Skip to main content

Kārttikamāsa-māhātmya · Chapter 3

Chapter 3

Unit 100 of 221Kārttikamāsa-māhātmya · Chapter 3Kārttikamāsa-māhātmya · Chapter 31 source entries

Kārttikamāsa-māhātmya · Chapter 3

Source

।। ।। ब्रह्मोवाच ।। ।। भूयः शृणुष्व विप्रेंद्र कार्तिकस्य च वैभवम् ।। दशमीदिनमारभ्य दशम्यां तु समापयेत् ।। १ ।। पौर्णमासीं समारभ्य पौर्णमास्यां समापयेत् ।। आश्विनस्य हरिदिनीं समारभ्य तु भक्तिमान् ।। २ ।। दामोदरं नमस्कृत्य कुर्यात्संकल्पमादितः ।। दामोदर नमस्तेऽस्तु सर्वपापविनाशन ।। ३ ।। कार्तिकस्य व्रतं कर्तुमनुज्ञां दातुमर्हसि ।। निर्विघ्नं कुरु देवेश आमासं पुरुषोत्तम ।। ४ ।। इति संप्रार्थ्य विधिना कार्तिकव्रतमाचरेत् ।। अनूरुं वदता प्रोक्तं भास्करेण श्रुतं मया ।। कलौ च स्वर्गगमनकारणं श्रूयतां हि तत् ।। ५ ।। ।। सूर्य उवाच ।। ।। द्वादशानां तु मासानां मार्गशीर्षोऽतिपुण्यदः ।। ६ ।। तस्मात्पुण्यफलः प्रोक्तो वैशाखो नर्मदातटे ।। ततो लक्षगुणः प्रोक्तः प्रयागे माघमासकः ।। ।। ७ ।। तस्मान्महाफलः प्रोक्तः कार्तिको जलमात्रके ।। एकतः सर्वदानानि व्रतानि नियमास्तथा ।। ८ ।। एकतः कार्तिकस्नानं ब्रह्मणा तुलया धृतम् ।। संततिश्चैव संपत्तिः कलौ येषां प्रजायते ।। ९ ।। अवश्यं तैः कृतं विद्धि कार्तिकस्नानमादरात् ।। स्नानं च दीपदानं च तुलसीवनपालनम् ।। 2.4.3.१० ।। भूमिशय्या ब्रह्मचर्य्यं तथा द्विदलवर्जनम् ।। विष्णुसंकीर्तनं सत्यं पुराणश्रवणं तथा ।। ११ ।। कार्तिके मासि कुर्वंति जीवन्मुक्तास्त एव हि ।। न कार्तिकसमं धर्म्यमर्थ्यं नो कार्तिकात्परम् ।। १२ ।। न कार्तिकसमं काम्यं मोक्षदानं न कार्तिकात् ।। युधिष्ठिरेण धर्मार्थमर्थार्थं च ध्रुवेण च ।।१३ ।। श्रीकृष्णेन तु कामार्थं मोक्षार्थं नारदेन च ।। कृतमेतद्व्रतं तस्माच्छ्रेष्ठं कृष्णप्रियं च हि ।। १४ ।। ।। ।। अरुण उवाच ।। ।। ब्रूहि भास्कर सर्वात्मन्कदाऽऽरभ्य व्रतं कृतम्।। सफलं जायते सम्यक्का च पूज्याऽत्र देवता ।।१५।। ।। भास्कर उवाच ।। अहं विष्णुश्च शर्वश्च देवी विघ्नेश्वरस्तथा ।। एकोऽहं पंचधा जातो नाट्ये सूत्रधरो यथा ।। १६ ।। अस्माकं सर्व एवैते भेदा विद्धि खगेश्वर ।। तस्मात्सौरैश्च गाणेशैः शाक्तैः शैवैश्च वैष्णवैः ।। १७ ।। कर्तव्यं कार्तिकस्नानं सर्वपापापनुत्तये ।। सूर्यस्य प्रीतये कार्यं तुलासंस्थे दिवाकरे।।१८।। इषपूर्णां समारभ्य यावत्कार्तिकपूर्णिमा ।। तावत्स्नानं विधातव्यं शिवसंतुष्टये नरैः ।। १९।। देवीपक्षं समारभ्य महारात्रिचतुर्दशी ।। तावत्स्नानं विधातव्यं देवी संप्रीयतामिति।। 2.4.3.२०।। गणपक्षं समारभ्य कृष्णा या कार्तिके भवेत्।। चतुर्थी तावदेव स्यात्स्नानं गणपतुष्टये।।२१।। एकादशीं समारभ्य आश्विनस्याऽसितेतराम् ।। एकादश्यां कार्तिकस्य शुक्लायां परिपूर्यते ।। कृतं येन तु तस्य स्यात्परितुष्टो जनार्दनः ।। २२ ।। न कार्तिकसमो मासो न काशीसदृशी पुरी ।। न प्रयागसमं तीर्थं न देवः केशवात्परः ।। २३ ।। प्रसंगाद्वा बलात्कारैर्ज्ञात्वाज्ञात्वा कृतं भवेत् ।। स्नानं कार्तिकमासस्य न पश्येद्यमयातनाम् ।। २४ ।। स्नानार्थं चेन्न सामर्थ्यं दत्वान्यस्मै धनादिकम् ।। स्नातस्य तस्य हस्तस्य ग्रहणा पुण्यभाग्भवेत् ।। २५ ।। अथवा कार्तिकस्नानं ये कुर्वंति द्विजातयः ।। तेषां प्रावरणं दत्त्वा स्नानजं फलमाप्नुयात् ।।२६।। राधादामोदरः पूज्यः कार्तिके तु विशेषतः ।। २७ ।। स्वर्णस्य वाथ रौप्यस्याऽप्यभावे शुल्बजामपि ।। मृज्जां वा चित्रजातां वाऽथ वा पिष्टविचित्रिताम् ।। २८ ।। दामोदरस्य राधायास्तुलस्यधोऽर्चयंति ये ।। मूर्तिं ते तु नरा ज्ञेया जीवन्मुक्ता न संशयः ।।२९।। अपि पापसहस्राढ्यः कार्तिकस्नानतो नरः ।। मुक्तोऽवश्यं स भवति नाऽत्र कार्या विचारणा ।। 2.4.3.३० ।। तुलस्यभावे कर्तव्या पूजा धात्रीतले खग ।। मुख्यपूजाविधानं तु कर्तव्यं सूर्यमंडले ।। ३१ ।। अप्रत्यक्षाः सर्वदेवाः प्रत्यक्षो भगवानयम् ।। सर्वे देवाः कालवशाः कालकालो दिवाकरः ।।