Prakṛti-khaṇḍa · Chapter 55
Sourceश्रीपार्वत्युवाच ।। श्रीकृष्णस्य स्थिते मन्त्रे चान्येषामीश्वरस्य वः ।। कथं जग्राह राधाया मन्त्रं वै वैष्णवो नृपः ।। १ ।। किं विधानं च किं ध्यानं किं स्तोत्रं कवचं च किम् ।। कं मन्त्रं च ददौ राज्ञे तां पूजापद्धतिं वद ।। ।। २ ।। श्रीमहेश्वर उवाच ।। हे विप्र कं भजामीति प्रश्नं कुर्वति राजनि ।। शीघ्रं प्राप्नोमि गोलोकं कस्याराधनतो मुने ।। ३ ।। इत्युक्तवन्तं राजेन्द्रमुवाच ब्राह्मणोत्तमः ।। तत्सेवया च तल्लोकं प्राप्स्यसे बहुजन्मतः ।। ४ ।। तत्प्राणाधिष्ठातृदेवीं भज राधां परात्पराम् ।। कृपामयीप्रसादेन शीघ्रं प्राप्नोति तत्पदम् ।। ५ ।। इत्युक्त्वा राधिकामन्त्रं ददौ तस्मै षडक्षरम् ।। ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ।। ६ ।। प्राणायामं भूतशुद्धिं मन्त्रन्यासं तथैव च ।। करांगन्यासमेवं च ध्यानं सर्वसुदुर्लभम् ।। ७ ।। स्तोत्रं च कवचं तं च शिक्षयामास भक्तितः ।। राजा तेन क्रमेणैव जजाप परमं मनुम् ।। ८ ।। ध्यानं च सामवेदोक्तं मंगलानां च मंगलम् ।। कृष्णस्तां पूजयामास पुरा ध्यानेन येन च ।। ९ ।। श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् ।। शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।। सुश्रोणीं सुनितम्बां च पक्वबिम्बाधरां वराम्।।2.55.१०।। मुक्तापंक्तिप्रतिनिधिदन्तपंक्तिमनोहराम्।। ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ।। वह्निशुद्धांशुकाधानां रत्नमालाविभूषिताम् ।। ११ ।। रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् ।। रत्नकुण्डलयुग्मेन विचित्रेण विराजिताम् ।। सूर्य्यप्रभाप्रतिकृतिगण्डस्थलविराजिताम् ।। १२ ।। अमूल्यरत्नखचितग्रैवेयकविभूषिताम् ।। सद्रत्नसारखचितकिरीटमुकुटोज्ज्वलाम् ।। रत्नांगुलीयसंयुक्तां रत्नपाशकशोभिताम् ।। १३।। बिभ्रतीं कबरीभारं मालतीमाल्यशोभिताम्।। रूपाधिष्ठातृदेवीं च मत्तवारणगामिनीम् ।। १४ ।। गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ।। कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ।। १५ ।। सिन्दूरबिन्दुना चारुसीमन्ताधःस्थलोज्ज्वलाम् ।। नित्यं सुपूजितां भक्त्या कृष्णेन परमात्मना ।। १६ ।। कृष्णसौभाग्यसंयुक्तां कृष्णप्राणाधिकां वराम्।। कृष्णप्राणाधिदेवीं च निर्गुणां च परात्पराम्।।१७।। महाविष्णुविधात्रीं च प्रदात्रीं सर्वसम्पदाम् ।। कृष्णभक्तिप्रदां शान्तां मूलप्रकृतिमीश्वरीम् ।। १८ ।। वैष्णवीं विष्णुमायां च कृष्णप्रेममयीं शुभाम् ।। रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम् ।। रासे रासेश्वरयुतां राधां रासेश्वरीं भजे ।। १९ ।। ध्यात्वा पुष्पं मूर्ध्नि दत्त्वा पुनर्ध्यायेज्जगत्प्रभुम् ।। दद्यात्पुष्पं पुनर्ध्यात्वा चोपचाराणि षोडश ।। 2.55.२० ।। आसनं वसनं पाद्यमर्घ्यं गन्धानुलेपनम् ।। धूपं दीपं सुपुष्पं च स्नानीयं रत्नभूषणम् ।। २१ ।। नानाप्रकारनैवेद्यं ताम्बूलं वासितं जलम् ।। मधुपर्कं रत्नतल्पमुपचाराणि षोडश ।। २२ ।। प्रत्येकं वेदमन्त्रेण दत्तं भक्त्या च भूभृता ।। मन्त्रांश्च श्रूयतां दुर्गे वेदोक्तान्सर्वसम्मतान् ।। २३ ।। रत्नसारविकारं च निर्मितं विश्वकर्मणा ।। वरं सिंहासनं रम्यं राधे पूजासु गृह्यताम् ।।२४ ।। अमूल्यरत्नखचितममूल्यं सूक्ष्ममेव च ।। वह्निशुद्धं निर्मलं च वसनं देवि गृह्य ताम्।।२५।। सद्रत्नसारपा?स्थं सर्वतीर्थोदकं शुभम् ।। पादप्रक्षालनार्थं च राधे पाद्यं च गृह्यताम् ।।२६।। दक्षिणावर्त्तशङ्खस्थं सदूर्वापुष्पचन्दनम् ।। पूतं युक्तं तीर्थतोयै राधेऽर्घ्यं प्रतिगृह्यताम् ।। ।। २७ ।। पार्थिवद्रव्यसंभूतमतीव सुरभीकृतम् ।। मङ्गलार्हं पवित्रं च राधे गन्धं गृहाण मे ।। २८ ।। श्रीखण्डचूर्णं सुस्निग्धं कस्तूरीकुंकुमान्वितम् ।। सुगन्धयुक्तं देवेशि गृह्यतामनुलेपनम् ।। २९ ।। वृक्ष निर्याससंयुक्तं पार्थिवद्रव्यसंयुतम् ।। अग्निखण्डशिखाजातं धूपं देवि गृहाण मे ।। 2.55.३० ।। अन्धकारे भयहरममूल्यमणिशोभितम् ।। रत्नप्रदीपं शोभाढयं गृहाण परमेश्वरि।३१।। पारिजातप्रसूनं च गन्धचन्दनचर्चितम् ।। अतीव शोभनं रम्यं गृह्यतां परमेश्वरि ।।३२।। सुगन्धामलकीचूर्णं सुस्निग्धं सुमनोहरम् ।। विष्णुतैलसमायुक्तं स्नानीयं देवि गृह्यताम्।।३३।। अमूल्यरत्नखचितं केयूरवलयादिकम्।। शश्वत्सु शोभनं राधे गृह्यतां भूषणं मम।।३४।। कालदेशोद्भवं पक्वफलं वै लड्डुकादिकम्।। परमान्नं च मिष्टान्नं नैवेद्यं देवि गृह्यताम्।।३५।। ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।। सर्वभोगाधिकं स्वादु ताम्बूलं देवि गृह्यताम् ।। ३६ ।। अशनं रत्नपात्रस्थं सुस्वादु सुमनोहरम् ।। मया निवेदितं भक्त्या गृह्यतां परमेश्वरि।।३७। रत्नेन्द्रसारखचितं वह्निशुद्धांशुकान्वितम् ।। पुष्पचन्दनचर्चाढ्यं पर्य्यंकं देवि गृह्यताम् ३८ ।। एवं संपूज्य देवीं तां दद्यात्पुष्पाञ्जलित्रयम् ।। यत्नेन पूजयेद्देवीं नायिकाश्च व्रते व्रती ।। ३९ ।। प्रागादिक्रमयोगेन दक्षिणावर्ततः प्रिये ।। भक्त्या पञ्चोपचारेण सुप्रियाः परिचारिकाः ।। 2.55.४० ।। मालावतीं पूर्वकोणे वह्निकोणे च माधवीम् ।। दक्षिणे रत्नमालां च सुशीलां नैर्ऋते सतीम् ।। ४१ ।। पश्चिमे वै शशिकलां पारिजातां च मारुते ।। पद्मावतीमुत्तरे चाथैशान्यां सुन्दरीं तथा ।। ४२ ।। यूथिकामालतीपद्ममाला दद्याद् व्रते व्रती ।। परिहारं च कुरुते सामवेदोक्तमेव च ।। ४३ ।। त्वं देवी जगतां माता विष्णुमाया सनातनी ।। कृष्णप्राणाधिदेवी च कृष्णप्राणाधिका शुभा ।। ४४ ।। कृष्णप्रेममयी शक्तिः कृष्णे सौभाग्यरूपिणी ।। कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ।। ४५ ।। अद्य मे सफलं जन्म जीवनं सार्थकं मम ।। पूजिताऽसि मया सा च या श्रीकृष्णेन पूजिता ।। ४६ ।। कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता ।। रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ।। ४७ ।। कृष्णप्रिया च गोलोके तुलसीकानने तु या ।। चम्पावती कृष्णसंगे क्रीडा चम्पककानने ।। ४८ ।। चन्द्रावली चन्द्रवने शतशृंगे सतीति च।। विरजा दर्पहन्त्री च विरजातटकानने।।४९।। पद्मावती पद्मवने कृष्णा कृष्णसरोवरे।। भद्रा कुञ्जकुटीरे च काम्या वै कम्यके वने।।2.55.५०।। वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि।। क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया।।५१।। सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी।। सनातनी विष्णुमाया दुर्गा शङ्करवक्षसि।।५२।। सावित्री वेदमाता च कलया ब्रह्मवक्षसि ।। कलया धर्मपत्नी त्वं नरनारायणप्रभोः ।। ५३ ।। कलया तुलसी त्वं च गङ्गा भुवनपावनी ।। लोमकूपोद्भवा गोप्यः कलांशा रोहिणी रतिः ।। ५४ ।। कला कलांशरूपा च शतरूपा शची दितिः ।। अदितिर्देवमाता च त्वत्कलांशा हरिप्रिया ।।९५।। देव्यश्च मुनिपत्न्यश्च त्वत्कलाकलया शुभे ।। कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते ।। ५६ ।। एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् ।। पुरा कृतं स्तोत्रमेतद्भक्तिदास्यप्रदं शुभम् ।।५७।। एवं नित्यं पूजयेद्यो विष्णुतुल्यः स भारते ।। जीवन्मुक्तश्च पूतश्च गोलोकं याति निश्चितम् ।। ५८ ।। कार्त्तिकीपूर्णिमायां च राधां यः पूजयेच्छिवे ।। एवं क्रमेण प्रत्यब्दं राजसूयफलं लभेत् ।। ५९ ।। परमैश्वर्य्ययुक्तः स्यादिह लोके स पुण्यवान् ।। सर्वपापाद्विनिर्मुक्तो यात्यन्ते विष्णुमन्दिरम् ।। 2.55.६० ।। आदावेवं क्रमेणैव रासे वृन्दावने वने ।। स्तुता सा पूजिता राधा श्रीकृष्णेन पुरा सती ।।६१।। संपूजिता द्वितीये च धात्रा त्वेवं क्रमेण च ।। त्वद्वरेण च संप्राप्य विधाता वेदमातरम् ।। ६२ ।। नारायणो महालक्ष्मीं प्राप संपूज्य भारतीम् ।। गंगां च तुलसीं चैव परां भुवनपावनीम् ।। ।।६३। विष्णुः क्षीरोदशायी च प्राप सिन्धुसुतां तथा ।। मृतायां दक्षकन्यायां मया कृष्णाज्ञया पुरा ।। ६४ ।। त्वमेव दुर्गा सम्प्राप्ता पूजिता पुष्करे च सा ।। अदितिं कश्यपः प्राप चन्द्रः संप्राप रोहिणीम् ।। ६५ ।। कामो रतिं च संप्राप धर्मो मूर्तिं पतिव्रताम्। देवाश्च मुनयश्चैव यां संपूज्य प्रतिव्रताम् ।। ६६ ।। संप्रापुर्यद्वरेणैव धर्मकामार्थमोक्षकम् ।। एवं पूजाविधानं च कथितं च स्तवं शृणु ।। ६७ ।। श्रीमहेश्वर उवाच ।। एकदा मानिनी राधा बभूवागोचरा प्रभोः ।। संसक्तस्य तुलस्यां च गोप्यां च तुलसीवने।।६८।। सा संहृत्य स्वमूर्त्तीश्च कलाः सर्वाश्च लीलया ।। सर्वे बभूवुर्देवाश्च ब्रह्मविष्णुशिवादयः ।। ६९ ।। भ्रष्टैश्वर्य्याश्च निश्श्रीका भार्य्याहीना ह्युपद्रुताः ।। ते च सर्वे समालोच्य श्रीकृष्णं शरणं ययुः ।। 2.55.७० ।। तेषां स्तोत्रेण सन्तुष्टः स्नात्वा संपूज्य तां शुचिः ।। तुष्टाव परमात्मा स सर्वेषां राधिकां सतीम् ।। ७१ ।। श्रीकृष्ण उवाच ।। एवमेव प्रियोऽहं ते प्रमोदश्चैव ते मयि ।। सुव्यक्तमद्य कापट्यवचनं ते वरानने ।।