Skip to main content

Prakṛti-khaṇḍa · Chapter 64

Chapter 64

Unit 94 of 276Prakṛti-khaṇḍa · Chapter 64Prakṛti-khaṇḍa · Chapter 641 source entries

Prakṛti-khaṇḍa · Chapter 64

Source

नारायण उवाच ।। राजा येन क्रमेणैव भेजे तां प्रकृतिं पराम् ।। तच्छ्रूयतां महाभाग वेदोक्तं क्रममेव च ।। १ ।। स्नात्वाऽऽचम्य महाराजः कृत्वा न्यासत्रयं तदा ।। स्वकराङ्गाङ्गमन्त्राणां भूतशुद्धिं चकार सः ।। २ ।। प्राणायामं ततः कृत्वा कृत्वा च शङ्खशोधनम् ।। ध्यात्वा देवीं च मृन्मय्यां चकारावाहनं तदा ।। ३ ।। पुनर्ध्यात्वा च भक्त्या च पूजयामास भक्तितः ।। +देव्याश्च दक्षिणे भागे संस्थाप्य कमलालयाम् ।।४ ।। संपूज्य भक्तिभावेन भक्त्या परमधार्मिकः ।। देवषट्कं समावाह्य देव्याश्च पुरतो घटे।। ५ ।। भक्त्या च पूजयामास विधिपूर्वं च नारद ।। गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।। ६ ।। देवषट्कं च संपूज्य नमस्कृत्य विचक्षणः ।। तदा ध्यायेन्महादेवीं ध्यानेनानेन भक्तितः ।। ७ ।। ध्यानं च सामवेदोक्तं परं कल्पतरुं मुने ।। ध्यायेन्नित्यं महादेवीं मूलप्रकृतिमीश्वरीम्।। ।। ८ ।। ब्रह्मविष्णुशिवादीनां पूज्यां वन्द्यां सनातनीम् ।। नारायणीं विष्णुमायां वैष्णवीं विष्णुभक्तिदाम् ।। ९ ।। सर्वस्वरूपां सर्वेषां सर्वाधारां परात्पराम् ।। सर्वविद्यासर्वमन्त्रसर्वशक्तिस्वरूपिणीम्।।2.64.१०।। सगुणां निर्गुणां सत्त्वां वरां स्वेच्छामयीं सतीम् ।। महाविष्णोश्च जननीं कृष्णस्यार्द्धाङ्गसम्भवाम्।।११।। कृष्णप्रियां कृष्णशक्तिं कृष्णबुद्ध्यधिदेवताम् ।। कृष्णस्तुतां कृष्णपूज्यां कृष्णवन्द्यां कृपामयीम् ।। १२ ।। तप्तकाञ्चनवर्णाभां कोटिसूर्य्यसमप्रभाम् ।। ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ।। १३ ।। दुर्गां शतभुजां देवीं महद्दुर्गतिनाशिनीम् ।। त्रिलोचनप्रियां साध्वीं त्रिगुणां च त्रिलोचनाम् ।। १४ ।। त्रिलोचनप्राणरूपां शुद्धार्द्धचन्द्रशेखराम् ।। बिभ्रतीं कबरीभारं मालतीमाल्यमण्डितम् ।। १५ ।। वर्तुलं वामवक्त्रं च शम्भोर्मानसमोहिनीम् ।। रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम् ।। १६ ।। नासादक्षिणभागेन बिभ्रतीं गजमौक्तिकम् ।। अमूल्यरत्नं बहुलं बिभ्रतीं श्रवणोपरि ।। १७ ।। मुक्तापंक्तिविनिन्द्यैकदन्तपंक्तिसुशोभिताम् ।। पक्वबिम्बाधरोष्ठीं च सुप्रसन्नां सुमंगलाम् ।। १८ ।। चित्रपत्रावलीरम्यकपोलयुगलोज्ज्वलाम् ।। रत्नकेयूरवलयरत्नमञ्जीररञ्जिताम् ।। १९ ।। रत्नकङ्कणभूषाढ्यां रत्नपाशंकशोभिताम् ।। रत्नांगुलीयनिकरैः करांगुलिचयोज्ज्वलाम् ।। ।। 2.64.२० ।। पादाङ्गुलिनखासक्तालक्तरेखासुशोभनाम् ।। वह्निशुद्धांशुकाधानां गन्धचन्दनचर्चिताम् ।। २१ ।। बिभ्रतीं स्तनयुग्मं च कस्तूरीबिन्दुशोभितम् ।। सर्वरूपगुणवतीं गजेन्द्रमन्दगामिनीम् ।। २२ ।। अतीव कान्तां शान्तां च नितान्तां योगसिद्धिषु ।। विधातुश्च विधात्रीं च सर्वधात्रीं च शंकरीम् ।। २३ ।। शरत्पार्वणचन्द्रास्यामतीव सुमनोहराम् ।। कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ।। २४ ।। सिन्दूरबिन्दुना शश्वद्भालमध्यस्थलोज्ज्वलाम् ।। शरन्मध्याह्नकमलप्रभामोचनलोचनाम् ।। २५ ।। चारुकज्जलरेखाभ्यां सर्वतश्च समुज्ज्वलाम् ।। कोटिकन्दर्पलावण्यलीलानिन्दितविग्रहाम् ।। २६ ।। रत्नसिंहासनस्थां च सद्रत्नमुकुटोज्ज्वलाम् ।। सृष्टौ स्रष्टुः शिल्परूपां दयां पातुश्च पालने ।। २७ ।। संहारकाले संहर्त्तुः परां संहाररूपिणीम् ।। निशुम्भशुम्भमथिनीं महिषासुरमर्दिनीम् ।। २८ ।। पुरा त्रिपुरयुद्धे च संस्तुता त्रिपुरारिणा ।। मधुकैटभयोर्युद्धे विष्णुशक्तिस्वरूपिणीम् ।। २९ ।। सर्वदैत्यनिहन्त्रीं च रक्तबीजविनाशिनीम् ।। नृसिंहशक्तिरूपां च हिरण्यकशिपोर्वधे ।।2.64.