३२।। एतदाराधनेऽशक्तः प्रतिमां पूजयेन्नरः ।। प्रतिमातोऽधिकं पुण्यं ब्राह्मणस्य तु पूजने ।। ३३ ।। दरिद्रो दानपात्रं स्याद्विद्यावांस्तु विशेषतः ।। विप्राभावे पूजनीया गावः कृष्णा मनोहराः ।। ३४ ।। विष्णोर्मूर्तिर्जंगमतः स्थावरा तु प्रशस्यते ।। शूद्रस्थापितमूर्तीनां नमस्कारं करोति यः ।। पितृभिर्निरयं याति दशपूर्वैर्दशापरैः ।। ३५ ।। शूद्रार्चितस्य संस्पर्शाद्दहेदासप्तमं कुलम् ।। ३६ ।। तस्माद्विचार्य्य विप्रैर्या स्थापिता तां समर्चयेत् ।। ततोऽपि या देवताभिः कृता सा भुक्तिमुक्तिदा ।। ३७ ।। अश्वत्थवटयोरुत्पत्तिमाह सनत्कुमारसंहितायाम्-ब्रह्मणा च पुरा सृष्टाः सर्वे देवाः सवासवाः ।। मिलित्वा सर्व एवैते ब्रह्माणं वाक्यमब्रुवन् ।। ब्रह्मन्सर्वाधिको रुद्रः सर्वदेवेषु पठ्यते ।। कर्तुं तद्दर्शनं देव गच्छामो भवता सह ।। इत्युक्त्वा देवताः सर्वे कैलासं जग्मुरादरात् ।। न दृश्यते द्वारपालः शिवञ्चाभ्यंतरे स्थितः ।। गंतव्यं वा न गंतव्यमस्माभिः शिवसन्निधौ ।। एवं चिंतयमानैस्तैर्नारदो मुनिसत्तमः ।। पुरो दृष्टो देववृंदैस्तं प्रणम्योचुरुत्तमम् ।। देवा ऊचुः ।। मुने वेदविदां श्रेष्ठ ब्रूहि प्रश्नं सुशोभनम् ।। किं करोति महादेवो गंतव्यं वा न वांऽतरे ।। ।। नारद उवाच ।। चंद्रनाशदशायां तु देवाः संप्रस्थिता गृहात् ।। तस्मात्कश्चिन्महान्विघ्नो भवतां संभविष्यति ।। किं करोति शिवश्चेति प्रश्ने रतिदशा विभोः ।। तस्मात्संभोगकार्येऽयं वर्तते त्रिपुरान्तकः ।। इन्द्र उवाच ।। सर्वेषामेव दुःखानां नाशकर्त्ता दिवस्पतिः ।। मय्यागते कथं नाशो देवतानां भविष्यति ।। विभीषणाय देवानां वल्गनं कुरुते मुनिः ।। इतींद्रस्य वचः श्रुत्वा व्याकुलोऽभून्मुनिस्तदा ।। कथं मद्वचनं सत्यं भविष्यत्यद्य वज्रिणि ।। अद्य मद्वचनं शीघ्रं यदि सत्यं भविष्यति ।। राधादामोदरमुदे करिष्ये कार्तिकव्रतम् ।। एवं संचिंत्य मनसा तूष्णींभूतो मुनीश्वरः ।। इंद्रो व्यचारयद्देवैः किमिदानीं विधीयताम् ।। तत इंद्र उवाचेदं वह्ने मद्वचनं शृणु ।। गृहीत्वा विप्ररूपं त्वं शिवस्याऽभ्यंतरे व्रज ।। यदि प्रसंगोऽस्त्यस्माकं तदा वार्तां निगद्य ताम् ।। यदि नास्ति प्रसंगश्चेद्याचकत्वेन याहि च ।। अवध्यत्वादताड्यत्वाद्भिक्षुकत्वेन तं व्रज ।। इति देवेंद्रवचन श्रुत्वा वह्निस्तथाऽकरोत् ।। अभ्यंतरं ददर्शेशं शिवया सह संगतम् ।। शिवयाऽपि च दृष्टः स लज्जिता भोगमत्यजत् ।। कोऽसि कोऽसीति संपृष्टो भिक्षुकोऽहं क्षुधातुरः ।। वृद्धोऽस्म्यंधोऽस्मि दीनोऽस्मि भोजनं दीयतां मम ।। तेनाऽदृष्टमिति ज्ञात्वा पार्वती तमभोजयत् ।। सोऽपि भुक्त्वा समाचारं वक्तुं संप्रस्थितो बहिः ।। तस्मिन्नेव क्षणे गुप्तो नारदः पार्वतीं ययौ ।। शिरो निधाय पार्वत्याः पादयोः स रुरोद ह।। अहो बालक किं जातं तच्छीग्रमभिधीयताम् ।। करोमि निष्कृतिं तस्य साध्यासाध्यस्य वाऽन्यथा ।। नारद उवाच ।। मातर्वक्तुं न शक्नोमि उपहासस्य कारणम् ।। कृतं यथें द्रादि देवैस्तथा कोऽन्यः करिष्यति ।। इति श्रुत्वा वचस्तस्य पुनः पुनरपृच्छत ।। मुद्रयित्वा ततो नेत्रे कराभ्यां स मुनीश्वरः ।। उवाच वचनं नीचं मूर्खोऽसौ गद्गदाक्षरम् ।। इंद्रोऽयं युवयोर्भोगं देवताभ्यो ह्यवर्णयत् ।। युवयोश्च कृता निन्दा तां श्रुत्वा दुःखितोऽस्म्यहम् ।। भोगविच्छित्तये वह्निः प्रेषितो द्विजरूपकः ।। जगन्माताऽसि देवि त्वं का ते स्यादुपहास्यता ।। इति तस्या वचः श्रुत्वा पार्वती क्रुद्धमानसा ।। स्फुरदोष्ठा रक्तनेत्रा दृष्ट्वा तां नारदो ययौ ।। गत्वा देवानुवाचेदं संभोगाद्विरतो हरः ।। आगम्यतां दर्शनार्थं दूरतोऽसौ विलोकितः ।। वह्नेर्मुनेर्वचः क्षुत्वा देवेंद्रः सगणो ययौ ।। प्रणिपत्य महादेवं कृतांजलिपुटोऽभवत् ।। दृष्ट्वा तथाविधं शक्रं पार्वती वाक्यमब्रवीत् ।। यावंतः संति देवानां ज्ञातयः सर्व एव ते ।। अजानंतः स्त्रीसुखानि शाखिनः संतु सस्त्रियः ।। इति देवीवचः श्रुत्वा कंपिताः सर्वदेवताः ।। ब्रह्मविष्णुमहेशाद्यास्तुष्टुवुर्जगदंबिकाम् ।। ततो देवी प्रसन्नाऽभूद्देवेंद्रं वाक्यमब्रवीत् ।। देवा मद्वचनं मिथ्या त्रिलोकेऽपि न जायते ।। तस्मादेकांशतो वृक्षा यूयं सर्वे भवंतु वै ।। इति देव्या वचः श्रुत्वा जाता देवास्तु पादपाः ।। अश्वत्थरूपी भगवान्वटरूपी सदाशिवः ।। पालाशोऽभूद्विधाता च आम्रः शक्रो बभूव ह ।। इन्द्राण्याद्या लता ज्ञेया देवानां योषितस्तथा ।। मालत्याद्याः पुष्पलता उर्वश्याद्यप्सरोगणाः ।। '' इति ।। ३८ ।। मूर्त्यभावे पूजनीयोऽश्वत्थो वाऽथ वटोऽथ वा ।। अश्वत्थरूपी विष्णुः स्याद्वटरूपी शिवो यतः ।। ३८ ।। कार्तिके तुलसीशाकं तांबूलं वा नराधमः ।। अज्ञानाज्ज्ञानतो वाऽपि भुञ्जानो निरयं व्रजेत् ।। ३९ ।। शालिग्रामशिलाचक्रे नित्यं सन्निहितो हरिः ।। तस्मात्सर्वप्रयत्नेन शालिग्रामं प्रपूजयेत् ।। 2.4.3.४० ।। रुद्रशापवशाद्गावो विष्ठाभक्षणतत्पराः ।। तथाऽपि ताः पूजनीया लोकद्वयफलप्रदाः ।। ४१ ।। पालाशे पालाशपत्रे । अत्र विशेषः पाद्मे – यः करोति नरो नित्यं कार्तिके पत्रभोजनम् ।। न दुर्गतिमवाप्नोति यावदिंद्राश्चतुर्दश ।। सर्वकामफलं तस्य सर्वतीर्थफलं लभेत् ।। न चाऽपि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात् ।। ब्रह्मा एष स्मृतः साक्षात्पालाशः सर्वकामदः ।। मध्यमं वर्जयेत्पत्रं कार्तिके शिखिवाहन ।। ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्त्रिपत्रके ।। ऐश्वरं वर्जयेत्पत्रं ब्रह्मा विष्णुरनुत्तमम् ।। सर्वं पुण्यमवाप्नोति शेषपत्त्रेषु भोजनात् ।। भोजनान्मध्यपत्रेषु कपिलापयसस्तथा।। प्राशनान्मुनि शार्दूल नरो नरकमाप्नुयात् ।। भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम्।। मौनी पालाशभोजी च हन्यात्पापं युगार्जितम्।। '' इति ।।ब्रह्मांऽशकसमुद्भूते पालाशे यस्तु भोजनम् ।। कुर्यात्कार्तिकमासेऽसौ विष्णुलोकं प्रयास्यति ।। ४२ ।। * अश्वत्थरूपी भगवान्वटरूपी सदाशिवः ।। तस्मात्सर्वप्रयत्नेन कार्तिकेऽश्वत्थमर्चयेत् ।। ४३ ।। या नारी कार्तिके मासि लक्षं कुर्यात्प्रदक्षिणाः ।। राधादामोदरं पूज्य मन्दवारे च तत्तले ।। ४४ ।। दम्पती भोजयेद्राधादामोदरस्वरूपिणौ ।। भोजयित्वा सपत्नीकान्पश्चाद्भुंजीत वाग्यतः ।। ४५ ।। वन्ध्याऽपि लभते पुत्रमितरासां तु का कथा ।। सदा सन्निहितो विष्णुर्द्विपत्सु ब्राह्मणे यथा ।। ४६ ।। द्विपत्सु द्विपदेषु मनुष्यमात्रेषु ब्राह्मणे विष्णोर्वासः ।। ४६ ।। बोधिद्रुमेऽश्वत्थवृक्षे ।। ४७ ।।बोधिद्रुमे पादपेषु शालिग्रामे शिलासु च ।। तस्मादश्वत्थमूले वै कर्तव्यं विष्णुपूजनम् ।। ४७ ।। शनिवासरे अश्वत्थपूजा स्पर्शेन कर्तव्या अन्यवारे शनिव्यतिरिक्तरव्यादिषड्वारे अश्वत्थस्पर्शं यदि कुर्यात्तदा दरिद्रः स्यात् । अत्र प्रसिद्धां कथामाह-यदा समुद्रमथनाज्ज्येष्ठा लक्ष्मीश्चोत्पन्ने लक्ष्मीर्विष्णवे दत्ता ज्येष्ठा उद्दालकाय दत्ता सा उद्दालकस्य वेदध्व निनिनादितमतिपवित्रमाश्रमं विलोक्य अतिदुःखिता सती पतिमुवाच-हे स्वामिन् तवाऽऽश्रमे मम शिरःपीडा भवति, अत्र न वसामि यत्र द्यूतमद्यव्यसनिनः परदाराभिगा मिनः कलहकारिणः वसंति तादृशं स्थलं मे देहि, इति ज्येष्ठावचः श्रुत्वा उद्दालकः भृशं दुःखितः सन् अस्याः त्यागेनैव मम सुखं भवेदिति विचार्य भार्यामुवाच, हे कांते मद्वचनं शृणु. अद्य अश्वत्थाधः स्थिरा भव, तव यथायोग्यं स्थलं विलोक्य तत्र त्वां नयामि, मा शुचः, इत्थमाश्वास्य पलायनमचीकरत। साऽपि सायंकालपर्यंतं स्थित्वा निराशा सती करुणं रुरोद तदा श्रुत्वा तद्रोदनं विष्णुः श्रिया सह समाययौ, हे ज्येष्ठे अलक्ष्मीः अद्य शनिवासरोऽस्ति अतः सप्तमे सप्तमेऽहनि तव भगिनी मेलनायागमि ष्यति अन्यवारेषु यैः पिप्पलः स्पृश्यंते तद्गृहं व्रज शनिवारे यैः अश्वत्थः स्पृष्टः तत्र मत्प्रिया यास्यति एवमाश्वास्य हरिः वैकुंठं जगाम तस्मान्मंदवारं विना अश्वत्थः न स्पृश्य इति ।। ४८ ।। ४९ ।।अश्वत्थपूजा स्पर्शेन कर्त्तव्या शनिवासरे ।। अन्यवारेऽश्वत्थसंगाद्दरिद्रो जायते नरः ।।४८।। स्नानं जागरणं दीपं तुलसीवनपालनम् ।। कार्तिके मासि कुर्वंति ते नरा विष्णुमूर्तयः ।। ४९ ।। संमार्जनं विष्णुगृहे स्वस्तिकादिनिवेदनम् ।। विष्णोः पूजां च ये कुर्युर्जीवन्मुक्तास्तु ते नराः ।। 2.4.3.५० ।। स्नानकालं प्रवक्ष्यामि तीर्थादिषु च यत्फलम् ।। स्नानधर्माश्च ये केचित्तान्सर्वान्मे निबोधत ।। ५१ ।। इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकवैभववर्णनंनाम तृतीयोऽध्यायः ।। ३ ।।.