७२।। हे कृष्ण त्वं मम प्राणा जीवात्मेति च सन्ततम् ।। यद्ब्रूहि नित्यं प्रेम्णा त्वं साम्प्रतं तद्गतं द्रुतम् ।। ।। ७३ ।। तस्मात्सर्वमलीकं ते वचनं जगदम्बिके ।। क्षुरधारं च हृदयं स्त्रीजातीनां च सर्वतः ।। ७४ ।। अस्माकं वचनं सत्यं यद्ब्रवीमि च तच्छ्रुतम् ।। पञ्चप्राणाधिदेवी त्वं राधा प्राणाधिकेति मे ।। ७५ ।। शक्तो न रक्षितुं त्वां च यान्ति प्राणास्त्वया विना ।। विनाऽधिष्ठातृदेवीं च को वा कुत्र च जीवति ।।९३।।। महाविष्णोश्च माता त्वं मूलप्रकृतिरीश्वरी ।। सगुणा त्वं च कलया निर्गुणा स्वयमेव तु ।।७७।। ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा ।। भक्तानां रुचिवैचित्र्यान्नानामूर्त्तीश्च बिभ्रती ।। ७८ ।। महालक्ष्मीश्च वैकुण्ठे भारती च सतां प्रसूः ।। पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा ।। ७९ ।। तुलसी पुण्यरूपा च गंगा भुवनपावनी ।। ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा ।।2.55.८०।। गोलोके राधिका त्वं च सर्वगोपालकेश्वरी ।। त्वया विनाऽहं निर्जीवो ह्यशक्तः सर्व कर्म्मसु ।। ८१ ।। शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना ।। वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह ।। ८२ ।। नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः ।। फलं ददाति यज्ञश्च त्वया दक्षिणया सह ।।८३।। बिभर्त्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् ।। बिभर्त्ति गङ्गारूपां त्वां मूर्ध्नि गंगाधरः शिवः ।।८४।। शक्तिमच्च जगत्सर्वं शवरूपं त्वया विना ।। वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना ।।८९।। यथा मृदा घटं कर्त्तुं कुलालः शक्तिमान्सदा ।। सृष्टिं स्रष्टुं तथाऽहं च प्रकृत्या च त्वया सह ।।८६।। त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् ।। सर्वशक्तिस्वरूपा त्वं त्वमागच्छ ममान्तिकम् ।। ८७ ।। वह्नौ त्वं दाहिकाशक्तिर्नाग्निश्शक्तस्त्वया विना ।। शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः ।। ८८ ।। प्रभारूपा हि सूर्य्ये त्वं त्वां विना न स भानुमान् ।। न कामः कामिनीबन्धुस्त्वया रत्या विना प्रिये ।।८९।। इत्येवं स्तवनं कृत्वा तां संप्राप जगत्प्रभुः ।। देवा बभूवुः सश्रीकाः सभार्य्याः शक्तिसंयुताः ।। 2.55.९० ।। सस्त्रीकं च जगत्सर्वं समभूच्छैलकन्यके ।। गोपीपूर्णश्च गोलोको ह्यभवत्तत्प्रसादतः ।। ९१ ।। राजा जगाम गोलोकमिति स्तुत्वा हरिप्रियाम् ।। श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः ।। ९२ ।। कृष्णभक्तिं च तद्दास्यं सं प्राप्नोति न संशयः ।। स्त्रीविच्छेदे यः शृणोति मासमेकमिदं शुचिः ।। ९३ ।। अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् ।। भार्याहीनो भाग्यहीनो वर्षमेकं शृणोति यः।। ९४ ।। अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् ।। पुरा मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति ।। ९५ ।। मृतायां दक्षकन्यायामाज्ञया परमात्मनः ।। स्तोत्रेणानेन संप्राप्ता सावित्री ब्रह्मणा पुरा ।। ९६ ।। पुरा दुर्वाससः शापान्निश्श्रीके देवतागणे ।। स्तोत्रेणानेन देवैस्तैः संप्राप्ता श्रीः सुदुर्लभा ।। ९७ ।। शृणोति वर्षमेकं च पुत्रार्थी लभते सुतम् ।। महाव्याधी रोगमुक्तो भवेत्स्तोत्रप्रसादतः ।। ९८ ।। कार्त्तिकीपूर्णिमायां तु तां संपूज्य पठेत्तु यः ।। अचलां श्रियमाप्नोति राजसूयफलं लभेत् ।। ९९ ।। नारी शृणोति चेत्स्तोत्रं स्वामिसौभाग्यसंयुता ।। भक्त्या शृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम्।। ।। 2.55.१०० ।। नित्यं पठति यो भक्त्या राधां संपूज्य भक्तितः ।। स प्रयाति च गोलोकं निर्मुक्तो भवबन्धनात् ।। १०१ ।। इति श्री ब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे श्रीराधिकोपाख्याने राधापूजास्तोत्रादिकथनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।