३०।। वराहशक्तिं वाराहे हिरण्याक्षवधे तथा।। परब्रह्मस्वरूपां च सर्वशक्तिं सदा भजे ।। ३१ ।। इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः ।। पुनर्ध्यात्वा चैव भक्त्या कुर्य्यादावाहनं ततः ।। ३२ ।। प्रकृतेः प्रतिमां धृत्वा मन्त्रमेवं पठेन्नरः ।। जीवन्यासं ततः कुर्य्यान्मनुनाऽनेन यत्नतः ।। ३३ ।। एह्येहि भगवत्यम्ब शिवलोकात्सनातनि ।। गृहाण मम पूजां च शारदीयां सुरेश्वरि ।। ३४ ।। इहागच्छ जगत्पूज्ये तिष्ठ तिष्ठ महेश्वरि ।। हे मातरस्यामर्चायां सन्निरुद्धा भवाम्बिके ।। ३५ ।। इहागच्छन्तु त्वत्प्राणाश्चाधिप्राणैः सहाच्युते ।। इहागच्छन्तु त्वरितं तवैव सर्व शक्तयः ।। ३६ ।। ॐ ह्रीं श्रीं क्लीं च दुर्गायै वह्निजायान्तमेव च ।। समुच्चार्य्योरसि प्राणाः सन्तिष्ठन्तु सदाशिवे ।। ३७ ।। सर्वेन्द्रियाधिदेवास्ते इहागच्छन्तु चण्डिके।। ते शक्तयोऽत्रागच्छन्तु इहागच्छन्तु ईश्वराः ।। ३८ ।। स इहागच्छेत्यावाह्य परिहारं करोति च ।। मन्त्रेणानेन विप्रेन्द्र तच्छृणुष्व समाहितः ।। ३९ ।। स्वागतं भगवत्यम्ब शिवलोकाच्छिवप्रिये ।। प्रसादं कुरु मां भद्रे भद्रकालि नमोऽस्तु ते ।। 2.64.४० ।। धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ।। आगताऽसि यतो दुर्गे माहेश्वरि मदालयम् ।। ४१ ।। अद्य मे सफलं जन्म सार्थकं जीवनं मम ।। पूजयामि यतो दुर्गां पुण्यक्षेत्रे च भारते ।। ४२ ।। भारते भवतीं पूज्यां दुर्गां यः पूजयेद् बुधः ।। सोऽन्ते याति च गोलोकं परमैश्वर्य्यवानिह ।।४३।। कृत्वा च वैष्णवीपूजां विष्णुलोकं व्रजेत्सुधीः ।। माहेश्वरीं च संपूज्य शिवलोकं च गच्छति ।। ४४ ।। सात्त्विकी राजसी चैव त्रिधा पूजा च तामसी ।। भगवत्याश्च वेदोक्ता चोत्तमा मध्यमा ऽधमा ।। ४५ ।। सात्त्विकी वैष्णवानां च शाक्तादीनां च राजसी ।। अदीक्षितानामसतामन्येषां तामसी स्मृता ।। ४६ ।। जीवहत्या विहीना या वरा पूजा तु वैष्णवी ।। वैष्णवा यान्ति गोलोकं वैष्णवीबलिदानतः ।। ४७ ।। माहेश्वरी राजसी च बलिदानसमन्विता ।। शाक्तादयो राजसाश्च कैलासं यान्ति ते तथा ।। ४८ ।। किरातास्त्रिदिवं यान्ति तामस्या पूजया तया ।। त्वमेव जगतां मातश्चतुर्वर्गफलप्रदा ।। ४९ ।। सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः ।। जन्ममृत्युजराव्याधिहरा त्वं च परात्परा ।। 2.64.५० ।। सुखदा मोक्षदा भद्रा कृष्णभक्तिप्रदा सदा ।। नारायणि महामाये दुर्गे दुर्गतिनाशिनि ।। ५१ ।। दुर्गेति स्मृतिमात्रेण याति दुर्गं नृणामिह ।। इति कृत्वा परीहारं देव्या वामे च साधकः ।। ५२ ।। त्रिपद्या उपरिष्टात्तु शंखं संस्थापयेत्तु सः ।। तत्र दत्त्वा जलं पूर्णं दूर्वां पुष्पं च चन्दनम् ।। ५३ ।। धृत्वा दक्षिणहस्तेन मन्त्रमेवं पठेन्नरः ।। पुण्यस्त्वं शंख पुण्यानां मङ्गलानां च मङ्गलम् ।। प्रभूतः शंखचूडात्त्वं पुरा कल्पे पवित्रकः ।। ५४ ।। ततोऽर्घ्यपात्रं संस्थाप्य विधिनाऽनेन पण्डितः ।। दत्त्वा संपूजयेद्देवीमुपचारांश्च षोडश ।।५५।। त्रिकोणमण्डलं कृत्वा सजलेन कुशेन च ।। कूर्मं शेषं धरित्रीं च पूजयेत्तत्र धार्मिकः ।। ५६ ।। त्रिपदीं स्थापयेत्तत्र त्रिपद्यां शंखमेव च ।। शंखे त्रिभागतोयं च दत्त्वा संपूजयेत्ततः ।। ५७ ।। गङ्गे च यमुने चैव गोदावरि सरस्वति ।। नर्म्मदे सिन्धुकावेरि चन्द्रभागे च कौशिकि ।।९८।। स्वर्णरेखे कनखले पारिभद्रे च गण्डकि ।। श्वेतगङ्गे रुद्ररेखे पम्पे चम्पे च गोमति ।। ।।५९।। पद्मावति त्रिपर्णाशे विपाशे विरजे प्रभे ।। शतह्रदे चेलगंगे जलेऽस्मिन्सन्निधिं कुरु ।।2.64.६०।। वह्निं सूर्य्यं च चन्द्रं च विष्णुं च वरुणं शिवम् ।। पूजयेत्तत्र तोये च तुलस्या चन्दनेन च ।। नैवेद्यानि च सर्वाणि प्रोक्षयेत्तज्जलेन च।।६१।। प्रत्येकं वै ततो दद्यादुपचारांश्च षोडश ।। आसनं वसनं पाद्यं स्नानीयमनुलेपनम् ।। ६२ ।। मधुपर्कं गन्धमर्घ्यं पुष्पं नैवेद्यमीप्सितम् ।। पुनराचमनीयं च ताम्बूलं रत्नभूषणम् ।। ६३ ।। धूपं प्रदीपं तल्पं चेत्युपचारास्तु षोडश ।। ६४ ।। अमूल्यरत्नसंक्लृप्तं नानाचित्र विराजितम् ।। वरं सिंहासनं श्रेष्ठं गृह्यतां शङ्करप्रिये ।। ६५ ।। अनन्तसूत्रप्रभवमीश्वरेच्छाविनिर्मितम् ।। ज्वलदग्निविशुद्धं च वसनं गृह्यतां शिवे ।। ६६ ।। अमूल्यरत्नपात्रस्थं निर्मलं जाह्नवीजलम् ।। पादप्रक्षालनार्थाय दुर्गे देवि प्रगृह्यताम् ।। ।। ६७ ।। सुगन्धामलकीस्निग्धद्रवमेतत्सुदुर्लभम् ।। सुपक्वं विष्णुतैलं च गृह्यतां परमेश्वरि ।। ६८ ।। कस्तूरीकुंकुमाक्तं च सुगन्धि द्रुतचन्दनम् ।। सुवासितं जगन्मातर्गृह्यतामनुलेपनम् ।। ६९ ।। माध्वीकं रत्नपात्रस्थं सुपवित्रं सुमङ्गलम् ।। मधुपर्कं महादेवि गृह्यतां प्रीतिपूर्वकम् ।। 2.64.