Skip to main content

Prakṛti-khaṇḍa · Chapter 58

Chapter 58

Unit 88 of 276Prakṛti-khaṇḍa · Chapter 58Prakṛti-khaṇḍa · Chapter 581 source entries

Prakṛti-khaṇḍa · Chapter 58

Source

नारद उवाच।। कस्य वंशोद्भवो राजा सुरथो धर्मिणां वरः।। कथं संप्राप वै ज्ञानं मेधसो ज्ञानिनां वरात्।।१।। कस्य वंशोद्भवो ब्रह्मन्मेधसो मुनिसत्तम।। बभूव कुत्र संवादो नृपस्य मुनिना सह।।२।। सख्यं बभूव कुत्रास्य वा प्रभो नृपवैश्ययोः।। व्यासेन श्रोतुमिच्छामि वद वेदविदां वर ।।३।। नारायण उवाच ।। अत्रिश्च ब्रह्मणः पुत्रस्तस्य पुत्रो निशाकरः ।। स च कृत्वा राजसूयं द्विजराजो बभूव ह ।। ४ ।। गुरुपत्न्यां च तारायां तस्याभूच्च बुधः सुतः ।। बुधपुत्रस्तु चैत्रश्च तत्पुत्रः सुरथः स्मृतः ।। ५ ।। नारद उवाच ।। गुरुपत्न्यां च तारायां समभूत्तत्सुतः कथम्।। अहो व्यतिक्रमं ब्रूहि वेदस्य च महामुने ।। ६ ।। नारायण उवाच ।। सम्पन्मत्तो महाकामी व्यचरज्जाह्नवीतटे ।। तारां सुरगुरोः पत्नीं धर्मिष्ठां च पतिव्रताम् ।। ७ ।। सुस्नातां सुन्दरीं रम्यां पीनोन्नतपयोधराम् ।। सुश्रोणीं सुनितम्बाढ्यां मध्यक्षीणां मनोहराम् ।। ८ ।। सुदतीं कोमलांगीं च नवयौवनसंयुताम् ।। सूक्ष्मवस्त्रपरीधानां रत्नभूषणभूषिताम् ।। ९ ।। कस्तूरीबिन्दुना सार्द्धमधश्चन्दनबिन्दुना ।। सिन्दूरबिन्दुना चारुफालमध्यस्थलोज्ज्वलाम् ।। 2.58.१० ।। वायुनाऽधोवस्त्रहीनां सकामां रक्तलोचनाम् ।। शरत्पार्वणचन्द्रास्यां पक्वबिम्बाधरां वराम् ।। ११ ।। सस्मितां नम्नवक्त्रां च लज्जया चन्द्रदर्शनाम् ।। गच्छन्तीं स्वगृहं हर्षान्मत्तवारणगामिनीम् ।। १२ ।। तां दृष्ट्वा मन्मथाक्रान्तश्चन्द्रो लज्जां जहौ मुने ।। पुलकांकितसर्वाङ्गः सकामस्तामुवाच सः ।। १३ ।। चन्द्र उवाच ।। योषिच्छ्रेष्ठे क्षणं तिष्ठ वरिष्ठे रसिकासु च ।। सुविदग्धे विदग्धानां मनो हरसि सन्ततम् ।। १४ ।। निषेव्य प्रकृतिं जन्मसहस्रे कामसागरे ।। तपःफलेन त्वां प्राप बृहच्छ्रोणीं बृहस्पतिः ।। १५ ।। अहो तपस्विना सार्द्धमविदग्धेन वेधसा ।। योजिता त्वं रसवती शश्वत्कामातुरा वरा ।। १६ ।। किं वा सुखं च विज्ञातमविज्ञेषु समागमे ।। विदग्धाया विदग्धेन सङ्गमः सुखसागरः ।। १७ ।। कामेन कामिनी त्वं च दग्धाऽसि व्यर्थमीश्वरि ।। कर्मणा वाऽऽत्मदोषाद्वा को जानाति मनः स्त्रियाः ।। १८ ।। दिने दिने वृथा याति दुर्लभं नवयौवनम् ।। नवीनयौवनस्थाया वृद्धेन स्वामिना तव ।। १९ ।। शश्वत्तपस्यायुक्तश्च कृष्णमात्मानमीप्सितम् ।। स्वप्ने जागरणे वाऽपि ध्यायन्नास्ते बृहस्पतिः ।। 2.58.२० ।। सर्वकामरसज्ञा त्वं निष्कामं काममीप्सितम् ।। ध्यायन्ती कामुकी शश्वद्यूनां शृंगारमात्मनि ।। २१ ।। अन्यश्च त्वन्मनःकामो भिन्नं त्वद्भर्तुरीप्सितम् ।। ययोश्च भिन्नौ विषयौ का प्रीतिः संगमे तयोः ।। २२ ।। वासन्तीपुष्पतल्पे च गन्धचन्दन चर्चिते ।। मोदस्व मां गृहीत्वा त्वं वसन्ते माधवीवने ।। २३ ।। सुगन्ध्युत्फुल्लकुसुमे निर्जने चन्दने वने ।। भवती युवती भाग्यवती तत्रैव मोदताम् ।। २४ ।। चन्दने चम्पकवने शीतचम्पकवायुना ।। रम्ये चम्पकतल्पे च क्रीडां कुरु मया सह ।। २५।। इत्युक्त्वा मदनो न्मत्तो मदनाधिकसुन्दरः ।। पपात चरणे देव्या मन्दो मन्दाकिनीतटे ।। २५ ।। निरुद्धमार्गा चन्द्रेण शुष्ककण्ठौष्ठतालुका ।। अभीतोवाच कोपेन रक्तपंकजलोचना ।। २४ ।। तारोवाच ।। धिक् त्वां चन्द्र तृणं मन्ये परस्त्रीलम्पटं शठम् ।। अत्रेरभाग्यात्त्वं पुत्रो व्यर्थं ते जन्म जीवनम् ।। २८ ।। अरे कृत्वा राजसूयमात्मानं मन्यसे बली ।। बभूव पुण्यं ते व्यर्थं विप्रस्त्रीषु च यन्मनः ।। २९ ।। यस्य चित्तं परस्त्रीषु सोऽशुचिः सर्वकर्मसु ।। न कर्मफलभाक्पापी निन्द्यो विश्वेषु सर्वतः 2.58.३० ।। सतीत्वं मे नाशयसि यक्ष्मग्रस्तो भविष्यसि ।। अत्युच्छ्रितो निपतनं प्राप्नोतीति श्रुतौ श्रुतम् ।। ३१ ।। दुष्टानां दर्पहा कृष्णो दर्पं ते निहनिष्यति ।। त्यज मां मातरं वत्स सत्यं ते शं भविष्यति ।। ३२ ।। इत्युक्त्वा तारका साध्वी रुरोद च मुहुर्मुहुः ।। चकार साक्षिणं धर्मं सूर्य्यं वायुं हुताशनम् ।। ३३ ।। ब्रह्माणं परमात्मानमाकाशं पवनं धराम् ।। दिनं रात्रिं च सन्ध्यां च सर्वं सुरगणं मुने ।। ३४ ।। तारकावचनं श्रुत्वा न भीतः स चुकोप ह।। करे धृत्वा रथे तूर्णं स्थापयामास सुन्दरीम् ।।