Skip to main content

Prakṛti-khaṇḍa · Chapter 51

Chapter 51

Unit 81 of 276Prakṛti-khaṇḍa · Chapter 51Prakṛti-khaṇḍa · Chapter 511 source entries

Prakṛti-khaṇḍa · Chapter 51

Source

श्रीपार्वत्युवाच ।। किमूचुर्ब्राह्मणं ब्रह्मन्ब्राह्मणा ब्रह्मणः सुताः ।। नीतिज्ञा नीतिवचनं तन्मां व्याख्यातुमर्हसि ।। १ ।। श्रीमहादेव उवाच ।। सन्तोष्य तं ब्राह्मणं च स्तवेन विनयेन च ।। क्रमेण वक्तुमारेभे मुनिसंघो वरानने ।। २ ।। सनत्कुमार उवाच ।। त्वत्पश्चादागता लक्ष्मीः कीर्त्तिः सत्त्वं यशस्तथा ।। सुशीलं च महैश्वर्यं पितरोऽग्निः सुरास्तथा ।। ३ ।। आगता नृपगेहेभ्यः कृत्वा भ्रष्टश्रियं नृपम् ।। भव तुष्टो द्विजश्रेष्ठ चाशुतोषश्च वाडवः ।।४।। ब्राह्मणानां तु हृदयं कोमलं नवनीतवत् ।। शुद्धं सुनिर्मलं चैव मार्जितं तपसा मुने ।। ५ ।। क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ।। आशिषं कुरु तस्मै त्वं पवित्रपदरेणुना ।।६।। भृगुरुवाच ।। अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ।। पितरस्तस्य देवाश्च वह्निश्चैव तथैव च ।। ७ ।। निराशाः प्रतिगच्छन्ति चातिथेरप्रतिग्रहात्।। क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ।। ८ ।। स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ।। तुल्यदोषो भवत्येतैर्यस्यातिथिरनर्चितः ।। ९ ।। पुलस्त्य उवाच ।। पश्यन्ति ये वक्रदृष्ट्या चातिथिं गृहमागतम् ।। दत्त्वा स्वपापं तस्मै तत्पुण्यमादाय गच्छति ।। 2.51.१० ।। क्षमस्व नृपदोषं च गच्छ वत्स यथासुखम् ।। राजा स्वकर्मदोषेण नोत्तस्थौ तत्क्षमां कुरु ।। ११ ।। पुलह उवाच ।। राजश्रिया विद्यया वा ब्राह्मणं योऽवमन्यते ।। विप्रस्त्रिसन्ध्याहीनो यः श्रीहीनः क्षत्रियो भवेत् ।। १२ ।। एकादशीविहीनश्च विष्णुनैवेद्यवञ्चितः ।। क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ।। १३ ।। क्रतुरुवाच।। ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शूद्र एव च।। दीक्षाहीनो भवेत्सोऽपि ब्राह्मणं योऽवमन्यते।।१४।। धनहीनः पुत्रहीनो भार्य्याहीनो भवेद्ध्रुवम् ।। क्षमस्वागच्छ भगवञ्छुद्धं कुरु नृपालयम् ।। १५ ।। अङ्गिरा उवाच ।। ज्ञानवान्ब्राह्मणो भूत्वा ब्राह्मणं योऽवमन्यते।। वृषवाहो भवेत्सोऽपि भारते सप्तजन्मसु।।