmanaḥ tadāśīrvādāṅgīkāra-dvārā tat-tad-guṇa- viśeṣa-pravartaka-nivartakasya anurūpāś ca | tad-aṅgīkāre hetuḥ satyā iti | tad evaṃ prakāśanāprakāśana-hetor eva śrī-bhagavataś candra-para- parārdhojjvalatādike saty api tal-līlā-mādhurya-vistārakas tamisrādi- vyavahāraḥ sidhyati | || 1.10 || śrī-sūtaḥ || 149 ||
English translation
English witness · section(s) 127
Anuccheda 127
As He is controlled by His devotees' love, so the Supreme Personality of Godhead is also controlled by His devotees' pure devotion. This is described in the following prose passage of srimad-Bhagavatam (5.24.27):
yasya bhagavan svayam akhila-jagad-gurur narayano dvari gada-panir avatisthate nija-jananukampita-hrdayah. . .
"My dear King, how shall I glorify the character of Bali Maharaja? The Supreme Personality of Godhead, the master of the three worlds, who is most compassionate to His own devotee, stands with club in hand at Bali Maharaja's door."
Here the word "yasya" (of whom) refers to Bali Maharaja. This verse was spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §150 · English §128
Source[१५०] अतएवावसर-विशेषं प्राप्य तत्-तद्-गुण-समुदाय-विशेषाविर्भावाद् एक एवासौ तत्र तत्र पृथक् पृथग् इव धीरोदात्तादि-व्यवहार-चतुष्टयम् अपि प्रकाशयति । तत्र धीरोदात्तो यथा - गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः । अकत्थनो गूढ-गर्वो धीरोदात्तः सु-सत्त्व-भृत् ॥ [ब्र्स् २.१.२२६] इति । एते च गुणा गोवर्धनोद्धारणादि-शक्र-सम्भाषान्त-लीलायां व्यक्ताः सन्ति । अथ धीर-ललितः - विदग्धो नव-तारुण्यः परिहास-विशारदः । निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥ [ब्र्स् २.१.२३०] एते च श्रीमद्-व्रज-देवी-सहित-लीलायां सुष्ठु व्यक्ताः । अथ धीर-शान्तः शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः । विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥ [ब्र्स् २.१.२३३] एते च तादृशानां युधिष्ठिरादीनां सन्निधौ तत्-पालन-लीलायाम् उज्जृम्भते । अथ धीरोद्धतः - मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः । विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥ [ब्र्स् २.१.२३६] एते च तादृशान् असुरान् प्राप्य क्वचिद् उदयन्ते । अतएव दुष्ट-दण्डन- हेतुत्वाद् एषां गुणत्वं च । तद् एवम् उद्दीपनेषु गुणा व्याख्याताः । अथ तेषु जातिर् द्विविधाः । तस्य तत्-सम्बन्ध-सम्बन्धिनां चेति । तत्र तस्य जातिर् गोपत्व-क्षत्रियत्वादिका । श्यामत्व-किशोरत्वादिकम् अन्यत्र तद्-उपमा- बुद्धि-जनकत्वं च । तत्-सम्बन्धिनां जातिस् तु गोत्वादिका ज्ञेया । अथोद्दीपनेषु क्रिया लीला एव । ताश् च द्विविधाः । तत्र तत्-सान्निध्येन मायया दर्शिताः । सृष्ट्य्-आदयो मायिक्यः । तदीय-श्री-विग्रह-चेष्टास् तु स्मित-विलास-खेलानृत्य-युद्धादयः स्वरूप-शक्तिमय्यः । श्री-विग्रहस्य स्वरूपानन्दैक-रूपत्वात् । रमयात्म-शक्त्या यद् यत् करिष्यति [भ्प् ३.९.२३] इति तृतीय-स्थ-ब्रह्म-स्तवाच् च । ईश्वरस्यापि तस्य वर्तत एव स्वाभाविकं तद्-इच्छा-कौतुकं लोकवत् तु लीला-कैवल्यम् [व्स् २.१.३३] इति न्यायेन । यथाह- एक एवेश्वरस् तस्मिन् सुर-कार्ये सुरेश्वरः । विहर्तु-कामस् तान् आह समुद्रोन्मथनादिभिः ॥ [भ्प् ८.६.१७] एक एवेश्वरः समर्थोऽपीति टीका च । अतएव तत्-तज्-जाति-लीलाभिनिवेशः श्रूयते, यथा विष्णु-धर्मोत्तरे- यस्यां यस्यां यदा योनौ प्रादुर्भवति कारणात् । तद्-योनि-सदृशं वत्स तदा लोके विचेष्टते ॥ संहर्तुं जगदीशानः समर्थोऽपि तदा नृप । तद्-योनि-सदृशोपायैर् वध्यान् हिंसति यादव ॥ इत्य् आदि । ॥ ८.६ ॥ श्री-शुकः ॥ १५० ॥
[150] ataevāvasara-viśeṣaṃ prāpya tat-tad-guṇa-samudāya-viśeṣāvirbhāvād eka evāsau tatra tatra pṛthak pṛthag iva dhīrodāttādi-vyavahāra-catuṣṭayam api prakāśayati | tatra dhīrodātto yathā - gambhīro vinayī kṣantā karuṇaḥ sudṛḍha-vrataḥ | akatthano gūḍha-garvo dhīrodāttaḥ su-sattva-bhṛt || [BRS 2.1.226] iti | ete ca guṇā govardhanoddhāraṇādi-śakra-sambhāṣānta-līlāyāṃ vyaktāḥ santi | atha dhīra-lalitaḥ - vidagdho nava-tāruṇyaḥ parihāsa-viśāradaḥ | niścinto dhīra-lalitaḥ syāt prāyaḥ preyasī-vaśaḥ || [BRS 2.1.230] ete ca śrīmad-vraja-devī-sahita-līlāyāṃ suṣṭhu vyaktāḥ | atha dhīra-śāntaḥ śama-prakṛtikaḥ kleśa-sahanaś ca vivecakaḥ | vinayādi-guṇopeto dhīra-śānta udīryate || [BRS 2.1.233] ete ca tādṛśānāṃ yudhiṣṭhirādīnāṃ sannidhau tat-pālana-līlāyām ujjṛmbhate | atha dhīroddhataḥ - mātsaryavān ahaṅkārī māyāvī roṣaṇaś calaḥ | vikatthanaś ca vidvadbhir dhīroddhata udāhṛtaḥ || [BRS 2.1.236] ete ca tādṛśān asurān prāpya kvacid udayante | ataeva duṣṭa-daṇḍana- hetutvād eṣāṃ guṇatvaṃ ca | tad evam uddīpaneṣu guṇā vyākhyātāḥ | atha teṣu jātir dvividhāḥ | tasya tat-sambandha-sambandhināṃ ceti | tatra tasya jātir gopatva-kṣatriyatvādikā | śyāmatva-kiśoratvādikam anyatra tad-upamā- buddhi-janakatvaṃ ca | tat-sambandhināṃ jātis tu gotvādikā jñeyā | athoddīpaneṣu kriyā līlā eva | tāś ca dvividhāḥ | tatra tat-sānnidhyena māyayā darśitāḥ | sṛṣṭy-ādayo māyikyaḥ | tadīya-śrī-vigraha-ceṣṭās tu smita-vilāsa-khelānṛtya-yuddhādayaḥ svarūpa-śaktimayyaḥ | śrī-vigrahasya svarūpānandaika-rūpatvāt | ramayātma-śaktyā yad yat kariṣyati [BhP 3.9.23] iti tṛtīya-stha-brahma-stavāc ca | īśvarasyāpi tasya vartata eva svābhāvikaṃ tad-icchā-kautukaṃ lokavat tu līlā-kaivalyam [Vs 2.1.33] iti nyāyena | yathāha- eka eveśvaras tasmin sura-kārye sureśvaraḥ | vihartu-kāmas tān āha samudronmathanādibhiḥ || [BhP 8.6.17] eka eveśvaraḥ samartho'pīti ṭīkā ca | ataeva tat-taj-jāti-līlābhiniveśaḥ śrūyate, yathā viṣṇu-dharmottare- yasyāṃ yasyāṃ yadā yonau prādurbhavati kāraṇāt | tad-yoni-sadṛśaṃ vatsa tadā loke viceṣṭate || saṃhartuṃ jagadīśānaḥ samartho'pi tadā nṛpa | tad-yoni-sadṛśopāyair vadhyān hiṃsati yādava || ity ādi | || 8.6 || śrī-śukaḥ || 150 ||
English translation
English witness · section(s) 128
Anuccheda 128
That the Supreme Personality of Godhead is controlled by the love of the devotees in vatsalya-rasa is described in these words of srimad-Bhagavatam (10.11.7):
gopibhih stobhito 'nrtyad bhagavan balavat kvacit udgayati kvacin mugdhas tad-vaso daru-yantravat
"The gopis would say, `If You dance, my dear Krsna, ou half a sweetmeat.' By saying these words or by clapping their hands, all the gopis encouraged Krsna in different ways. At such times, although He was the supremely powerful Personality of Godhead, He would smile and dance according to their desire, as if He were a wooden doll in their hands. Sometimes He would sing very loudly, at their bidding. In this way Krsna came completely under the control of the gopis."