३५।। रथं च चालयामास मनोयायी मनोहरम्।। मनोहरां गृहीत्वा तां स च रेमे मनोहरम् ।। ३६ ।। विस्पन्दके सुरवने चन्दने पुष्पभद्रके ।। पुष्करे च नदीतीरे पुष्पिते पुष्पकानने ।।३७।। सुगन्धि पुष्पतल्पे च पुष्पचन्दनवायुना ।। निर्जने मलयद्रोण्यां स्निग्धचन्दनचर्चिते ।। ३८ ।। शैले शैले नदे नद्यां शृंगारं कुर्वतोस्तयोः ।। गतं वर्षशतं हर्षान्मुहूर्त्तमिव नारद ।। ३९ ।। बभूव शरणापन्नो भीतो दैत्येषु चन्द्रमाः ।। तेजस्विनि तथा शुक्रे तेषां च बलिनां गुरौ ।। 2.58.४० ।। अभयं च ददौ तस्मै कृपया भृगुनन्दनः ।। गुरुं जहास देवानां सुविपक्षं बृहस्पतिम् ।। ४१ ।। सभायां जहसुर्हृष्टा बलिनो दितिनन्दनाः ।। अभयं च ददुस्तस्मै भीताय च कलङ्किने ।। ४२ ।। सतीसतीत्वध्वंसेन पापिष्ठचन्द्रमण्डले ।। बभूव शशरूपं च कलंकं निर्मले मलम् ।। ४३ ।। उवाच तं महाभीतं शुक्रो वेदविदां वरः ।। हितं तथ्यं वेदयुक्तं परिणामसुखावहम् ।। ४४ ।। शुक्र उवाच ।। त्वमहो ब्रह्मणः पौत्रोऽप्यत्रेर्भगवतः सुतः ।। दुर्नीतं कर्म ते पुत्र नीचवन्नयशस्करम् ।। ४५ ।। राजसूयस्य सुफले निर्मले कीर्त्तिमण्डले ।। सुधाराशौ सुराबिन्दुरूपमंकमुपार्जितम् ।। ४६ ।। त्यज देवगुरौ पत्नीं प्रसूमिव महासतीम् ।। धर्मिष्ठस्य वरिष्ठस्य ब्राह्मणानां बृहस्पतेः ।। ४७ ।। शम्भोः सुराणामीशस्य गुरुपुत्रस्य वेधसः ।। पौत्रस्यांगिरसे नित्यं ज्वलतो ब्रह्मतेजसा ।।४८।। शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि ।। इति सद्वंशजातानां स्वभावं च सतामपि ।।४९।। स शत्रुर्मे सुरगुरुः परो विश्वे निशाकर ।। तथाऽपि सहजाख्यानं वर्णितं धर्मसंसदि ।। यत्र लोकाश्च धर्मिष्ठास्तत्र धर्मः सनातनः ।। ।। 2.58.५० ।। यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।। गौरेकं पञ्च च व्याघ्री सिंही सप्त प्रसूयते ।। ५१ ।। हिंसकाः प्रलयं यान्ति धर्मो रक्षति धार्मिकम् ।। देवाश्च गुरवो विप्राः शक्ता यद्यपि रक्षितुम् ।।५२।। तथाऽपि नहि रक्षन्ति धर्मघ्नं पापिनं जनम्।। कुलटा विप्रपत्नीनां गमने सुरविप्रयोः ।। ५३ ।। ब्रह्महत्याषोडशांश पातकं च भवेद्ध्रुवम् ।। तासामुपस्थितानां च गमने तच्चतुर्थकम् ।। ५४ ।। विप्रपत्नीसतीनां च गमनं वै बलेन चेत् ।। ब्रह्महत्याशतं पापं भवेदेव श्रुतौ श्रुतम् ।। ५५ ।। धर्म्मं चर महाभाग ब्राह्मणीं त्यज साम्प्रतम् ।। कृत्वाऽनुतापं पापाच्च निवृत्तिस्तु महाफला ।। ५६ ।। उपायेन च ते पापं दूरीभूतं भवेन्ननु ।। शरणागत भीतस्य मयि देवस्य धर्मतः ।। ५७ ।। शस्त्रहीनं च भीतं च दीनं च शरणार्थिनम् ।। यो न रक्षत्यधर्मिष्ठः कुम्भीपाके वसेद्ध्रुवम्।। । ।। ५८ ।। राजसूयशतानां च रक्षिता लभते फलम् ।। परमैश्वर्य्ययुक्तश्च धर्मेण स भवेदिह ।। ५९ ।। इत्युक्त्वा वै दैत्यगुरुः स्वर्गे मन्दाकिनीतटे ।। स्नात्वा तं स्नापयामास विष्णुपूजां चकार सः ।। 2.58.६० ।। विष्णुपादाब्जजातेन तन्नैवेद्यं शुभप्रदम् ।। गंगोदकेन पुण्येन भोजयामास चन्द्रकम् ।।६१।। क्रोडे कृत्वा तु तं भीतं सज्जितं पापकर्मणा ।। कुशहस्तस्तमित्यूचे स्मारंस्मारं हरिं मुने ।। ।। ६२ ।। शुक्र उवाच ।। यद्यस्ति मे तपः सत्यं सत्यं पूजाफलं हरे ।। सत्यं व्रतफलं चैव सत्यं सत्यवचः फलम् ।। ६३ ।। तीर्थस्नानफलं सत्यं सत्यं दानफलं यदि ।। उपवासफलं सत्यं पापान्मुक्तो भवान्भवेत् ।। ६४ ।। विप्रं त्रिसन्ध्याहीनं या विष्णुपूजाविही नकम् ।। तन्नाप्नोतु महाघोरं चन्द्रपापं सुदारुणम् ।। ६५ ।। स्वभार्य्यावञ्चनं कृत्वा यः प्रयाति परस्त्रियम् ।। स यातु नरकं घोरं रुद्रपापेन पातकी ।।६६।। वाचा वा ताडयेत्कान्तं दुश्शीला दुर्मुखा च या ।। सा युगं चन्द्रपापेन यातु लालामुखं ध्रुवम् ।।६७।। अनैवेद्यं वृथान्नं च यश्च भुङ्क्ते हरेर्द्विजः ।। स यातु कालसूत्रं च चन्द्रपापाच्चतुर्युगम् ।। ६८ ।। अम्बुवाच्यं भूखननं यः करोति नरा धमः ।। चन्द्रपापाद्युगशतं कालसूत्रं स गच्छतु ।। ६९ ।। स्वकान्तं वञ्चयित्वा च या याति परपूरुषम् ।। सा यातु वह्निकुण्डं च चन्द्रपापाच्चतुर्युगम् ।। 2.58.७० ।। कीर्त्तिं करोति रजसा परकीर्त्तिं विलुप्य च ।। स युगं चन्द्रपापेन कुम्भीपाकं च गच्छतु ।। ७१ ।। पितरं मातरं भार्य्यां यो न पुष्णाति पातकी ।। स्वगुरुं चन्द्रपापेन यातु चण्डालतां ध्रुवम् ।। ७२ ।। कुलटान्नमवीरान्नमृतुस्नातान्नमेव च ।। योऽश्नाति चन्द्रपापं च यातु तं पापिनं ध्रुवम् ।।