७० ।। सुगन्धमूलचूर्णं च सुगन्धद्रव्यसंयुतम् ।। सुपवित्रं मङ्गलार्हं देवि गन्धं गृहाण मे ।। ७१ ।। पवित्रं शंखपात्रस्थं दूर्वापुष्पाक्षतान्वितम् ।। स्वर्गमन्दाकिनीतोयमर्घ्यं चण्डि गृहाण मे ।। ७२ ।। सुगन्धि पुष्पश्रेष्ठं च पारिजाततरूद्भवम् ।। नानापुष्पादिमाल्यानि गृह्यन्तां जगदम्बिके ।।७३।। दिव्यं सिद्धान्नमामान्नं पिष्टकं पायसादिकम् ।। मिष्टान्नं लड्डुकफलं नैवेद्यं गृह्यतां शिवे ।। ७४ ।। सुवासितं शीततोयं कर्पूरादिसुसंस्कृतम्।। मया निवेदितं भक्त्या गृह्यतां शैलकन्यके ।। ७५ ।। गुवाकपर्णचूर्णं च कर्पूरादिसुवासितम् ।। सर्वभोगकरं रम्यं ताम्बूलं देवि गृह्यताम् ।। ७६ ।। अमूल्यरत्नसारैश्च खचितं चेश्वरेच्छया ।। सर्वाङ्गशोभनकरं भूषणं देवि गृह्यताम् ।। ७७ ।। तरुनिर्य्यासचूर्णं च गन्धवस्तुसमन्वितम् ।। हुताशमशिखाशुद्धं धूपं देवि च गृह्यताम् ।। ७८ ।। दिव्यरत्नविशेषं च सान्द्रध्वान्तनिवारकम् ।। सुपवित्रं प्रदीपं च गृह्यतां परमेश्वरि ।। ७९ ।। रत्नसारगणाकीर्णं दिव्यं पर्य्यङ्कमुत्तमम् ।। सूक्ष्मवस्त्रैश्च संस्यूतं देवि तल्पं प्रगृह्यताम् ।। 2.64.८० ।। एवं संपूज्य तां दुर्गां दद्यात्पुष्पाञ्जलिं मुने ।। ततोऽष्टनायका देवीर्यत्नतः परिपूजयेत् ।। ८१ ।। उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम् ।। अतिचण्डां च चण्डां च चण्डां चण्डवतीं तथा ।।८२।। पद्मे चाष्टदले चैताः प्रागादिक्रमतस्तथा।। पञ्चोपचारैः संपूज्य भैरवान्मध्यदेशतः।।८३।। आदौ महाभैरवं च तथा संहारभैरवम् ।। असितांगभैरवं च रुरुभैरवमेव च ।। ८४ ।। कालभैरवमप्येवं क्रोधभैरवमेव च ।। ताम्रचूडं चन्द्रचूडमन्ते वै भैरवद्वयम् ।। ८५ ।। एतान्संपूज्य मध्ये वै नव शक्तींश्च पूजयेत् ।। तत्र पद्मे चाष्टदले मध्ये वै भक्तिपूर्वकम् ।। ८६ ।। ब्रह्माणीं वैष्णवीं चैव रौद्रीं माहेश्वरीं तथा ।। नारसिंही च वाराहीमिन्द्राणीं कार्त्तिकीं तथा ।। ८७ ।। सर्वशक्तिस्वरूपां च प्रधानां सर्वमङ्गलाम् ।। नव शक्तीश्च संपूज्य घटे देवांश्च पूजयेत् ।। ८८ ।। शङ्करं कार्त्तिकेयं च सूर्य्यं सोमं हुताशनम् ।। वायुं च वरुणं चैव देव्याश्चेटीं बटुं तथा ।। ८९ ।। चतुष्षष्टिं योगिनीनां संपूज्य विधिपूर्वकम् ।। यथाशक्ति बलिं दत्त्वा करोति स्तवनं बुधः ।। 2.64.९० ।। कवचं च गले बद्ध्वा पठित्वा भक्तिपूर्वकम् ।। ततः कृत्वा परीहारं नमस्कुर्य्याद्विचक्षणः ।। ९१ ।। बलिदानविधानं च श्रूयतां मुनिसत्तम ।। मायार्तिं महिषं छागं दद्यान्मेषादिकं शुभम् ।। ९२ ।। सहस्रवर्षं सुप्रीता दुर्गा मायातिदानतः ।। महिषाच्छतवर्षं च दशवर्षं च छागलात् ।। ९३ ।। वर्षं मेषेण कूष्माण्डैः पक्षिभिर्हरिणैस्तथा ।। दशवर्षं कृष्णसारैः सहस्राब्दं च गण्डकैः ।।९४।। कृत्रिमैः पिष्टकलितैः षण्मासं पशुभिस्तथा ।। मासं सुपक्वादिफलैरक्षतैरिति नारद ।। ९५ ।। युवकं व्याधिहीनं च सशृंगं लक्षणान्वितम् ।। विशुद्धमविकारांगं सुवर्णं पुष्टमेव च ।। ९६ ।। शिशुना बलिना दातुर्हन्ति पुत्रं च चण्डिका ।। वृद्धेन वै गुरुजनं कृशेनापीष्टबान्धवान् ।। ९७ ।। धनं चैवाधिकांगेन हीनांगेन प्रजास्तथा ।। कामिनीं शृंगभंगेन काणेन भ्रातरं तथा ।। ९८ ।। घुटिकेन भवेन्मृत्युर्विघ्नं स्याच्चित्रमस्तकैः ।। हन्ति मित्रं ताम्रपृष्ठैर्भ्रष्टश्रीः पुच्छहीनतः ।। ९९ ।। मायातीनां स्वरूपं च श्रूयतां मुनिसत्तम ।। वक्ष्याम्यथर्ववेदोक्तं फलहानिर्व्यतिक्रमे ।। 2.64.१०० ।। पितृमातृविहीनं च युवकं व्याधिवर्जितम् ।। विवाहितं दीक्षितं च परदारविहीनकम् ।। १०१ ।। अजारजं विशुद्धं च सच्छूद्रपरिपोषितम् ।। तद्बन्धुभ्यो धनं दत्त्वा क्रीतमूल्यातिरेकतः ।। १०२ ।। स्नापयित्वा च तं कर्त्ता पूजयेद्वस्त्रचन्दनैः ।। माल्यैर्धूपैश्च सिन्दूरैर्दधिगोरोचनादिभिः ।। १०३ ।। तं च वर्षं भ्रामयित्वा भृत्यद्वारेण यत्नतः ।। वर्षान्ते च समुत्सृज्य दुर्गायै तं निवेदयेत् ।। १०४ ।। अष्टमीनवमीसन्धौ दद्यान्मायातिमेव च ।। इत्येवं कथितं सर्वं बलिदानं प्रसङ्गतः ।। १०५ ।। बलिं स्तुत्वा च दत्त्वा च धृत्वा च कवचं बुधः ।। प्रणम्य दण्डवद्भूमौ दद्याद्विप्राय दक्षिणाम् ।। १०६ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने पूजाविधिबलिपशुलक्षणविशेषो नाम चतुष्षष्टितमोऽध्यायः ।।६४।।