śrīpārvatyuvāca || śrīkṛṣṇasya sthite mantre cānyeṣāmīśvarasya vaḥ || kathaṃ jagrāha rādhāyā mantraṃ vai vaiṣṇavo nṛpaḥ || 1 || kiṃ vidhānaṃ ca kiṃ dhyānaṃ kiṃ stotraṃ kavacaṃ ca kim || kaṃ mantraṃ ca dadau rājñe tāṃ pūjāpaddhatiṃ vada || || 2 || śrīmaheśvara uvāca || he vipra kaṃ bhajāmīti praśnaṃ kurvati rājani || śīghraṃ prāpnomi golokaṃ kasyārādhanato mune || 3 || ityuktavantaṃ rājendramuvāca brāhmaṇottamaḥ || tatsevayā ca tallokaṃ prāpsyase bahujanmataḥ || 4 || tatprāṇādhiṣṭhātṛdevīṃ bhaja rādhāṃ parātparām || kṛpāmayīprasādena śīghraṃ prāpnoti tatpadam || 5 || ityuktvā rādhikāmantraṃ dadau tasmai ṣaḍakṣaram || oṃ rādheti caturthyantaṃ vahnijāyāntameva ca || 6 || prāṇāyāmaṃ bhūtaśuddhiṃ mantranyāsaṃ tathaiva ca || karāṃganyāsamevaṃ ca dhyānaṃ sarvasudurlabham || 7 || stotraṃ ca kavacaṃ taṃ ca śikṣayāmāsa bhaktitaḥ || rājā tena krameṇaiva jajāpa paramaṃ manum || 8 || dhyānaṃ ca sāmavedoktaṃ maṃgalānāṃ ca maṃgalam || kṛṣṇastāṃ pūjayāmāsa purā dhyānena yena ca || 9 || śvetacampakavarṇābhāṃ koṭicandrasamaprabhām || śaratpārvaṇacandrāsyāṃ śaratpaṅkajalocanām || suśroṇīṃ sunitambāṃ ca pakvabimbādharāṃ varām||2.55.10|| muktāpaṃktipratinidhidantapaṃktimanoharām|| īṣaddhāsyaprasannāsyāṃ bhaktānugrahakārikām || vahniśuddhāṃśukādhānāṃ ratnamālāvibhūṣitām || 11 || ratnakeyūravalayāṃ ratnamañjīrarañjitām || ratnakuṇḍalayugmena vicitreṇa virājitām || sūryyaprabhāpratikṛtigaṇḍasthalavirājitām || 12 || amūlyaratnakhacitagraiveyakavibhūṣitām || sadratnasārakhacitakirīṭamukuṭojjvalām || ratnāṃgulīyasaṃyuktāṃ ratnapāśakaśobhitām || 13|| bibhratīṃ kabarībhāraṃ mālatīmālyaśobhitām|| rūpādhiṣṭhātṛdevīṃ ca mattavāraṇagāminīm || 14 || gopībhiḥ supriyābhiśca sevitāṃ śvetacāmaraiḥ || kastūrībindubhiḥ sārddhamadhaścandanabindunā || 15 || sindūrabindunā cārusīmantādhaḥsthalojjvalām || nityaṃ supūjitāṃ bhaktyā kṛṣṇena paramātmanā || 16 || kṛṣṇasaubhāgyasaṃyuktāṃ kṛṣṇaprāṇādhikāṃ varām|| kṛṣṇaprāṇādhidevīṃ ca nirguṇāṃ ca parātparām||17|| mahāviṣṇuvidhātrīṃ ca pradātrīṃ sarvasampadām || kṛṣṇabhaktipradāṃ śāntāṃ mūlaprakṛtimīśvarīm || 18 || vaiṣṇavīṃ viṣṇumāyāṃ ca kṛṣṇapremamayīṃ śubhām || rāsamaṇḍalamadhyasthāṃ ratnasiṃhāsanasthitām || rāse rāseśvarayutāṃ rādhāṃ rāseśvarīṃ bhaje || 19 || dhyātvā puṣpaṃ mūrdhni dattvā punardhyāyejjagatprabhum || dadyātpuṣpaṃ punardhyātvā copacārāṇi ṣoḍaśa || 2.55.20 || āsanaṃ vasanaṃ pādyamarghyaṃ gandhānulepanam || dhūpaṃ dīpaṃ supuṣpaṃ ca snānīyaṃ ratnabhūṣaṇam || 21 || nānāprakāranaivedyaṃ tāmbūlaṃ vāsitaṃ jalam || madhuparkaṃ ratnatalpamupacārāṇi ṣoḍaśa || 22 || pratyekaṃ vedamantreṇa dattaṃ bhaktyā ca bhūbhṛtā || mantrāṃśca śrūyatāṃ durge vedoktānsarvasammatān || 23 || ratnasāravikāraṃ ca nirmitaṃ viśvakarmaṇā || varaṃ siṃhāsanaṃ ramyaṃ rādhe pūjāsu gṛhyatām ||24 || amūlyaratnakhacitamamūlyaṃ sūkṣmameva ca || vahniśuddhaṃ nirmalaṃ ca vasanaṃ devi gṛhya tām||25|| sadratnasārapā?sthaṃ sarvatīrthodakaṃ śubham || pādaprakṣālanārthaṃ ca rādhe pādyaṃ ca gṛhyatām ||26|| dakṣiṇāvarttaśaṅkhasthaṃ sadūrvāpuṣpacandanam || pūtaṃ yuktaṃ tīrthatoyai rādhe'rghyaṃ pratigṛhyatām || || 27 || pārthivadravyasaṃbhūtamatīva surabhīkṛtam || maṅgalārhaṃ pavitraṃ ca rādhe gandhaṃ gṛhāṇa me || 28 || śrīkhaṇḍacūrṇaṃ susnigdhaṃ kastūrīkuṃkumānvitam || sugandhayuktaṃ deveśi gṛhyatāmanulepanam || 29 || vṛkṣa niryāsasaṃyuktaṃ pārthivadravyasaṃyutam || agnikhaṇḍaśikhājātaṃ dhūpaṃ devi gṛhāṇa me || 2.55.30 || andhakāre bhayaharamamūlyamaṇiśobhitam || ratnapradīpaṃ śobhāḍhayaṃ gṛhāṇa parameśvari|31|| pārijātaprasūnaṃ ca gandhacandanacarcitam || atīva śobhanaṃ ramyaṃ gṛhyatāṃ parameśvari ||32|| sugandhāmalakīcūrṇaṃ susnigdhaṃ sumanoharam || viṣṇutailasamāyuktaṃ snānīyaṃ devi gṛhyatām||33|| amūlyaratnakhacitaṃ keyūravalayādikam|| śaśvatsu śobhanaṃ rādhe gṛhyatāṃ bhūṣaṇaṃ mama||34|| kāladeśodbhavaṃ pakvaphalaṃ vai laḍḍukādikam|| paramānnaṃ ca miṣṭānnaṃ naivedyaṃ devi gṛhyatām||35|| tāmbūlaṃ ca varaṃ ramyaṃ karpūrādisuvāsitam || sarvabhogādhikaṃ svādu tāmbūlaṃ devi gṛhyatām || 36 || aśanaṃ ratnapātrasthaṃ susvādu sumanoharam || mayā niveditaṃ bhaktyā gṛhyatāṃ parameśvari||37| ratnendrasārakhacitaṃ vahniśuddhāṃśukānvitam || puṣpacandanacarcāḍhyaṃ paryyaṃkaṃ devi gṛhyatām 38 || evaṃ saṃpūjya devīṃ tāṃ dadyātpuṣpāñjalitrayam || yatnena