Skip to main content

Prakṛti-khaṇḍa · Chapter 61

Chapter 61

Unit 91 of 276Prakṛti-khaṇḍa · Chapter 61Prakṛti-khaṇḍa · Chapter 611 source entries

Prakṛti-khaṇḍa · Chapter 61

Source

नारद उवाच ।। ततः परं किं रहस्यं बभूवासुरदेवयोः ।। श्रोतुमिच्छामि भगवन्परं कौतूहलं मम ।। १ ।। नारायण उवाच ।। ब्रह्मा जगाम निलयं शुक्रस्य च महात्मनः ।। नानादैत्यगणाकीर्णं रत्नमण्डपभूषितम् ।। २ ।। पञ्चाशत्कोटिभिः शिष्यैः परीतं ब्रह्मवादिभिः ।। सप्तभिः परिखाभिश्च वेष्टितं दुर्गमेव च ।। ३।। रक्षितं रक्षकगणैर्दैत्यैश्च शतकोटिभिः ।। पद्मरागैर्विरचितैः प्रावारैः परिशोभितम् ।। ४ ।। ददर्श जगतां धाता सभायां भृगुनन्दनम् ।। स्तुतं मुनिगणैर्दैत्यै रत्नसिंहासनस्थितम् ।। ५ ।। जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ।। कोटिसूर्य्यप्रभं शश्वज्ज्वलन्तं ब्रह्मतेजसा ।। ६ ।। दृष्ट्वा पौत्रं प्रभायुक्तं विधाता हृष्टमानसः ।। आत्मानं कृतिनं मेने पुत्रं पौत्रं च नारद ।। ७ ।। दृष्ट्वा पितामहं शुक्रो धातारं जगतां प्रभुम् ।। उत्थाय सहसा भीतः प्रणनाम कृताञ्जलिः ।। ८ ।। आदाय पूजयामास चोपचारांस्तु षोडश ।। तुष्टाव परया भक्त्या सम्भ्रमेण यथागमम् ।। ९ ।। विद्या मन्त्रप्रदातारं दातारं सर्वसम्पदाम् ।। स्वकर्मणां च फलदं सर्वेषां विश्वतो वरम् ।2.61.१०।। शुक्रस्य स्तवनेनैव सन्तुष्टो जगतां पतिः।। अवरुह्य रथात्तूर्णमवसत्तत्र संसदि ।। ११ ।। शुक्रेण शिरसा दत्तरत्नसिंहासने वरे।। तेजसा ज्वलिते रम्ये निर्मिते विश्वकर्मणा।। ।। १२ ।। शुक्रः प्रणम्य ब्रह्माणं कुमारं शकुनं क्रतुम् ।। वसिष्ठं च मरीचिं च सनन्दं च सनातनम् ।। १३ ।। कपिलं वै पञ्चशिखं वोढुमंगिरसं मुने ।। धर्मं मां च नरं भक्त्या प्रणनाम कृताञ्जलिः ।।१४।। प्रत्येकं पूजयामास सादरं च यथोचितम् ।। सिंहासनेषु रत्नेषु वासयामास धार्मिकः ।। १५ ।। प्रहृष्टवदनाः सर्वे प्रणेमुर्दितिनन्दनाः ।। ऋषिसंघाश्च धातारं तुष्टुवुश्च यथागमम् ।। १६ ।। सर्वान्संस्तूय स कविरवोचत्सम्पुटाञ्जलिः ।। साश्रुनेत्रः सपुलकः प्रणतो विनयान्वितः ।। १७ ।। शुक्र उवाच ।। अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।। स्वयं विधाता भगवान्साक्षाद्दृष्टः स्वमन्दिरे ।। १८ ।। साक्षाद्दृष्टाश्च तत्पुत्रा भगवन्तः सनातनाः ।। तुष्टः कृष्णोऽथ मामेवं परमात्मा परात्परः ।। १९ ।। कृतार्थं कर्तुमीशा मां युष्माकं स्वागतं शिशुम् ।। स्वात्मारामेषु कुशलप्रश्नमेवं विडम्बनम् ।। 2.61.२० ।। पवित्रं कर्तुमीशा मां हेतुरागमनेऽत्र वः ।। अपरं ब्रूथ किं वाऽपि शास्त नः करवामि किम् ।। २१ ।। ब्रह्मोवाच ।। उद्विग्नश्चिरविच्छेदात्त्वां पौत्रं द्रष्टुमागतः ।। विच्छेदः पुत्रपौत्राणां मरणादतिरिच्यते ।। २२ ।। कुशलं ते मुनिश्रेष्ठ पुत्रयोश्चापि योषितः ।। कुशलं ते स्वधर्माणां काम्यानां तपसामपि ।। २३ ।। दिने दिनेऽपरिच्छन्नं श्रीकृष्णार्चनमीप्सितम् ।। स्व गुरोः सेवनं नित्यमविच्छिन्नं भवेत्तव ।। २४ ।। गुर्विष्टयोः पूजनं च सर्वमङ्गलकारणम् ।। पापाधिरोगशोकघ्नं पुण्यहर्षप्रदं शुभम्।। ।। २९ ।। अभीष्टदेवः सन्तुष्टो गुरौ तुष्टे नृणामिह ।। इष्टदेवे च सन्तुष्टे सन्तुष्टाः सर्वदेवताः ।। २६ ।। गुरुर्विप्रः सुरो रुष्टो येषां पातकिनामिह ।। तेषां च कुशलं नास्ति विघ्नस्तस्य पदे पदे ।। २७ ।। तुष्टश्च सततं वत्स श्रीकृष्णः प्रकृतेः परः ।। सर्वान्तरात्मा भगवांस्तव भक्त्या च निर्गुणः ।। २८ ।। तव तुष्टो गुरुरहं विधाता जगतामपि ।। मयि तुष्टे हरिस्तुष्टो हरौ तुष्टे तु देवताः ।।२९।। साम्प्रतं शृणु मे धीमन्नत्रागमनकारणम् ।। प्रेषितस्य सुराणां च विश्वसंहर्तुरेव च ।। 2.61.३० ।। शिवस्य गुरुपुत्रस्य साध्वीं तारां बृहस्पतेः ।। अपहृत्य निशानाथस्तवैव शरणागतः ।। ३१ ।। शम्भुर्धर्मश्च सूर्य्यश्च शक्रोऽनन्तश्च पुत्रक ।। आदित्या वसवो रुद्रा दिक्पालाश्च दिगीश्वराः ।। ३२ ।। युद्धायायान्ति सन्नद्धास्तिस्रः कोट्यश्च देवताः ।। नागाः किम्पुरुषाश्चैव यक्षराक्षसगुह्यकाः ।। ३३ ।। भूताः प्रेताः पिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।। किराताश्चैव गन्धर्वाः समुद्रपुलिनेऽधुना ।। ३४ ।। तारकामयसंग्रामे मध्यस्थो ऽहं सुतैः सह ।। देहि तारां रणं किं वा त्यज चन्द्रं च कामिनम् ।।