|| || brahmovāca || || bhūyaḥ śṛṇuṣva vipreṃdra kārtikasya ca vaibhavam || daśamīdinamārabhya daśamyāṃ tu samāpayet || 1 || paurṇamāsīṃ samārabhya paurṇamāsyāṃ samāpayet || āśvinasya haridinīṃ samārabhya tu bhaktimān || 2 || dāmodaraṃ namaskṛtya kuryātsaṃkalpamāditaḥ || dāmodara namaste'stu sarvapāpavināśana || 3 || kārtikasya vrataṃ kartumanujñāṃ dātumarhasi || nirvighnaṃ kuru deveśa āmāsaṃ puruṣottama || 4 || iti saṃprārthya vidhinā kārtikavratamācaret || anūruṃ vadatā proktaṃ bhāskareṇa śrutaṃ mayā || kalau ca svargagamanakāraṇaṃ śrūyatāṃ hi tat || 5 || || sūrya uvāca || || dvādaśānāṃ tu māsānāṃ mārgaśīrṣo'tipuṇyadaḥ || 6 || tasmātpuṇyaphalaḥ prokto vaiśākho narmadātaṭe || tato lakṣaguṇaḥ proktaḥ prayāge māghamāsakaḥ || || 7 || tasmānmahāphalaḥ proktaḥ kārtiko jalamātrake || ekataḥ sarvadānāni vratāni niyamāstathā || 8 || ekataḥ kārtikasnānaṃ brahmaṇā tulayā dhṛtam || saṃtatiścaiva saṃpattiḥ kalau yeṣāṃ prajāyate || 9 || avaśyaṃ taiḥ kṛtaṃ viddhi kārtikasnānamādarāt || snānaṃ ca dīpadānaṃ ca tulasīvanapālanam || 2.4.3.10 || bhūmiśayyā brahmacaryyaṃ tathā dvidalavarjanam || viṣṇusaṃkīrtanaṃ satyaṃ purāṇaśravaṇaṃ tathā || 11 || kārtike māsi kurvaṃti jīvanmuktāsta eva hi || na kārtikasamaṃ dharmyamarthyaṃ no kārtikātparam || 12 || na kārtikasamaṃ kāmyaṃ mokṣadānaṃ na kārtikāt || yudhiṣṭhireṇa dharmārthamarthārthaṃ ca dhruveṇa ca ||13 || śrīkṛṣṇena tu kāmārthaṃ mokṣārthaṃ nāradena ca || kṛtametadvrataṃ tasmācchreṣṭhaṃ kṛṣṇapriyaṃ ca hi || 14 || || || aruṇa uvāca || || brūhi bhāskara sarvātmankadā''rabhya vrataṃ kṛtam|| saphalaṃ jāyate samyakkā ca pūjyā'tra devatā ||15|| || bhāskara uvāca || ahaṃ viṣṇuśca śarvaśca devī vighneśvarastathā || eko'haṃ paṃcadhā jāto nāṭye sūtradharo yathā || 16 || asmākaṃ sarva evaite bhedā viddhi khageśvara || tasmātsauraiśca gāṇeśaiḥ śāktaiḥ śaivaiśca vaiṣṇavaiḥ || 17 || kartavyaṃ kārtikasnānaṃ sarvapāpāpanuttaye || sūryasya prītaye kāryaṃ tulāsaṃsthe divākare||18|| iṣapūrṇāṃ samārabhya yāvatkārtikapūrṇimā || tāvatsnānaṃ vidhātavyaṃ śivasaṃtuṣṭaye naraiḥ || 19|| devīpakṣaṃ samārabhya mahārātricaturdaśī || tāvatsnānaṃ vidhātavyaṃ devī saṃprīyatāmiti|| 2.4.3.20|| gaṇapakṣaṃ samārabhya kṛṣṇā yā kārtike bhavet|| caturthī tāvadeva syātsnānaṃ gaṇapatuṣṭaye||21|| ekādaśīṃ samārabhya āśvinasyā'sitetarām || ekādaśyāṃ kārtikasya śuklāyāṃ paripūryate || kṛtaṃ yena tu tasya syātparituṣṭo janārdanaḥ || 22 || na kārtikasamo māso na kāśīsadṛśī purī || na prayāgasamaṃ tīrthaṃ na devaḥ keśavātparaḥ || 23 || prasaṃgādvā balātkārairjñātvājñātvā kṛtaṃ bhavet || snānaṃ kārtikamāsasya na paśyedyamayātanām || 24 || snānārthaṃ cenna sāmarthyaṃ datvānyasmai dhanādikam || snātasya tasya hastasya grahaṇā puṇyabhāgbhavet || 25 || athavā kārtikasnānaṃ ye kurvaṃti dvijātayaḥ || teṣāṃ prāvaraṇaṃ dattvā snānajaṃ phalamāpnuyāt ||26|| rādhādāmodaraḥ pūjyaḥ kārtike tu viśeṣataḥ || 27 || svarṇasya vātha raupyasyā'pyabhāve śulbajāmapi || mṛjjāṃ vā citrajātāṃ vā'tha vā piṣṭavicitritām || 28 || dāmodarasya rādhāyāstulasyadho'rcayaṃti ye || mūrtiṃ te tu narā jñeyā jīvanmuktā na saṃśayaḥ ||29|| api pāpasahasrāḍhyaḥ kārtikasnānato naraḥ || mukto'vaśyaṃ sa bhavati nā'tra kāryā vicāraṇā || 2.4.3.30 || tulasyabhāve kartavyā pūjā dhātrītale khaga || mukhyapūjāvidhānaṃ tu kartavyaṃ sūryamaṃḍale || 31 || apratyakṣāḥ sarvadevāḥ pratyakṣo bhagavānayam || sarve devāḥ kālavaśāḥ kālakālo divākaraḥ ||32|| etadārādhane'śaktaḥ pratimāṃ pūjayennaraḥ || pratimāto'dhikaṃ puṇyaṃ brāhmaṇasya tu pūjane || 33 || daridro dānapātraṃ syādvidyāvāṃstu viśeṣataḥ || viprābhāve pūjanīyā gāvaḥ kṛṣṇā manoharāḥ || 34 || viṣṇormūrtirjaṃgamataḥ sthāvarā tu praśasyate || śūdrasthāpitamūrtīnāṃ namaskāraṃ karoti yaḥ || pitṛbhirnirayaṃ yāti daśapūrvairdaśāparaiḥ || 35 || śūdrārcitasya saṃsparśāddahedāsaptamaṃ kulam || 36 || tasmādvicāryya viprairyā sthāpitā tāṃ samarcayet || tato'pi yā devatābhiḥ kṛtā sā bhuktimuktidā || 37 || aśvatthavaṭayorutpattimāha sanatkumārasaṃhitāyām-brahmaṇā ca purā sṛṣṭāḥ sarve devāḥ savāsavāḥ || militvā sarva evaite brahmāṇaṃ vākyamabruvan || brahmansarvādhiko rudraḥ sarvadeveṣu paṭhyate || kartuṃ taddarśanaṃ deva gacchāmo bhavatā saha || ityuktvā devatāḥ sarve kailāsaṃ jagmurādarāt || na dṛśyate dvārapālaḥ śivañcābhyaṃtare sthitaḥ || gaṃtavyaṃ vā na gaṃtavyamasmābhiḥ śivasannidhau || evaṃ ciṃtayamānaistairnārado munisattamaḥ || puro dṛṣṭo devavṛṃdaistaṃ praṇamyocuruttamam || devā ūcuḥ || mune vedavidāṃ śreṣṭha brūhi praśnaṃ suśobhanam || kiṃ karoti mahādevo gaṃtavyaṃ vā na vāṃ'tare || || nārada uvāca || caṃdranāśadaśāyāṃ tu devāḥ saṃprasthitā gṛhāt || tasmātkaścinmahānvighno bhavatāṃ saṃbhaviṣyati || kiṃ karoti śivaśceti praśne ratidaśā vibhoḥ || tasmātsaṃbhogakārye'yaṃ vartate tripurāntakaḥ || indra uvāca || sarveṣāmeva duḥkhānāṃ nāśakarttā divaspatiḥ || mayyāgate kathaṃ nāśo devatānāṃ bhaviṣyati || vibhīṣaṇāya devānāṃ valganaṃ kurute muniḥ || itīṃdrasya vacaḥ śrutvā vyākulo'bhūnmunistadā || kathaṃ madvacanaṃ satyaṃ bhaviṣyatyadya vajriṇi || adya madvacanaṃ śīghraṃ yadi satyaṃ bhaviṣyati || rādhādāmodaramude kariṣye kārtikavratam || evaṃ saṃciṃtya manasā tūṣṇīṃbhūto munīśvaraḥ || iṃdro vyacārayaddevaiḥ kimidānīṃ vidhīyatām || tata iṃdra uvācedaṃ vahne madvacanaṃ śṛṇu || gṛhītvā viprarūpaṃ tvaṃ śivasyā'bhyaṃtare vraja || yadi prasaṃgo'styasmākaṃ tadā vārtāṃ nigadya tām || yadi nāsti prasaṃgaścedyācakatvena yāhi ca || avadhyatvādatāḍyatvādbhikṣukatvena taṃ vraja || iti deveṃdravacana śrutvā vahnistathā'karot || abhyaṃtaraṃ dadarśeśaṃ śivayā saha saṃgatam || śivayā'pi ca dṛṣṭaḥ sa lajjitā bhogamatyajat || ko'si ko'sīti saṃpṛṣṭo bhikṣuko'haṃ kṣudhāturaḥ || vṛddho'smyaṃdho'smi dīno'smi bhojanaṃ dīyatāṃ mama || tenā'dṛṣṭamiti jñātvā pārvatī tamabhojayat || so'pi bhuktvā samācāraṃ vaktuṃ saṃprasthito bahiḥ || tasminneva kṣaṇe gupto nāradaḥ pārvatīṃ yayau || śiro nidhāya pārvatyāḥ pādayoḥ sa ruroda ha|| aho bālaka kiṃ jātaṃ tacchīgramabhidhīyatām || karomi niṣkṛtiṃ tasya sādhyāsādhyasya vā'nyathā || nārada uvāca || mātarvaktuṃ na śaknomi upahāsasya kāraṇam || kṛtaṃ yatheṃ drādi devaistathā ko'nyaḥ kariṣyati || iti śrutvā vacastasya punaḥ punarapṛcchata || mudrayitvā tato netre karābhyāṃ sa munīśvaraḥ || uvāca vacanaṃ nīcaṃ mūrkho'sau gadgadākṣaram || iṃdro'yaṃ yuvayorbhogaṃ devatābhyo hyavarṇayat || yuvayośca kṛtā nindā tāṃ śrutvā duḥkhito'smyaham || bhogavicchittaye vahniḥ preṣito dvijarūpakaḥ || jaganmātā'si devi tvaṃ kā te syādupahāsyatā || iti tasyā vacaḥ śrutvā pārvatī kruddhamānasā || sphuradoṣṭhā raktanetrā dṛṣṭvā tāṃ nārado yayau || gatvā devānuvācedaṃ saṃbhogādvirato haraḥ || āgamyatāṃ darśanārthaṃ dūrato'sau vilokitaḥ || vahnermunervacaḥ kṣutvā deveṃdraḥ sagaṇo yayau || praṇipatya mahādevaṃ kṛtāṃjalipuṭo'bhavat || dṛṣṭvā tathāvidhaṃ śakraṃ pārvatī vākyamabravīt || yāvaṃtaḥ saṃti devānāṃ jñātayaḥ sarva eva te || ajānaṃtaḥ strīsukhāni śākhinaḥ saṃtu sastriyaḥ || iti devīvacaḥ śrutvā kaṃpitāḥ sarvadevatāḥ || brahmaviṣṇumaheśādyāstuṣṭuvurjagadaṃbikām || tato devī prasannā'bhūddeveṃdraṃ vākyamabravīt || devā madvacanaṃ mithyā triloke'pi na jāyate || tasmādekāṃśato vṛkṣā yūyaṃ sarve bhavaṃtu vai || iti devyā vacaḥ śrutvā jātā devāstu pādapāḥ || aśvattharūpī bhagavānvaṭarūpī sadāśivaḥ || pālāśo'bhūdvidhātā ca āmraḥ śakro babhūva