The meaning of this verse is clear. This verse was spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §151 · English §129
Source[१५१] तत्र श्री-विग्रह-चेष्टा द्विविधाः । ऐश्वर्यमय्यो माधुर्य-मय्यश् चेति । तत्र निज-जन-प्रेममयत्वान् माधुर्य-मय्य एव रमणाधिक्ये हेतवः । यथैव परम-विस्मय-हर्षाभ्याम् आह- (पगे ८४) एवं निगूढात्म-गतिः स्व-मायया गोपात्मजत्वं चरितैर् विडम्बयन् । रेमे रमा-लालित-पाद-पल्लवो ग्राम्यैः समं ग्राम्य-वद् ईश-चेष्टितः ॥ [भ्प् १०.१५.१९] श्री-नारायणादि-रूपेषु स्वाविर्भावेषु रमा-लालित-पाद-पल्लवोऽपि स्वेषु अलौकिकेष्व् अपि व्रज-वासिषु निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् [भ्प् १०.१८.२७] इत्य् आदौ हलधर ईषद् अत्र सत् इति न्याय-लब्धेन तल्-लीला- माधुर्य-स्थितिः सन् लौकिकं यद् गोपात्मजत्वं तद् एव अलौकिक- गोपात्मजमयिश् चरितैर् विडम्बयन् अनुकुर्वन् रेमे स्वयम् अपि रतिम् उवाह । अतस् तादृश-रमणेषु यथा तद्-इच्छा । न तथा रमा-लालित-पाद- पल्लवत्वेऽपीति दर्शितम् । रमणम् एव दर्शयति । यथाधुनापि ग्राम्यैर् बालकैः समं कश्चिद् ग्रामाधिप-बालको रमते तद्वत् । तत्-तल्-लीला-प्रधान एव रमते न त्व् ऐश्वर्य-प्रधान इत्य् अर्थः । दृश्यते च तत्-तल्-लीलावेशः । स जात-कोप- स्फुरितारुणाधरः [भ्प् १०.९.६] इत्य् आदौ । रहोऽपि जात-तादृश-भावात् । तान् वीक्ष्य कृष्णः [भ्प् १०.१२.२७] इत्य् आदौ बालानां स्वकरापच्युतताजातानुतापाद् दिष्ट-कृतत्व-मननाच् च । अतएव तस्य तत्-तल्-लीलासु लोकानुसारि यद् यद् बुद्धि-कर्म-सौष्ठवं तत् तत् सुष्ठु मुनिभिर् अपि स-चमत्कारं वर्ण्यते । यथोक्तं श्री-शुकेन जरासन्ध-युद्धान्ते- स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः समीहिते ऽनन्त-गुणः स्व-लीलया । अन तस्य चित्रं पर-पक्ष-निग्रहस् तथापि मर्त्यानुविधस्य वर्ण्यते ॥ [भ्प् १०.५०.३०] इति । तेषु चरितेषु यद्-अलौकिकम् आसीत् तद् अपि तत्-तल्-लीला-रस-मात्रासक्तस्य तस्य स्वभाव-सिद्धैश्वर्यत्वेन लीलाख्या शक्तिर् एव स्वयं सम्पादितवतीत्य् आह ईशं तत्-तल्-लीलोचित-सुघट-दुर्घट-सर्वार्थ-साधकं चेष्टितं लीलैव यस्य स इति । यथोक्तम्- अथोवाच हृषीकेशं नारदः प्रहसन्न् इव । योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् ॥ [भ्प् १०.६९.३७] यथा च-- यद्य् एवं तर्हि व्यादेही- त्य् उक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः ॥ [भ्प् १०.८.३६] सा तत्र ददृशे विश्वम् [भ्प् १०.८.३७] इति । अत्र यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् [भ्प् १०.८.३५] इत्य् अन्ता तदीय-सरस-कृतैव लीला पूर्वम् उक्ता । अव्याहतैश्वर्य इत्य् आदिका तु तत्-तल्-लीला-शक्ति-कृतैव । सा च श्री- व्रजेश्वर्या वात्सल्य-पोषिके विस्मय-शङ्के पुष्णाति । नाहं भकृइतवान् अम्ब [भ्प् १०.८.३५] इति सम्भ्रमेण मिथ्यैव कृष्ण-वाक्यं च सत्यापयति । एवं श्री-दामोदर-लीलायां यावत् तस्य बन्धनेच्छा न जातासीत् तावद्-रज्जु- परम्पराभ्यस् तस्मिन् द्व्य्-अङ्गुलाधिकत्व-प्रकाशः । तद् उक्तं तद्-दामा [भ्प् १०.८.१५] इत्य् आदिना । यदा तु मातृ-श्रमेण तद्-इच्छा जाता तदा न तत्- प्रकाशः । तद् उक्तं - स्व-मातुः स्विन्न-गात्रायाः [भ्प् १०.९.१८] इत्य् आदिना । एवं श्री-कृष्ण-कृपा-दृष्टि-प्रभावेणैव विषमय-मोहात् सखीनां समुद्धरणं तद्-आवेशेनैव दावाग्नि-पाने चिकीर्षित-मात्रे स्वयं तन्- नाश इत्य् आदिकं ज्ञेयम् । क्रीडा-मनुज-बालक इति क्रीडया लीलया मनुजा- बालक-स्थितिं प्राप्तोऽपीत्य् अर्थः । अन्यत्र च क्रीडा-मानुष-रूपिणः [भ्प् १०.१६.६८] इति । एवं कार्य-मानुषः [भ्प् १०.१६.६०] इत्य् अत्रापि कार्यं क्रीडैव । तस्मात् साधु व्याख्यातम् एवं निगूढात्म-गतिः इत्य् आदि । ॥ १०.१५ ॥ श्री-शुकः ॥ १५१ ॥ (पगे ८५)
[151] tatra śrī-vigraha-ceṣṭā dvividhāḥ | aiśvaryamayyo mādhurya-mayyaś ceti | tatra nija-jana-premamayatvān mādhurya-mayya eva ramaṇādhikye hetavaḥ | yathaiva parama-vismaya-harṣābhyām āha- (page 84) evaṃ nigūḍhātma-gatiḥ sva-māyayā gopātmajatvaṃ caritair viḍambayan | reme ramā-lālita-pāda-pallavo grāmyaiḥ samaṃ grāmya-vad īśa-ceṣṭitaḥ || [BhP 10.15.19] śrī-nārāyaṇādi-rūpeṣu svāvirbhāveṣu ramā-lālita-pāda-pallavo'pi sveṣu alaukikeṣv api vraja-vāsiṣu nirīkṣya tad-vapur alam ambare carat [BhP 10.18.27] ity ādau haladhara īṣad atra sat iti nyāya-labdhena tal-līlā- mādhurya-sthitiḥ san laukikaṃ yad gopātmajatvaṃ tad eva alaukika- gopātmajamayiś caritair viḍambayan anukurvan reme svayam api ratim uvāha | atas tādṛśa-ramaṇeṣu yathā tad-icchā | na tathā ramā-lālita-pāda- pallavatve'pīti darśitam | ramaṇam eva darśayati | yathādhunāpi grāmyair bālakaiḥ samaṃ kaścid grāmādhipa-bālako ramate tadvat | tat-tal-līlā-pradhāna eva ramate na tv aiśvarya-pradhāna ity arthaḥ | dṛśyate ca tat-tal-līlāveśaḥ | sa jāta-kopa- sphuritāruṇādharaḥ [BhP 10.9.6] ity ādau | raho'pi jāta-tādṛśa-bhāvāt | tān vīkṣya kṛṣṇaḥ [BhP 10.12.27] ity ādau bālānāṃ svakarāpacyutatājātānutāpād diṣṭa-kṛtatva-mananāc ca | ataeva tasya tat-tal-līlāsu lokānusāri yad yad buddhi-karma-sauṣṭhavaṃ tat tat suṣṭhu munibhir api sa-camatkāraṃ varṇyate | yathoktaṃ śrī-śukena jarāsandha-yuddhānte- sthity-udbhavāntaṃ bhuvana-trayasya yaḥ samīhite 'nanta-guṇaḥ sva-līlayā | ana tasya citraṃ para-pakṣa-nigrahas tathāpi martyānuvidhasya varṇyate || [BhP 10.50.30] iti | teṣu cariteṣu yad-alaukikam āsīt tad api tat-tal-līlā-rasa-mātrāsaktasya tasya svabhāva-siddhaiśvaryatvena līlākhyā śaktir eva svayaṃ sampāditavatīty āha īśaṃ tat-tal-līlocita-sughaṭa-durghaṭa-sarvārtha-sādhakaṃ ceṣṭitaṃ līlaiva yasya sa iti | yathoktam- athovāca hṛṣīkeśaṃ nāradaḥ prahasann iva | yoga-māyodayaṃ vīkṣya mānuṣīm īyuṣo gatim || [BhP 10.69.37] yathā ca-- yady evaṃ tarhi vyādehī- ty uktaḥ sa bhagavān hariḥ | vyādattāvyāhataiśvaryaḥ krīḍā-manuja-bālakaḥ || [BhP 10.8.36] sā tatra dadṛśe viśvam [BhP 10.8.37] iti | atra yadi satya-giras tarhi samakṣaṃ paśya me mukham [BhP 10.8.35] ity antā tadīya-sarasa-kṛtaiva līlā pūrvam uktā | avyāhataiśvarya ity ādikā tu tat-tal-līlā-śakti-kṛtaiva | sā ca śrī- vrajeśvaryā vātsalya-poṣike vismaya-śaṅke puṣṇāti | nāhaṃ bhakṛitavān amba [BhP 10.8.35] iti sambhrameṇa mithyaiva kṛṣṇa-vākyaṃ ca satyāpayati | evaṃ śrī-dāmodara-līlāyāṃ yāvat tasya bandhanecchā na jātāsīt tāvad-rajju- paramparābhyas tasmin dvy-aṅgulādhikatva-prakāśaḥ | tad uktaṃ tad-dāmā [BhP 10.8.15] ity ādinā | yadā tu mātṛ-śrameṇa tad-icchā jātā tadā na tat- prakāśaḥ | tad uktaṃ - sva-mātuḥ svinna-gātrāyāḥ [BhP 10.9.18] ity ādinā | evaṃ śrī-kṛṣṇa-kṛpā-dṛṣṭi-prabhāveṇaiva viṣamaya-mohāt sakhīnāṃ samuddharaṇaṃ tad-āveśenaiva dāvāgni-pāne cikīrṣita-mātre svayaṃ tan- nāśa ity ādikaṃ jñeyam | krīḍā-manuja-bālaka iti krīḍayā līlayā manujā- bālaka-sthitiṃ prāpto'pīty arthaḥ | anyatra ca krīḍā-mānuṣa-rūpiṇaḥ [BhP 10.16.68] iti | evaṃ kārya-mānuṣaḥ [BhP 10.16.60] ity atrāpi kāryaṃ krīḍaiva | tasmāt sādhu vyākhyātam evaṃ nigūḍhātma-gatiḥ ity ādi | || 10.15 || śrī-śukaḥ || 151 || (page 85)