३५।। शुक्र उवाच ।। आगच्छन्तु सुराः सर्वे सन्नद्धा रणदुर्मदाः।। योत्स्ये विना महेशं च सर्वेषां च गुरुं परम् ।।३६।। दैत्या ऊचुः ।। उभयेषां गुरुः शम्भुर्मान्यो वन्द्यश्च सर्वदा ।। धर्मश्च साक्षी सर्वेषां त्वमेव च पितामहः ।।३७।। अन्यांश्च तृणतुल्यांश्च नहि मन्यामहे वयम् ।। आगच्छन्तु च योत्स्यामो व्रज ब्रूहि जगद्गुरो।। ।। ३८ ।। कृपया गुरुपुत्रस्य यद्यायाति महेश्वरः ।। आग्नेयास्त्रं प्रयोक्ष्यामः पश्चाद्योत्स्यामहे प्रभो ।। ३९ ।। ब्रह्मोवाच ।। कालाग्निरुद्रः संहर्त्ता विश्वस्य बलिनां वरः ।। हे वत्सास्तेन सार्द्धं च को वा युद्धं करिष्यति ।। 2.61.४० ।। भद्रकाली जगन्माता खड्गखर्पर धारिणी ।। तया दुर्द्धर्षया सार्द्धं को वा युद्धं करिष्यति ।। ४१ ।। सा सहस्रभुजा देवी मुण्डमालाविभूषणा ।। योजनायतवक्त्रा च दशयोजनविस्तृता ।। ४२ ।। सप्ततालप्रमाणाश्च यस्या दन्ता भयानकाः ।। क्रोशप्रमाणजिह्वा च माहालोला भयङ्करी ।। ।। ४३ ।। अतीव रौद्रा सन्नद्धा भीमाः शंकरकिंकराः ।। अतिभीमा भैरवाश्च नन्दी च रणकर्कशः ।। ४४ ।। शिवस्य पार्षदाः सर्वं महाबलपराक्रमाः ।। वीरभद्रादयः शूराः कोटिसूर्य्यसमप्रभाः ।। ४५ ।। सहस्रमूर्ध्नः शेषस्य फणामण्डलभूषणम् ।। विश्वं सर्षपतुल्यं च को वा योद्धा च तत्समः।।४६।। कालाग्निरुद्रः संहर्त्ता यस्य शम्भोश्च किंकरः।। शूलिनस्त्रिपुरघ्नस्य ज्वलतो ब्रह्मतेजसा।।४७।। यस्य पाशुपतास्त्रेण दुर्निवार्येण पुत्रकाः ।। भस्मीभूतं भवेद्विश्वं दैत्यानां चैव का कथा ।।४८। यस्य शूलेन भिन्नश्च शङ्खचूडः प्रतापवान् ।। सुदामा पार्षदवरः कृष्णस्य परमात्मनः।।४९।। त्रिकोटिसूर्य्यसदृशस्तेजस्वी परमाद्भुतः ।। राधाकवचकण्ठश्च सर्वदैत्यजनेश्वरः ।।2.61.५०।। मधुकैटभयोर्हन्ता हिरण्यकशिपोश्च यः ।। स च विष्णुः समायाति श्वेतद्वीपात्स्वयं प्रभुः ।। ५१ ।। इत्युक्त्वा जगतां धाता विरराम च संसदि ।। प्रहस्योवाच दैतेयो दानवानामधीश्वरः ।। ५२ ।। प्रह्राद उवाच ।। नमस्तुभ्यं जगद्धातः सर्वेषां प्राक्तनेश्वर ।। सर्वपूज्यः सर्वनाथः किं वक्ष्यामि तवाग्रतः ।। ५३ ।। हिरण्यकशिपोर्हन्ता मधुकैटभयोश्च यः ।। सा कला यस्य कृष्णस्य परिपूर्णतमस्य च ।। ।। ५४ ।। सर्वान्तरात्मनस्तस्य चक्रं नाम सुदर्शनम् ।। अस्माकं लोकमस्मांश्च तद्द्राग्धक्ष्यति दुस्सहम् ।। ५५ ।। ततो न बलवाञ्छम्भुर्न च पाशुपतं विधे ।। न च काली न शेषश्च न च रुद्रादयः सुराः ।। ५६ ।। यस्य लोमसु विश्वानि निखिलानि जगत्पते ।। सर्वाधारस्य च विभोः स्थूलात्स्थूलतरस्य च ।। ९७ ।। षोडशांशो भगवतः स चैव हि महान्विराट् ।। अनन्तो नहि तत्स्थूलो न काली बृहती ततः ।। ५८ ।। आगच्छन्तु सुराः सर्वे युद्धं कुर्वन्तु साम्प्रतम् ।। न बिभेमि शरेभ्यश्च न च पाशुपताद्धरात् ।। ५९ ।। नमस्तस्मै भगवते शिवाय शिवरूपिणे ।। नमोऽनन्ताय साधुभ्यो वैष्णवेभ्यः प्रजापते ।। 2.61.६० ।। श्रीकृष्णस्य प्रसादेन निर्भयोऽहं निरामयः ।। न मे स्वात्मबलं ब्रह्मंस्तद्बलं यत्प्रभोर्बलम् ।। ६१ ।। स्वपापेन मृतस्तातो पुरा वै विष्णुनिन्दया ।। निर्बन्धाच्छङ्खचूडश्च दर्पाच्च मधुकैटभौ ।। ६२ ।। त्रिपुरः किङ्करोऽस्माकं वीरत्वेन न गण्यते ।। तथाऽपि प्रेरितस्तेन स रथस्थो महेश्वरः ।। ६३ ।। इत्युक्त्वा दानवश्रेष्ठो विरराम च संसदि ।। उवाच जगतां धाता पुनरेव च नारद ।। ६४ ।। ब्रह्मोवाच ।। विनाशकारणं युद्धमुभयोर्दैत्यदेवयोः।। सुप्रीत्या चरणं वत्स सर्वमङ्गलकारणम् ।। ६५ ।। तारां भिक्षां देहि मह्यं भिक्षुकाय च वेधसे ।। विमुखे भिक्षुके राजन्गृहस्थः सर्वपापभाक् ।। ६६ ।। सनत्कुमार उवाच ।। स्वकीर्तिं रक्ष राजेन्द्र सिंहस्त्वं सुरदैत्ययोः ।। यस्य भिक्षुर्जगद्धाता तस्य कीर्तेश्च का कथा ।। ६७ ।। सनातन उवाच ।। न जितस्त्वं सुरेन्द्रैश्च ब्रह्मेशानपुरोगमैः ।। रक्षितः कृष्णचक्रेण वैष्णवः पुण्यवाञ्छुचिः ।। ६८ ।। सनन्दन उवाच ।। यस्येष्टदेवः सर्वात्मा श्रीकृष्णः प्रकृतेः परः ।। गुरुश्च वैष्णवः शुक्रः स च केन जितो महान् ।। ६९ ।। सनक उवाच ।। पुण्यवान्न जितः केन जितः पापी स्वपातकैः ।। पुण्यदीपो न निर्वाति पाषण्डेनैव वायुना ।। 2.61.