१६।। मरीचिरुवाच।। पुण्यक्षेत्रे भारते च देवं च ब्राह्मणं गुरुम्।। विष्णुभक्तिविहीनश्च स भवेद्योऽवमन्यते ।। १७ ।। कश्यप उवाच ।। वैष्णवं ब्राह्मणं दृष्ट्वा योऽसत्यमवमन्यते ।। विष्णुमन्त्रविहीनश्च तत्पूजाविरतो भवेत् ।।१८।। प्रचेता उवाच ।। अतिथिं ब्राह्मणं दृष्ट्वा नाभ्युत्थानं करोति यः ।। पितृभक्तिविहीनस्स्यात्स भवेद्भारते भुवि।।१९।। प्राप्नोति कौञ्जरीं योनिं स मूढः सप्तजन्मसु ।। शीघ्रं गच्छ द्विजश्रेष्ठ राज्ञे देह्याशिषश्शुभाः ।।2.51.२०।। दुर्वासा उवाच ।। गुरुं वा ब्राह्मणं वाऽपि देवताप्रतिमामपि ।। दृष्ट्वा शीघ्रं न प्रणमेत्स भवेत्सूकरो भुवि ।।२१।। मिथ्यासाक्षी च भवति तथा विश्वासघातकः ।। क्षमस्व सर्वमस्माकमातिथ्यग्रहणं कुरु ।। २२ ।। राजोवाच ।। छलेन कथितो धर्मो युष्माभिर्मुनिपुङ्गवैः ।। सर्वं कृत्वा च विस्पष्टं मां मूढं बोधयन्त्वहो ।। २३ ।। स्त्रीघ्नगोघ्नकृतघ्नानां गुरुस्त्रीगामिनां तथा ।। ब्रह्मघ्नानां च को दोषो ब्रूत मां योगिनां वराः ।। २४ ।। वसिष्ठ उवाच ।। कामतो गोवधे राजन्वर्षं तीर्थं भ्रमेन्नरः ।। यवयावकभोजी च करेण च जलं पिबेत् ।। २५ ।। तदा धेनुशतं दिव्यं ब्राह्मणेभ्यः सदक्षिणम् ।। दत्त्वा मुञ्चति पापाच्च भोजयित्वा शतं द्विजान् ।। २६ ।। प्रायश्चित्ते तु वै चीर्णे सर्वपापान्न मुच्यते ।। पापावशेषाद्भवति दुःखी चाण्डाल एव च ।। २७ ।। आतिदेशिकहत्यायां तदर्धं फलमश्नुते ।। प्रायश्चित्तानुकल्पेन सर्वपापान्न मुच्यते।।।। २८ ।। शुक्र उवाच ।। गोहत्याद्विगुणं पापं स्त्रीहत्यायां भवेद्ध्रुवम् ।। षष्टिवर्षसहस्राणि कालसूत्रे वसेद्ध्रुवम् ।। २९ ।। ततो भवेन्महापापी सूकरः सप्तजन्मसु ।। ततो भवति सर्पश्च सप्तजन्मन्यतः शुचिः ।। 2.51.३० ।। बृहस्पतिरुवाच ।। स्त्रीहत्याद्विगुणं पापं ब्रह्महत्याकृतो भवेत् ।। लक्षवर्षं महाघोरे कुम्भीपाके वसेद्ध्रुवम्।। ३३ ।। ततो भवेन्महापापी विष्ठाकीटः शताब्दकम्।। ततो भवति सर्पश्च सप्तजन्मन्यतः शुचिः ।। ३२ ।। गौतम उवाच ।। दोषः कृतघ्ने राजेन्द्र ब्रह्महत्याचतुर्गुणः ।। निष्कृतिर्नास्ति वेदोक्ता कृतघ्नानां च निश्चितम् ।। ३३ ।। राजोवाच ।। लक्षणं च कृतघ्नानां वद वेदविदां वर ।। कृतघ्नः कतिधा प्रोक्तः केषु को दोष एव च।।३४।। ऋष्यशृङ्ग उवाच ।। कृतघ्नाः षोडशविधाः सामवेदे निरूपिताः ।। सर्वः प्रत्येकदोषेण प्रत्येकं फलमश्नुते ।। ३५ ।। कृते सत्ये च पुण्ये च स्वधर्मे तपसि स्थिते ।। प्रतिज्ञायां च दाने च स्वगोष्ठीपरिपालने ।। ३६ ।। गुरुकृत्ये देवकृत्ये काम्यकृत्ये द्विजार्चने ।। नित्यकृत्ये च विश्वासे परधर्मप्रदानयोः ।। ३७ ।। एतान्यो हन्ति पापिष्ठः स कृतघ्न इति स्मृतः ।। एतेषां सन्ति लोकाश्च तज्जन्म भिन्नयोनिषु ।। ३८ ।। यान्यांश्च नरकांस्ते च यान्ति राजेन्द्र पापिनः ।। ते ते च नरकाः सन्ति यमलोके सुनिश्चितम् ।।३९।। सुयज्ञ उवाच।। के किं कृत्वा कृतघ्नाश्च कांस्कान्गच्छन्ति रौरवान् ।। प्रत्येकं श्रोतुमिच्छामि वक्तुमर्हसि मे प्रभो।।।। 2.51.४० ।। कात्यायन उवाच ।। कृत्वा शपथरूपं च सत्यं हन्ति न पालयेत् ।। स कृतघ्नः कालसूत्रे वसेदेव चतुर्युगम् ।। ४१ ।। सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः ।। ततः शूद्रो महाव्याधिः सप्तजन्मस्वतः शुचिः ।। ४२ ।। श्रीसनन्दन उवाच ।। पुण्यं कृत्वा वदत्येव कीर्तिवर्द्धनहेतुना ।। स कृतघ्नस्तप्तसूर्म्यां वसत्येव युगत्रयम् ।। ४३ ।। पञ्चजन्मसु मण्डूकस्त्रिषु जन्मसु कर्कटः ।। तदा मूको महाव्याधिर्दरिद्रश्च ततः शुचिः ।। ४४ ।। सनातन उवाच ।। स्वधर्मं हन्ति यो विप्रः सन्ध्यात्रयविवर्जितः ।। अतर्पयंश्च यः स्नाति विष्णुनैवेद्यवर्जितः ।। ४५ ।। विष्णुपूजाविहीनश्च विष्णुमन्त्रविहीनकः ।। एकादशीविहीनः श्रीकृष्णजन्मदिने तदा ।।।। ४६ ।। शिवरात्रौ च यो भुङ्क्ते श्रीरामनवमीदिने ।। पितृकृत्यादिहीनो यः स कृतघ्र इति स्मृतः ।। ४७ ।। कुम्भीपाके वसत्येव यावदिन्द्राश्चतुर्दश ।। ततश्चाण्डालतां याति सप्तजन्मसु निश्चितम् ।। ४८ ।। शतजन्मनि गृध्रश्च शतजन्मनि सूकरः ।। ततो भवेद्ब्राह्मणश्च शूद्राणां सूपकारकः ।। ४९ ।। ततो भवेज्जन्म सप्त ब्राह्मणो वृषवाहकः ।। शूद्राणां शवदाही च भवेत्सप्तसु जन्मसु ।।।। 2.51.५० ।। द्विजो भूत्वा सप्तजनौ भारते वृषलीपतिः ।। भुक्त्वा स्वभोगलेशं च भ्रमित्वा याति रौरवम् ।। ५१ ।। पुनः पुनः पापयोनिं नरकं च पुनः पुनः ।। ततो भवेद्गर्दभश्च मार्जारः पञ्चजन्मसु ।। ५२ ।। पञ्चजन्मसु मण्डूको भवेच्छुद्धस्ततः क्रमात्।।५३।। सुयज्ञ उवाच ।। शूद्राणां सूपकरणे शूद्राणां शवदाहने ।। शूद्रान्नभोजने वाऽपि शूद्रस्त्रीगमनेऽपि च।।