nārāyaṇa uvāca || rājā yena krameṇaiva bheje tāṃ prakṛtiṃ parām || tacchrūyatāṃ mahābhāga vedoktaṃ kramameva ca || 1 || snātvā''camya mahārājaḥ kṛtvā nyāsatrayaṃ tadā || svakarāṅgāṅgamantrāṇāṃ bhūtaśuddhiṃ cakāra saḥ || 2 || prāṇāyāmaṃ tataḥ kṛtvā kṛtvā ca śaṅkhaśodhanam || dhyātvā devīṃ ca mṛnmayyāṃ cakārāvāhanaṃ tadā || 3 || punardhyātvā ca bhaktyā ca pūjayāmāsa bhaktitaḥ || +devyāśca dakṣiṇe bhāge saṃsthāpya kamalālayām ||4 || saṃpūjya bhaktibhāvena bhaktyā paramadhārmikaḥ || devaṣaṭkaṃ samāvāhya devyāśca purato ghaṭe|| 5 || bhaktyā ca pūjayāmāsa vidhipūrvaṃ ca nārada || gaṇeśaṃ ca dineśaṃ ca vahniṃ viṣṇuṃ śivaṃ śivām || 6 || devaṣaṭkaṃ ca saṃpūjya namaskṛtya vicakṣaṇaḥ || tadā dhyāyenmahādevīṃ dhyānenānena bhaktitaḥ || 7 || dhyānaṃ ca sāmavedoktaṃ paraṃ kalpataruṃ mune || dhyāyennityaṃ mahādevīṃ mūlaprakṛtimīśvarīm|| || 8 || brahmaviṣṇuśivādīnāṃ pūjyāṃ vandyāṃ sanātanīm || nārāyaṇīṃ viṣṇumāyāṃ vaiṣṇavīṃ viṣṇubhaktidām || 9 || sarvasvarūpāṃ sarveṣāṃ sarvādhārāṃ parātparām || sarvavidyāsarvamantrasarvaśaktisvarūpiṇīm||2.64.10|| saguṇāṃ nirguṇāṃ sattvāṃ varāṃ svecchāmayīṃ satīm || mahāviṣṇośca jananīṃ kṛṣṇasyārddhāṅgasambhavām||11|| kṛṣṇapriyāṃ kṛṣṇaśaktiṃ kṛṣṇabuddhyadhidevatām || kṛṣṇastutāṃ kṛṣṇapūjyāṃ kṛṣṇavandyāṃ kṛpāmayīm || 12 || taptakāñcanavarṇābhāṃ koṭisūryyasamaprabhām || īṣaddhāsyaprasannāsyāṃ bhaktānugrahakārikām || 13 || durgāṃ śatabhujāṃ devīṃ mahaddurgatināśinīm || trilocanapriyāṃ sādhvīṃ triguṇāṃ ca trilocanām || 14 || trilocanaprāṇarūpāṃ śuddhārddhacandraśekharām || bibhratīṃ kabarībhāraṃ mālatīmālyamaṇḍitam || 15 || vartulaṃ vāmavaktraṃ ca śambhormānasamohinīm || ratnakuṇḍalayugmena gaṇḍasthalavirājitām || 16 || nāsādakṣiṇabhāgena bibhratīṃ gajamauktikam || amūlyaratnaṃ bahulaṃ bibhratīṃ śravaṇopari || 17 || muktāpaṃktivinindyaikadantapaṃktisuśobhitām || pakvabimbādharoṣṭhīṃ ca suprasannāṃ sumaṃgalām || 18 || citrapatrāvalīramyakapolayugalojjvalām || ratnakeyūravalayaratnamañjīrarañjitām || 19 || ratnakaṅkaṇabhūṣāḍhyāṃ ratnapāśaṃkaśobhitām || ratnāṃgulīyanikaraiḥ karāṃgulicayojjvalām || || 2.64.20 || pādāṅgulinakhāsaktālaktarekhāsuśobhanām || vahniśuddhāṃśukādhānāṃ gandhacandanacarcitām || 21 || bibhratīṃ stanayugmaṃ ca kastūrībinduśobhitam || sarvarūpaguṇavatīṃ gajendramandagāminīm || 22 || atīva kāntāṃ śāntāṃ ca nitāntāṃ yogasiddhiṣu || vidhātuśca vidhātrīṃ ca sarvadhātrīṃ ca śaṃkarīm || 23 || śaratpārvaṇacandrāsyāmatīva sumanoharām || kastūrībindubhiḥ sārddhamadhaścandanabindunā || 24 || sindūrabindunā śaśvadbhālamadhyasthalojjvalām || śaranmadhyāhnakamalaprabhāmocanalocanām || 25 || cārukajjalarekhābhyāṃ sarvataśca samujjvalām || koṭikandarpalāvaṇyalīlāninditavigrahām || 26 || ratnasiṃhāsanasthāṃ ca sadratnamukuṭojjvalām || sṛṣṭau sraṣṭuḥ śilparūpāṃ dayāṃ pātuśca pālane || 27 || saṃhārakāle saṃharttuḥ parāṃ saṃhārarūpiṇīm || niśumbhaśumbhamathinīṃ mahiṣāsuramardinīm || 28 || purā tripurayuddhe ca saṃstutā tripurāriṇā || madhukaiṭabhayoryuddhe viṣṇuśaktisvarūpiṇīm || 29 || sarvadaityanihantrīṃ ca raktabījavināśinīm || nṛsiṃhaśaktirūpāṃ ca hiraṇyakaśiporvadhe ||2.64.30|| varāhaśaktiṃ vārāhe hiraṇyākṣavadhe tathā|| parabrahmasvarūpāṃ ca sarvaśaktiṃ sadā bhaje || 31 || iti dhyātvā svaśirasi puṣpaṃ dattvā vicakṣaṇaḥ || punardhyātvā caiva bhaktyā kuryyādāvāhanaṃ tataḥ || 32 || prakṛteḥ pratimāṃ dhṛtvā mantramevaṃ paṭhennaraḥ || jīvanyāsaṃ tataḥ kuryyānmanunā'nena yatnataḥ || 33 || ehyehi bhagavatyamba śivalokātsanātani || gṛhāṇa mama pūjāṃ ca śāradīyāṃ sureśvari || 34 || ihāgaccha jagatpūjye tiṣṭha tiṣṭha maheśvari || he mātarasyāmarcāyāṃ sanniruddhā bhavāmbike || 35 || ihāgacchantu tvatprāṇāścādhiprāṇaiḥ sahācyute || ihāgacchantu tvaritaṃ tavaiva sarva śaktayaḥ || 36 || oṃ hrīṃ śrīṃ klīṃ ca durgāyai vahnijāyāntameva ca || samuccāryyorasi prāṇāḥ santiṣṭhantu sadāśive || 37 || sarvendriyādhidevāste ihāgacchantu caṇḍike|| te śaktayo'trāgacchantu ihāgacchantu īśvarāḥ || 38 || sa ihāgacchetyāvāhya parihāraṃ karoti ca || mantreṇānena viprendra tacchṛṇuṣva samāhitaḥ || 39 || svāgataṃ bhagavatyamba śivalokācchivapriye || prasādaṃ kuru māṃ bhadre bhadrakāli namo'stu te || 2.64.40 || dhanyo'haṃ kṛtakṛtyo'haṃ saphalaṃ jīvanaṃ mama || āgatā'si yato durge māheśvari madālayam || 41 || adya me saphalaṃ janma sārthakaṃ jīvanaṃ mama || pūjayāmi yato durgāṃ puṇyakṣetre ca bhārate || 42 || bhārate bhavatīṃ pūjyāṃ durgāṃ yaḥ pūjayed budhaḥ || so'nte yāti ca golokaṃ paramaiśvaryyavāniha ||43|| kṛtvā ca vaiṣṇavīpūjāṃ viṣṇulokaṃ vrajetsudhīḥ || māheśvarīṃ ca saṃpūjya śivalokaṃ ca gacchati || 44 || sāttvikī rājasī caiva tridhā pūjā ca tāmasī || bhagavatyāśca vedoktā cottamā madhyamā 'dhamā || 45 || sāttvikī vaiṣṇavānāṃ ca śāktādīnāṃ ca rājasī || adīkṣitānāmasatāmanyeṣāṃ tāmasī smṛtā || 46 || jīvahatyā vihīnā yā varā pūjā tu vaiṣṇavī || vaiṣṇavā yānti golokaṃ vaiṣṇavībalidānataḥ || 47 || māheśvarī rājasī ca balidānasamanvitā || śāktādayo rājasāśca kailāsaṃ yānti te tathā || 48 || kirātāstridivaṃ yānti tāmasyā pūjayā tayā || tvameva jagatāṃ mātaścaturvargaphalapradā || 49 || sarvaśaktisvarūpā ca kṛṣṇasya paramātmanaḥ || janmamṛtyujarāvyādhiharā tvaṃ ca parātparā || 2.64.50 || sukhadā mokṣadā bhadrā kṛṣṇabhaktipradā sadā || nārāyaṇi mahāmāye durge durgatināśini || 51 || durgeti smṛtimātreṇa yāti durgaṃ nṛṇāmiha || iti kṛtvā parīhāraṃ devyā vāme ca sādhakaḥ || 52 || tripadyā upariṣṭāttu śaṃkhaṃ saṃsthāpayettu saḥ || tatra dattvā jalaṃ pūrṇaṃ dūrvāṃ puṣpaṃ ca candanam || 53 || dhṛtvā dakṣiṇahastena mantramevaṃ paṭhennaraḥ || puṇyastvaṃ śaṃkha puṇyānāṃ maṅgalānāṃ ca maṅgalam || prabhūtaḥ śaṃkhacūḍāttvaṃ purā kalpe pavitrakaḥ || 54 || tato'rghyapātraṃ saṃsthāpya vidhinā'nena paṇḍitaḥ || dattvā saṃpūjayeddevīmupacārāṃśca ṣoḍaśa ||55|| trikoṇamaṇḍalaṃ kṛtvā sajalena kuśena ca || kūrmaṃ śeṣaṃ dharitrīṃ ca pūjayettatra dhārmikaḥ || 56 || tripadīṃ sthāpayettatra tripadyāṃ śaṃkhameva ca || śaṃkhe tribhāgatoyaṃ ca dattvā saṃpūjayettataḥ || 57 || gaṅge ca yamune caiva godāvari sarasvati || narmmade sindhukāveri candrabhāge ca kauśiki ||98|| svarṇarekhe kanakhale pāribhadre ca gaṇḍaki || śvetagaṅge rudrarekhe pampe campe ca gomati || ||59|| padmāvati triparṇāśe vipāśe viraje prabhe || śatahrade celagaṃge jale'sminsannidhiṃ kuru ||2.64.60|| vahniṃ sūryyaṃ ca candraṃ ca viṣṇuṃ ca varuṇaṃ śivam || pūjayettatra toye ca tulasyā candanena ca || naivedyāni ca sarvāṇi prokṣayettajjalena ca||61|| pratyekaṃ vai tato dadyādupacārāṃśca ṣoḍaśa || āsanaṃ vasanaṃ pādyaṃ snānīyamanulepanam || 62 || madhuparkaṃ gandhamarghyaṃ puṣpaṃ naivedyamīpsitam || punarācamanīyaṃ ca tāmbūlaṃ ratnabhūṣaṇam || 63 || dhūpaṃ pradīpaṃ talpaṃ cetyupacārāstu ṣoḍaśa || 64 || amūlyaratnasaṃklṛptaṃ nānācitra virājitam || varaṃ siṃhāsanaṃ śreṣṭhaṃ gṛhyatāṃ śaṅkarapriye || 65 || anantasūtraprabhavamīśvarecchāvinirmitam || jvaladagniviśuddhaṃ ca vasanaṃ gṛhyatāṃ śive || 66 || amūlyaratnapātrasthaṃ nirmalaṃ jāhnavījalam || pādaprakṣālanārthāya durge devi pragṛhyatām || || 67 || sugandhāmalakīsnigdhadravametatsudurlabham || supakvaṃ viṣṇutailaṃ ca gṛhyatāṃ parameśvari || 68 || kastūrīkuṃkumāktaṃ ca sugandhi drutacandanam || suvāsitaṃ jaganmātargṛhyatāmanulepanam || 69 || mādhvīkaṃ ratnapātrasthaṃ supavitraṃ sumaṅgalam || madhuparkaṃ mahādevi gṛhyatāṃ prītipūrvakam || 2.64.70 || sugandhamūlacūrṇaṃ ca sugandhadravyasaṃyutam || supavitraṃ maṅgalārhaṃ devi gandhaṃ gṛhāṇa me || 71 || pavitraṃ śaṃkhapātrasthaṃ dūrvāpuṣpākṣatānvitam || svargamandākinītoyamarghyaṃ caṇḍi gṛhāṇa me || 72 || sugandhi puṣpaśreṣṭhaṃ ca pārijātatarūdbhavam || nānāpuṣpādimālyāni gṛhyantāṃ jagadambike ||73|| divyaṃ siddhānnamāmānnaṃ piṣṭakaṃ pāyasādikam || miṣṭānnaṃ laḍḍukaphalaṃ naivedyaṃ gṛhyatāṃ śive || 74 || suvāsitaṃ śītatoyaṃ karpūrādisusaṃskṛtam|| mayā niveditaṃ bhaktyā gṛhyatāṃ śailakanyake || 75 || guvākaparṇacūrṇaṃ ca karpūrādisuvāsitam || sarvabhogakaraṃ ramyaṃ tāmbūlaṃ devi gṛhyatām || 76 || amūlyaratnasāraiśca khacitaṃ ceśvarecchayā || sarvāṅgaśobhanakaraṃ bhūṣaṇaṃ devi gṛhyatām || 77 || taruniryyāsacūrṇaṃ ca gandhavastusamanvitam || hutāśamaśikhāśuddhaṃ dhūpaṃ devi ca gṛhyatām || 78 || divyaratnaviśeṣaṃ ca sāndradhvāntanivārakam || supavitraṃ pradīpaṃ ca gṛhyatāṃ parameśvari || 79 || ratnasāragaṇākīrṇaṃ divyaṃ paryyaṅkamuttamam || sūkṣmavastraiśca saṃsyūtaṃ devi talpaṃ pragṛhyatām || 2.64.80 || evaṃ saṃpūjya tāṃ durgāṃ dadyātpuṣpāñjaliṃ mune || tato'ṣṭanāyakā devīryatnataḥ paripūjayet || 81 || ugracaṇḍāṃ pracaṇḍāṃ ca caṇḍogrāṃ caṇḍanāyikām || aticaṇḍāṃ ca caṇḍāṃ ca caṇḍāṃ caṇḍavatīṃ tathā ||82|| padme cāṣṭadale caitāḥ prāgādikramatastathā|| pañcopacāraiḥ saṃpūjya bhairavānmadhyadeśataḥ||83|| ādau mahābhairavaṃ ca tathā saṃhārabhairavam || asitāṃgabhairavaṃ ca rurubhairavameva ca || 84 || kālabhairavamapyevaṃ krodhabhairavameva ca || tāmracūḍaṃ candracūḍamante vai bhairavadvayam || 85 || etānsaṃpūjya madhye vai nava śaktīṃśca pūjayet || tatra padme cāṣṭadale madhye vai bhaktipūrvakam || 86 || brahmāṇīṃ vaiṣṇavīṃ caiva raudrīṃ māheśvarīṃ tathā || nārasiṃhī ca vārāhīmindrāṇīṃ kārttikīṃ tathā || 87 || sarvaśaktisvarūpāṃ ca pradhānāṃ sarvamaṅgalām || nava śaktīśca saṃpūjya ghaṭe devāṃśca pūjayet || 88 || śaṅkaraṃ kārttikeyaṃ ca sūryyaṃ somaṃ hutāśanam || vāyuṃ ca varuṇaṃ caiva devyāśceṭīṃ baṭuṃ tathā || 89 || catuṣṣaṣṭiṃ yoginīnāṃ saṃpūjya vidhipūrvakam || yathāśakti baliṃ dattvā karoti stavanaṃ budhaḥ || 2.64.90 || kavacaṃ ca gale baddhvā paṭhitvā bhaktipūrvakam || tataḥ kṛtvā parīhāraṃ namaskuryyādvicakṣaṇaḥ || 91 || balidānavidhānaṃ ca śrūyatāṃ munisattama || māyārtiṃ mahiṣaṃ chāgaṃ dadyānmeṣādikaṃ śubham || 92 || sahasravarṣaṃ suprītā durgā māyātidānataḥ || mahiṣācchatavarṣaṃ ca daśavarṣaṃ ca chāgalāt || 93 || varṣaṃ meṣeṇa kūṣmāṇḍaiḥ pakṣibhirhariṇaistathā || daśavarṣaṃ kṛṣṇasāraiḥ sahasrābdaṃ ca gaṇḍakaiḥ ||94|| kṛtrimaiḥ piṣṭakalitaiḥ ṣaṇmāsaṃ paśubhistathā || māsaṃ supakvādiphalairakṣatairiti nārada || 95 || yuvakaṃ vyādhihīnaṃ ca saśṛṃgaṃ lakṣaṇānvitam || viśuddhamavikārāṃgaṃ suvarṇaṃ puṣṭameva ca || 96 || śiśunā balinā dāturhanti putraṃ ca caṇḍikā || vṛddhena vai gurujanaṃ kṛśenāpīṣṭabāndhavān || 97 || dhanaṃ caivādhikāṃgena hīnāṃgena prajāstathā || kāminīṃ śṛṃgabhaṃgena kāṇena bhrātaraṃ tathā || 98 || ghuṭikena bhavenmṛtyurvighnaṃ syāccitramastakaiḥ || hanti mitraṃ tāmrapṛṣṭhairbhraṣṭaśrīḥ pucchahīnataḥ || 99 || māyātīnāṃ svarūpaṃ ca śrūyatāṃ munisattama || vakṣyāmyatharvavedoktaṃ phalahānirvyatikrame || 2.64.100 || pitṛmātṛvihīnaṃ ca yuvakaṃ vyādhivarjitam || vivāhitaṃ dīkṣitaṃ ca paradāravihīnakam || 101 || ajārajaṃ viśuddhaṃ ca sacchūdraparipoṣitam || tadbandhubhyo dhanaṃ dattvā krītamūlyātirekataḥ || 102 || snāpayitvā ca taṃ karttā pūjayedvastracandanaiḥ || mālyairdhūpaiśca sindūrairdadhigorocanādibhiḥ || 103 || taṃ ca varṣaṃ bhrāmayitvā bhṛtyadvāreṇa yatnataḥ || varṣānte ca samutsṛjya durgāyai taṃ nivedayet || 104 || aṣṭamīnavamīsandhau dadyānmāyātimeva ca || ityevaṃ kathitaṃ sarvaṃ balidānaṃ prasaṅgataḥ || 105 || baliṃ stutvā ca dattvā ca dhṛtvā ca kavacaṃ budhaḥ || praṇamya daṇḍavadbhūmau dadyādviprāya dakṣiṇām || 106 || iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvāde durgopākhyāne pūjāvidhibalipaśulakṣaṇaviśeṣo nāma catuṣṣaṣṭitamo'dhyāyaḥ ||64||