७० ।। ऋषय ऊचुः ।। देहि तारां महाभाग चन्द्र प्राणाधिकं गुरोः ।। स्वकीर्तिं रक्ष सुचिरं प्रार्थयामः पुनः पुनः ।। ७१ ।। प्रह्राद उवाच ।। स्थिते मदीश्वरे साक्षान्नहि भृत्यो विराजते ।। कर्त्तारं ब्रूहि मन्नाथं गुरुं शुक्रं सतां वरम् ।। ७२ ।। शिष्याणामाधिपत्ये च साधूनां गुरुरीश्वरः ।। गुरौ समर्पितं पूर्वं सर्वैश्वर्य्यं मुनीश्वरं ।। ७३ ।। वयं भृत्याश्च पोष्याश्च स्वगुरोः परिचारकाः ।। ते च शिष्याः कुशलिनो गुर्वाज्ञां पालयन्ति ये ।। ७४ ।। प्रह्रादस्य वचः श्रुत्वा चकार प्रार्थनां कविम् ।। ददौ शुक्रश्च तारां तां चन्द्रं च मलिनं मुने ।। ७५ ।। दत्त्वा तारां विधुं शुक्रः प्रणनाम विधेः पदे ।। नमस्कृत्य मुनिभ्यश्च प्रणतः स्वपुरं ययौ ।। ७६ ।। प्रह्लादः सगणो भक्त्या नमस्कृत्य विधेः पदे ।। प्रत्येकं वै मुनिगणान्प्रणतः स्वगृहं ययौ ।। ७७ ।। ब्रह्मा ददर्श तारां च प्रणतां स्वपदे सतीम् ।। लज्जया नम्रवक्त्रां च रुदतीं गुर्विणीं मुने ।। ७८ ।। चन्द्रं च प्रणतं धाता क्रोडे संस्थाप्य मायया ।। उवाच मलिनां तारां कातरां च कृपामयः ।।७९।। तारे त्यज भयं मत्तः भयं किं ते मयि स्थिते ।। सौभाग्ययुक्ता स्वपतौ भविष्यसि वरेण मे ।।2.61.८०।। दुर्बला बलिना ग्रस्ता निष्कामा न च्युता भवेत् ।। प्रायश्चित्तेन शुद्धा सा न स्त्री जारेण दुष्यति ।। ८१ ।। सकामा कामतो जारं भजते स्वसुखेन च ।। प्रायश्चित्तान्न शुद्धा सा स्वामिना परिवर्जिता ।। ८२ ।। कुम्भीपाके पच्यते सा यावच्चन्द्रदिवाकरम् ।। अन्नं विष्ठा जलं मूत्रं स्पर्शनं सर्वपापदम् ।। ८३ ।। पापी यस्याश्च तस्याश्च साधुभिः परिवर्जितम् ।। कस्य गर्भं वद शुभे गच्छ वत्से गुरोर्गृहम् ।। ८४ ।। त्यज लज्जां महाभागे सर्वं च प्राक्तनाद्भवेत्।। ब्रह्मणो वचनं श्रुत्वा तमुवाच सती तदा ।।८५।। चन्द्रस्य गर्भं हे तात बिभर्म्यद्य स्वकर्मणा ।। सर्वे मे साक्षिणः सन्ति दुर्बलायाः प्रजापते ।। ८६ ।। यदा जग्राह चन्द्रो मां दयाहीनश्च दुर्मतिः।। इत्युक्त्वा तारका देवी सुषाव कनकप्रभम् ।। ८७ ।। कुमारं सुन्दरं तत्र ज्वलन्तं ब्रह्मतेजसा ।। गृहीत्वा तनयं चन्द्रो नत्वा ब्रह्माणमीश्वरम् ।। ८८ ।। जगाम स स्वभवनं ब्रह्मा सिन्धुतटं ययौ ।। साध्वीं तारां च गुरवे देवेभ्योऽप्यभयं ददौ ।।८९।। आशिषं शम्भुधर्माभ्यां दत्त्वा लोकं ययौ विधिः ।। देवा ययुः स्वभवनं स्वगृहं च बृहस्पतिः ।। 2.61.९० ।। भावानुरक्तवनितां प्राप्य संहृष्टमानसः ।। तारकागर्भसंभूतः स एव च बुधः स्वयम् ।। ९१ ।। तेजस्वी सद्ग्रहो ब्रह्मश्चन्द्रस्य तनयो महान् ।। स एव नन्दनवने चित्रां संप्राप्य निर्जने ।। ९२ ।। घृताच्या गर्भसंभूतां कुबेरस्य च रेतसा ।। दृष्ट्वा च निर्जने रम्यां कन्यां कमललोचनाम् ।। ९३ ।। अतीव यौवनस्थां च बालां षोडशवार्षिकीम् ।। गान्धर्वेण विवाहेन तां जग्राह विधोः सुतः ।। ९४ ।। तस्यामथायं रहसि वीर्य्याधानं चकार सः ।। बभूव राजा चित्रायां चैत्रो वै मण्डलेश्वरः ।।९५।। सप्तद्वीपवतीं पृथ्वीं शास्ति वै धार्मिको बली ।। शतं नद्यो घृतानां च दध्नां नद्यः शतानि च ।। ९६ ।। शतानि नद्यो दुग्धानां मधुनद्यश्च षोडश ।। दश नद्यश्च तैलानां शर्करालक्षराशयः ।। ९७ ।। मिष्टान्नानां स्वस्तिकानां लक्षराशिश्च नित्यशः ।। पञ्चकोटिगवां मांसं सापूपं स्वन्नमेव च ।। ९८ । एतेषां च नदीराशीर्भुञ्जते ब्राह्मणा मुने ।। गवां लक्षं च रत्नानां मणीनां लक्षमेव च ।। ९९ ।। शतलक्षं सुवर्णानां लक्षं वै सूक्ष्मवाससाम् ।। रत्नानां भूषणं पात्रमतीव सुमनोहरम् ।। 2.61.१०० ।। ददौ द्विजातये राजा नित्यं वै जीवितावधि ।। तस्य चैत्रस्य पुत्रश्च राजाऽधिरथ एव च ।। १०१ ।। तस्य पुत्रश्च सुरथश्चक्रवर्त्ती बृहच्छ्रवाः ।। महाज्ञानं च संप्राप्य मेधसो मुनिसत्तमात् ।। १०२ ।। भेजे पुरा विष्णुमायां पुण्यक्षेत्रे च भारते ।। शरत्काले महापूजां चकार स सरित्तटे।।१०३।। वैश्येन सार्धं स महाञ्ज्ञानिनां मुनिसत्तम।। राजा कलिङ्गदेशस्य विराधश्च विशां वरः ।। १०४ ।। तस्य पुत्रो महायोगी द्रुमिणो ज्ञानिनां वरः ।। द्रुमिणो वैष्णवः प्राज्ञः पुष्करे दुष्करं तपः ।। १०५ ।। कृत्वा समाधिं संप्राप ज्ञानिनां वैष्णवाग्रणीः ।। पुत्रैर्दारैर्निरस्तश्च धनलोभाद्दुरात्मभिः ।।१०६।। स च कोटिसुवर्णं च नित्यं दत्त्वा जलं पपौ ।। मुक्तिं संप्राप संसेव्य विष्णुमायां सनातनीम्।।१०७।। राजा लेभे मनुत्वं च राज्यं निष्कण्टकं मुने ।। उवाच मधुरं वाक्यं धाता त्रिजगतां पतिः ।। १०८ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने गुरोस्ताराप्राप्तिबुधोत्पत्त्यादिवर्णनं नामैकषष्टितमोऽध्यायः ।। ६१ ।।