ha || indrāṇyādyā latā jñeyā devānāṃ yoṣitastathā || mālatyādyāḥ puṣpalatā urvaśyādyapsarogaṇāḥ || '' iti || 38 || mūrtyabhāve pūjanīyo'śvattho vā'tha vaṭo'tha vā || aśvattharūpī viṣṇuḥ syādvaṭarūpī śivo yataḥ || 38 || kārtike tulasīśākaṃ tāṃbūlaṃ vā narādhamaḥ || ajñānājjñānato vā'pi bhuñjāno nirayaṃ vrajet || 39 || śāligrāmaśilācakre nityaṃ sannihito hariḥ || tasmātsarvaprayatnena śāligrāmaṃ prapūjayet || 2.4.3.40 || rudraśāpavaśādgāvo viṣṭhābhakṣaṇatatparāḥ || tathā'pi tāḥ pūjanīyā lokadvayaphalapradāḥ || 41 || pālāśe pālāśapatre | atra viśeṣaḥ pādme – yaḥ karoti naro nityaṃ kārtike patrabhojanam || na durgatimavāpnoti yāvadiṃdrāścaturdaśa || sarvakāmaphalaṃ tasya sarvatīrthaphalaṃ labhet || na cā'pi narakaṃ paśyedbrahmapatreṣu bhojanāt || brahmā eṣa smṛtaḥ sākṣātpālāśaḥ sarvakāmadaḥ || madhyamaṃ varjayetpatraṃ kārtike śikhivāhana || brahmā viṣṇuśca rudraśca trayo devāstripatrake || aiśvaraṃ varjayetpatraṃ brahmā viṣṇuranuttamam || sarvaṃ puṇyamavāpnoti śeṣapattreṣu bhojanāt || bhojanānmadhyapatreṣu kapilāpayasastathā|| prāśanānmuni śārdūla naro narakamāpnuyāt || bhojanaṃ brahmapatreṣu kārtike muktidāyakam|| maunī pālāśabhojī ca hanyātpāpaṃ yugārjitam|| '' iti ||brahmāṃ'śakasamudbhūte pālāśe yastu bhojanam || kuryātkārtikamāse'sau viṣṇulokaṃ prayāsyati || 42 || * aśvattharūpī bhagavānvaṭarūpī sadāśivaḥ || tasmātsarvaprayatnena kārtike'śvatthamarcayet || 43 || yā nārī kārtike māsi lakṣaṃ kuryātpradakṣiṇāḥ || rādhādāmodaraṃ pūjya mandavāre ca tattale || 44 || dampatī bhojayedrādhādāmodarasvarūpiṇau || bhojayitvā sapatnīkānpaścādbhuṃjīta vāgyataḥ || 45 || vandhyā'pi labhate putramitarāsāṃ tu kā kathā || sadā sannihito viṣṇurdvipatsu brāhmaṇe yathā || 46 || dvipatsu dvipadeṣu manuṣyamātreṣu brāhmaṇe viṣṇorvāsaḥ || 46 || bodhidrume'śvatthavṛkṣe || 47 ||bodhidrume pādapeṣu śāligrāme śilāsu ca || tasmādaśvatthamūle vai kartavyaṃ viṣṇupūjanam || 47 || śanivāsare aśvatthapūjā sparśena kartavyā anyavāre śanivyatiriktaravyādiṣaḍvāre aśvatthasparśaṃ yadi kuryāttadā daridraḥ syāt | atra prasiddhāṃ kathāmāha-yadā samudramathanājjyeṣṭhā lakṣmīścotpanne lakṣmīrviṣṇave dattā jyeṣṭhā uddālakāya dattā sā uddālakasya vedadhva ninināditamatipavitramāśramaṃ vilokya atiduḥkhitā satī patimuvāca-he svāmin tavā''śrame mama śiraḥpīḍā bhavati, atra na vasāmi yatra dyūtamadyavyasaninaḥ paradārābhigā minaḥ kalahakāriṇaḥ vasaṃti tādṛśaṃ sthalaṃ me dehi, iti jyeṣṭhāvacaḥ śrutvā uddālakaḥ bhṛśaṃ duḥkhitaḥ san asyāḥ tyāgenaiva mama sukhaṃ bhavediti vicārya bhāryāmuvāca, he kāṃte madvacanaṃ śṛṇu. adya aśvatthādhaḥ sthirā bhava, tava yathāyogyaṃ sthalaṃ vilokya tatra tvāṃ nayāmi, mā śucaḥ, itthamāśvāsya palāyanamacīkarata| sā'pi sāyaṃkālaparyaṃtaṃ sthitvā nirāśā satī karuṇaṃ ruroda tadā śrutvā tadrodanaṃ viṣṇuḥ śriyā saha samāyayau, he jyeṣṭhe alakṣmīḥ adya śanivāsaro'sti ataḥ saptame saptame'hani tava bhaginī melanāyāgami ṣyati anyavāreṣu yaiḥ pippalaḥ spṛśyaṃte tadgṛhaṃ vraja śanivāre yaiḥ aśvatthaḥ spṛṣṭaḥ tatra matpriyā yāsyati evamāśvāsya hariḥ vaikuṃṭhaṃ jagāma tasmānmaṃdavāraṃ vinā aśvatthaḥ na spṛśya iti || 48 || 49 ||aśvatthapūjā sparśena karttavyā śanivāsare || anyavāre'śvatthasaṃgāddaridro jāyate naraḥ ||48|| snānaṃ jāgaraṇaṃ dīpaṃ tulasīvanapālanam || kārtike māsi kurvaṃti te narā viṣṇumūrtayaḥ || 49 || saṃmārjanaṃ viṣṇugṛhe svastikādinivedanam || viṣṇoḥ pūjāṃ ca ye kuryurjīvanmuktāstu te narāḥ || 2.4.3.50 || snānakālaṃ pravakṣyāmi tīrthādiṣu ca yatphalam || snānadharmāśca ye kecittānsarvānme nibodhata || 51 || iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye kārtikavaibhavavarṇanaṃnāma tṛtīyo'dhyāyaḥ || 3 ||.