५४।। ब्राह्मणानां च को दोषो वृषाणां वाहने तथा ।। एतान्सर्वान्समालोच्य ब्रूहि मां निश्चयं मुने ।। ५५ ।। पराशर उवाच ।। शूद्राणां सूपकारश्च यो विप्रो ज्ञानदुर्बलः ।। असिपत्रे वसत्येव युगानामेकसप्ततिः ।। ५६ ।। ततो भवेद्गर्दभश्च मूषिकः सप्तजन्मसु।। तैलकीटस्सप्तजन्मस्वतः शुद्धो भवेन्नरः ।। ५७ ।। जरत्कारुरुवाच ।। भृत्यद्वारा स्वयं वाऽपि यो विप्रो वृषवाहकः ।। स कृतघ्न इति ख्यातः प्रसिद्धो भारते नृप ।। ५८ ।। ब्रह्महत्यासमं पापं तन्नित्यं वृषताडने ।। वृषपृष्ठे भारदानात्पापं तद्द्विगुणं भवेत ।। ५९ ।। सूर्य्यातपे वाहयेद्यः क्षुधितं तृष्टितं वृषम् ।। ब्रह्महत्याशतं पापं लभते नात्र संशयः ।। 2.51.६० ।। अन्नं विष्ठा जलं मूत्रं विप्राणां वृषवाहिनाम् ।। नाधिकारो भवेत्तेषां पितृदेवार्चने नृप ।।६१ ।। लालाकुण्डे वसत्येव यावच्चन्द्रदिवाकरौ ।। विष्ठाभक्ष्यं मूत्रजलं तत्र तस्य भवेद्ध्रुवम् ।। ६२ ।। त्रिसन्ध्यं ताडयेत्तं च शूलेन यमकिङ्करः ।। उल्कां ददाति मुखतः सूच्या कृन्तति सन्ततम् ।।६३।। षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ।। ततः काकः पञ्चजन्मस्वथैवं बक एव च ।। ६४ ।। पञ्चजन्मसु गृध्रश्च शृगालः सप्तजन्मसु ।। ततो दरिद्रः शूद्रश्च महाव्याधिस्ततः शुचिः ।। ६९ ।। भारद्वाज उवाच ।। शूद्राणां शवदाही यः स कृतघ्न इति स्मृतः ।। वयःप्रमाणां राजेन्द्र ब्रह्महत्यां लभेद्ध्रुवम् ।। ६६ ।। तत्तुल्ययोनिभ्रमणात्तत्तुल्यनरकाच्छुचिः ।। यो दोषो ब्राह्मणानां च शूद्राणां शवदाहने ।। ६७ ।। तावदेव भवेद्दोषः शूद्रश्राद्धान्नभोजने ।। ६८ ।। विभाण्डक उवाच ।। पितृश्राद्धे च शूद्राणां भुङ्क्ते यो ब्राह्मणोऽधमः।। सुरापीती ब्रह्मघाती पितृदेवार्चनाद्बहिः ।। ६९ ।। मार्कण्डेय उवाच ।। यो दोषो ब्राह्मणानां च शूद्रस्त्रीगमने नृप ।। अहं वक्ष्यामि वेदोक्तं सावधानं निशामय ।।2.51.७०।। कृतघ्नानां प्रधानश्च यो विप्रो वृषलीपतिः ।। कृमिदंष्ट्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश।।७१।। कृमिभक्ष्यो भवेद्विप्रो विह्वलो यमकिङ्करैः ।। प्रतिमां तां तप्तलौहीमाश्लेषयति नित्यशः ।। ७२ ।। ततश्च पुंश्चलीयोनौ कृमिर्भवति निश्चितम् ।। एवं वर्षसहस्रं च ततः शूद्रस्ततः शुचिः।।७३।। सुयज्ञ उवाच।। अन्येषां च कृतघ्नानां वद कर्मफलं मुने।। श्लाघ्यो मे ब्राह्मशापश्च कस्य सम्पद्विनाऽऽपदम् ।। ७४ ।। धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ।। आगतास्तु यतो मुक्ता मद्गेहे मुनयः सुराः ।। ७५ ।।