English translation

The method of adoration and sacrifice of Narayana said - 0 virtuous one, I am going to narrate to you the way in which the king adored the goddess. The same routine rituals have been described in the Vedas.

The king after taking a bath and sipping water performed the karanydsa, hrdayanyasa and afiganydsa. He completed the same after reciting the mantra and purification from the Bhutas, Thereafter, he performed Prdndydma and purifying his limbs, he performed dhydnam and by making the image of the goddess in clay invoked her.

Thereafter he adored her with devotion and consecrated Laksmr towards her right side and adored her with great devotion. Thereafter the extremely religious king invoked six gods in the six pitchers filled with water.

O Narada, the king then, with his mind filled with devotion, adored Ganesa, Surya, Agni, Vis nu, Siva and ParvatL After adoring the six gods, the intelligent king meditated upon MahadevI reciting the same O sage, the said dhydnam has been described in the Samaveda and serves like the wish- fiilfilling tree. It runs like this. I adore MahadevI daily, who happens to be Mulaprakrti, Tsvarl, adorable by Brahma, Visnu and Siva, eternal, NarayanI, Visnumaya, Vaisnavl, the one who bestows the devotion of Visnu, the form of all, the base of all, is beyond everything, combines all the knowledge, is the form of all the mantras and all the prowess, is formless and also with form, the fonn of truth, the best of all, moves according to her wishes, the chaste one, the mother of Mahavisnu, the one who emerged out of the body of lord Krsna, the beloved of Krsna, the prowess of lord Krsna, his intelligence,

adored by lord Krsna who offered prayers to her and bowed before her. She is all merciful.

She has the complexion of molten gold. She has the lustre of crores of suns, wears a serene smile on the face, is compassionate to the devotees, has hundred arms, relieves one of all the great miseries, beloved of three-eyed lord Siva and the chaste one. She has three types of virtues, three eye and she is the beloved of lord Siva. She is the better-half of lord Siva who is also known as Candrasekhara. She is adorned with the white jasmine flower on her beautifully arranged hair-do. She has a beautiful round face, is the attraction of lord Siva and wears two ornamental kiindalas besides having beautiful She wears Gajamuktd on the right side of the nose and is adorned with invaluable ornaments studded with gems. She has the line of teeth which shine like jewels. Her lips resemble the ripe wood-apples; she is delightful and provides welfare to all; her cheeks are decorated with beautiful paintings. She wears beautiful armlets

and wristlets. She has anklets studded with gems, besides Cuddmani and other ornaments. She also wears gem-studded rings on her fingers which shine in the hand and the nail-polish applied on the nails looks quite fine. She is clad in the garment which has the lustre of fire and sanctified with the sandal-paste.

She has a spot of kasturl placed on her breasts.

She is all virtuous and moves slowly but gracefully like an elephant. She is quite attractive, peaceful and is always engaged in perfomiing yogic practices. She is the strength of Brahma, the creator and is known as Parvatl the base of all.

She has the face like the full moon of winter season. She is quite pleasant. She has a spot of kasturi on her forehead accompanied by a small spot of sandal-paste which looks quite prominent, she has beautiful eyes resembling the lotus flowers of the winter season. The collyrium decorates her eyes. She puts to shame the beauty of crores of gods of love and has a charming body. She is seated on the gem-studded lion- throne wearing a beautiful crown emitting lustre.

She is the art of creation for Brahma, the compassionate one for Visnu who preserves the universe and is the source of destruction for Siva.

She killed Nisumbha, Sumbha besides Mahis In the earlier times, during the battle with Tripura, she was associated with Siva and at the time of the battle with Mtfdhukaitabha, she served as the strength of lord Visnu.

She is the one who destroys all the demons, the destroyer of Raktabija, Hiranyakasipu in the form of Narasimha, the killer of HiranySksa in the form of VSraha. I therefore adore the strength of great V5raha who represented the form of eternal Brahmana. I therefore adore Drugs who is all powerful in the universe.

Thus meditating upon her, the intelligent person should place flowers on his head and with his mind filled with devotion he should again meditate upon the goddess invoking her.

Where after holding the image of the goddess, one should recite the mantra and by reciting this mantra one should perform jlvanyasa.

O goddess, O mother, O eternal Prakrti, O goddess of the gods, you kindly accept our adoration after descending from the Sivaloka.

You are adored by the world, O Mahesvarl, you arrive here and take your seat. O mother, you stay on at this place during the performing of my piijd. O infallible one, you should arrive here in person along with all of your s'aktis, O spouse of lord Sadasiva, I recite the mantra ff aft ^RTFtl One should recite this mantra and thereafter speak, "O Siva I should O Candika, the lord of all the organs of senses should arrive here, O Candika, all your saktis and lords should arrive here.

O best of the Brahmaiias, the goddess should be thus invoked and then the mantra which should be recited thereafter, is being told by me.

You listen to me attentively. O Bhagavati, O mother, O beloved of Siva, you arrive here from Sivaloka, I welcome you, O noble one, be merciful towards me. O Bhadrakall, I bow in reverence to you.

sra if ^ iTijirai imi O Durga, O Mahesvarl, we have become graceful and indebted to you because my life has met with success because of your arrival in my house. My birth and life has met with success because I adore the goddess Durga in this merit- bestowing place of Bharata.

In the sacred land of Bharata, such an intelligent one who adores the goddess Durga, achieving ail the riches ultimately proceeds to An intelligent person who adores Vaisnavi, achieves Visnuloka and after Mahesvarl, one The adoration of Bhagavati according to the provisions of the Vedas with Sdttvik, Rajas and Tamas intentions, bestows the highest, middle and the lower position respectively to the Out of them the Vaisnavas achieves the Sdttvika position, the sdktas achieve the Rdjasl position and those devoid of dlksd achieve the lower position which is also called Tdmasl.