nārada uvāca || tataḥ paraṃ kiṃ rahasyaṃ babhūvāsuradevayoḥ || śrotumicchāmi bhagavanparaṃ kautūhalaṃ mama || 1 || nārāyaṇa uvāca || brahmā jagāma nilayaṃ śukrasya ca mahātmanaḥ || nānādaityagaṇākīrṇaṃ ratnamaṇḍapabhūṣitam || 2 || pañcāśatkoṭibhiḥ śiṣyaiḥ parītaṃ brahmavādibhiḥ || saptabhiḥ parikhābhiśca veṣṭitaṃ durgameva ca || 3|| rakṣitaṃ rakṣakagaṇairdaityaiśca śatakoṭibhiḥ || padmarāgairviracitaiḥ prāvāraiḥ pariśobhitam || 4 || dadarśa jagatāṃ dhātā sabhāyāṃ bhṛgunandanam || stutaṃ munigaṇairdaityai ratnasiṃhāsanasthitam || 5 || japantaṃ paramaṃ brahma kṛṣṇamātmānamīśvaram || koṭisūryyaprabhaṃ śaśvajjvalantaṃ brahmatejasā || 6 || dṛṣṭvā pautraṃ prabhāyuktaṃ vidhātā hṛṣṭamānasaḥ || ātmānaṃ kṛtinaṃ mene putraṃ pautraṃ ca nārada || 7 || dṛṣṭvā pitāmahaṃ śukro dhātāraṃ jagatāṃ prabhum || utthāya sahasā bhītaḥ praṇanāma kṛtāñjaliḥ || 8 || ādāya pūjayāmāsa copacārāṃstu ṣoḍaśa || tuṣṭāva parayā bhaktyā sambhrameṇa yathāgamam || 9 || vidyā mantrapradātāraṃ dātāraṃ sarvasampadām || svakarmaṇāṃ ca phaladaṃ sarveṣāṃ viśvato varam |2.61.10|| śukrasya stavanenaiva santuṣṭo jagatāṃ patiḥ|| avaruhya rathāttūrṇamavasattatra saṃsadi || 11 || śukreṇa śirasā dattaratnasiṃhāsane vare|| tejasā jvalite ramye nirmite viśvakarmaṇā|| || 12 || śukraḥ praṇamya brahmāṇaṃ kumāraṃ śakunaṃ kratum || vasiṣṭhaṃ ca marīciṃ ca sanandaṃ ca sanātanam || 13 || kapilaṃ vai pañcaśikhaṃ voḍhumaṃgirasaṃ mune || dharmaṃ māṃ ca naraṃ bhaktyā praṇanāma kṛtāñjaliḥ ||14|| pratyekaṃ pūjayāmāsa sādaraṃ ca yathocitam || siṃhāsaneṣu ratneṣu vāsayāmāsa dhārmikaḥ || 15 || prahṛṣṭavadanāḥ sarve praṇemurditinandanāḥ || ṛṣisaṃghāśca dhātāraṃ tuṣṭuvuśca yathāgamam || 16 || sarvānsaṃstūya sa kaviravocatsampuṭāñjaliḥ || sāśrunetraḥ sapulakaḥ praṇato vinayānvitaḥ || 17 || śukra uvāca || adya me saphalaṃ janma jīvitaṃ ca sujīvitam || svayaṃ vidhātā bhagavānsākṣāddṛṣṭaḥ svamandire || 18 || sākṣāddṛṣṭāśca tatputrā bhagavantaḥ sanātanāḥ || tuṣṭaḥ kṛṣṇo'tha māmevaṃ paramātmā parātparaḥ || 19 || kṛtārthaṃ kartumīśā māṃ yuṣmākaṃ svāgataṃ śiśum || svātmārāmeṣu kuśalapraśnamevaṃ viḍambanam || 2.61.20 || pavitraṃ kartumīśā māṃ heturāgamane'tra vaḥ || aparaṃ brūtha kiṃ vā'pi śāsta naḥ karavāmi kim || 21 || brahmovāca || udvignaściravicchedāttvāṃ pautraṃ draṣṭumāgataḥ || vicchedaḥ putrapautrāṇāṃ maraṇādatiricyate || 22 || kuśalaṃ te muniśreṣṭha putrayoścāpi yoṣitaḥ || kuśalaṃ te svadharmāṇāṃ kāmyānāṃ tapasāmapi || 23 || dine dine'paricchannaṃ śrīkṛṣṇārcanamīpsitam || sva guroḥ sevanaṃ nityamavicchinnaṃ bhavettava || 24 || gurviṣṭayoḥ pūjanaṃ ca sarvamaṅgalakāraṇam || pāpādhirogaśokaghnaṃ puṇyaharṣapradaṃ śubham|| || 29 || abhīṣṭadevaḥ santuṣṭo gurau tuṣṭe nṛṇāmiha || iṣṭadeve ca santuṣṭe santuṣṭāḥ sarvadevatāḥ || 26 || gururvipraḥ suro ruṣṭo yeṣāṃ pātakināmiha || teṣāṃ ca kuśalaṃ nāsti vighnastasya pade pade || 27 || tuṣṭaśca satataṃ vatsa śrīkṛṣṇaḥ prakṛteḥ paraḥ || sarvāntarātmā bhagavāṃstava bhaktyā ca nirguṇaḥ || 28 || tava tuṣṭo gururahaṃ vidhātā jagatāmapi || mayi tuṣṭe haristuṣṭo harau tuṣṭe tu devatāḥ ||29|| sāmprataṃ śṛṇu me dhīmannatrāgamanakāraṇam || preṣitasya surāṇāṃ ca viśvasaṃhartureva ca || 2.61.30 || śivasya guruputrasya sādhvīṃ tārāṃ bṛhaspateḥ || apahṛtya niśānāthastavaiva śaraṇāgataḥ || 31 || śambhurdharmaśca sūryyaśca śakro'nantaśca putraka || ādityā vasavo rudrā dikpālāśca digīśvarāḥ || 32 || yuddhāyāyānti sannaddhāstisraḥ koṭyaśca devatāḥ || nāgāḥ kimpuruṣāścaiva yakṣarākṣasaguhyakāḥ || 33 || bhūtāḥ pretāḥ piśācāśca kūṣmāṇḍā brahmarākṣasāḥ || kirātāścaiva gandharvāḥ samudrapuline'dhunā || 34 || tārakāmayasaṃgrāme madhyastho 'haṃ sutaiḥ saha || dehi tārāṃ raṇaṃ kiṃ vā tyaja candraṃ ca kāminam ||35|| śukra uvāca || āgacchantu surāḥ sarve sannaddhā raṇadurmadāḥ|| yotsye vinā maheśaṃ ca sarveṣāṃ ca guruṃ param ||36|| daityā ūcuḥ || ubhayeṣāṃ guruḥ śambhurmānyo vandyaśca sarvadā || dharmaśca sākṣī sarveṣāṃ tvameva ca pitāmahaḥ ||37|| anyāṃśca tṛṇatulyāṃśca nahi manyāmahe vayam || āgacchantu ca yotsyāmo vraja brūhi jagadguro|| || 38 || kṛpayā guruputrasya yadyāyāti maheśvaraḥ || āgneyāstraṃ prayokṣyāmaḥ paścādyotsyāmahe prabho || 39 || brahmovāca || kālāgnirudraḥ saṃharttā viśvasya balināṃ varaḥ || he vatsāstena sārddhaṃ ca ko vā yuddhaṃ kariṣyati || 2.61.40 || bhadrakālī jaganmātā khaḍgakharpara dhāriṇī || tayā durddharṣayā sārddhaṃ ko vā yuddhaṃ kariṣyati || 41 || sā sahasrabhujā devī muṇḍamālāvibhūṣaṇā || yojanāyatavaktrā ca daśayojanavistṛtā || 42 || saptatālapramāṇāśca yasyā dantā bhayānakāḥ || krośapramāṇajihvā ca māhālolā bhayaṅkarī || || 43 || atīva raudrā sannaddhā bhīmāḥ śaṃkarakiṃkarāḥ || atibhīmā bhairavāśca nandī ca raṇakarkaśaḥ || 44 || śivasya pārṣadāḥ sarvaṃ mahābalaparākramāḥ || vīrabhadrādayaḥ śūrāḥ koṭisūryyasamaprabhāḥ || 45 || sahasramūrdhnaḥ śeṣasya phaṇāmaṇḍalabhūṣaṇam || viśvaṃ sarṣapatulyaṃ ca ko vā yoddhā ca tatsamaḥ||46|| kālāgnirudraḥ saṃharttā yasya śambhośca kiṃkaraḥ|| śūlinastripuraghnasya jvalato brahmatejasā||47|| yasya pāśupatāstreṇa durnivāryeṇa putrakāḥ || bhasmībhūtaṃ bhavedviśvaṃ daityānāṃ caiva kā kathā ||48| yasya śūlena bhinnaśca śaṅkhacūḍaḥ pratāpavān || sudāmā pārṣadavaraḥ kṛṣṇasya paramātmanaḥ||49|| trikoṭisūryyasadṛśastejasvī paramādbhutaḥ || rādhākavacakaṇṭhaśca sarvadaityajaneśvaraḥ ||2.61.50|| madhukaiṭabhayorhantā hiraṇyakaśipośca yaḥ || sa ca viṣṇuḥ samāyāti śvetadvīpātsvayaṃ prabhuḥ || 51 || ityuktvā jagatāṃ dhātā virarāma ca saṃsadi || prahasyovāca daiteyo dānavānāmadhīśvaraḥ || 52 || prahrāda uvāca || namastubhyaṃ jagaddhātaḥ sarveṣāṃ prāktaneśvara || sarvapūjyaḥ sarvanāthaḥ kiṃ vakṣyāmi tavāgrataḥ || 53 || hiraṇyakaśiporhantā madhukaiṭabhayośca yaḥ || sā kalā yasya kṛṣṇasya paripūrṇatamasya ca || || 54 || sarvāntarātmanastasya cakraṃ nāma sudarśanam || asmākaṃ lokamasmāṃśca taddrāgdhakṣyati dussaham || 55 || tato na balavāñchambhurna ca pāśupataṃ vidhe || na ca kālī na śeṣaśca na ca rudrādayaḥ surāḥ || 56 || yasya lomasu viśvāni nikhilāni jagatpate || sarvādhārasya ca vibhoḥ sthūlātsthūlatarasya ca || 97 || ṣoḍaśāṃśo bhagavataḥ sa caiva hi mahānvirāṭ || ananto nahi tatsthūlo na kālī bṛhatī tataḥ || 58 || āgacchantu surāḥ sarve yuddhaṃ kurvantu sāmpratam || na bibhemi śarebhyaśca na ca pāśupatāddharāt || 59 || namastasmai bhagavate śivāya śivarūpiṇe || namo'nantāya sādhubhyo vaiṣṇavebhyaḥ prajāpate || 2.61.60 || śrīkṛṣṇasya prasādena nirbhayo'haṃ nirāmayaḥ || na me svātmabalaṃ brahmaṃstadbalaṃ yatprabhorbalam || 61 || svapāpena mṛtastāto purā vai viṣṇunindayā || nirbandhācchaṅkhacūḍaśca darpācca madhukaiṭabhau || 62 || tripuraḥ kiṅkaro'smākaṃ vīratvena na gaṇyate || tathā'pi preritastena sa rathastho maheśvaraḥ || 63 || ityuktvā dānavaśreṣṭho virarāma ca saṃsadi || uvāca jagatāṃ dhātā punareva ca nārada || 64 || brahmovāca || vināśakāraṇaṃ yuddhamubhayordaityadevayoḥ|| suprītyā caraṇaṃ vatsa sarvamaṅgalakāraṇam || 65 || tārāṃ bhikṣāṃ dehi mahyaṃ bhikṣukāya ca vedhase || vimukhe bhikṣuke rājangṛhasthaḥ sarvapāpabhāk || 66 || sanatkumāra uvāca || svakīrtiṃ rakṣa rājendra siṃhastvaṃ suradaityayoḥ || yasya bhikṣurjagaddhātā tasya kīrteśca kā kathā || 67 || sanātana uvāca || na jitastvaṃ surendraiśca brahmeśānapurogamaiḥ || rakṣitaḥ kṛṣṇacakreṇa vaiṣṇavaḥ puṇyavāñchuciḥ || 68 || sanandana uvāca || yasyeṣṭadevaḥ sarvātmā śrīkṛṣṇaḥ prakṛteḥ paraḥ || guruśca vaiṣṇavaḥ śukraḥ sa ca kena jito mahān || 69 || sanaka uvāca || puṇyavānna jitaḥ kena jitaḥ pāpī svapātakaiḥ || puṇyadīpo na nirvāti pāṣaṇḍenaiva vāyunā || 2.61.70 || ṛṣaya ūcuḥ || dehi tārāṃ mahābhāga candra prāṇādhikaṃ guroḥ || svakīrtiṃ rakṣa suciraṃ prārthayāmaḥ punaḥ punaḥ || 71 || prahrāda uvāca || sthite madīśvare sākṣānnahi bhṛtyo virājate || karttāraṃ brūhi mannāthaṃ guruṃ śukraṃ satāṃ varam || 72 || śiṣyāṇāmādhipatye ca sādhūnāṃ gururīśvaraḥ || gurau samarpitaṃ pūrvaṃ sarvaiśvaryyaṃ munīśvaraṃ || 73 || vayaṃ bhṛtyāśca poṣyāśca svaguroḥ paricārakāḥ || te ca śiṣyāḥ kuśalino gurvājñāṃ pālayanti ye || 74 || prahrādasya vacaḥ śrutvā cakāra prārthanāṃ kavim || dadau śukraśca tārāṃ tāṃ candraṃ ca malinaṃ mune || 75 || dattvā tārāṃ vidhuṃ śukraḥ praṇanāma vidheḥ pade || namaskṛtya munibhyaśca praṇataḥ svapuraṃ yayau || 76 || prahlādaḥ sagaṇo bhaktyā namaskṛtya vidheḥ pade || pratyekaṃ vai munigaṇānpraṇataḥ svagṛhaṃ yayau || 77 || brahmā dadarśa tārāṃ ca praṇatāṃ svapade satīm || lajjayā namravaktrāṃ ca rudatīṃ gurviṇīṃ mune || 78 || candraṃ ca praṇataṃ dhātā kroḍe saṃsthāpya māyayā || uvāca malināṃ tārāṃ kātarāṃ ca kṛpāmayaḥ ||79|| tāre tyaja bhayaṃ mattaḥ bhayaṃ kiṃ te mayi sthite || saubhāgyayuktā svapatau bhaviṣyasi vareṇa me ||2.61.80|| durbalā balinā grastā niṣkāmā na cyutā bhavet || prāyaścittena śuddhā sā na strī jāreṇa duṣyati || 81 || sakāmā kāmato jāraṃ bhajate svasukhena ca || prāyaścittānna śuddhā sā svāminā parivarjitā || 82 || kumbhīpāke pacyate sā yāvaccandradivākaram || annaṃ viṣṭhā jalaṃ mūtraṃ sparśanaṃ sarvapāpadam || 83 || pāpī yasyāśca tasyāśca sādhubhiḥ parivarjitam || kasya garbhaṃ vada śubhe gaccha vatse gurorgṛham || 84 || tyaja lajjāṃ mahābhāge sarvaṃ ca prāktanādbhavet|| brahmaṇo vacanaṃ śrutvā tamuvāca satī tadā ||85|| candrasya garbhaṃ he tāta bibharmyadya svakarmaṇā || sarve me sākṣiṇaḥ santi durbalāyāḥ prajāpate || 86 || yadā jagrāha candro māṃ dayāhīnaśca durmatiḥ|| ityuktvā tārakā devī suṣāva kanakaprabham || 87 || kumāraṃ sundaraṃ tatra jvalantaṃ brahmatejasā || gṛhītvā tanayaṃ candro natvā brahmāṇamīśvaram || 88 || jagāma sa svabhavanaṃ brahmā sindhutaṭaṃ yayau || sādhvīṃ tārāṃ ca gurave devebhyo'pyabhayaṃ dadau ||89|| āśiṣaṃ śambhudharmābhyāṃ dattvā lokaṃ yayau vidhiḥ || devā yayuḥ svabhavanaṃ svagṛhaṃ ca bṛhaspatiḥ || 2.61.90 || bhāvānuraktavanitāṃ prāpya saṃhṛṣṭamānasaḥ || tārakāgarbhasaṃbhūtaḥ sa eva ca budhaḥ svayam || 91 || tejasvī sadgraho brahmaścandrasya tanayo mahān || sa eva nandanavane citrāṃ saṃprāpya nirjane || 92 || ghṛtācyā garbhasaṃbhūtāṃ kuberasya ca retasā || dṛṣṭvā ca nirjane ramyāṃ kanyāṃ kamalalocanām || 93 || atīva yauvanasthāṃ ca bālāṃ ṣoḍaśavārṣikīm || gāndharveṇa vivāhena tāṃ jagrāha vidhoḥ sutaḥ || 94 || tasyāmathāyaṃ rahasi vīryyādhānaṃ cakāra saḥ || babhūva rājā citrāyāṃ caitro vai maṇḍaleśvaraḥ ||95|| saptadvīpavatīṃ pṛthvīṃ śāsti vai dhārmiko balī || śataṃ nadyo ghṛtānāṃ ca dadhnāṃ nadyaḥ śatāni ca || 96 || śatāni nadyo dugdhānāṃ madhunadyaśca ṣoḍaśa || daśa nadyaśca tailānāṃ śarkarālakṣarāśayaḥ || 97 || miṣṭānnānāṃ svastikānāṃ lakṣarāśiśca nityaśaḥ || pañcakoṭigavāṃ māṃsaṃ sāpūpaṃ svannameva ca || 98 | eteṣāṃ ca nadīrāśīrbhuñjate brāhmaṇā mune || gavāṃ lakṣaṃ ca ratnānāṃ maṇīnāṃ lakṣameva ca || 99 || śatalakṣaṃ suvarṇānāṃ lakṣaṃ vai sūkṣmavāsasām || ratnānāṃ bhūṣaṇaṃ pātramatīva sumanoharam || 2.61.100 || dadau dvijātaye rājā nityaṃ vai jīvitāvadhi || tasya caitrasya putraśca rājā'dhiratha eva ca || 101 || tasya putraśca surathaścakravarttī bṛhacchravāḥ || mahājñānaṃ ca saṃprāpya medhaso munisattamāt || 102 || bheje purā viṣṇumāyāṃ puṇyakṣetre ca bhārate || śaratkāle mahāpūjāṃ cakāra sa sarittaṭe||103|| vaiśyena sārdhaṃ sa mahāñjñānināṃ munisattama|| rājā kaliṅgadeśasya virādhaśca viśāṃ varaḥ || 104 || tasya putro mahāyogī drumiṇo jñānināṃ varaḥ || drumiṇo vaiṣṇavaḥ prājñaḥ puṣkare duṣkaraṃ tapaḥ || 105 || kṛtvā samādhiṃ saṃprāpa jñānināṃ vaiṣṇavāgraṇīḥ || putrairdārairnirastaśca dhanalobhāddurātmabhiḥ ||106|| sa ca koṭisuvarṇaṃ ca nityaṃ dattvā jalaṃ papau || muktiṃ saṃprāpa saṃsevya viṣṇumāyāṃ sanātanīm||107|| rājā lebhe manutvaṃ ca rājyaṃ niṣkaṇṭakaṃ mune || uvāca madhuraṃ vākyaṃ dhātā trijagatāṃ patiḥ || 108 || iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvāde durgopākhyāne gurostārāprāptibudhotpattyādivarṇanaṃ nāmaikaṣaṣṭitamo'dhyāyaḥ || 61 ||