७३।। स यातु तेन पापेन कुम्भीपाकं चतुर्युगम् ।। तस्मादुत्तीर्य्य चाण्डालीं योनिमाप्नोति पातकी ।। ७४ ।। दिवसे यो ग्राम्यधर्मं महापापी करोति च ।। यो गच्छेत्कामतः कामी गुर्विणीं वा रजस्वलाम् ।। ७५ ।। तं यातु चन्द्रपापं च महाघोरं च पापिनम् ।। स यातु तेन पापेन कालसूत्रं चतुर्युगम् ।।७६।। मुखं श्रोणीं स्तनं चापि यः पश्यति परस्त्रियाः ।। कामतः कामदग्धश्च यातु तं चन्द्रकल्मषम् ।।७७।। स यातु लालाभक्षं च चन्द्रपापाच्चतुर्युगम् ।। तस्मादुत्तीर्य्य भवतु चाण्डालोऽन्धो नपुंसकः ।। ७८ ।। कुहूपूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च ।। मांसं मसूरं लकुचं यश्च भुक्ङ्ते रवेर्दिने ।। ७१ ।। कुरुते ग्राम्यधर्मं च यातु तं चन्द्रकिल्बिषम् ।। चतुर्युगं कालसूत्रं तेन पापेन गच्छतु ।। 2.58.८० ।। तस्मादुत्तीर्य्य चाण्डालीं योनिमाप्नोति पातकी ।। सप्तजन्मसु सद्रोगी दरिद्रः कुब्ज एव च ।।८१।। एकादश्यां च यो भुङ्क्ते कृष्णजन्माष्टमीदिने।। शिवरात्रौ महापापी यातु तं चन्द्रपातकम् ।। ८२ ।। स यातु कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ।। तेन पापेन चाप्नोतु चाण्डालीं योनिमेव च ।। ८३ ।। ताम्रस्थं दुग्धमाध्वीकमुच्छिष्टे घृतमेव च ।। नारिकेलोदकं कांस्ये दुग्धं सलवणं तथा ।। ८४ ।। पीतशेष जलं चैव भुक्तशेषं तथौदनम् ।। असकृच्चौदनं भुङ्क्ते सूर्य्ये नास्तं गते द्विजः ।। ८५ ।। तं यातु चन्द्रपापं च दुर्निवारं च दारुणम् ।। स यातु तेन पापेन चान्धकूपं चतुर्युगम् ।। ८६ ।। स्वकन्याविक्रयी विप्रो देवलो वृषवाहकः ।। शूद्राणां शवदाही च तेषां वै सूपकारकः ।। ८७ ।। अश्वत्थतरुघाती च विष्णुवैष्णवनिन्दकः ।। तं यातु चन्द्रपापं च दारुणं पापिनं भृशम् ।। ।। ८८ ।। स यातु तस्मात्पापाच्च तप्तसूर्मीं च पातकी ।। शश्वद्दग्धो भवतु स यावदिन्द्राश्चतुर्दश ।। ८९ ।। तस्मादुतीर्य्य चाण्डालीं योनिमाप्नोति पातकी ।। सप्तजन्मसु चाण्डालो वृषभः पञ्चजन्मसु ।। 2.58.९० ।। गर्दभो जन्मशतकं सूकरस्सप्तजन्मसु ।। तीर्थध्वांक्षस्सप्तसु वै विट्कृमिः पञ्चजन्मसु ।। जलौका जन्मशतकं शुचिर्भवतु तत्परम् ।। ९१ ।। वृथा मांसं च यो भुङ्क्ते स्वार्थं पाकान्नमेव च ।। तददत्तं महापापी प्राप्नुयाच्चन्द्रपातकम् ।। ९२ ।। स यातु चन्द्रपापेन चासिपत्रं चतुर्युगम् ।। ततो भवतु सर्पश्च पशुस्स्यात्सप्तजन्मसु ।। ९३ ।। विप्रो वार्धुषिको यो हि योनिजीवी चिकित्सकः ।। हरेर्नाम्नां च विक्रेता यश्च वा स्वाङ्गविक्रयी ।।९४।। स्वधर्मकथकश्चैव यश्च स्वात्मप्रशंसकः ।। मषीजीवी धावकश्च कुलटापोष्य एव च ।।९५।। तं यातु चन्द्रपापं च चन्द्रो भवतु विज्वरः ।। स यातु तेन पापेन शूलप्रोतं सुदारुणम् ।।९६।। तत्र विद्धो भवतु स यावदिन्द्राश्चतुर्दश ।। ततो दरिद्रो रोगी च दीक्षाहीनो नरः पशुः ।। ९७ ।। लाक्षामांसरसानां च तिलानां लवणस्य च ।। अश्वानां चैव लौहानां विक्रेता नरघातकः ।। ९८ ।। विप्रः कुलालः चौरश्च यातु तं चन्द्रपातकम् ।। स यातु तेन पापेन क्षुरधारं सुदुःसहम् ।। ९९ ।। तत्र च्छिन्नो भवतु स यावदिन्द्रसहस्रकम् ।। तस्मादुत्तीर्य्य स भवेत्सृगालः सप्तजन्मसु ।। 2.58.१०० ।। सप्तजन्मसु मार्जारो महिषो जन्मपञ्चकम् ।। सप्तजन्मसु भल्लूकः कुक्कुरस्सप्तजन्मसु ।। १०१ ।। मत्स्यत्वे जन्मशतकं कर्कटी जन्मपञ्चकम् ।। गोधिका जन्मशतकं गर्दभः सप्तजन्मसु ।। १०२ ।। सप्तजन्मसु मण्डूकस्ततः स्यान्मानवोऽधमः ।। चर्म्मकारश्च रजकस्तैलकारश्च वर्द्धकिः ।।१ ०३।। नाविकः शवजीवी च व्याधश्च स्वर्णकारकः ।। कुम्भकारो लोहकारस्ततः क्षत्रस्ततो द्विजः ।। १०४ ।। इति चन्द्रं शुचिं कृत्वा समुवाच तु तारकाम् ।। त्यक्त्वा चन्द्रं महासाध्वि गच्छ कान्तमिति द्विजः ।। १०९ ।। प्रायश्चित्तं विना पूता त्वमेवं शुद्धमानसा ।। अकामा या बलिष्ठेन न स्त्री जारेण दुष्यति ।। १०६ ।। इत्येवमुक्त्वा शुक्रश्च चन्द्रं वा तारकां सतीम् ।। सस्मितां सस्मितं चैव चकार च शुभाशिषः ।। १०७ ।। इति श्री० ब्र० वै० महापु० द्विती० प्रकृतिख० नारदनारायणसं० दुर्गोपाख्याने ताराचन्द्रयोर्दोषनिवारणं नामाष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।

nārada uvāca|| kasya vaṃśodbhavo rājā suratho dharmiṇāṃ varaḥ|| kathaṃ saṃprāpa vai jñānaṃ medhaso jñānināṃ varāt||1|| kasya vaṃśodbhavo brahmanmedhaso munisattama|| babhūva kutra saṃvādo nṛpasya muninā saha||2|| sakhyaṃ babhūva kutrāsya vā prabho nṛpavaiśyayoḥ|| vyāsena śrotumicchāmi vada vedavidāṃ vara ||3|| nārāyaṇa uvāca || atriśca brahmaṇaḥ putrastasya putro niśākaraḥ || sa ca kṛtvā rājasūyaṃ dvijarājo babhūva ha || 4 || gurupatnyāṃ ca tārāyāṃ tasyābhūcca budhaḥ sutaḥ || budhaputrastu caitraśca tatputraḥ surathaḥ smṛtaḥ || 5 || nārada uvāca || gurupatnyāṃ ca tārāyāṃ samabhūttatsutaḥ katham|| aho vyatikramaṃ brūhi vedasya ca mahāmune || 6 || nārāyaṇa uvāca || sampanmatto mahākāmī vyacarajjāhnavītaṭe || tārāṃ suraguroḥ patnīṃ dharmiṣṭhāṃ ca pativratām || 7 || susnātāṃ sundarīṃ ramyāṃ pīnonnatapayodharām || suśroṇīṃ sunitambāḍhyāṃ madhyakṣīṇāṃ manoharām || 8 || sudatīṃ komalāṃgīṃ ca navayauvanasaṃyutām || sūkṣmavastraparīdhānāṃ ratnabhūṣaṇabhūṣitām || 9 || kastūrībindunā sārddhamadhaścandanabindunā || sindūrabindunā cāruphālamadhyasthalojjvalām || 2.58.10 || vāyunā'dhovastrahīnāṃ sakāmāṃ raktalocanām || śaratpārvaṇacandrāsyāṃ pakvabimbādharāṃ varām || 11 || sasmitāṃ namnavaktrāṃ ca lajjayā candradarśanām || gacchantīṃ svagṛhaṃ harṣānmattavāraṇagāminīm || 12 || tāṃ dṛṣṭvā manmathākrāntaścandro lajjāṃ jahau mune || pulakāṃkitasarvāṅgaḥ sakāmastāmuvāca saḥ || 13 || candra uvāca || yoṣicchreṣṭhe kṣaṇaṃ tiṣṭha variṣṭhe rasikāsu ca || suvidagdhe vidagdhānāṃ mano harasi santatam || 14 || niṣevya prakṛtiṃ janmasahasre kāmasāgare || tapaḥphalena tvāṃ prāpa bṛhacchroṇīṃ bṛhaspatiḥ || 15 || aho tapasvinā sārddhamavidagdhena vedhasā || yojitā tvaṃ rasavatī śaśvatkāmāturā varā || 16 || kiṃ vā sukhaṃ ca vijñātamavijñeṣu samāgame || vidagdhāyā vidagdhena saṅgamaḥ sukhasāgaraḥ || 17 || kāmena kāminī tvaṃ ca dagdhā'si vyarthamīśvari || karmaṇā vā''tmadoṣādvā ko jānāti manaḥ striyāḥ || 18 || dine dine vṛthā yāti durlabhaṃ navayauvanam || navīnayauvanasthāyā vṛddhena svāminā tava || 19 || śaśvattapasyāyuktaśca kṛṣṇamātmānamīpsitam || svapne jāgaraṇe vā'pi dhyāyannāste bṛhaspatiḥ || 2.58.20 || sarvakāmarasajñā tvaṃ niṣkāmaṃ kāmamīpsitam || dhyāyantī kāmukī śaśvadyūnāṃ śṛṃgāramātmani || 21 || anyaśca tvanmanaḥkāmo bhinnaṃ tvadbharturīpsitam || yayośca bhinnau viṣayau kā prītiḥ saṃgame tayoḥ || 22 || vāsantīpuṣpatalpe ca gandhacandana carcite || modasva māṃ gṛhītvā tvaṃ vasante mādhavīvane || 23 || sugandhyutphullakusume nirjane candane vane || bhavatī yuvatī bhāgyavatī tatraiva modatām || 24 || candane campakavane śītacampakavāyunā || ramye campakatalpe ca krīḍāṃ kuru mayā saha || 25|| ityuktvā madano nmatto madanādhikasundaraḥ || papāta caraṇe devyā mando mandākinītaṭe || 25 || niruddhamārgā candreṇa śuṣkakaṇṭhauṣṭhatālukā || abhītovāca kopena raktapaṃkajalocanā || 24 || tārovāca || dhik tvāṃ candra tṛṇaṃ manye parastrīlampaṭaṃ śaṭham || atrerabhāgyāttvaṃ putro vyarthaṃ te janma jīvanam || 28 || are kṛtvā rājasūyamātmānaṃ manyase balī || babhūva puṇyaṃ te vyarthaṃ viprastrīṣu ca yanmanaḥ || 29 || yasya cittaṃ parastrīṣu so'śuciḥ sarvakarmasu || na karmaphalabhākpāpī nindyo viśveṣu sarvataḥ 2.58.30 || satītvaṃ me nāśayasi yakṣmagrasto bhaviṣyasi || atyucchrito nipatanaṃ prāpnotīti śrutau śrutam || 31 || duṣṭānāṃ darpahā kṛṣṇo darpaṃ te nihaniṣyati || tyaja māṃ mātaraṃ vatsa satyaṃ te śaṃ bhaviṣyati || 32 || ityuktvā tārakā sādhvī ruroda ca muhurmuhuḥ || cakāra sākṣiṇaṃ dharmaṃ sūryyaṃ vāyuṃ hutāśanam || 33 || brahmāṇaṃ paramātmānamākāśaṃ pavanaṃ dharām || dinaṃ rātriṃ ca sandhyāṃ ca sarvaṃ suragaṇaṃ mune || 34 || tārakāvacanaṃ śrutvā na bhītaḥ sa cukopa ha|| kare dhṛtvā rathe tūrṇaṃ sthāpayāmāsa sundarīm ||35|| rathaṃ ca cālayāmāsa manoyāyī manoharam|| manoharāṃ gṛhītvā tāṃ sa ca reme manoharam || 36 || vispandake suravane candane puṣpabhadrake || puṣkare ca nadītīre puṣpite puṣpakānane ||37|| sugandhi puṣpatalpe ca puṣpacandanavāyunā || nirjane malayadroṇyāṃ snigdhacandanacarcite || 38 || śaile śaile nade nadyāṃ śṛṃgāraṃ kurvatostayoḥ || gataṃ varṣaśataṃ harṣānmuhūrttamiva nārada || 39 || babhūva śaraṇāpanno bhīto daityeṣu candramāḥ || tejasvini tathā śukre teṣāṃ ca balināṃ gurau || 2.58.40 || abhayaṃ ca dadau tasmai kṛpayā bhṛgunandanaḥ || guruṃ jahāsa devānāṃ suvipakṣaṃ bṛhaspatim || 41 || sabhāyāṃ jahasurhṛṣṭā balino ditinandanāḥ || abhayaṃ ca dadustasmai bhītāya ca kalaṅkine || 42 || satīsatītvadhvaṃsena pāpiṣṭhacandramaṇḍale || babhūva śaśarūpaṃ ca kalaṃkaṃ nirmale malam || 43 || uvāca taṃ mahābhītaṃ śukro vedavidāṃ varaḥ || hitaṃ tathyaṃ vedayuktaṃ pariṇāmasukhāvaham || 44 || śukra uvāca || tvamaho brahmaṇaḥ pautro'pyatrerbhagavataḥ sutaḥ || durnītaṃ karma te putra nīcavannayaśaskaram || 45 || rājasūyasya suphale nirmale kīrttimaṇḍale || sudhārāśau surābindurūpamaṃkamupārjitam || 46 || tyaja devagurau patnīṃ prasūmiva mahāsatīm || dharmiṣṭhasya variṣṭhasya brāhmaṇānāṃ bṛhaspateḥ || 47 || śambhoḥ surāṇāmīśasya guruputrasya vedhasaḥ || pautrasyāṃgirase nityaṃ jvalato brahmatejasā ||48|| śatrorapi guṇā vācyā doṣā vācyā gurorapi || iti sadvaṃśajātānāṃ svabhāvaṃ ca satāmapi ||49|| sa śatrurme suraguruḥ paro viśve niśākara || tathā'pi sahajākhyānaṃ varṇitaṃ dharmasaṃsadi || yatra lokāśca dharmiṣṭhāstatra dharmaḥ sanātanaḥ || || 2.58.50 || yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ || gaurekaṃ pañca ca vyāghrī siṃhī sapta prasūyate || 51 || hiṃsakāḥ pralayaṃ yānti dharmo rakṣati dhārmikam || devāśca guravo viprāḥ śaktā yadyapi rakṣitum ||52|| tathā'pi nahi rakṣanti dharmaghnaṃ pāpinaṃ janam|| kulaṭā viprapatnīnāṃ gamane suraviprayoḥ || 53 || brahmahatyāṣoḍaśāṃśa pātakaṃ ca bhaveddhruvam || tāsāmupasthitānāṃ ca gamane taccaturthakam || 54 || viprapatnīsatīnāṃ ca gamanaṃ vai balena cet || brahmahatyāśataṃ pāpaṃ bhavedeva śrutau śrutam || 55 || dharmmaṃ cara mahābhāga brāhmaṇīṃ tyaja sāmpratam || kṛtvā'nutāpaṃ pāpācca nivṛttistu mahāphalā || 56 || upāyena ca te pāpaṃ dūrībhūtaṃ bhavennanu || śaraṇāgata bhītasya mayi devasya dharmataḥ || 57 || śastrahīnaṃ ca bhītaṃ ca dīnaṃ ca śaraṇārthinam || yo na rakṣatyadharmiṣṭhaḥ kumbhīpāke vaseddhruvam|| | || 58 || rājasūyaśatānāṃ ca rakṣitā labhate phalam || paramaiśvaryyayuktaśca dharmeṇa sa bhavediha || 59 || ityuktvā vai daityaguruḥ svarge mandākinītaṭe || snātvā taṃ snāpayāmāsa viṣṇupūjāṃ cakāra saḥ || 2.58.60 || viṣṇupādābjajātena tannaivedyaṃ śubhapradam || gaṃgodakena puṇyena bhojayāmāsa candrakam ||61|| kroḍe kṛtvā tu taṃ bhītaṃ sajjitaṃ pāpakarmaṇā || kuśahastastamityūce smāraṃsmāraṃ hariṃ mune || || 62 || śukra uvāca || yadyasti me tapaḥ satyaṃ satyaṃ pūjāphalaṃ hare || satyaṃ vrataphalaṃ caiva satyaṃ satyavacaḥ phalam || 63 || tīrthasnānaphalaṃ satyaṃ satyaṃ dānaphalaṃ yadi || upavāsaphalaṃ satyaṃ pāpānmukto bhavānbhavet || 64 || vipraṃ trisandhyāhīnaṃ yā viṣṇupūjāvihī nakam || tannāpnotu mahāghoraṃ candrapāpaṃ sudāruṇam || 65 || svabhāryyāvañcanaṃ kṛtvā yaḥ prayāti parastriyam || sa yātu narakaṃ ghoraṃ rudrapāpena pātakī ||66|| vācā vā tāḍayetkāntaṃ duśśīlā durmukhā ca yā || sā yugaṃ candrapāpena yātu lālāmukhaṃ dhruvam ||67|| anaivedyaṃ vṛthānnaṃ ca yaśca bhuṅkte harerdvijaḥ || sa yātu kālasūtraṃ ca candrapāpāccaturyugam || 68 || ambuvācyaṃ bhūkhananaṃ yaḥ karoti narā dhamaḥ || candrapāpādyugaśataṃ kālasūtraṃ sa gacchatu || 69 || svakāntaṃ vañcayitvā ca yā yāti parapūruṣam || sā yātu vahnikuṇḍaṃ ca candrapāpāccaturyugam || 2.58.70 || kīrttiṃ karoti rajasā parakīrttiṃ vilupya ca || sa yugaṃ candrapāpena kumbhīpākaṃ ca gacchatu || 71 || pitaraṃ mātaraṃ bhāryyāṃ yo na puṣṇāti pātakī || svaguruṃ candrapāpena yātu caṇḍālatāṃ dhruvam || 72 || kulaṭānnamavīrānnamṛtusnātānnameva ca || yo'śnāti candrapāpaṃ ca yātu taṃ pāpinaṃ dhruvam ||73|| sa yātu tena pāpena kumbhīpākaṃ caturyugam || tasmāduttīryya cāṇḍālīṃ yonimāpnoti pātakī || 74 || divase yo grāmyadharmaṃ mahāpāpī karoti ca || yo gacchetkāmataḥ kāmī gurviṇīṃ vā rajasvalām || 75 || taṃ yātu candrapāpaṃ ca mahāghoraṃ ca pāpinam || sa yātu tena pāpena kālasūtraṃ caturyugam ||76|| mukhaṃ śroṇīṃ stanaṃ cāpi yaḥ paśyati parastriyāḥ || kāmataḥ kāmadagdhaśca yātu taṃ candrakalmaṣam ||77|| sa yātu lālābhakṣaṃ ca candrapāpāccaturyugam || tasmāduttīryya bhavatu cāṇḍālo'ndho napuṃsakaḥ || 78 || kuhūpūrṇendusaṃkrānticaturdaśyaṣṭamīṣu ca || māṃsaṃ masūraṃ lakucaṃ yaśca bhukṅte raverdine || 71 || kurute grāmyadharmaṃ ca yātu taṃ candrakilbiṣam || caturyugaṃ kālasūtraṃ tena pāpena gacchatu || 2.58.80 || tasmāduttīryya cāṇḍālīṃ yonimāpnoti pātakī || saptajanmasu sadrogī daridraḥ kubja eva ca ||81|| ekādaśyāṃ ca yo bhuṅkte kṛṣṇajanmāṣṭamīdine|| śivarātrau mahāpāpī yātu taṃ candrapātakam || 82 || sa yātu kumbhīpākaṃ ca yāvadindrāścaturdaśa || tena pāpena cāpnotu cāṇḍālīṃ yonimeva ca || 83 || tāmrasthaṃ dugdhamādhvīkamucchiṣṭe ghṛtameva ca || nārikelodakaṃ kāṃsye dugdhaṃ salavaṇaṃ tathā || 84 || pītaśeṣa jalaṃ caiva bhuktaśeṣaṃ tathaudanam || asakṛccaudanaṃ bhuṅkte sūryye nāstaṃ gate dvijaḥ || 85 || taṃ yātu candrapāpaṃ ca durnivāraṃ ca dāruṇam || sa yātu tena pāpena cāndhakūpaṃ caturyugam || 86 || svakanyāvikrayī vipro devalo vṛṣavāhakaḥ || śūdrāṇāṃ śavadāhī ca teṣāṃ vai sūpakārakaḥ || 87 || aśvatthatarughātī ca viṣṇuvaiṣṇavanindakaḥ || taṃ yātu candrapāpaṃ ca dāruṇaṃ pāpinaṃ bhṛśam || || 88 || sa yātu tasmātpāpācca taptasūrmīṃ ca pātakī || śaśvaddagdho bhavatu sa yāvadindrāścaturdaśa || 89 || tasmādutīryya cāṇḍālīṃ yonimāpnoti pātakī || saptajanmasu cāṇḍālo vṛṣabhaḥ pañcajanmasu || 2.58.90 || gardabho janmaśatakaṃ sūkarassaptajanmasu || tīrthadhvāṃkṣassaptasu vai viṭkṛmiḥ pañcajanmasu || jalaukā janmaśatakaṃ śucirbhavatu tatparam || 91 || vṛthā māṃsaṃ ca yo bhuṅkte svārthaṃ pākānnameva ca || tadadattaṃ mahāpāpī prāpnuyāccandrapātakam || 92 || sa yātu candrapāpena cāsipatraṃ caturyugam || tato bhavatu sarpaśca paśussyātsaptajanmasu || 93 || vipro vārdhuṣiko yo hi yonijīvī cikitsakaḥ || harernāmnāṃ ca vikretā yaśca vā svāṅgavikrayī ||94|| svadharmakathakaścaiva yaśca svātmapraśaṃsakaḥ || maṣījīvī dhāvakaśca kulaṭāpoṣya eva ca ||95|| taṃ yātu candrapāpaṃ ca candro bhavatu vijvaraḥ || sa yātu tena pāpena śūlaprotaṃ sudāruṇam ||96|| tatra viddho bhavatu sa yāvadindrāścaturdaśa || tato daridro rogī ca dīkṣāhīno naraḥ paśuḥ || 97 || lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca || aśvānāṃ caiva lauhānāṃ vikretā naraghātakaḥ || 98 || vipraḥ kulālaḥ cauraśca yātu taṃ candrapātakam || sa yātu tena pāpena kṣuradhāraṃ suduḥsaham || 99 || tatra cchinno bhavatu sa yāvadindrasahasrakam || tasmāduttīryya sa bhavetsṛgālaḥ saptajanmasu || 2.58.100 || saptajanmasu mārjāro mahiṣo janmapañcakam || saptajanmasu bhallūkaḥ kukkurassaptajanmasu || 101 || matsyatve janmaśatakaṃ karkaṭī janmapañcakam || godhikā janmaśatakaṃ gardabhaḥ saptajanmasu || 102 || saptajanmasu maṇḍūkastataḥ syānmānavo'dhamaḥ || carmmakāraśca rajakastailakāraśca varddhakiḥ ||1 03|| nāvikaḥ śavajīvī ca vyādhaśca svarṇakārakaḥ || kumbhakāro lohakārastataḥ kṣatrastato dvijaḥ || 104 || iti candraṃ śuciṃ kṛtvā samuvāca tu tārakām || tyaktvā candraṃ mahāsādhvi gaccha kāntamiti dvijaḥ || 109 || prāyaścittaṃ vinā pūtā tvamevaṃ śuddhamānasā || akāmā yā baliṣṭhena na strī jāreṇa duṣyati || 106 || ityevamuktvā śukraśca candraṃ vā tārakāṃ satīm || sasmitāṃ sasmitaṃ caiva cakāra ca śubhāśiṣaḥ || 107 || iti śrī0 bra0 vai0 mahāpu0 dvitī0 prakṛtikha0 nāradanārāyaṇasaṃ0 durgopākhyāne tārācandrayordoṣanivāraṇaṃ nāmāṣṭapañcāśattamo'dhyāyaḥ || 58 ||