English translation
English witness · section(s) 129
Anuccheda 129
That the Supreme Personality of Godhead is controlled by the love of the devotees in sakhya-rasa is described in these words of srimad-Bhagavatam (1.16.16):
sarathya-parasada-sevana-sakhya-dautya- virasananugamana-stavana-pranaman snigdhesu pandusu jagat-pranatim ca visnor bhaktim karoti nr-patis caranaravinde
"Maharaja Pariksit heard that out of His causeless mercy Lord Krsna (Visnu), who is universally obeyed, rendered all kinds of service to the malleable sons of Pandu by accepting posts ranging from chariot driver to president to messenger, friend, night watchman, etc., according to the will of the Pandavas, obeying them like a servant and offering obeisances like one younger in years. When he heard this, Maharaja Pariksit became overwhelmed with devotion to the lotus feet of the Lord."
This verse means: "Hearing that Lord Visnu, who is universally obeyed, had rendered all kinds of service to the malleable sons of Pandu, service beginning with becoming their chariot driver, Maharaja Pariksit became overwhelmed with devotion to the lotus feet of the Lord." Here "parasadam" means "acceptance of presidency in the assembly", "sevana" means "obeying the desires in the heart", and "virasana" means "staying awake at night and standing guard with a sword in one's hand". This verse was spoken by srila Suta Gosvami.
Prīti · Sanskrit §152 · English §130
Source[१५२] अन्यत्र च पूर्व-रीत्यैवाह- कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः । रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया ॥ [भ्प् १०.३३.२०] तादृशोऽपि ताभिः सह रेमे । तस्यारविन्द-नयनस्य [भ्प् ३.१५.४३] इत्य् आदौ चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः इतिवत् । तत्र सर्वाभिर् एव युगपल्-लीलेच्छा यदा जाता तदैव तावत्-प्रकाशा अपि तथैव लीला-शक्त्या घटिता इत्य् आह कृत्वेति । लीलया लीला-शक्ति-द्वारैव, न तु स्व- द्वारा । तावन्तम् आत्मानम् आत्मनः प्रकाशं कृत्वा प्रकटय्य । ॥ १०.३३ ॥ श्री-शुकः ॥ १५२ ॥
[152] anyatra ca pūrva-rītyaivāha- kṛtvā tāvantam ātmānaṃ yāvatīr gopayoṣitaḥ | reme sa bhagavāṃs tābhir ātmārāmo 'pi līlayā || [BhP 10.33.20] tādṛśo'pi tābhiḥ saha reme | tasyāravinda-nayanasya [BhP 3.15.43] ity ādau cakāra teṣāṃ saṅkṣobham akṣara-juṣām api citta-tanvoḥ itivat | tatra sarvābhir eva yugapal-līlecchā yadā jātā tadaiva tāvat-prakāśā api tathaiva līlā-śaktyā ghaṭitā ity āha kṛtveti | līlayā līlā-śakti-dvāraiva, na tu sva- dvārā | tāvantam ātmānam ātmanaḥ prakāśaṃ kṛtvā prakaṭayya | || 10.33 || śrī-śukaḥ || 152 ||
English translation
English witness · section(s) 130
Anuccheda 130
That the Supreme Personality of Godhead is controlled by the love of the devotees in srngara-rasa is described in these words of srimad-Bhagavatam (10.32.22):
na paraye 'ham niravadya-samyujam sva-sadhu-krtyam vibudhayusapi vah ya mabhajan durjara-geha-srnkhalah samvrscya tad vah pratiyatu sadhuna
"I am not able to repay My debt for your spotless service, even within a lifetime of Brahma. Your connection with Me is beyond reproach. You have worshiped Me, cutting off all domestic ties, which are difficult to break. Therefore please let your own glorious deeds be your compensation."
In the verse the word "niravadya" means pure because their nature and actions are both opure", samyujam" menas "contact with them", "vah sva-sadhu-krtyam" means "supremely blissful devotional service to Me", and "na paraye" means "I have not power to repay". Someone may ask: "Why does the Lord have not power to repay the gopis?" The answer is given in the words "I could not repay you even within a lifetime of Brahma." The Lord says: "Your love for Me is so great that for My sake you disobeyed even the rules of custom and religion." This the Lord said in the third and fourth lines of this verse. There the Lord said: "Please let your own glorious deeds be your compensation. I am always in debt to you." This verse was spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §153 · English §131
Source[१५३] तद् एवं माधुर्य-मय्या लीलाया उत्कर्षो दर्शितः । अस्यां माधुर्य-मय्यां च युगपद् विचित्र-लीला-विधानस्य तस्यापि रमणाधिक्य-हेतुत्वेन पूर्व- दर्शित-विलास-मय्य् एव श्री-शुकदेवादीनाम् अपि श्री-शिव-ब्रह्मादीनाम् अपि परम-मधुरत्वेन भासते । पूर्वत्र यथा इत्थं सतां ब्रह्म- सुखानुभूत्या [भ्प् १०.१२.११] च तादृशत्वेन वर्णनात् । उत्तरत्र शक्र-शर्व- परमेष्ठि-पुरोगाः [भ्प् १०.३५.१५], कश्मलं ययुर् इत्य् आदिषु तत्रैव मोह- श्रवणाच् च । अथ क्रीडा-मानुष-रूपिणस् तस्यान्या लोक-मर्यादा-मयी धर्मानुष्ठान- लीला तु धर्म-वीरादि-भक्तानाम् एव मधुरत्वेन भासते न तादृशानाम् । यथाह- ब्रह्मन् धर्मस्य वक्ताहं कर्ता तद्-अनुमोदिता । तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः ॥ [भ्प् १०.६९.६०] तत्र हि श्री-नारदो नाना-क्रीडान्तर-दर्शनेन सुखं लब्धवान् धर्मानुष्ठान-दर्शनेन तु खेदं तत्राह ब्रह्मन्न् इति । ॥ १०.६९ ॥ श्री-भगवान् नारदम् ॥ १५३ ॥
[153] tad evaṃ mādhurya-mayyā līlāyā utkarṣo darśitaḥ | asyāṃ mādhurya-mayyāṃ ca yugapad vicitra-līlā-vidhānasya tasyāpi ramaṇādhikya-hetutvena pūrva- darśita-vilāsa-mayy eva śrī-śukadevādīnām api śrī-śiva-brahmādīnām api parama-madhuratvena bhāsate | pūrvatra yathā itthaṃ satāṃ brahma- sukhānubhūtyā [BhP 10.12.11] ca tādṛśatvena varṇanāt | uttaratra śakra-śarva- parameṣṭhi-purogāḥ [BhP 10.35.15], kaśmalaṃ yayur ity ādiṣu tatraiva moha- śravaṇāc ca | atha krīḍā-mānuṣa-rūpiṇas tasyānyā loka-maryādā-mayī dharmānuṣṭhāna- līlā tu dharma-vīrādi-bhaktānām eva madhuratvena bhāsate na tādṛśānām | yathāha- brahman dharmasya vaktāhaṃ kartā tad-anumoditā | tac chikṣayan lokam imam āsthitaḥ putra mā khidaḥ || [BhP 10.69.60] tatra hi śrī-nārado nānā-krīḍāntara-darśanena sukhaṃ labdhavān dharmānuṣṭhāna-darśanena tu khedaṃ tatrāha brahmann iti | || 10.69 || śrī-bhagavān nāradam || 153 ||
English translation
English witness · section(s) 131
Anuccheda 131
Melting with love for His devotee, to please His devotee the Supreme Lord sometimes acts ina way contrary to ordinary good behavior. In this way the Lord becomes glorious, decorated with the crest jewel of all transcendental virtues. An example of such contrary behavior by the Lord is seen in the following words of srimad-Bhagavatam (1.9.37):
sva-nigamam apahaya mat-pratijam rtam adhikartum. . .
"Fulfilling my desire and sacrificing His own promise, He got down from the chariot, took up its wheel, and ran towards me hurriedly, just as a lion goes to kill an elephant. He even dropped His outer garment on the way."
The meaning of this verse is clear. These words were spoken by sri Bhisma.
Prīti · Sanskrit §154–155 · English §132
Source[१५४] अथ पूर्ववद् एव कनिष्ठ-ज्ञानि-भक्तानाम् एव मधुरत्वेन भासमानां तद्-औदासीन्य-लीलाम् अप्य् आह- तस्यैवं रममाणस्य संवत्सर-गणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ [भ्प् ३.३.२२] गृह-मेधेषु गार्हस्थ्योचित-धर्मानुष्ठानेषु वैराग्यम् औदासीन्यम् । ॥ ३.३ ॥ श्रीमान् उद्धवो विदुरम् ॥ १५४ ॥ [१५५] अथोद्दीपनेषु तदीय-द्रव्याणि च परिष्कारास्त्र-वादिक्र-स्थान-चिह्न- परिवार-भक्त-तुलसी-निर्माल्यादीनि । तत्र परिष्कारा वस्त्रालङ्कार- पुष्पादयः । ते च तदीयास् तत्-स्वरूप-भूतत्वेनैव भगवत्-सन्दर्भे दर्शिताः । तथापि भूषण-भूषणाङ्गम् [भ्प् ३.२.११] इति न्यायेन तत्- सौन्दर्य-सौरभ्यादि-परिष्क्रियमाणतयैव तं परिष्कुर्वन्ति न केवल-स्व- गुणेन । स च तत्-तद्-रूपान् तान् स्व-शक्ति-विलासान् प्राप्य स्वीय-तत्-तद्-गुणान् विशेषतः प्रकाशयतीति तस्य तत्-तद्-अपेक्षापि सिध्यति । अतएव पीताम्बर- धरः स्रग्वी साक्षान् मन्मथ-मन्मथः [भ्प् १०.३२.२] इत्य् आदौ अभिव्यक्तासमोर्ध्व-सौन्दर्यस्यापि परिष्कारत्वेन वर्णितयोः स्रक्- पीताम्बअयोर् अपि तादृशत्वं गम्यते । ईदृशान्य् एव वासांसि नित्यं गिरि- वनेचराः [भ्प् १०.४१.३५] इति रजक-वाक्यं त्व् आसुर-दृष्ट्या श्री-विष्णु-पुराणे लौकिक-दृष्ट्यापि सुवर्णाञ्जन-चूर्णाभ्यां तौ तदा भूषिताम्बरौ [विप् ५.९.५] इत्य् उत्तमागमत्वावगमात् । तथा मूले च श्यामं हिरण्य-परिधिम् [भ्प् १०.२३.२२] इत्य् आदि । आस्तां तद् अपि कालिय-वरुण-गोविन्दाभिषेक-कर्तृ- महेन्द्राद्य्-उपहृतासख्य-वस्त्रादीनां तद्-दिने चावश्यं विचित्र- परिहितानां तेनान्यथा प्रतीयमानत्वम् एव जायते । ततः (पगे ८६) कंसाहृत-वाससां स्वीकारश् च तदीय-स्वरूप-शक्त्यैक-प्रादुर्भाव- रूपाणां नरकाहृत-कन्यानाम् इवेति ज्ञेयम् । अथास्त्राणि यष्टि-चक्रादीनि । वादित्राणि वेणु-शङ्खादीनि । स्थानानि वृन्दावन-मथुरादीनि । चिह्नानि पदाङ्कादीनि । परिवारा गोपयादवाद्याः । निर्मल्याणि गोपी-चन्दनादीनि यथायथं तत्र तत्र ज्ञेयानि । अथोद्दीपनेषु कालाश् च तदीय- जन्माष्टम्यादयः । तथा भक्तस्य स्व-योग्यता च तद्-उद्दीपनत्वेन दृश्यते । यथा- ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् । उत्तरीयान्तम् आकृष्य स्मयन्ती जात-हृच्-छया ॥ [भ्प् १०.४२.९] स्पष्टम् । ॥ १०.४२ ॥ श्री-शुकः ॥ १५५ ॥
[154] atha pūrvavad eva kaniṣṭha-jñāni-bhaktānām eva madhuratvena bhāsamānāṃ tad-audāsīnya-līlām apy āha- tasyaivaṃ ramamāṇasya saṃvatsara-gaṇān bahūn | gṛhamedheṣu yogeṣu virāgaḥ samajāyata || [BhP 3.3.22] gṛha-medheṣu gārhasthyocita-dharmānuṣṭhāneṣu vairāgyam audāsīnyam | || 3.3 || śrīmān uddhavo viduram || 154 || [155] athoddīpaneṣu tadīya-dravyāṇi ca pariṣkārāstra-vādikra-sthāna-cihna- parivāra-bhakta-tulasī-nirmālyādīni | tatra pariṣkārā vastrālaṅkāra- puṣpādayaḥ | te ca tadīyās tat-svarūpa-bhūtatvenaiva bhagavat-sandarbhe darśitāḥ | tathāpi bhūṣaṇa-bhūṣaṇāṅgam [BhP 3.2.11] iti nyāyena tat- saundarya-saurabhyādi-pariṣkriyamāṇatayaiva taṃ pariṣkurvanti na kevala-sva- guṇena | sa ca tat-tad-rūpān tān sva-śakti-vilāsān prāpya svīya-tat-tad-guṇān viśeṣataḥ prakāśayatīti tasya tat-tad-apekṣāpi sidhyati | ataeva pītāmbara- dharaḥ sragvī sākṣān manmatha-manmathaḥ [BhP 10.32.2] ity ādau abhivyaktāsamordhva-saundaryasyāpi pariṣkāratvena varṇitayoḥ srak- pītāmbaayor api tādṛśatvaṃ gamyate | īdṛśāny eva vāsāṃsi nityaṃ giri- vanecarāḥ [BhP 10.41.35] iti rajaka-vākyaṃ tv āsura-dṛṣṭyā śrī-viṣṇu-purāṇe laukika-dṛṣṭyāpi suvarṇāñjana-cūrṇābhyāṃ tau tadā bhūṣitāmbarau [ViP 5.9.5] ity uttamāgamatvāvagamāt | tathā mūle ca śyāmaṃ hiraṇya-paridhim [BhP 10.23.22] ity ādi | āstāṃ tad api kāliya-varuṇa-govindābhiṣeka-kartṛ- mahendrādy-upahṛtāsakhya-vastrādīnāṃ tad-dine cāvaśyaṃ vicitra- parihitānāṃ tenānyathā pratīyamānatvam eva jāyate | tataḥ (page 86) kaṃsāhṛta-vāsasāṃ svīkāraś ca tadīya-svarūpa-śaktyaika-prādurbhāva- rūpāṇāṃ narakāhṛta-kanyānām iveti jñeyam | athāstrāṇi yaṣṭi-cakrādīni | vāditrāṇi veṇu-śaṅkhādīni | sthānāni vṛndāvana-mathurādīni | cihnāni padāṅkādīni | parivārā gopayādavādyāḥ | nirmalyāṇi gopī-candanādīni yathāyathaṃ tatra tatra jñeyāni | athoddīpaneṣu kālāś ca tadīya- janmāṣṭamyādayaḥ | tathā bhaktasya sva-yogyatā ca tad-uddīpanatvena dṛśyate | yathā- tato rūpa-guṇaudārya- sampannā prāha keśavam | uttarīyāntam ākṛṣya smayantī jāta-hṛc-chayā || [BhP 10.42.9] spaṣṭam | || 10.42 || śrī-śukaḥ || 155 ||
English translation
English witness · section(s) 132
Anuccheda 132
Sometimes the Lord acts in a way contrary to ordinary cleanliness and purity. An example of this is seen in the following words of srimad-Bhagavatam (10.43.15):
amsa-nyasta-visano 'srn- mada-bindubhir ankitah. . .