English translation

Brahmā said :

1-5. O great Brāhmaṇa , listen to the greatness of Kārttika further. [1] It (i.e. Kārttika vow) should start on the tenth day (in the month of Āśvina ) and conclude on the tenth day (in Kārttika).

It should start on the full-moon day (of Āśvina) and conclude on the full-moon day (of Kārttika). The devotee should start on the eleventh day in the month of Āśvina. After bowing down to Dāmodara he should perform the rite of Saṅkalpa at the outset: “O Dāmodara, obeisance to you. O destroyer of all sins, it behoves you to grant permission to perform the (specific) religious observance of Kārttika. O Puruṣottama , O Lord of Devas , make its observance free from obstacles during the whole of this month.” After praying thus, the devotee should duly begin the religious vow.

What was being narrated to Anūru ( Aruṇa , charioteer of the Sun-god) by the Sun-god, was heard by me. It is the cause of the attainment of heaven in Kali . May it be heard.

The Sun-god said :

6-8a. Out of the twelve months, the month of Mārgaśīrṣa is highly meritorious. It is said that Vaiśākha on the banks of Narmadā is more meritorious than that. The month of Māgha at Prayāga is a hundred thousand times more meritorious than that. It is declared that Kārttika is more fruitful than that at any water reservoir.

8b-9a. With all (kinds of) charitable gifts, vows and pious observances on one side and the holy bath in the month of Kārttika on the other side were weighed in balance by god Brahmā (and both were found to be equal).

9b-12a. If in Kali Age people are (found) endowed with many children and plenty of wealth, know that holy bath in the month of Kārttika has been certainly taken by them with great respect.

Those who perform the following in the month of Kārttika are indeed living-liberated souls [2] : Holy bath, gifting away lamps, keeping forests of Tulasī plants, sleeping on bare ground, celibacy, avoidance of two-leafed plants, glorification of Viṣṇu , truthfulness, and listening to the Purāṇas .

12b-14. There is nothing conducive to righteousness on a par with Kārttika; there is nothing more conducive to wealth than Kārttika; there is no Kāmya rite (that which yields desired results) on a par with Kārttika. There is no better rite bestowing salvation than Kārttika ( Vrata ).

This Vrata was observed by Yudhiṣṭhira for the sake of virtue ( Dharma ), by Dhruva for the sake of wealth, by Śrīkṛṣṇa for the sake of love and by Nārada for the sake of salvation. Hence it is very excellent and a favourite of Kṛṣṇa .

Aruṇa said :

15. Say, O Sun-god, the immanent soul of all, when should this Vrata be begun to make it completely fruitful? Which deity should be properly worshipped here?

Bhāskara (Sun -god) replied :

16. Viṣṇu, Śarva , I, Goddess and Vighneśvara i.e. Gaṇeśa (are to be worshipped). [3] Though I am only one, I have become five as in the case of a Stage Manager in the course of a play.

17-18. Know, O lord of birds, that these are all our own different forms. Hence holy bath in the month of Kārttika should be taken for the purpose of dispelling all sins by Sauras (followers of the Sun), Gāṇeśas (followers of Vighneśvara), Śāktas (followers of Śakti or Goddess), Śaivas (followers of Śiva ) and Vaiṣṇavas (followers of Viṣṇu).

When the Sun is in the Zodiac of Libra, it should be taken for propitiating the Sun-god.

19. Beginning with the full-moon day in the month of Āśvina and ending with the full-moon day of Kārttika, the holy baths should be taken by men for the delight of Śiva.

20. Beginning with the fortnight of Devī and ending with the fourteenth night, Mahārātri, the holy bath should be taken proclaiming, “May the Goddess be pleased”.