The adoration of Vaisnava is considered to be the best, because it does not invoke the killing of anyone. By offering the sacrifice Vaisnavas achieves the Goloka, by adoring Mahesvarl with Rdjasl intentions and by making the offering, they achieve the Rdjasl-sakti and Kailasa. The Kiratas on the other hand, adoring the Tdmasl goddess achieve heaven. You are the one who bestows, dharma, artha, kdma and moksa and you are the illusion of the universe.

You are the sole energy of lord Krsna and are free from the birth, death, old age and ailments.

You are the best of all, provide pleasure and salvation. You bestow welfare and the devotion of lord Krsna.

O Narayani, O virtuous one, O Durga, O destroyer of the miseries, you be merciful. Thus with the reciting of the name of Durga all the difficulties of the people vanish.

Thereafter, thus adoring the goddess, the devotees would place the conch to the left of the goddess placing Dwrva-grass, flowers and sandal-paste together with water. Then holding it in the right hand, he should recite the mantra saying, "O conch, you are full of merit and the bestower of welfare. O purifier, in the earlier kalpa you were created by Sarhkhacuda.

Thereafter the priest should consecrate the vase in a similar manner and adore the goddess with sixteen types of offerings.

Making a triangle of tea-grass one should draw the figure of a tortoise, the serpent Sesa and the goddess earth, who should all be adored.

Thereafter the conch should be placed over a three-legged pedestaj. Three crores of the Samkha would be filled with water and the devotee should say. O Gahga, O Yamuna, O Campa, O Gomati, O Padmavati, O Triparnasi, O Celagahga, you come and reside in this water.

Thereafter, one should adore Agni, Surya, Candrama, Visnu, Varuna and Siva by pouring Tulasi leaves in that water, offering naivedya at the same time. Thereafter, all gods should be given the sixteen types of offerings, including the seed, the cloth, water for sipping, the paste, naivedya, water for sipping, betel, gem-studded ornaments, essence, the lamp and the bed.

O beloved of Siva, you accept this lion-throne which is studded with the best of gems and decorated with several paintings.

O ParvatT, you accept this cloth which is made of countless strings and by the grace of god, and which is sanctified by the fire.

O goddess Durga, you accept his vase of gems maintaining the spotless water for the washing of the feet. O Paramesvari, you accept the juice of fragrant mylobaran and the sanctified Visnu-oil.

O mother of the universe, you accept this paste which is made of kasturl, saffron and fragrant O MahadevI, you accept this vase of gems filled with honey, which is sanctified and O goddess, you accept this dhupa which is made of the powder of the gum of the trees, the scented material and sanctified by fire.

O goddess, you accept this fragrance which is the cause of all the fragrance and is scented with the best of the material.

O Candi, you accept the arghya of the sacred water of the Gahga mixed with Dwrva-grass, the flower and the rice kept in the conch. O mother of the universe, you kindly accept the garland made of the best of Parijata and other fragrant O Siva, I offer you the divine food, unbaked cereals, the mixed stuff and pay as am, besides the sweet balls for your eating which may kindly be accepted by you.

O daughter of the mountain, I offer you the cool water sanctified with camphor, with devotion; you kindly accept it. O goddess, I offer you the channing betel containing the powder of betel-nut trees, camphor and other scented materials, you kindly accept it.

O goddess, you kindly accept the ornaments which have been studded with the best of gems and are invaluable.

O Paramesvarl, I am offering you the lamp made of gems which removes darkness and is quite sacred. O goddess, you accept this excellent bed which is made of various types of gems and sewed by fine cloths.

O sage, thus adoring the goddess Durga, one should offer the flowers to her. Thereafter, all the eight Ndyikas should be adored carefully.

gr giuusT gxj^ guggdii ggTii<i'?ii These include Ugracanda, Pracanda, Canda and Candavati. Thereafter, one should adore with an eight petalled lotus in the eastern and other directions, making five types of offerings including a Bhairavas.

First of all Mahabhairava, Saihharabhairava, the black-bhairava, Rumbhairava, Kalabhairava, Krodhabhairava, T amracudabhairava and Caiidarcudabhairava should be adored together with the nine saMs to the centre point with the eight petalled lotus. They include Brahmani, VarahT, Indranl and KartikI and all powerful Sarvamahgala. All the nine saktis should be adored and thereafter the gods should be adored who are invoked in the vases.

The gods include Siva, Karttikeya, SOrya, Candrama, Agni, Vayu, Vanina, the attendant of the goddess, Batuka and the sixty four Yoginls.

They should all be adored making offerings to them and prayers.

The kavaca should be tied around the neck and one should recite the mantra regularly with devotion bowing before same.

Thereafter, I now recite the method of sacrifice; you please listen to it. Mdydti, a buffalo, a goat and a sheep should be offered as sacrificed because by giving away Mdydti, one enjoys the heaven for a thousand years; by offering a buffalo, one enjoys, the heaven for a hundred years; by offering a goat one achieves the heaven for ten years and by offering a sheep one enjoys the heaven for one year. By offering a bird and a deer one enjoys the heaven for one year. By offering a black-buck one enjoys heaven for ten years; by offering a rhinoceros for one thousand years. By offering artificial animals made of flour for six months, by offering beautiful ripe fruits, the goddess Durga is pleased for one month. O Narada, only such an animal should be selected for sacrifice which is quite healthy, without ailment, young, having horns, possessing good symbols, without blemish and with perfect limbs, having beautiful complexion

and well built.

gntJig gmt ggrii <i II With the offering of a young one CandM destroys the son of the worshipper. Similarly the animal belonging to old person or a teacher or the weak relatives or the one having additional limbs, the one having short limbs, the one having only one eye when offered in sacrifice destroys the brothers of the worshipper.

If the ankle of the animal selected for sacrifice is broken the worshipper dies. In case the head of the animal is painted it creates obstruction, the one having the back of the complexion of the copper results in the destruction of the friend and the one having a severed tail results in the destruction of the glory.

O best of the sages, now I am narrating to you the form of Mdydtl described in the Atharvaveda and you please listen to it. Any change in the same results in the obstruction of the merit The one who has no parents, is quite healthy, married, intellectual, without any attachment with an other woman, having no legitimate progeny, pure and brought up by noble people should be selected for sanctified offering.

Enough of compensation should be paid to his After bathing him, the worshipper should apply the sandal-paste and giving the costumes, adoring him. He should then be taken on a pilgrimage for a year and thereafter he should be sacrificed before the goddess.

Maydtl should be sacrificed on the eight and ninth day of the moon, thus I have narrated to you in detail all about the sacrifices. After the sacrifice one should adore the kavaca prostrating before her and offering daksind to the Brahmanas at the same time.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 120551 (2017-09-09T02:35:22Z); Shanti Lal Nagar English scan pages n573–n581: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n573/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.