pūjayeddevīṃ nāyikāśca vrate vratī || 39 || prāgādikramayogena dakṣiṇāvartataḥ priye || bhaktyā pañcopacāreṇa supriyāḥ paricārikāḥ || 2.55.40 || mālāvatīṃ pūrvakoṇe vahnikoṇe ca mādhavīm || dakṣiṇe ratnamālāṃ ca suśīlāṃ nairṛte satīm || 41 || paścime vai śaśikalāṃ pārijātāṃ ca mārute || padmāvatīmuttare cāthaiśānyāṃ sundarīṃ tathā || 42 || yūthikāmālatīpadmamālā dadyād vrate vratī || parihāraṃ ca kurute sāmavedoktameva ca || 43 || tvaṃ devī jagatāṃ mātā viṣṇumāyā sanātanī || kṛṣṇaprāṇādhidevī ca kṛṣṇaprāṇādhikā śubhā || 44 || kṛṣṇapremamayī śaktiḥ kṛṣṇe saubhāgyarūpiṇī || kṛṣṇabhaktiprade rādhe namaste maṅgalaprade || 45 || adya me saphalaṃ janma jīvanaṃ sārthakaṃ mama || pūjitā'si mayā sā ca yā śrīkṛṣṇena pūjitā || 46 || kṛṣṇavakṣasi yā rādhā sarvasaubhāgyasaṃyutā || rāse rāseśvarīrūpā vṛndā vṛndāvane vane || 47 || kṛṣṇapriyā ca goloke tulasīkānane tu yā || campāvatī kṛṣṇasaṃge krīḍā campakakānane || 48 || candrāvalī candravane śataśṛṃge satīti ca|| virajā darpahantrī ca virajātaṭakānane||49|| padmāvatī padmavane kṛṣṇā kṛṣṇasarovare|| bhadrā kuñjakuṭīre ca kāmyā vai kamyake vane||2.55.50|| vaikuṇṭhe ca mahālakṣmīrvāṇī nārāyaṇorasi|| kṣīrode sindhukanyā ca martye lakṣmīrharipriyā||51|| sarvasvarge svargalakṣmīrdevaduḥkhavināśinī|| sanātanī viṣṇumāyā durgā śaṅkaravakṣasi||52|| sāvitrī vedamātā ca kalayā brahmavakṣasi || kalayā dharmapatnī tvaṃ naranārāyaṇaprabhoḥ || 53 || kalayā tulasī tvaṃ ca gaṅgā bhuvanapāvanī || lomakūpodbhavā gopyaḥ kalāṃśā rohiṇī ratiḥ || 54 || kalā kalāṃśarūpā ca śatarūpā śacī ditiḥ || aditirdevamātā ca tvatkalāṃśā haripriyā ||95|| devyaśca munipatnyaśca tvatkalākalayā śubhe || kṛṣṇabhaktiṃ kṛṣṇadāsyaṃ dehi me kṛṣṇapūjite || 56 || evaṃ kṛtvā parīhāraṃ stutvā ca kavacaṃ paṭhet || purā kṛtaṃ stotrametadbhaktidāsyapradaṃ śubham ||57|| evaṃ nityaṃ pūjayedyo viṣṇutulyaḥ sa bhārate || jīvanmuktaśca pūtaśca golokaṃ yāti niścitam || 58 || kārttikīpūrṇimāyāṃ ca rādhāṃ yaḥ pūjayecchive || evaṃ krameṇa pratyabdaṃ rājasūyaphalaṃ labhet || 59 || paramaiśvaryyayuktaḥ syādiha loke sa puṇyavān || sarvapāpādvinirmukto yātyante viṣṇumandiram || 2.55.60 || ādāvevaṃ krameṇaiva rāse vṛndāvane vane || stutā sā pūjitā rādhā śrīkṛṣṇena purā satī ||61|| saṃpūjitā dvitīye ca dhātrā tvevaṃ krameṇa ca || tvadvareṇa ca saṃprāpya vidhātā vedamātaram || 62 || nārāyaṇo mahālakṣmīṃ prāpa saṃpūjya bhāratīm || gaṃgāṃ ca tulasīṃ caiva parāṃ bhuvanapāvanīm || ||63| viṣṇuḥ kṣīrodaśāyī ca prāpa sindhusutāṃ tathā || mṛtāyāṃ dakṣakanyāyāṃ mayā kṛṣṇājñayā purā || 64 || tvameva durgā samprāptā pūjitā puṣkare ca sā || aditiṃ kaśyapaḥ prāpa candraḥ saṃprāpa rohiṇīm || 65 || kāmo ratiṃ ca saṃprāpa dharmo mūrtiṃ pativratām| devāśca munayaścaiva yāṃ saṃpūjya prativratām || 66 || saṃprāpuryadvareṇaiva dharmakāmārthamokṣakam || evaṃ pūjāvidhānaṃ ca kathitaṃ ca stavaṃ śṛṇu || 67 || śrīmaheśvara uvāca || ekadā māninī rādhā babhūvāgocarā prabhoḥ || saṃsaktasya tulasyāṃ ca gopyāṃ ca tulasīvane||68|| sā saṃhṛtya svamūrttīśca kalāḥ sarvāśca līlayā || sarve babhūvurdevāśca brahmaviṣṇuśivādayaḥ || 69 || bhraṣṭaiśvaryyāśca niśśrīkā bhāryyāhīnā hyupadrutāḥ || te ca sarve samālocya śrīkṛṣṇaṃ śaraṇaṃ yayuḥ || 2.55.70 || teṣāṃ stotreṇa santuṣṭaḥ snātvā saṃpūjya tāṃ śuciḥ || tuṣṭāva paramātmā sa sarveṣāṃ rādhikāṃ satīm || 71 || śrīkṛṣṇa uvāca || evameva priyo'haṃ te pramodaścaiva te mayi || suvyaktamadya kāpaṭyavacanaṃ te varānane ||72|| he kṛṣṇa tvaṃ mama prāṇā jīvātmeti ca santatam || yadbrūhi nityaṃ premṇā tvaṃ sāmprataṃ tadgataṃ drutam || || 73 || tasmātsarvamalīkaṃ te vacanaṃ jagadambike || kṣuradhāraṃ ca hṛdayaṃ strījātīnāṃ ca sarvataḥ || 74 || asmākaṃ vacanaṃ satyaṃ yadbravīmi ca tacchrutam || pañcaprāṇādhidevī tvaṃ rādhā prāṇādhiketi