English translation

The return of Tara to B^haspati and the birth of Budha Narada said - O lord, what happened between the gods and the demons thereafter? You please reveal the secret to me since I am getting very Narayana said - Brahma went to the abode of Sukra which had many Mandapas bedecked with Fifty crores of disciples, well-versed in Brahmana, surrounded him and his fort was surrounded by seven moats.

Hundred crores of demons protected the fort and the fort has the boundary walls bedecked with several of gems.

Reaching there Brahma, the creator of the universe, found Sukra, the son of Bhrgu who was seated on the gem-studded lion-throne being adored by the sages.

He was reciting the name of Krsna, the eternal Brahmana, the great soul and the great lord. He had the lustre of crores of suns and the divine lustre illumining him.

iftsT fetyidl lamTO: I O Narada, Brahma was delighted at finding his grandson so illustrious. He developed a feeling that his sons and grandsons are all As soon as Sukra found Brahma the creator of the universe he got up at once and feeling terrified stood before him with folded hands and bowed to him in reverence.

He adored him with sixteen types of offerings and with his mind filled with devotion he started offering prayers to him on his arrival. Indeed he bestowed intelligence and mantra besides fortune since he had been the one who granted the reward of one's own deeds. Indeed he was the best of all in the universe.

Brahma the lord of the universe felt extremely satisfied with the prayer of Sukra and he then addressed the court of Sukra.

lUTOT 5Bgq;i Sukra offered him the best seat of lioii-throne bowing his head. This lion-throne was quite beautiful and illumining, which was built by Visvakarma. O sage, ^ukra after bowing in reverence to Brahma also bowed in reverence to Ahgira, Dhanna, myself (Narayana) and Nara with devotion folding his hands.

The religious-minded Sukra adored all of them, offering them the gem-studded lion- thrones. Thereafter ^ukra, the son of Diti, and the other sages with a delightful mind bowed in reverence to Brahma.

Thereafter, after welcoming all, ^ukra with folded hands and eyes filled with tears, getting emotional, started speaking with great humility.

Sukra said - Today my life has met with success; my birth has been successful because all of you with Brahm^ have arrived here.

Besides his son Sanatana and others have also arrived here with their smiling faces. It appears as if lord Krsiia himself has arrived here.

firnst gjMw -qt wnt f?i^i In order to grace a child like me, all of you have arrived here and I welcome you. It is just a fallacy to enquire about the welfare of the people who are self-engrossed in their own soul. You have arrived here in order to purify me. You kindly tell me what I can do for you?

Brahma said - I was feeling anxious because of my separation from you for long. I have come to meet my grandson like you, because the separation from a son and a grandson is gn' Kt i vf t O best of the sages, are you quite well. Are your sons, wives, Dhanua and tapas going on I pray that you remain devoted to lord Krsna and your devotion towards your teacher may continue as ever, Because to adore one's teacher and the family gods is the cause of all the welfares and destroys sins, disease and grief, bestowing merit, pleasure and welfare, With the pleasure of the teacher, the family gods of a person also remain happy and with the pleasure of the family god, all the gods remain The sinners with whom the Brahmanas and the gods get angry, they cannot remain without blemish and have to face obstructions at every son, you are devoted to lord Kr§na, who is beyond- Prakrti and is the soul of all men,

formless and remains happy with your adoration.

I am the creator of the universe and also your teacher. I am quite happy with you and with my pleasure the lord also feels happy.

O intelligent one, the reason for my arrival at present is somewhat different, about which I am going to tell you, you listen to me. I have been deputed by the gods and lord Siva. Brhaspati happens to be the Guruputra of Siva whose chaste wife Tara has been abducted by Candrama, who has taken refuge with you.

O son, because of this lord ^iva, Dharma, Dikpalas, lords of the quarters are arriving here for a battle. The anny comprises of three crores of gods, Ndgas, Kimpurusas, Yaksas, demons, Guhyakas, Goblins, Bhutas and Pretas besides Gandharvas getting well-prepared and are currently lodged on the sea-shore. But in this war-like situation, I have been declared as a mediator, therefore either you return Tara or be prepared for a war or otherwise you disown Sukra said - Let the gods who are desirous of a war arrive here. Leaving Siva, who happens to be the great teacher of all, I can fight with The demons said - Siva is adorable by the gods and the demons alike. Dharma is the witness of all the deeds and you are the great grandfather. We consider all other gods like straw. Therefore, O teacher of the universe, you go and tell them that they can come and fight with us.

fpparr Rtm:i O lord, in case Siva arrives here to display compassion on Brhaspati, who happens to be his Guruputra, he will first use Agneydstra and then start the fight.

Brahma said - O son, he is Kalagni and the destroyer of the universe. As such he happens to be foremost of all the valorous people.

Therefore, who can fight with him.

The mother of the universe is associated with him, who holds a sword and skull-vase. Who would like to fight with the terrific one?