śrīpārvatyuvāca || kimūcurbrāhmaṇaṃ brahmanbrāhmaṇā brahmaṇaḥ sutāḥ || nītijñā nītivacanaṃ tanmāṃ vyākhyātumarhasi || 1 || śrīmahādeva uvāca || santoṣya taṃ brāhmaṇaṃ ca stavena vinayena ca || krameṇa vaktumārebhe munisaṃgho varānane || 2 || sanatkumāra uvāca || tvatpaścādāgatā lakṣmīḥ kīrttiḥ sattvaṃ yaśastathā || suśīlaṃ ca mahaiśvaryaṃ pitaro'gniḥ surāstathā || 3 || āgatā nṛpagehebhyaḥ kṛtvā bhraṣṭaśriyaṃ nṛpam || bhava tuṣṭo dvijaśreṣṭha cāśutoṣaśca vāḍavaḥ ||4|| brāhmaṇānāṃ tu hṛdayaṃ komalaṃ navanītavat || śuddhaṃ sunirmalaṃ caiva mārjitaṃ tapasā mune || 5 || kṣamasvāgaccha viprendra śuddhaṃ kuru nṛpālayam || āśiṣaṃ kuru tasmai tvaṃ pavitrapadareṇunā ||6|| bhṛguruvāca || atithiryasya bhagnāśo gṛhātpratinivarttate || pitarastasya devāśca vahniścaiva tathaiva ca || 7 || nirāśāḥ pratigacchanti cātitherapratigrahāt|| kṣamasvāgaccha viprendra śuddhaṃ kuru nṛpālayam || 8 || strīghnairgoghnaiḥ kṛtaghnaiśca brahmaghnairgurutalpagaiḥ || tulyadoṣo bhavatyetairyasyātithiranarcitaḥ || 9 || pulastya uvāca || paśyanti ye vakradṛṣṭyā cātithiṃ gṛhamāgatam || dattvā svapāpaṃ tasmai tatpuṇyamādāya gacchati || 2.51.10 || kṣamasva nṛpadoṣaṃ ca gaccha vatsa yathāsukham || rājā svakarmadoṣeṇa nottasthau tatkṣamāṃ kuru || 11 || pulaha uvāca || rājaśriyā vidyayā vā brāhmaṇaṃ yo'vamanyate || viprastrisandhyāhīno yaḥ śrīhīnaḥ kṣatriyo bhavet || 12 || ekādaśīvihīnaśca viṣṇunaivedyavañcitaḥ || kṣamasvāgaccha viprendra śuddhaṃ kuru nṛpālayam || 13 || kraturuvāca|| brāhmaṇaḥ kṣatriyo vā'pi vaiśyo vā śūdra eva ca|| dīkṣāhīno bhavetso'pi brāhmaṇaṃ yo'vamanyate||14|| dhanahīnaḥ putrahīno bhāryyāhīno bhaveddhruvam || kṣamasvāgaccha bhagavañchuddhaṃ kuru nṛpālayam || 15 || aṅgirā uvāca || jñānavānbrāhmaṇo bhūtvā brāhmaṇaṃ yo'vamanyate|| vṛṣavāho bhavetso'pi bhārate saptajanmasu||16|| marīciruvāca|| puṇyakṣetre bhārate ca devaṃ ca brāhmaṇaṃ gurum|| viṣṇubhaktivihīnaśca sa bhavedyo'vamanyate || 17 || kaśyapa uvāca || vaiṣṇavaṃ brāhmaṇaṃ dṛṣṭvā yo'satyamavamanyate || viṣṇumantravihīnaśca tatpūjāvirato bhavet ||18|| pracetā uvāca || atithiṃ brāhmaṇaṃ dṛṣṭvā nābhyutthānaṃ karoti yaḥ || pitṛbhaktivihīnassyātsa bhavedbhārate bhuvi||19|| prāpnoti kauñjarīṃ yoniṃ sa mūḍhaḥ saptajanmasu || śīghraṃ gaccha dvijaśreṣṭha rājñe dehyāśiṣaśśubhāḥ ||2.51.20|| durvāsā uvāca || guruṃ vā brāhmaṇaṃ vā'pi devatāpratimāmapi || dṛṣṭvā śīghraṃ na praṇametsa bhavetsūkaro bhuvi ||21|| mithyāsākṣī ca bhavati tathā viśvāsaghātakaḥ || kṣamasva sarvamasmākamātithyagrahaṇaṃ kuru || 22 || rājovāca || chalena kathito dharmo yuṣmābhirmunipuṅgavaiḥ || sarvaṃ kṛtvā ca vispaṣṭaṃ māṃ mūḍhaṃ bodhayantvaho || 23 || strīghnagoghnakṛtaghnānāṃ gurustrīgāmināṃ tathā || brahmaghnānāṃ ca ko doṣo brūta māṃ yogināṃ varāḥ || 24 || vasiṣṭha uvāca || kāmato govadhe rājanvarṣaṃ tīrthaṃ bhramennaraḥ || yavayāvakabhojī ca kareṇa ca jalaṃ pibet || 25 || tadā dhenuśataṃ divyaṃ brāhmaṇebhyaḥ sadakṣiṇam || dattvā muñcati pāpācca bhojayitvā śataṃ dvijān || 26 || prāyaścitte tu vai cīrṇe sarvapāpānna mucyate || pāpāvaśeṣādbhavati duḥkhī cāṇḍāla eva ca || 27 || ātideśikahatyāyāṃ tadardhaṃ phalamaśnute || prāyaścittānukalpena sarvapāpānna mucyate|||| 28 || śukra uvāca || gohatyādviguṇaṃ pāpaṃ strīhatyāyāṃ bhaveddhruvam || ṣaṣṭivarṣasahasrāṇi kālasūtre vaseddhruvam || 29 || tato bhavenmahāpāpī sūkaraḥ saptajanmasu || tato bhavati sarpaśca saptajanmanyataḥ śuciḥ || 2.51.30 || bṛhaspatiruvāca || strīhatyādviguṇaṃ pāpaṃ brahmahatyākṛto bhavet || lakṣavarṣaṃ mahāghore kumbhīpāke vaseddhruvam|| 33 || tato bhavenmahāpāpī viṣṭhākīṭaḥ śatābdakam|| tato bhavati sarpaśca saptajanmanyataḥ śuciḥ || 32 || gautama uvāca || doṣaḥ kṛtaghne rājendra brahmahatyācaturguṇaḥ || niṣkṛtirnāsti vedoktā kṛtaghnānāṃ ca niścitam || 33 || rājovāca || lakṣaṇaṃ ca kṛtaghnānāṃ vada vedavidāṃ vara || kṛtaghnaḥ katidhā proktaḥ keṣu ko doṣa eva ca||34|| ṛṣyaśṛṅga uvāca || kṛtaghnāḥ ṣoḍaśavidhāḥ sāmavede nirūpitāḥ || sarvaḥ pratyekadoṣeṇa pratyekaṃ phalamaśnute || 35 || kṛte satye ca puṇye ca svadharme tapasi sthite || pratijñāyāṃ ca dāne ca svagoṣṭhīparipālane || 36 || gurukṛtye devakṛtye kāmyakṛtye dvijārcane || nityakṛtye ca viśvāse paradharmapradānayoḥ || 37 || etānyo hanti pāpiṣṭhaḥ sa kṛtaghna iti smṛtaḥ || eteṣāṃ santi lokāśca tajjanma bhinnayoniṣu || 38 || yānyāṃśca narakāṃste ca yānti rājendra pāpinaḥ || te te ca narakāḥ santi yamaloke suniścitam ||39|| suyajña uvāca|| ke kiṃ kṛtvā kṛtaghnāśca kāṃskāngacchanti rauravān || pratyekaṃ śrotumicchāmi vaktumarhasi me prabho|||| 2.51.40 || kātyāyana uvāca || kṛtvā śapatharūpaṃ ca satyaṃ hanti na pālayet || sa kṛtaghnaḥ kālasūtre vasedeva caturyugam || 41 || saptajanmasu kākaśca saptajanmasu pecakaḥ || tataḥ śūdro mahāvyādhiḥ saptajanmasvataḥ śuciḥ || 42 || śrīsanandana uvāca || puṇyaṃ kṛtvā vadatyeva kīrtivarddhanahetunā || sa kṛtaghnastaptasūrmyāṃ vasatyeva yugatrayam || 43 || pañcajanmasu maṇḍūkastriṣu janmasu karkaṭaḥ || tadā mūko mahāvyādhirdaridraśca tataḥ śuciḥ || 44 || sanātana uvāca || svadharmaṃ hanti yo vipraḥ sandhyātrayavivarjitaḥ || atarpayaṃśca yaḥ snāti viṣṇunaivedyavarjitaḥ || 45 || viṣṇupūjāvihīnaśca viṣṇumantravihīnakaḥ || ekādaśīvihīnaḥ śrīkṛṣṇajanmadine tadā |||| 46 || śivarātrau ca yo bhuṅkte śrīrāmanavamīdine || pitṛkṛtyādihīno yaḥ sa kṛtaghra iti smṛtaḥ || 47 || kumbhīpāke vasatyeva yāvadindrāścaturdaśa || tataścāṇḍālatāṃ yāti saptajanmasu niścitam || 48 || śatajanmani gṛdhraśca śatajanmani sūkaraḥ || tato bhavedbrāhmaṇaśca śūdrāṇāṃ sūpakārakaḥ || 49 || tato bhavejjanma sapta brāhmaṇo vṛṣavāhakaḥ || śūdrāṇāṃ śavadāhī ca bhavetsaptasu janmasu |||| 2.51.50 || dvijo bhūtvā saptajanau bhārate vṛṣalīpatiḥ || bhuktvā svabhogaleśaṃ ca bhramitvā yāti rauravam || 51 || punaḥ punaḥ pāpayoniṃ narakaṃ ca punaḥ punaḥ || tato bhavedgardabhaśca mārjāraḥ pañcajanmasu || 52 || pañcajanmasu maṇḍūko bhavecchuddhastataḥ kramāt||53|| suyajña uvāca || śūdrāṇāṃ sūpakaraṇe śūdrāṇāṃ śavadāhane || śūdrānnabhojane vā'pi śūdrastrīgamane'pi ca||54|| brāhmaṇānāṃ ca ko doṣo vṛṣāṇāṃ vāhane tathā || etānsarvānsamālocya brūhi māṃ niścayaṃ mune || 55 || parāśara uvāca || śūdrāṇāṃ sūpakāraśca yo vipro jñānadurbalaḥ || asipatre vasatyeva yugānāmekasaptatiḥ || 56 || tato bhavedgardabhaśca mūṣikaḥ saptajanmasu|| tailakīṭassaptajanmasvataḥ śuddho bhavennaraḥ || 57 || jaratkāruruvāca || bhṛtyadvārā svayaṃ vā'pi yo vipro vṛṣavāhakaḥ || sa kṛtaghna iti khyātaḥ prasiddho bhārate nṛpa || 58 || brahmahatyāsamaṃ pāpaṃ tannityaṃ vṛṣatāḍane || vṛṣapṛṣṭhe bhāradānātpāpaṃ taddviguṇaṃ bhaveta || 59 || sūryyātape vāhayedyaḥ kṣudhitaṃ tṛṣṭitaṃ vṛṣam || brahmahatyāśataṃ pāpaṃ labhate nātra saṃśayaḥ || 2.51.60 || annaṃ viṣṭhā jalaṃ mūtraṃ viprāṇāṃ vṛṣavāhinām || nādhikāro bhavetteṣāṃ pitṛdevārcane nṛpa ||61 || lālākuṇḍe vasatyeva yāvaccandradivākarau || viṣṭhābhakṣyaṃ mūtrajalaṃ tatra tasya bhaveddhruvam || 62 || trisandhyaṃ tāḍayettaṃ ca śūlena yamakiṅkaraḥ || ulkāṃ dadāti mukhataḥ sūcyā kṛntati santatam ||63|| ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ ca kṛmirbhavet || tataḥ kākaḥ pañcajanmasvathaivaṃ baka eva ca || 64 || pañcajanmasu gṛdhraśca śṛgālaḥ saptajanmasu || tato daridraḥ śūdraśca mahāvyādhistataḥ śuciḥ || 69 || bhāradvāja uvāca || śūdrāṇāṃ śavadāhī yaḥ sa kṛtaghna iti smṛtaḥ || vayaḥpramāṇāṃ rājendra brahmahatyāṃ labheddhruvam || 66 || tattulyayonibhramaṇāttattulyanarakācchuciḥ || yo doṣo brāhmaṇānāṃ ca śūdrāṇāṃ śavadāhane || 67 || tāvadeva bhaveddoṣaḥ śūdraśrāddhānnabhojane || 68 || vibhāṇḍaka uvāca || pitṛśrāddhe ca śūdrāṇāṃ bhuṅkte yo brāhmaṇo'dhamaḥ|| surāpītī brahmaghātī pitṛdevārcanādbahiḥ || 69 || mārkaṇḍeya uvāca || yo doṣo brāhmaṇānāṃ ca śūdrastrīgamane nṛpa || ahaṃ vakṣyāmi vedoktaṃ sāvadhānaṃ niśāmaya ||2.51.70|| kṛtaghnānāṃ pradhānaśca yo vipro vṛṣalīpatiḥ || kṛmidaṃṣṭre vasetso'pi yāvadindrāścaturdaśa||71|| kṛmibhakṣyo bhavedvipro vihvalo yamakiṅkaraiḥ || pratimāṃ tāṃ taptalauhīmāśleṣayati nityaśaḥ || 72 || tataśca puṃścalīyonau kṛmirbhavati niścitam || evaṃ varṣasahasraṃ ca tataḥ śūdrastataḥ śuciḥ||73|| suyajña uvāca|| anyeṣāṃ ca kṛtaghnānāṃ vada karmaphalaṃ mune|| ślāghyo me brāhmaśāpaśca kasya sampadvinā''padam || 74 || dhanyo'haṃ kṛtakṛtyo'haṃ saphalaṃ jīvanaṃ mama || āgatāstu yato muktā madgehe munayaḥ surāḥ || 75 ||