me || 75 || śakto na rakṣituṃ tvāṃ ca yānti prāṇāstvayā vinā || vinā'dhiṣṭhātṛdevīṃ ca ko vā kutra ca jīvati ||93||| mahāviṣṇośca mātā tvaṃ mūlaprakṛtirīśvarī || saguṇā tvaṃ ca kalayā nirguṇā svayameva tu ||77|| jyotīrūpā nirākārā bhaktānugrahavigrahā || bhaktānāṃ rucivaicitryānnānāmūrttīśca bibhratī || 78 || mahālakṣmīśca vaikuṇṭhe bhāratī ca satāṃ prasūḥ || puṇyakṣetre bhārate ca satī tvaṃ pārvatī tathā || 79 || tulasī puṇyarūpā ca gaṃgā bhuvanapāvanī || brahmaloke ca sāvitrī kalayā tvaṃ vasundharā ||2.55.80|| goloke rādhikā tvaṃ ca sarvagopālakeśvarī || tvayā vinā'haṃ nirjīvo hyaśaktaḥ sarva karmmasu || 81 || śivaḥ śaktastvayā śaktyā śavākārastvayā vinā || vedakartā svayaṃ brahmā vedamātrā tvayā saha || 82 || nārāyaṇastvayā lakṣmyā jagatpātā jagatpatiḥ || phalaṃ dadāti yajñaśca tvayā dakṣiṇayā saha ||83|| bibhartti sṛṣṭiṃ śeṣaśca tvāṃ kṛtvā mastake bhuvam || bibhartti gaṅgārūpāṃ tvāṃ mūrdhni gaṃgādharaḥ śivaḥ ||84|| śaktimacca jagatsarvaṃ śavarūpaṃ tvayā vinā || vaktā sarvastvayā vāṇyā sūto mūkastvayā vinā ||89|| yathā mṛdā ghaṭaṃ karttuṃ kulālaḥ śaktimānsadā || sṛṣṭiṃ sraṣṭuṃ tathā'haṃ ca prakṛtyā ca tvayā saha ||86|| tvayā vinā jaḍaścāhaṃ sarvatra ca na śaktimān || sarvaśaktisvarūpā tvaṃ tvamāgaccha mamāntikam || 87 || vahnau tvaṃ dāhikāśaktirnāgniśśaktastvayā vinā || śobhāsvarūpā candre tvaṃ tvāṃ vinā na sa sundaraḥ || 88 || prabhārūpā hi sūryye tvaṃ tvāṃ vinā na sa bhānumān || na kāmaḥ kāminībandhustvayā ratyā vinā priye ||89|| ityevaṃ stavanaṃ kṛtvā tāṃ saṃprāpa jagatprabhuḥ || devā babhūvuḥ saśrīkāḥ sabhāryyāḥ śaktisaṃyutāḥ || 2.55.90 || sastrīkaṃ ca jagatsarvaṃ samabhūcchailakanyake || gopīpūrṇaśca goloko hyabhavattatprasādataḥ || 91 || rājā jagāma golokamiti stutvā haripriyām || śrīkṛṣṇena kṛtaṃ stotraṃ rādhāyā yaḥ paṭhennaraḥ || 92 || kṛṣṇabhaktiṃ ca taddāsyaṃ saṃ prāpnoti na saṃśayaḥ || strīvicchede yaḥ śṛṇoti māsamekamidaṃ śuciḥ || 93 || acirāllabhate bhāryyāṃ suśīlāṃ sundarīṃ satīm || bhāryāhīno bhāgyahīno varṣamekaṃ śṛṇoti yaḥ|| 94 || acirāllabhate bhāryyāṃ suśīlāṃ sundarīṃ satīm || purā mayā ca tvaṃ prāptā stotreṇānena pārvati || 95 || mṛtāyāṃ dakṣakanyāyāmājñayā paramātmanaḥ || stotreṇānena saṃprāptā sāvitrī brahmaṇā purā || 96 || purā durvāsasaḥ śāpānniśśrīke devatāgaṇe || stotreṇānena devaistaiḥ saṃprāptā śrīḥ sudurlabhā || 97 || śṛṇoti varṣamekaṃ ca putrārthī labhate sutam || mahāvyādhī rogamukto bhavetstotraprasādataḥ || 98 || kārttikīpūrṇimāyāṃ tu tāṃ saṃpūjya paṭhettu yaḥ || acalāṃ śriyamāpnoti rājasūyaphalaṃ labhet || 99 || nārī śṛṇoti cetstotraṃ svāmisaubhāgyasaṃyutā || bhaktyā śṛṇoti yaḥ stotraṃ bandhanānmucyate dhruvam|| || 2.55.100 || nityaṃ paṭhati yo bhaktyā rādhāṃ saṃpūjya bhaktitaḥ || sa prayāti ca golokaṃ nirmukto bhavabandhanāt || 101 || iti śrī brahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvādāntargataharagaurīsaṃvāde śrīrādhikopākhyāne rādhāpūjāstotrādikathanaṃnāma pañcapañcāśattamo'dhyāyaḥ || 55 ||
English translation
Worship of Radha and her Stotra Parvatl said - Inspite of the king possessing you as well as Kfsna's mantra, how did he receive the mantra of Radha? What is the procedure for it? What is its dhyanam, stotra and kavacal These may be told to me. What type of mantra was suggested by him to the king? You kindly enlighten me on the procedure for the Mahes'vara said - O Brahmana, whom shall I adore and by serving whom shall I achieve the When the king so asked the Brahmana, he told him like this: By serving the lord one achieves Goloka in many future births. Therefore, one should also adore Radha who happens to be the great goddess of Krsna's life, because she is the best of all merciful and by whose grace you will achieve the great stage.