21. Beginning with the fortnight of Gaṇa ( pati ) from the fourth day and ending with the fourth day of the dark half of the month of Kārttika, the holy batb should be taken for the propitiation of Gaṇapati .

22. The devotee should begin the Vrata on the eleventh day in the bright half of the month of Āśvina and conclude it on the eleventh day in the bright half of the month of Kārttika. If he does like this, Janārdana shall be delighted.

23. There is no other month on a par with Kārttika; there is no other city equal to Kāśī ; there is no other Tīrtha on a par with Prayāga; and there is no Lord greater than Keśava .

24. If the holy bath in the month of Kārttika is taken casually, or under compulsion, knowingly or unknowingly, (the devotee) shall never meet with torture at the hands of Yama .

25. If one is (physically) incapable of taking the holy bath, he can offer money etc. to another. When the other comes after concluding the bath, one should grasp his hand. Thereby one attains the merit thereof.

26. Or the devotee should offer quilts, blankets etc. to Brāhmaṇas who take the holy bath in the month of Kārttika. Thereby he shall attain the benefit accruing from the holy bath.

27 -29. In the month of Kārttika, Rādhā and Dāmodara should be particularly worshipped.

The idols of Rādhā and Dāmodara may be of gold, silver (or if it is not possible, of) copper or clay. They may be even pictures or figurettes made on the ground with flour pastes etc. and painted with colours. Those who worship these idols or pictures etc. of Rādhā and Dāmodara underneath a Tulasī plant should be known as living-liberated souls.

30. A man may be defiled by thousands of sins, but through the holy bath in the month of Kārttika, he will certainly become liberated. There is no doubt about this.

31. O bird, if Tulasī is not available, the worship should be conducted beneath a Dhātrī (Emblic myrobalan) plant. But the main worship is to be conducted in the mystic diagram of the Sun.

32. All the Devas are invisible but he (the Sun-god) is the visible Lord. All the Devas are under the control of Kāla (Time, Death) but the Sun-god is Kālakāla (Regulator or death(?) of Kāla).

33. One who is incapable of worshipping in this manner should worship an idol. There is greater merit in worshipping a Brāhmaṇa than an idol.

34-38. A poor man is a deserving recipient of charitable gifts. If he happens to be learned, he is particularly so. If a Brāhmaṇa is not available, black cows are charming. A fixed idol of Viṣṇu is better than a mobile (portable) one.

He who worships and bows to the idols installed by Śūdras , goes to hell along with ten ancestors and ten descendants.

If one touches the idol worshipped by a Śūdra , he will burn (get burnt) his family up to the seventh generation.

Hence one must enquire and worship an idol that has been installed by Brāhmaṇas. Better than this is an idol made by Devas. It yields worldly pleasures and salvation.

If an idol is not available either an Aśvattha (fig tree) or a Vaṭa (banyan tree) should be worshipped, since Aśvattha is a form of Viṣṇu and Vaṭa is a form of Śiva. [4]

39. A base man who eats Tulasī Śāka (basil leaf cooked as a vegetable dish ) or betel leaf knowingly or unknowingly in the month of Kārttika shall go to hell.

40. Hari is always present in the circular line in the Śālagrāma stone. Hence by all means one should worship the Śālagrāma stone.

41. Cows have become eaters of faeces on account of Rudra ’s curse. [5] Still they are to be worshipped because they yield merit in both the worlds.

42. In the month of Kārttika, one who takes food on a leaf of Palāśa tree ( Butea frondosa ) which is born of a part of god Brahmā, shall go to the world of Viṣṇu.

43. Aśvattha is a form of the Lord (Viṣṇu) and Vaṭa is a form of Sadāśiva . Hence by all means one should worship Aśvattha in the month of Kārttika.

44-46. A woman devotee should circumambulate (an Aśvattha tree) a hundred thousand times in the month of Kārttika. On Saturdays she should worship Rādhā and Dāmodara beneath it. She should then feed a couple representing Rādhā and Dāmodara. After feeding the couples, she should take food with restrained speech. (By observing this Vrata) even a barren woman shall get a son. Nothing need be said about others? Viṣṇu is always present in all as in a Brāhmaṇa.

47. He is present in the Aśvattha tree among trees, and in the Śālagrāma among stones. Hence the worship of Viṣṇu should be performed at the root of Aśvattha.

48. The worship of Aśvattha should be conducted on Saturdays by touching it On other days if a man touches it he will become poor.

49. Those men who perform holy bath, keep religious vigil, light the lamps and keep a forest of Tulasī plants in the month of Kārttika are the forms of Viṣṇu.

50. Those men who sweep the temple of Viṣṇu, offer Svastika etc. and those who worship Viṣṇu are living-liberated souls.

51. I shall mention the time for the holy bath in the Tīrthas that will be beneficent. Know from me the benefit thereof and the rites concerning the holy bath and all other connected things.

[1]: [1] : VV 1-5 state the days on which the Kārttika Vratas are to be begun and concluded and the Saṅkalpa .

[2]: [2] : The various Vratas during Kārttika.

[3]: [3] : This shows a synthesis of the main five sects of Hinduism. This oneness is represented by Pañcāyatana worship. The credit of this synthesis is given to Ādi-Śaṅkarācārya. VV 18-22 specify the day ( tithi ) on which a follower of a specific deity is to begin and conclude the Kārttika Vrata .

[4]: [4] : As per Sanatkumāra Saṃhitā , Aśvattha is a form of Viṣṇu, Vaṭa (banyan tree) is a form of Śiva, Palāśa ( Butea frondosa ) is god Brahmā and mango tree is Indra. (Comm.)

[5]: [5] : According to Sanatkumārasaṃhitā , the Divine Cow (Kāmadhenu) gave false evidence that Brahmā had seen the upper part of the head of Śiva. Śiva cursed her (and her species) to eat faeces by the mouth which told a lie. (Comm.)

Complete chapter-aligned witnesses. Sanskrit Wikisource page 22988, revision 334308 (2022-03-31T06:47:22Z). English is G. V. Tagare’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc371644.html and the archival publication witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.