"Leaving the dead elephant aside, Lord Krsna held onto the tusk and entered the wrestling arena. With thre tusk resting on His shoulder, drops of the elephant's blood and sweat sprinkled all over Him, and His lotus face covered with fine drops of His own perspiration, the Lord shone with great beauty."
The meaning of this verse is clear. These words were spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §156 · English §133
Source[१५६] तथा तद्-रस-विशेषेषु श्री-भगवद्-अङ्ग-विशेषा अपि उद्दीपन-वैशिष्ट्यं भजन्ते । यथा- श्रियो निवासो यस्योरः पान-पात्रं मुखं दृशाम् । बाहवो लोक-पालानां सारङ्गाणां पदाम्बुजम् ॥ [भ्प् १.११.२७] श्रियः प्रेयस्याः । याः सर्वेषाम् एव प्रिय-वर्गाणां दृशश् चक्षूंषि तासाम् । लोक-पालानां पाल्यानाम् । सारङ्गाणां सर्वेषाम् अपि भक्तानां निवास आश्रयः । यथास्वं भावोद्दीपनत्वात् । ॥ १.११ ॥ श्री-सूतः ॥ १५६ ॥
[156] tathā tad-rasa-viśeṣeṣu śrī-bhagavad-aṅga-viśeṣā api uddīpana-vaiśiṣṭyaṃ bhajante | yathā- śriyo nivāso yasyoraḥ pāna-pātraṃ mukhaṃ dṛśām | bāhavo loka-pālānāṃ sāraṅgāṇāṃ padāmbujam || [BhP 1.11.27] śriyaḥ preyasyāḥ | yāḥ sarveṣām eva priya-vargāṇāṃ dṛśaś cakṣūṃṣi tāsām | loka-pālānāṃ pālyānām | sāraṅgāṇāṃ sarveṣām api bhaktānāṃ nivāsa āśrayaḥ | yathāsvaṃ bhāvoddīpanatvāt | || 1.11 || śrī-sūtaḥ || 156 ||
English translation
English witness · section(s) 133
Anuccheda 133
Sometimes the Supreme Lord acts in a way contrary to the virtue of forgiveness. For example, in the Mahabharata, Lord Krsna declares:
yas tan dvesti sa mam dvesti yas tan anu sa mam anu
"He who hates My devotees hates Me. He who loves My devotees loves Me."
Another example is seen in these words of srimad-Bhagavatam (10.44.32-34):
dhanam harata gopanam. . . . . .evam vikatthamane vai kamse prakupito 'vyayah
"Kamsa said: Drive the two wicked sons of Vasudeva out of the city! Confiscate the cowherds' property and arrest that fool Nanda! "Kill that most evil fool Vasudeva! And also kill my father, Ugrasena, along with his followers, who have all sided with our enemies! "As Kamsa thus raved so audaciously, the infallible Lord Krsna became intensely angry."
The meaning of these verses is clear. These srimad- Bhagavatam verses were spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §157 · English §134
Source[१५७] क्वचिद् विरोधिनोऽपि प्रतियोगि-मुखेन तद्-उद्दीपना भवन्ति । सूर्यादि-तापा इव जलाभिलाषस्य । यथा- श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥ बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः । [भ्प् १०.५३.२०-२१] इत्य् आदि । एवं वात्सल्यादौ श्री-कृष्णस्य धूलि-पङ्क-क्रीडादि-कृत-मालिन्यादयोऽपि ज्ञेयाः । कान्त-भावादौ वृद्धादि-प्रातिकूल्यादयोऽपि यदा च ते भयानकादि-गौण-रस-सप्तकं जनयन्ति तदापि पञ्च-विध-मुख्य-प्रीति- रस-पोषकताम् एव प्रपद्यन्ते । यथोक्तं भक्ति-रसामृत-सिन्धौ- अमी पञ्चैव शान्ताद्या हरेर् भक्ति-रसा मताः । एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ [ब्र्स् ४.७.१४] इति । ॥ १०.५३ ॥ श्री-शुकः ॥ १५७ ॥
[157] kvacid virodhino'pi pratiyogi-mukhena tad-uddīpanā bhavanti | sūryādi-tāpā iva jalābhilāṣasya | yathā- śrutvaitad bhagavān rāmo vipakṣīya-nṛpodyamam | kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalaha-śaṅkitaḥ || balena mahatā sārdhaṃ bhrātṛ-sneha-pariplutaḥ | [BhP 10.53.20-21] ity ādi | evaṃ vātsalyādau śrī-kṛṣṇasya dhūli-paṅka-krīḍādi-kṛta-mālinyādayo'pi jñeyāḥ | kānta-bhāvādau vṛddhādi-prātikūlyādayo'pi yadā ca te bhayānakādi-gauṇa-rasa-saptakaṃ janayanti tadāpi pañca-vidha-mukhya-prīti- rasa-poṣakatām eva prapadyante | yathoktaṃ bhakti-rasāmṛta-sindhau- amī pañcaiva śāntādyā harer bhakti-rasā matāḥ | eṣu hāsyādayaḥ prāyo bibhrati vyabhicāritām || [BRS 4.7.14] iti | || 10.53 || śrī-śukaḥ || 157 ||
English translation
English witness · section(s) 134
Anuccheda 134
Sometimes the Supreme Lord acts in a way contrary to the virtue of being always satisfied. For example, in the Hari- bhakti-sudhodaya (14.28) Lord Krsna declares:
api me purna-kamasya. . .
"With great love My devotees see Me and talk with Me. The happiness I feel by associating with My devotees is newer and newer at every moment. Although My desires are always fulfilled, My desire to associate with My devotees never ends."
Another example of the Supreme Lord's not being satisfied is seen in these words of srimad-Bhagavatam (10.9.5-6):
tam ankam arudham apayayat stanam sneha-snutam sa-smitam iksati mukham atrptam utsrjya. . .jaghasa haiyangavam antaram gatah
"Mother Yasoda then embraced Krsna, allowed Him to sit down on her lap, and began to look upon the face of the Lord with great love and affection. Because of her intense affection, milk was flowing from her breast. But when she saw that the milk pan on the oven was boiling over, she immediately left her son to take care of the overflowing milk, although the child was not yet fully satisfied with drinking the milk of His mother's breast." "Being very angry and biting His reddish lips with His teeth, Krsna, with false tears in His eyes, broke the container of yogurt with a piece of stone. Then He entered a room and began to eat the freshly churned butter in a solitary place."
In these verses the word "rahah" means "in these confidential pastimes". These srimad-Bhagavatam verses were spoken by srila sukadeva Gosvami.