Who would fight with the goddess of a thousand arms who is adorned with the garland of skulls and has a yojanaAong mouth which is ten yojanas wide? She has seven fangs like the tala trees which are horrible. She often moves TRigr 4mT: 7igi7f%2hTi:i The terrible looking attendants of Siva also accompany her which include the horrible Bhairava, Nandi who roars in the battle field, besides Virabhadra and other ganas who are extremely valorous, possessing great prowess and have the lutsre of crores of suns. There is the thousand headed Sesa accompanying her, whose hoods are studded with gems and they hold them on the head like the sea-same seed. No warrior can equate them.

grg ^fTgrtuT gggir:i O son, Siva the killer of Tripura and from whom the Kalagni-rudra emanates, who destroys the world and the trident bealrers serve him.

Besides the horrible Pasupata weapon can reduce the entire universe to ashes. How can the demons stand before it?

killed at the hand of Mahadeva, mounted on a chariot when he was incited by lord Siva.

O Narada, Prahlada the best of the demons kept quite after speaking all this. Thereafter Brahma the creator of the universe started speaking again.

Brahma said - O son, a war between the demons and the gods will doom destruction on both the sides, therefore, you better act with love which is the root cause of all welfares.

O king mind it, that I have come as a beggar to you inspite of being Brahma and therefore, you give away Tara to me in charity because by disappointing a beggar, a householder attracts all Sanatkumara said - O best of the kings, you are the lion among the races of the demons and the gods; therefore you protect your glory. The one at whose door Brahma comes as a beggar who could equate him in glory?

Sanatana said - Brahma, Siva and other gods could not conquer you because of your being virtuous and noble and a Vaisnava also being protected by the Cah^a of lord Krsna.

TTcrfrm XR:I Sanatana said - The one who adores lord Kr§ na who is beyond Prakrti and has a teacher like Vaisnava Sukra, who can over-power such a great king.

Sanaka said - No one can defeat a meritorious person. The sinner is over-powered because the lamp of virtues cannot be extinguished with the wind of illusion.

The sage said - O virtues king, you hand over Tara and Candrama to the teacher Brhaspati. I pray you again and again and preserve your glory for all times to come.

Prahlada said - When the lord of all is present there, none of his attendants can occupy that position, nor could anyone else give the consent.

You better tell all these words to Sukra who is the best of noble people. The teacher happens to be the lord of the noble disciples and he is always equated with the lord. In earlier times I entrusted all my riches and fortunes to my We are the servants of our teacher, who feeds us because the same disciples meet with welfare who obeys the command of the teacher.

O sage, on hearing the words of PrahlSda, he prayed to Sukra. Thereafter Sukra returned Tara and the sinful Candrama to them.

Sukra handing over Tara and Candrama touched the feet of Brahma and bowed in reverence to all the sages, finally retiring to his own place.

Prahlada also bowed in reverence to Brahma together with all his courtiers and offered salutations to all the sages, who finally left for their abodes.

O sage, Brahma looked at Tara, who was lowering her head in shame and was pregnant at the same time. She touched the feet of Brahma.

She was crying also.

Thereafter finding Candrama offering salutations to him, the merciful Brahma lifted him up and made him sit in his lap and then spoke to Tara who had lost all her glory. Brahma said: "O Tara, don't be afraid of me.” With my boon you will regain the fortunes of your Because a helpless and weak lady if over¬ powered by a strong man cannot be termed as unchaste and does not fall from her dharma. She is purified by her repentance and she cannot be treated as degraded because of the advances of a On the other hand, the one who, becoming passionate, goes to another man for the sake of pleasure and enjoys his company, her mind cannot be purified even with repentance.

Therefore she is considered as a discarded woman by her husband.

She will remain in the kumbhlpaka hell till the duration of the life of the sun and the moon. Her food is to be discarded like refuse and the water like urine and her mere touch showers all sins on a person.

Therefore the noble people are prohibited from taking food and water from such a degraded woman. O daughter, you tell me who has made you pregnant. You better go back to Brhaspati.

O virtuous lady, you shed away the shame because everything that has happened is due to the earlier deeds. On hearing the words of Brahma, the chaste lady spoke to him, ”0 father, I am pregnant by Candrama and I am accordingly maintaining the same. O Prajapati, at the time when I was captured by this degraded Candrama, all the people are witnesses to me.

Saying this, Tara produced a child which was having the lustre of gold.

The child which was having the divine lustre was carried by Candrama in his lap. He then bowed in reverence to Brahma and went back to his abode. Thereafter, Brahma entrusted Tara to Brhaspati and offering protection, the gods made them proceed to their respective abodes together with Siva and Dharma. The gods too retired to their respective abodes together with Brhaspati.

The teacher Brhaspati was very much delighted in getting back Tara the lady of his life.

Thus the child bom from the womb of Tara was given the name Budha. O Brahmana, this son of Candrama in due course of time became a powerful planet. The same Budha once spotted Citra in the secluded forest who was bom from the Apsara Ghrtaci from the seed of Kubera. She had beautiful eyes like lotus flowers and was full of youth at the age of sixteen. Budha accepted her as his wife by means of the Gaiidharva He enjoyed her company in seclusion impregnating her. Because of this a king named Caitra was bom out of Citra, The religious king mled over the land of seven islands. During his rule there were a hundred streams of ghee, a hundred steams of curd, a hundred streams of milk, sixteen streams of honey and ten streams of oil. In his kitchen sweets were made with sugar of a lakh of heaps, including sweet balls, five crores of meat preparations and other varieties of food, daily. O sage, the Brahmanas and others enjoy the

treasures of these streams daily. Thus the king during his life time regularly gave away in charity a lakh of cows, a lakh of gems, a hundred lakhs of ornaments, a lakh of fine garments and gem-studded ornaments, to the Brahmanas. In due course of time, a son named Adhiratha was bom to Caitra.

A son named Suratha was bom to him who was a Calcravarti king, who received divine knowledge from Medhas, the best of the sages and adorned Visnumaya in the sacred land of Bharata. The great intellectual performed a great piijd in the winter Navardtras, on the bank of the O best of the sages Viradha, the king of the Kalihga country, happened to be the best of the kings. He had a son named Drumina who was a great yogi and intellectual.

The great intellectual Vaisnava Drumina went to Puskara-ksetra and performed severe tapas there, as a result of which a son named Samadhi was born to him, who happened to be the best of the intellectuals and the Vaisnavas. His wicked son and the wife drove the king out of the house, who used to give away in charity a crore of gold coins daily before sipping the water. Thereafter, he was redeemed after adoring Visnumaya.

O sage, thus the king got back his kingdom and he ruled without interruption. In due course of time he became a Manu who was addressed as such by Brahma the creator of the universe.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 119762 (2017-09-07T02:55:57Z); Shanti Lal Nagar English scan pages n556–n565: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n556/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.