English translation

The Freeing of Tara and Candrama of the Narada said - To which race, did Suratha, the best of the religious kings, belong? How could be obtain knowledge from the sage Medhas? O Brahmana, O best of the sages, in which race was the sage Medha bom? Where did the conversation between the sage and the king take O lord, O best of those well-versed in the Vedas, how and where did the king Suratha and the business man, Samadhi, become friends? I would like to listen to the whole story in detail.

Narayana said - Atri was the son of Brahma and a son named Candrama was bom to him because he was known as the king of the Brahmanas. He performed ^ Rdjasuya-yajna.

He produced a son named Budha from the wife of Brhaspati, Caitra was the son of Budha and Suratha was the son of Caitra.

Narada Said- O' great sage! how could he produce a son from the spouse of Brhaspati, becouse this is an outragious act of god.

Therefore, please tell me.

Narayana said - Once Candrama getting intoxicated with his rich possessions was roaming about on the bank of the Gaiiga. At that very moment he found the chaste Tara coming there, who happened to be the wife of Brhaspati and was quite noble. She was quite beautiful and had developed breasts, well developed thighs, a beautiful pelvic region, a slender waist, a charming line of teeth, tender limbs, was youthful and was clad in fine garments. She was adorned with gem-studded omameifts on her head. There was a red spot beside the small spot of sandal-paste on the forehead. The vermilion was adorned on the head at the parting of the g f lMd t ^T5wgwt W WTwTWT The lower garment was suddenly removed by air. At that very moment Tara having red eyes, the face like the full moon of the winter season, the lips resembling ripe wood-apples, moved on wearing a smile on her face, lowering her head with shame. Looking at CandramS she moved on

towards her home like an intoxicated elephant.

O sage, on looking at her Candrama was infatuated with passion and shedding his shame and with the hair of his body standing on end, he spoke to her in a passionate tone.

Candrama said - O best of the damsel, you are the best of the beautiful ladies. You stop for a moment, O beautiful one, you always steal away the minds of passionate people, O ocean of the passion, Brhaspati adored Durga for a thousand years and as a result of the tapas he got a fortunate damsel like you.

But it is surprising that foolish Brahma gave away a passionate wpman like you to an ascetic as a wife.

Therefore what type of pleasure would you be enjoying by keeping the company of that poor ascetic because a passionate lady can remain happy only with a passionate man and thus they are drowned in the ocean of pleasure.

O goddess, you being the passionate one, are suffering from the pain of passion uselessly. Or this could be due to the turn of destiny. Because who can know the mind of a lady? You are quite youthful and therefore your youthfulness is getting wasted day by day.

Brhaspati always remains engrossed in tapas.

Whether sleeping or awake he adores his lord Krsna; he is free from desires but on the other hand you are filled with passion. You are, therefore, quite passionate and remaining so, you always are attracted towards beautiful persons.

Your mind is attracted towards passion but the aim of the life of your husband is entirely different. If the couple whose minds movements are differently placed, how can they enjoy the Therefore, in the spring season, in the forest of Madhavl creepers and on a bed of flowers, sprinkled with sandal-paste, you can enjoy my company here in this secluded forest of sandal¬ wood, having an abundance of fragrant flowers.

You being a fortunate lady should enjoy my company on the flower-beds. After enjoying here we can move on to the garden of campaka flowers there.

O beautiful one, you enjoy my company in the caves of Mandracala mountain located at the O virtuous one, you enjoy my company in the forest of Svamarekha on the bank of river Narmada which place is desired by the gods.

Thus the foolish Candrama desired to carry i her on the back of MandakinI which place was j quite beautiful. Thus speaking he fell at the feet!

of the goddess Tara. With the obstruction thus, created by Candrama, the throat, lips and tongue!

of Tara dried up and her eyes became red like the red lotus flower. Thereafter she became fearless j and spoke in anger.

Tara said - O Candrama, disgrace to you. I treat you like a straw because you are crooked and are attracted towards the wives of others. It was a disgrace on Atri having got you as a son because your life and birth are of no O wicked person, you think yourself to be all powerful after performing the RajasQya-yajna.

All your tapas has become infructuous by your getting attracted towards the wife of a Brahmana.

Because he whose mind is attracted towards the wives of others, is considered to be an unchaste person. Not only this, such a great sinner is denounced the world over and is deprived of the reward of his good deeds, In case you defile my chastity then you will suffer from the disease of consumption. This has been ordained in the Vedas. The one who rises up is sure to fall.

Lord Krsna who shatters the pride of the wicked people will also destroy your pride.

Therefore, O son, 1 am like your mother. You leave me alone. I am speaking out the truth and this will bestow welfare for you.

Thus speaking, the chaste Tar5 cried aloud again and again and invoked Dharma, SOrya, Vayu, Agni, BrahmS, the great soul, the sky, the wind god, the earth, day and night, sandhyH and all the gods as witnesses.

BRAHM A VAIVARTA-M AHAPURAl^AM O sage, on hearing these words of Tara, Candrama was not all afraid, but on the other hand he became enraged. He cafght her with both hands and placed her in the chariot.

Candrama enjoyed her company.

They enjoyed each other's company on the bank of Piispabhadra river, in the sandal-wood forest named Vispandaka, on the bank of Pus kara-ksetra in the lands of blossoming flowers, on the bed of roses scented with flowers, the secluded places in the Malaya mountain, on the forest of sandal-wood trees, in the banks of rivers and streams. He continued the love sport for a hundred years which were spent like a muhurta.

Thereafter, Candrama getting terrified by the gods went to Sukra, the teacher of the demons to take refuge with him. Sukra then provided him shelter taking pity on him. He then started making fun of Brhaspati who happened to be his In the court of the demons, intoxicated with pride they provided shelter to terrified Candrama who was filled with blemish and made fiin of Brhaspati. Because defiling of the chastity of a chaste lady, Candrama earned a black spot in Thereafter, Sukra well-versed in the Vedas spoke to the terrified Candrama, the truthful words full of welfare which were according to the Vedas and resulted in delight.

Sukra said - You are the grandson of Brahma and the son of sage Atri; you have acted like the wicked people and it is not graceful.

After performing the Rdjasuya-yajita, you had earned a great glory but that collection of nectar has vanished like a drop of wine, earning you the blemish. I want that you should leave the wife of Brhaspati, the priest of the gods. She is like your mother and quite a chaste lady. Brhaspati is the best of the noble people and also the best of the Brahmanas. Siva is the lord of the gods and Brahma happens to be the son of his Guru, Brhaspati who happens to be his grandson and the son of Ahgira who always shines with eternal One should speak out the virtues of the enemies and the failings of his teacher. This is the nature of the people who are bom in the crransr gfRgrw srf: ■RTicrT:i O lord of the night, though Brhaspati, the priest of the gods, is my enemy in the universe, still he is of a noble character and one should not forget it. Wherever the noble people reside, the eternal Dhanna resides there. Wherever Dharma

resides Krsna too dwells there and wherever there is Krsna victory is always found there.

The cow litters one calf, the tigress litters five and a lioness litters seven, the terrific people are destroyed. Therefore, Dharma alone protects the religious people. Though the gods, the teacher and the Brahmanas are unable to protect themselves, yet the one who is deprived of the Dhanna is never protected by anyone. If one enjoys the company of the wives of Brahmanas and wicked women, he earns the sixteenth part of the sin of Brahmahatyd but in case the women offer themselves for the purpose, one earns only one fourth of the sin of Brahmahatyd.