Prīti · Sanskrit §158 · English §135
Source[१५८] तद् एवम् उद्दीपना उद्दिष्टाः । एषु च श्री-वृन्दावन-सम्बन्धिनस् तु प्रकृष्टाः । अहो यत्र सर्वेषाम् एव परम-प्रीत्य्-एकास्पदस्य श्री- कृष्णस्यापि परम-प्रीत्य्-आस्पदत्वं श्रूयते-वृन्दावनं गोवर्धनम् [भ्प् १०.११.१६] इत्य् आदौ, श्लाघितं च स्वयम् एव अहो अमी देव-वरामरार्चितम् [भ्प् १०.१५.५] इत्य् आदिभिः । तथा तदीय-परम-भक्तैश् च तद् भूरि-भाग्यम् इह जन्म [भ्प् १०.१४.३४] इत्य् आदिना, आसाम् अहो चरण-रेणु-जुषाम् [भ्प् १०.४७.६१] इत्य् आदिना, वृन्दावनं सखि भुवो वितनोति कीर्तिं [भ्प् १०.२१.१०] इत्य् आदिना च । अतएव श्री-कृष्णस्यापि तत्रस्थाः प्रकाशा लीलाश् च परम-वरीयांसः । यथा त्रैलोक्य-संमोहन- तन्त्रे तदीय-श्रीमद्-अष्टादशाक्षर-प्रस्तावे- सन्ति तस्य महा-भागा अवताराः सहस्रशः । तेषां मध्येऽवताराणां बालत्वम् अतिदुर्लभम् ॥ इति । बाल्यं च षोडश-वर्ष-पर्यन्तम् इति प्रसिद्धम् । तथा हरि-लीला-टीकायाम् उदाहृता स्मृतिः- गर्भस्थ-सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः । बालश् चाषोडशाद् वर्षात् पौगण्डश् चेति प्रोच्यते ॥ इति । अन्यत्र च श्लाघितम्- नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥ (पगे ८७) पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् ॥ [भ्प् १०.८.४६-४७] अतएव एकादशे सर्व-श्री-कृष्ण-चरित-कथान्ते सामान्यतः श्री-कृष्ण- चरितस्य भक्त्य्-उद्दीपनत्वम् उक्त्वा वैशिष्ट्य-विवक्षया बाल्य-चरितस्य पृथग्-उक्तिः -- इत्थं हरेर् भगवतो रुचिरावतार- वीर्याणि बाल-चरितानि च शन्तमानि । अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंस-गतौ लभेत ॥ [भ्प् ११.३१.२८] इति । सोऽयं च तत्-प्रकाश-लीलानाम् उत्कर्षो बहु-विधः । ऐश्वर्य-गतस् तावत् सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्ति-ब्रह्माण्ड-कोटीश्वर- दर्शनादौ । कारुण्य-गतश् च पूतनायाम् अपि साक्षान् मातृ-गति-दाने, माधुर्य-गतस् तु ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ [भ्प् १०.८.२२] इत्य् आदौ, वत्सान् मुञ्चन् क्वचिद् असमये [भ्प् १०.८.२९] इत्य् आदौ, गोपीभिः स्तोभितोऽनृत्यत् [भ्प् १०.११.७] इत्य् आदौ, क्वचिद् वादयतो वेणुम् [भ्प् १०.११.३९] इत्य् आदौ, क्वचिद् विनाशाय मनो दधद् व्रजात् [भ्प् १०.२१.१] इत्य् आदौ, क्वचिद् गायति गायत्सु [भ्प् १०.१५.१०] इत्य् आदौ, तं गो-रजश् छुरित-कुन्तल-बद्ध- बर्ह- [भ्प् १०.१५.४२] इत्य् आदौ, कृष्णस्य नृत्यतः केचिद् [भ्प् १०.१८.१०] इत्य् आदौ, धेनवो मन्द-गामिन्यः [भ्प् १०.२०.२६] इत्य् आदौ, अक्षण्वतां फलम् [भ्प् १०.२१.७] इत्य् आदौ, श्यामं हिरण्य-परिधिम् [भ्प् १०.२३.२२] इत्य् आदौ, भगवान् अपि ता रात्रीः [भ्प् १०.२९.१] इत्य् आदौ, वाम-बाहु-कृत-वाम-कपोलः [भ्प् १०.३५.२] इत्य् आदौ च । किं बहुना सर्वत्रैव सहृदयैः सर्व एवावगन्तव्यः । अथ अनुभावास् तु चित्त-स्थ-भावानाम् अवबोधकाः । [ब्र्स् २.२.१] । ते द्विविधाः - उद्भास्वराख्याः सात्त्विकाख्याश् च । तत्र भावजा अपि बहिश्- चेष्टा-प्राय-साध्या उद्भास्वराः । ते चोक्ताः - नृत्यं विलुठितं गीतं क्रोशनं तनु-मोटनम् । हुङ्कारो जृम्भणं श्वास-भूमा लोकानपेक्षिता । लाला-स्रवोऽट्टहासश् च घूर्णा-हिक्कादयोऽपि च ॥ [ब्र्स् २.२.२] इति । अथ सात्त्विकाः अन्तर्-विकारैक-जन्याः । यत्रान्तर्-विकारोऽपि तद्-अंश इति भावत्वम् अपि तेषां मन्यन्ते । तत्र- ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदोऽथ वेपथुः । वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥[ब्र्स् २.३.१६] एषु प्रलयो नष्ट-चेष्टता । भगवत्-प्रीति-हेतुक-प्रलये च बहिश्-चेष्टा- नाशः । नअ त्व् अन्तर्-भगवत्-स्फूर्त्य्-आदेर् अपि । यथोक्तं श्रीमद्-उद्धवम् उद्दिश्य- स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् । तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ [भ्प् ३.२.४] इत्य् आदिना । शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः ॥ [भ्प् ३.२.६] इत्य् अन्तेन । यथा गारुडे- जाग्रत्-स्वप्न-सुसुप्तेषु योग-स्थस्य च योगिनः । या काचिन् मनसो वृत्तिः सा भवेद् अच्युताश्रयः ॥ इति । अतएव तदानीं तत्-तद्-रसानाम् आस्वाद-भेद-स्फूर्तिर् अप्य् अवगन्तव्या । अथ सञ्चारिणः । ये व्यभिचारिणश् च भण्यन्ते । सञ्चारयन्ति भावस्य गतिं [ब्र्स् २.४.२] इति (पगे ८८) विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति [ब्र्स् २.४.१] इति च निरुक्तेः । ते च त्रयस्त्रिंशत् - निर्वेदोऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ । शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥ मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च । स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥ औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च । सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ [ब्र्स् २.४.४-६] एषां लक्षणम् उज्ज्वले दर्शनीयम् । एषु त्रासः कृष्ण-वत्सलादिषु भयानकादि-दर्शनात् । तद्-अर्थं तत्-सङ्गति-हानि-तर्केणात्मार्थं च भवति । निद्रा तच्-चिन्तया शून्य-चित्तत्वेन तत्-सङ्गत्य्-आनन्द-व्याप्त्या च भवति । श्रमः परमानन्द-मय-तद्-अर्थायास-तादात्म्यापत्तौ भवति । आलस्यं तादृश-श्रम-हेतुकं कृष्णेतर-सम्बन्धि-क्रिया-विषयकं भवति । बोधश् च तद्-दर्शनादि-वासनायाः स्वयम् उद्बोधेन भवतीत्य् आदिकं ज्ञेयम् । किं च निर्वेदादीनां चामीषां लौकिक-गुण-मय- भावायमानानाम् अपि वस्तुतो गुणातीतत्वम् एव तादृश-भगवत्-प्रीत्य्- अधिष्ठानत्वात् । अथैतत्-संवलनात्मको भगवत्-प्रीतिमयो रसोऽपि व्यञ्जित एव- स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ [भ्प् ११.३.३१-३२] इत्य् अनेन । अत्र हरिर् आलम्बनो विभावः । स्मरणम् उद्दीपनः । स्मारणादिक उद्भास्वराख्योऽनुभावः । पुलकः सात्त्विकः । चिन्तादयः सञ्चारिणः । संजातया भक्त्येति स्थायी । भवन्ति तूष्णीं परम् एत्य निर्वृता इति तत्- संवलनम् । परं परम-रसात्मकं वस्त्व् इत्य् अर्थः । एष च भगवत्- प्रीति-मय-रसः पञ्चधा प्रीतेर् भेद-पञ्चकेन । ते च ज्ञान-भक्ति-मय- भक्ति-मय-वत्सल-मैत्री-मयोज्ज्वलाख्याः क्रमेण ज्ञेयाः । एतेषां च स्थायिनां भावान्तराश्रयत्वात् नियताधारत्वाच् च मुख्यत्वम् । तत्-प्रीति-सम्बन्धेनैव भागवत-रसान्तः-पातात् पञ्च-विधेषु प्रियेषु कादाचित्कोद्भवत्वेनानियताधारत्वाच् च गौणता । ततस् तदीय-रसानाम् अपि गौणता । तत्र मुख्याः मधुरेण समापयेत् इति न्यायेन गौण-रसानां रसाभासानाम् अप्य् उपरि विवरणीयाः । गौणाः सम्प्रति विव्रियन्ते । येषु विस्मयादयो विभाव-वैशिष्ट्य-वशेन स्वयं तत्-प्रीत्य्-उत्था अपि तत्-प्रीतिम् आत्म-सात्कृत्य वर्धमानाः स्थायितां प्रपद्यन्ते । ते च- अद्भुतो हास्य-वीरौ च रौद्रो भीषण इत्य् अपि । बीभत्सः करुणश् चेति गौणाः सप्त रसाः स्मृताः ॥ तत्र तत्-प्रीतिमयोऽयम् अद्भुतो रसः । यत्रालम्बनो लोकोत्तराकस्मिक- क्रियादिमत्त्वेन विस्मय-विषयः श्री-कृष्णः । तद्-आधारस् तत्-प्रियश् च । उद्दीपनास् तादृश-तच्-चेष्टाः । (पगे ८९) अनुभावाः नेत्र-विस्ताराद्याः । व्यभिचारिणश् चावेग-हर्षजाद्य्-आद्याः । स्थायी तत्-प्रीतिमयो विस्मयः । तद्- उदाहरणं च- चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भ्प् १०.६९.२] इत्य् आदिकं ज्ञेयम् । अथ तन्-मयो हास्यो रसः । तत्रालम्बनश् चेष्टा-वाग्-वेष-वैकृत्य- विशेषवत्त्वेन तत्-प्रीति-मय-हास-विषयः श्री-कृष्णः । तद्-आधारस् तत्- प्रियश् च । तथा यदि तद्-विशेषवत्त्वेनैव तत्-प्रियाप्रियौ च तत्-प्रीतिमय- हास-विषयौ भवतस् तदापि तत्-कारणस्य प्रीतेर् विषयः श्री-कृष्ण इति स एव मूलम् आलम्बनम् । हास्यस्यापि तद्-विशिष्टत्वेनैव प्रवृत्तेस् तु सुतराम् एव । अतः केवलस्य हासांशस्य विषयत्वेन विकृत-तत्-प्रियाप्रियौ बहिरङ्गाव् एवावलम्बनाव् इति । एवं दान-युद्ध-वीर-रसादिष्व् अपि ज्ञेयम् । उद्दीपनास् तु तज्-जनकस्य चेष्टावाग्-वेष-वैकृतादयः । अनुभावाश् च नासौष्ठ- गण्डकि-स्पन्दनादयः । व्यभिचारिणो हर्षालस्यावहित्थादयः । स्थायी च तत्-प्रीतिमयो हासः । स च स्व-विषयानुमोदनात्मकस् तद्-उत्प्रासात्मको वा चेतो-विकाशः । ततस् तद्-आत्मकत्वेन विषयोऽप्य् अस्यास्ति । तस्योदाहरणेऽनुमोदनात्मको यथा -- वत्सान् मुञ्चन् क्वचिद् असमये क्रोश-सञ्जात-हासः [भ्प् १०.८.२९] इत्य् आदि, हस्ताग्राह्ये रचयति विधिं [भ्प् १०.८.३०] इति, एवं धार्ष्ट्यान्य् उशति कुरुते [भ्प् १०.८.३१] इत्य् आदि इत्थं स्त्रीभिः सभन-नयन-श्री-मुखालोकिनीभिर् व्याख्यातार्था प्रहसितमुखी न ह्य् उपालब्धुम् ऐच्छत् इत्य् अन्तम् । व्याख्यातस् तदीय-चापल्य-लक्षणोऽर्थो यस्यै सा । ॥ १०.८ ॥ श्री-शुकः ॥ १५८ ॥
[158] tad evam uddīpanā uddiṣṭāḥ | eṣu ca śrī-vṛndāvana-sambandhinas tu prakṛṣṭāḥ | aho yatra sarveṣām eva parama-prīty-ekāspadasya śrī- kṛṣṇasyāpi parama-prīty-āspadatvaṃ śrūyate-vṛndāvanaṃ govardhanam [BhP 10.11.16] ity ādau, ślāghitaṃ ca svayam eva aho amī deva-varāmarārcitam [BhP 10.15.5] ity ādibhiḥ | tathā tadīya-parama-bhaktaiś ca tad bhūri-bhāgyam iha janma [BhP 10.14.34] ity ādinā, āsām aho caraṇa-reṇu-juṣām [BhP 10.47.61] ity ādinā, vṛndāvanaṃ sakhi bhuvo vitanoti kīrtiṃ [BhP 10.21.10] ity ādinā ca | ataeva śrī-kṛṣṇasyāpi tatrasthāḥ prakāśā līlāś ca parama-varīyāṃsaḥ | yathā trailokya-saṃmohana- tantre tadīya-śrīmad-aṣṭādaśākṣara-prastāve- santi tasya mahā-bhāgā avatārāḥ sahasraśaḥ | teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham || iti | bālyaṃ ca ṣoḍaśa-varṣa-paryantam iti prasiddham | tathā hari-līlā-ṭīkāyām udāhṛtā smṛtiḥ- garbhastha-sadṛśo jñeya āṣṭamād vatsarāc chiśuḥ | bālaś cāṣoḍaśād varṣāt paugaṇḍaś ceti procyate || iti | anyatra ca ślāghitam- nandaḥ kim akarod brahman śreya evaṃ mahodayam | yaśodā ca mahā-bhāgā papau yasyāḥ stanaṃ hariḥ || (page 87) pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam | gāyanty adyāpi kavayo yal loka-śamalāpaham || [BhP 10.8.46-47] ataeva ekādaśe sarva-śrī-kṛṣṇa-carita-kathānte sāmānyataḥ śrī-kṛṣṇa- caritasya bhakty-uddīpanatvam uktvā vaiśiṣṭya-vivakṣayā bālya-caritasya pṛthag-uktiḥ -- itthaṃ harer bhagavato rucirāvatāra- vīryāṇi bāla-caritāni ca śantamāni | anyatra ceha ca śrutāni gṛṇan manuṣyo bhaktiṃ parāṃ paramahaṃsa-gatau labheta || [BhP 11.31.28] iti | so'yaṃ ca tat-prakāśa-līlānām utkarṣo bahu-vidhaḥ | aiśvarya-gatas tāvat satya-jñānānantānanda-mātraika-rasa-mūrti-brahmāṇḍa-koṭīśvara- darśanādau | kāruṇya-gataś ca pūtanāyām api sākṣān mātṛ-gati-dāne, mādhurya-gatas tu tāv aṅghri-yugmam anukṛṣya sarīsṛpantau [BhP 10.8.22] ity ādau, vatsān muñcan kvacid asamaye [BhP 10.8.29] ity ādau, gopībhiḥ stobhito'nṛtyat [BhP 10.11.7] ity ādau, kvacid vādayato veṇum [BhP 10.11.39] ity ādau, kvacid vināśāya mano dadhad vrajāt [BhP 10.21.1] ity ādau, kvacid gāyati gāyatsu [BhP 10.15.10] ity ādau, taṃ go-rajaś churita-kuntala-baddha- barha- [BhP 10.15.42] ity ādau, kṛṣṇasya nṛtyataḥ kecid [BhP 10.18.10] ity ādau, dhenavo manda-gāminyaḥ [BhP 10.20.26] ity ādau, akṣaṇvatāṃ phalam [BhP 10.21.7] ity ādau, śyāmaṃ hiraṇya-paridhim [BhP 10.23.22] ity ādau, bhagavān api tā rātrīḥ [BhP 10.29.1] ity ādau, vāma-bāhu-kṛta-vāma-kapolaḥ [BhP 10.35.2] ity ādau ca | kiṃ bahunā sarvatraiva sahṛdayaiḥ sarva evāvagantavyaḥ | atha anubhāvās tu citta-stha-bhāvānām avabodhakāḥ | [BRS 2.2.1] | te dvividhāḥ - udbhāsvarākhyāḥ sāttvikākhyāś ca | tatra bhāvajā api bahiś- ceṣṭā-prāya-sādhyā udbhāsvarāḥ | te coktāḥ - nṛtyaṃ viluṭhitaṃ gītaṃ krośanaṃ tanu-moṭanam | huṅkāro jṛmbhaṇaṃ śvāsa-bhūmā lokānapekṣitā | lālā-sravo'ṭṭahāsaś ca ghūrṇā-hikkādayo'pi ca || [BRS 2.2.2] iti | atha sāttvikāḥ antar-vikāraika-janyāḥ | yatrāntar-vikāro'pi tad-aṃśa iti bhāvatvam api teṣāṃ manyante | tatra- te stambha-sveda-romāñcāḥ svara-bhedo'tha vepathuḥ | vaivarṇyam aśru pralaya ity aṣṭau sāttvikāḥ smṛtāḥ ||[BRS 2.3.16] eṣu pralayo naṣṭa-ceṣṭatā | bhagavat-prīti-hetuka-pralaye ca bahiś-ceṣṭā- nāśaḥ | naa tv antar-bhagavat-sphūrty-āder api | yathoktaṃ śrīmad-uddhavam uddiśya- sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghri-sudhayā bhṛśam | tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ || [BhP 3.2.4] ity ādinā | śanakair bhagaval-lokān nṛlokaṃ punar āgataḥ || [BhP 3.2.6] ity antena | yathā gāruḍe- jāgrat-svapna-susupteṣu yoga-sthasya ca yoginaḥ | yā kācin manaso vṛttiḥ sā bhaved acyutāśrayaḥ || iti | ataeva tadānīṃ tat-tad-rasānām āsvāda-bheda-sphūrtir apy avagantavyā | atha sañcāriṇaḥ | ye vyabhicāriṇaś ca bhaṇyante | sañcārayanti bhāvasya gatiṃ [BRS 2.4.2] iti (page 88) viśeṣeṇābhimukhyena caranti sthāyinaṃ prati [BRS 2.4.1] iti ca nirukteḥ | te ca trayastriṃśat - nirvedo'tha viṣādo dainyaṃ glāni-śramau ca mada-garvau | śaṅkā-trāsāvegā unmādāpasmṛtī tathā vyādhiḥ || moho mṛtir ālasyaṃ jāḍyaṃ vrīḍāvahitthā ca | smṛtir atha vitarka-cintā-mati-dhṛtayo harṣa utsukatvaṃ ca || augryam arṣāsūyāś cāpalyaṃ caiva nidrā ca | suptir bodha itīme bhāvā vyabhicāriṇaḥ samākhyātāḥ || [BRS 2.4.4-6] eṣāṃ lakṣaṇam ujjvale darśanīyam | eṣu trāsaḥ kṛṣṇa-vatsalādiṣu bhayānakādi-darśanāt | tad-arthaṃ tat-saṅgati-hāni-tarkeṇātmārthaṃ ca bhavati | nidrā tac-cintayā śūnya-cittatvena tat-saṅgaty-ānanda-vyāptyā ca bhavati | śramaḥ paramānanda-maya-tad-arthāyāsa-tādātmyāpattau bhavati | ālasyaṃ tādṛśa-śrama-hetukaṃ kṛṣṇetara-sambandhi-kriyā-viṣayakaṃ bhavati | bodhaś ca tad-darśanādi-vāsanāyāḥ svayam udbodhena bhavatīty ādikaṃ jñeyam | kiṃ ca nirvedādīnāṃ cāmīṣāṃ laukika-guṇa-maya- bhāvāyamānānām api vastuto guṇātītatvam eva tādṛśa-bhagavat-prīty- adhiṣṭhānatvāt | athaitat-saṃvalanātmako bhagavat-prītimayo raso'pi vyañjita eva- smarantaḥ smārayantaś ca mitho 'ghaugha-haraṃ harim | bhaktyā sañjātayā bhaktyā bibhraty utpulakāṃ tanum || kvacid rudanty acyuta-cintayā kvacid dhasanti nandanti vadanty alaukikāḥ | nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ || [BhP 11.3.31-32] ity anena | atra harir ālambano vibhāvaḥ | smaraṇam uddīpanaḥ | smāraṇādika udbhāsvarākhyo'nubhāvaḥ | pulakaḥ sāttvikaḥ | cintādayaḥ sañcāriṇaḥ | saṃjātayā bhaktyeti sthāyī | bhavanti tūṣṇīṃ param etya nirvṛtā iti tat- saṃvalanam | paraṃ parama-rasātmakaṃ vastv ity arthaḥ | eṣa ca bhagavat- prīti-maya-rasaḥ pañcadhā prīter bheda-pañcakena | te ca jñāna-bhakti-maya- bhakti-maya-vatsala-maitrī-mayojjvalākhyāḥ krameṇa jñeyāḥ | eteṣāṃ ca sthāyināṃ bhāvāntarāśrayatvāt niyatādhāratvāc ca mukhyatvam | tat-prīti-sambandhenaiva bhāgavata-rasāntaḥ-pātāt pañca-vidheṣu priyeṣu kādācitkodbhavatvenāniyatādhāratvāc ca gauṇatā | tatas tadīya-rasānām api gauṇatā | tatra mukhyāḥ madhureṇa samāpayet iti nyāyena gauṇa-rasānāṃ rasābhāsānām apy upari vivaraṇīyāḥ | gauṇāḥ samprati vivriyante | yeṣu vismayādayo vibhāva-vaiśiṣṭya-vaśena svayaṃ tat-prīty-utthā api tat-prītim ātma-sātkṛtya vardhamānāḥ sthāyitāṃ prapadyante | te ca- adbhuto hāsya-vīrau ca raudro bhīṣaṇa ity api | bībhatsaḥ karuṇaś ceti gauṇāḥ sapta rasāḥ smṛtāḥ || tatra tat-prītimayo'yam adbhuto rasaḥ | yatrālambano lokottarākasmika- kriyādimattvena vismaya-viṣayaḥ śrī-kṛṣṇaḥ | tad-ādhāras tat-priyaś ca | uddīpanās tādṛśa-tac-ceṣṭāḥ | (page 89) anubhāvāḥ netra-vistārādyāḥ | vyabhicāriṇaś cāvega-harṣajādy-ādyāḥ | sthāyī tat-prītimayo vismayaḥ | tad- udāharaṇaṃ ca- citraṃ bataitad ekena vapuṣā yugapat pṛthak | gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat || [BhP 10.69.2] ity ādikaṃ jñeyam | atha tan-mayo hāsyo rasaḥ | tatrālambanaś ceṣṭā-vāg-veṣa-vaikṛtya- viśeṣavattvena tat-prīti-maya-hāsa-viṣayaḥ śrī-kṛṣṇaḥ | tad-ādhāras tat- priyaś ca | tathā yadi tad-viśeṣavattvenaiva tat-priyāpriyau ca tat-prītimaya- hāsa-viṣayau bhavatas tadāpi tat-kāraṇasya prīter viṣayaḥ śrī-kṛṣṇa iti sa eva mūlam ālambanam | hāsyasyāpi tad-viśiṣṭatvenaiva pravṛttes tu sutarām eva | ataḥ kevalasya hāsāṃśasya viṣayatvena vikṛta-tat-priyāpriyau bahiraṅgāv evāvalambanāv iti | evaṃ dāna-yuddha-vīra-rasādiṣv api jñeyam | uddīpanās tu taj-janakasya ceṣṭāvāg-veṣa-vaikṛtādayaḥ | anubhāvāś ca nāsauṣṭha- gaṇḍaki-spandanādayaḥ | vyabhicāriṇo harṣālasyāvahitthādayaḥ | sthāyī ca tat-prītimayo hāsaḥ | sa ca sva-viṣayānumodanātmakas tad-utprāsātmako vā ceto-vikāśaḥ | tatas tad-ātmakatvena viṣayo'py asyāsti | tasyodāharaṇe'numodanātmako yathā -- vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥ [BhP 10.8.29] ity ādi, hastāgrāhye racayati vidhiṃ [BhP 10.8.30] iti, evaṃ dhārṣṭyāny uśati kurute [BhP 10.8.31] ity ādi itthaṃ strībhiḥ sabhana-nayana-śrī-mukhālokinībhir vyākhyātārthā prahasitamukhī na hy upālabdhum aicchat ity antam | vyākhyātas tadīya-cāpalya-lakṣaṇo'rtho yasyai sā | || 10.8 || śrī-śukaḥ || 158 ||
English translation
English witness · section(s) 135
Anuccheda 135
Sometimes the Supreme Lord acts in a way contrary to the virtue of being honest and straightforward. For example, bceomign allies with Hanuman, Sugriva, and others, three Lord was not straughtforward in His dealings with Vali and others. In these situations the Lord's dishonesty is all-auspicious. This is seen in the following example:
krodho 'pi devasya varena tulyah
"The Supreme Lord's anger is as auspicious as His blessing."
The Supreme Lord may sometimes seem to be lusty in His dealings with His consorts. However, what seems to be lust on His part is actually the purest love. This is seen in the following explanation of srimad-Bhagavatam (1.11.35):
sa esa nara-loke 'sminn avatirnah sva-mayaya reme stri-ratna-kutastho bhagavan prakrto yatha
"That Supreme Personality of Godhead sri Krsna, out of His causeless mercy, appeared on this planet by His internal potency and enjoyed Himself amongst competent women as if He were engaging in mundane affairs."
In this verse the word "sva-mayaya" mean with mercy to His devotees, mercy that means love, the love that makes Him wish to please them", "avatirnah" means "all the incarnations of the Lord descend to the material world because They are impelled by that mercy and love", stri-ratna-kutasthah" means "women who with their great love bring the Lord under their control", "reme" means "because of that love the lord enjoys pastimes with them. He does not enjoy pastimes with them because of the lust that is so well-known in the material world. Here the word ratna" indicates that these women are very qualified to associate with the Lord. It indicates that they have great love for Him. Although the Lord's pastimes with these women is very different from anything in the material world, these pastimes superifically seem to be like the activities of the material world. This is described here by the words "prakrto yatha". Thus, although the Lord's pastimes may seem to be like ordinary activities of the material world, the idea that He is impelled by lust is here refuted.