fOToW fferw a McwRj't^isRi onfI Thus speaking, the Brahmana enlightened him on the six-letter mantra of Radha which reads like this: 3Ti Besides that, he also enlightened him on the method of prdndydma, purification of the body, application of mantra karanydsa, anganydsa and the dhyanam which is difficult to acquire. The stotra and kavaca were also explained by the Brahmana to the king. Thereafter the king recited the mantra with dhydnam according to the provision of the Samaveda and provided all the welfare and the method by which lord Krsna had adored Radha in the earlier times which is like this. One should offer white campaka flowers to Radha who has the complexion of these flowers and bears the lustre of crores of moons; her face resembles the full moon of the winter season.
Her eyes resemble the lotus flower of the winter season. She has a developed navel region, beautiful and developed breasts and lips resembling the ripe fruit of wood-apple; she is the best of all, having teeth like lines of jewels and wears a smile on her face. She is compassionate towards her devotees and is clad in the garments purified by fire. She wears garlands of gems and armlets studded with gems.
She has all the ornaments including anklets and wristlets studded with gems besides a pair of hindalas in the ears. Her cheeks emit the lustre of Surya and she is adorned with invaluable garlands of gems. She wears a kirlta-mukuta which remains dazzling with the gems-studded in it. She wears the finger rings studded with gems besides other Ornaments.
She wears a garland of jasmine flowers and wears a beautiful hair-do on the head. She happens to be the great goddess of beauty and walks like an intoxicated elephant. The loveable cowherdesses swing the white fly-whisks over her. Besides a spot of kasturl there is another small spot of sandal-paste on her forehead.
She applies vermilion on the head at the parting of the hair which looks fine. She is adored daily by lord Krsna with great devotion.
She possesses the fortune of lord Krsna and is his beloved. She is the best of the goddesses and is dearer to him than his life. She is beyond gunas and is the best of all besides being the mother of Mahavisnu. She is the bestower of all treasures, devotion of lord Krsna, peaceful in appearance, is MulaprakrtU is IsVarl, Vaisnavi, Visnumaya, the beloved of lord Krsna and is seated on the beautiful gem-studded lion-throne in the Rdsamandala and resides always with lord Krsna as the goddess of dance. I adore the goddess Thus performing dhydnam for Radha, one should offer flowers on her head and again recite her dhydnam offering the flowers. After performing dhydnam she should be adored in sixteen ways, offering a seat, cloth, pddya, arghya, fragrance, paste, essence, lamp, the best of flowers, water for bathing, gem-studded ornaments, various types of eatables, a fragrant betel, water, madhuparka and a bed studded with
gems. All these items were presented by the king with devotion to Radha. O Durga, now I am going to tell you the commonly believed mantra of the goddess which you please listen to.
O Radha, I am offering you the lion-throne which was built by Visvakanna with the best of gems; you kindly accept it.
O goddess, I am offering you the purified garments which are studded with gems, are very costly, fine, pure like the fire and are spotless.
You kindly accept them.
three handfuls of flowers. O dear one, her attendants who are lodged in the eastern and southern direction should also be adored by manes by offering five articles.
In the eastern direction dwells Malavatl, in the south eastern direction dwells Madhavi; in. the southern direction dwells Ratnamala, in the south west dwells Suslla, in the western direction resides Sasikala, in the Vdyukona, Pdrijdta, in the north direction Padmavatl and in the north¬ west Sundarl should be adored.
During the performance of the vrata one should offer jasmine flowers, Malatl and lotus flowers. Then the prayer should be recited as specified in the Sdmaveda.
O goddess, you are the mother of the universe, the eternal illusion of lord Visnu, the great goddess of the life of lord Krsna, his beloved and image of welfare, beloved of lord Krsna, the incarnation of strength, the fortune of lord Krsna, the bestower of devotion of lord Krsna and bestower of welfare also. Therefore, O' Radhe, I offer my salutation to you.
Today our birth has been successful and well established because 1 have offered my prayer to you, who have been adored by lord Krsna Radha who always resides in the heart of lord Krsna, the same is the goddess of Rama; she is known as Vrnda in Vmdavana, is known as TulasI in Goloka as the beloved of lord Krsna.
You are the image of play for Krsna in the campaka-Vana, Candravall in the Candra-vana.
You are known as SatT on the mountain of a hundred peaks and Viraja on the bank of a river Viraja which destroys the pride of others. You are Padmavatl in the forest of lotus flowers, Krs na on the bank of the stream Krsna, Bhadra in Kuhja-kuflra; Kamya in Kdmyaka~vana, MahalaksmI in Vaikuntha, Van! of Narayana, Sindhukanya in the ocean of milk and Haripriya, LaksmI with the human beings.
You happen to be Svarglaksml for the gods and remove all the misfortunes of the gods. You are lodged in the heart of lord Siva, has the eternal Maya named Durga. You are lodged in the heart of Brahma as Savitri and mother of all the Vedas. By one of your rays you happen to be the spouse of Nara-Narayana.
The goddess TulasI emerges from you as also the Gaiiga who purifies the universe. The cowherdesses appear from your hair-pits. RohinT happens to be a ray of yours and Rati, Kala, Satariipa, SacI, Dili, Aditi the mother of gods and Haripriya also emerged from your rays.