To discard them is neither sinless nor sinful.

This has been ordained by Brahma.

But to enjoy the company of a Brahmana woman forcefully, one earns the sin of a hundred Brahmahatyds. This has been ordained in the Vedas. Therefore, O noble person, you move according to Dharma and leave this Brahmana woman. You should repent for the sin you have already committed, because it is better to relieve oneself of the sin, You can be relieved of your sin by other means also. Getting terrified you have come to take refuge with me inspite of you being a god.

Therefore, it is my duty to protect you. Because he who does not protect a person without arms, a terrified person, a miserable person and the one who takes refuge, such an irreligious person falls into the kumbhlpdka hell.

But in case he protects him, he earns the merit of performing a hundred Rdjasuya-yajhas besides achieving immense riches and pleasures in the world.

Thus speaking the teacher Sukracarya took his bath in the river MandakinI and made CandramS also to do so. Thereafter, he adored lord Visnu.

Thereafter he offered the sacred Ganga-water of Visnu's feet, offering the naivedya to him.

O' sage, thereafter, Sukra took the terrified Candrama in his lap and placing the kusa-gtass in his hand, he made him recite the name of the lord repeatedly.

Sukra said - In case I have performed my fapas truly, in case the adoration of Hari is truthful, it is true to have the reward of performing vrala, one gets a truthful reward by speaking the truth, it is truthful to have a bath at the holy places, it is truthful to have the reward by the performing of charity and it is truthful to have the reward of fasting, then CandramS should be freed from all his sins.

The sin accrued from the heinous sin committed by Candrama should befall on a Brahmana who does not perform sandhya thrice a day, the one who is deprived of the adoration ^ of lord Visnu.

The one who enjoys the wives of others, cheating his own wives, such as a sinful person, relieves the sin of Candrama and falls into A wicked woman who antagonises her husband by speaking harsh words, would fall in to terrific Ldldmukha hell because of the sin of Candrama. If a Brahmana eats without offering food first to lord Visnu, he falls in to kdlasutra hell because of the sin of Candrama and shall remain there to the end of four A wiked person who digs the earth at a prohibited place, he falls into the kSlasQtra hell because of the sin of Candrama. If a lady goes to some other person depriving of her own husband, she falls into Agniku^da hell because of the sin of Candrama and remains there for four The one who gets infatuated with greed, deprives others of their legitimate glory and glorifies himself and he falls into the kumbhlpdka hell because of the sin in Candrama.

Such of the persons as does not maintain his parents, wife and teachers, becomes a Cdndala under the influence of the sin of Candrama.

The one who consumes the food of a wicked woman, a woman having no son, a woman in period, such a sinner, because of the sin of Candrama, has to remain in the kumbhlpdka hell for fourywga^ and then is reborn as a Cdnddla.

The sinners who cohabits during the day with passionate intentions and enjoys the company of a pregnant woman or a woman in period, such a sinner has to suffer for the sin of Candrama and has to fall into kdlasutra hell where he has to remain for fom yugas.

Such a person who casts a passionate glance at the face of others' wives, her body or breasts, he earns the sin of Candrama and because of that, he remains in Ldldbhaksya hell for four yugas.

Thereafter, he is bom as a blind Cdnddla and The one who consumes meat, lentil* and or cohabits during the day of Amavasya, Purnima, CaturdasI, AstamI and Simday, he earns the sin of Candrama and remains in the kdlasCttra hell for fouryugn^.

Such a sinful person then becomes a C&tfddla and remains infested with diseases, a pauper and a hunch-back for seven births.

The one who takes food on EkadasX the birthday of lord Krsna and Sivaratri, he earns the sin of Candrama.

He remains in the kumbhlpdka hell for the period equivalent to the life of fourteen Indras and because of the same sin, he is reborn as a The one who consumes milk in a copper vase or the wine of Elloopa tree^, ghee, coconut water in a bronze vase, milk with salt, the left-over of water and food or the one who consumes cooked rice again and again before the sunset, attracts the great sin of Candrama and because of that sin he falls into the andhakupa hell where he remains for fouryt<gas.

A Brahmana who sells away his daughter, the priest of a temple, one who mounts a bull, bums the body of SQdras and eats with them or cooks for them, the one who cuts away the plpala tree or denounces Visnu and Vaisnavas, such a sinner attracts the terrific sin of Candrama.

Because of that sin he falls into Taptasurml hell and remains there up to the life of fourteen Indras, where he always remains burning.

While coming out of it, he is transformed into a Cdnddla. He is reborn a Cdnddla seven times, a bull during seven births and an ass for a hundred births, a pig for seven births, a crow in Lakucah ksudrapanasah (A. Lacoochaii) holy places for seven births, an insect of refuse for five births, a leech for a hundred births and is purified thereafter.

He who uselessly consumes meat or consumes food without having been given by anyone, earns the sin of Candrama.

Because of this sin he has to remain in the Asipatra hell for four yugas. Thereafter, he becomes a snake for seven births and an animal A Brahmana who receives interest or earns livelihood by illegitimate means or by becoming a physician or sells away his limbs or sells away his Dharma, praises himself, earns his livelihood by selling ink, serves as a messenger, is maintained by a wicked woman, he earns the sin of Candrama who is freed from his sin. Because of that sin he falls into the Sulaprota hell and he remains there up to the life of fourteen Indras.

Thereafter he is bom as a pauper, a person with diseases and a human like an animal.

qife: ^ wuicbKch:i The one who sells lac, meat, juice, sesamum, salt, horses, iron is a killer of human beings or the one who works as a potter, or the one who steals, such a Brahmana earns the sin of Candrama and falls into Ksuraghdra hell, which is quite terrific and unbearable and he remains there up to the time of a thousand Indras, where he gets shattered. After coming out of that, he is bom as a jackal for seven births. Thereafter he is bom as a cat for seven births, a buffalo for five births, a bear for seven births, a dog for seven births, a fish for a hundred births, a cancer for five births, a lizard for a hundred births and an ass for seven births, a frog for seven births and thereafter he is bom as a degraded human like a cobbler, a washerman, an oil man, a carpenter, a gardener, the one who earns his livelihood out of dead bodies, a hunter, a goldsmith, a potter, an iron-smith and thereafter he is bom as a Ksatriya

and then a Brahmana.

Thus by purifying Candrama, Sukra said to Tara, "O chaste lady, you better go back to your husband leaving Candrama."

Because you are pure at heart you will be purified even without repentance. A lady who is not passionate remains pure even with the advances of an undesirable person.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 118805 (2017-08-31T02:22:51Z); Shanti Lal Nagar English scan pages n532–n541: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n532/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.