O beautiful one, all the spouses of the sages emerge from your race; therefore, O goddess, bestowing the grace of lord Krsna and his devotion, you make me an attendant of the lord.
Thus offering prayers with devotion her kavaca should be recited, this kavaca bestows her devotion and slavehood. This stotra was composed in earlier times. Thus the people who perform piijd with this kavaca take to the form of lord Visnu and are freed from the cycle of birth and death, getting purified. They indeed dwell in the Gololm.
O Parvatl, on the full moon day of Kartika, one who adores Radhika yearly, surely achieves the merit of performing Rajasuya-yajna.
Enjoying ail the riches in this world one is relieved of all his sins and is completely purified.
Thereafter, he proceeds to the abode of lord Vis In the earlier times for the first time Radhika was adored in Vrndavaiia at Rasamandala by lord Krsna who also prayed to her.
Thereafter, Brahma also adored her in the same way and achieved mother of the Vedas by your grace.
NarSyana too adored her and achieved MahalaksmI, Sarasvatl, Gangs the purifier of the Lord Visnu, who sleeps on the serpent bed in the ocean of milk, had adored her for achieving Sindhu-kanya. After the death of Daksa-kanya, Satl, at the command of lord Krsna, I went to Puskara-ksetra and adoring Radhika, I got you as Durga. Similarly Kasyapa got Aditi; the moon got RohinI; Kama got Rati and Dharma got the chaste Murti. All other gods and the sages also achieved their spouses after adoring Radha and with her blessing they also achieved dharma, artha, kdma and moksa. Thus I have narrated to you the method of adoration; now I narrate to you the relevant stotra.
Mahesvara said - Once the proud Radha went to the TulasI forest of lord Kfsna, where she found Krsna engaged in a playful mood with TulasI. She for a moment concealed herself together with the cowherdesses and the goddesses merging in her body. This surprised Brahma, Visnu, Siva and all other gods and all of them started suffering in the absence of their spouses. Then, after deep consideration, all of them decided to take reftige with lord Kr§na and praised him in various ways. Lord Krsna was pleased and getting purified after taking a bath, adored Radha offering prayers to her.
Lord Krsna said - 0 beautiful one, though I am your beloved and you love me also yet all your deceitful actions have been revealed to me. j Infatuated with love you used to say that, ”0 Krsna, you are my life and happen to be my soul * always. Where have all these words gone? i Whatever I am speaking is the established ^ truth; like Dhruva, you are the lady of my five!
pranas and are dearer to me than even my life. I am not in a position to protect you, thus my life is departing out of my body in your absence.
Because who can remain alive without the great O mother of the universe, therefore you are not true because the mind of the ladies is always as sharp as a blade.
You are Isvarl, the mother of Mahavisnu, besides being Mulaprakrti. You have no form but you take to definite form out of your own w w iri:i You are the fonn of flame, are invisible and take to incarnation on earth for the benefit of your devotees. You take to many forms according to the convenience of the devotees.
You are MahtHaksml in Vaikuntha. You are Bharat! in the sacred land of Bharata and the mother of all noble people. You are Satl and Parvatl as well.
You are the chaste TulasI, Gahga and purifier of the universe, Savitri in Brahmaloka and you arc a part of your own ray.
life xr Tr4hTmvil;^i In the Goloka you are the great goddess of all the cowherds and cowherdesses. In your absence, I have become helpless and sometimes I Lord Siva possesses the strength which emanates from you and he is like a dead body without you. Brahma is known as the creator of the Vedas because of your association with him in the fonn of Sarasvatl. You are the preserver of the universe with Narayana. Lord Visnu bestows the merit ofyajna by your grace.
Sesa holds you as earth over his headland Siva holds you as Gaiiga over his head; you are the sole energy of the universe and without you looks like dead. Because of your combination with the people they are speaking and without your grace one becomes dumb.
As a potter is always ready to create vases, similarly I also indulge in creation in association with you as Prakrti.
But without you I have lost my prowess and have become motionless. Because you are all powerful you should appear before me at once.
You are the burning instinct of the fire, without you the fire is of no consequence. You are the grace of the moon, without you the moon has no beauty.
You are the form of the lustre of the sun and without you, the sun is deprived of the rays. O dear, without you, as Rati, Kamadeva cannot be associated with the beautiful damsels.” After thus offering prayer to Radhika, lord Krsna got back his spouse.
O daughter of the mountain, with her pleasure the entire universe got their spouses restored and Goloka was filled with cowherdesses.
Then offering prayer to Radha, the beloved of Hari, the king achieved Goloka. Thus whosoever will recite the stotra of Radha will achieve the devotion of lord Krsna and his association. There is no doubt about it. At the expiry of one's wife, if one listens to the stotra for a month regularly, he soon gets a beautiful, chaste and noble wife.
The unfortunate person having no wife if he listens to this stotra for a year, he also gets a beautiful, noble and chaste wife. O Parvati in the earlier times after the death of Daksa-kanya SatT, accepting the command of the lord, I also achieved you through this stotra. In earlier times Brahma also achieved Savitrl through this stotra.
In earlier times the gods also got back by reciting this stotra their glory which they had lost as a curse from Durvasa.
The one desirous of having a son can get one after listening to the stotra for a year. The reciting of this relieves one of the terrific MluiUldi W?(t ^:l Radha should be adored on the full moon day of the month of Kartika. One achieves the merit of getting indestructible riches and the performing of Rdjasuya-yajna, If a lady listens to this stotrUy she is bestowed with all fortunes. The one who listens to it with devotion, is surely relieved of all bondage.
He who adores Radha with devotion and recites this stotra always, is relieved of all bondages and proceeds on to Goloka.
It's quite secretive, the form of eternal tattva, the combination of all the mantras by practising which Brahma achieved Savitrl, the mother of the Vedas.
By holding kavaca I happen to be your husband though you are the supreme goddess and the mother of the universe. By practising this By holding this lord Krsna who is beyond Nirguna-prakrti and pervades everywhere, was able to create the universe.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 119017 (2017-09-02T02:17:45Z); Shanti Lal Nagar English scan pages n514–n522: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n514/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.