English translation

Description of the sins and result there of as narrated by the Sages Parvatl said—O Brahman, the Brahmanas who were the sons of Brahma and were well-versed in polity what type of knowledge did they extend to the Brahmana on the polity. You kindly let me Mahadeva said-—O damsel, the sages pacified the Brahmana speaking to him in different ways.

Sanatkumara said— After you, LaksmI, glory, prowess, popularity, humility, immense riches, the manes and all the gods together with the god of fire, the royal grandeur also left the king. O best of the sages, now you be pleased because the Brahmanas are considered to be those who get pleased soon. O sage, the mind of the is soft like the butter and gets purified with the performing of continuous tapas and become spotless.

Therefore, O Brahmana, you kindly forgive and come to the place of the king dropping the dust of your feet there, purifying the same.

Thereafter you bless him.

Bhrgu said—^The one from whose house a mendicant returns disappointed, his manes, the gods and Agni, because of not honouring the guest, also depart in disappointment. Therefore, O Brahmana, you kindly forgive him and now reaching the abode of the king you purify it because the one in whose house the guest is not honoured, earns the sin of killing a woman, killing a cow, ungratefulness, Brahmahatyd and of committing sin with the wife of the Guru.

Pulastya said—The one who looks down upon a guest arriving at home, the same guest goes away cariying all his merits and dropping all his sins at the door of such a person.

Therefore, O son, you forgive the^ sin of the king. You move pleasantly as the king could not get up to welcome you because of the move of the destiny; therefore you forgive him.

Pulaha said— Such of the Ksatrlya or a Brahmana, who, because of the royal riches or the knowledge misbehaves with a Brahmana and does not extend due respect to him, such a Ks atriya is deprived of all the riches and the Brahmana is deprived of performing sandhyd all the three times. He is also deprived of the wata of Ekadas'l and is not considered fit for getting the naivedya of lord Visnu. Therefore, O Brahmana you kindly forgive him and purify the Rtu said—0 Brahmana, whosoever among Brahmanas, K§atrlyas, Vais'yas or ^udras insults a Brahmana, is deprived of diksS, becomes a pauper having no son, is ultimately deprived of his wife also. Therefore 0 lord, you forgive him and moving into the abode of the king you kindly purify it.

Ahgira said—In the sacred land of Bharata, whosoever insults the Brahmanas, gods and the teacher, is always deprived of the devotion of lord Visnu.

Marici said—In the sacred land of Bharata, whosoever insults the gods, the Brahmanas and the teacher, is deprived of the devotion of lord Kasyapa said—The one who laughs at a Vais nava Brahmana and also insults him, is deprived of the mantra of Visnu and his devotion.

Praceta said—On finding a Brahmana beggar who does not get up to welcome him, he is deprived of the devotion of his parents in the land of Bharata.

The foolish fellow is bom as an elephant for seven births. Therefore, O best of the Brahmapas, you move quickly and offer your blessing to the king.

Durvasa said—The one who does not bow in reverence while coming across the image of the teacher, Brahmana and gods, is reborn as a pig on earth and the one who indulges himself in giving false evidence, becomes a betrayer.

Therefore, you kindly forgive the sins of all of us and accept the welcome by the king.

The king said—All the sages here have followed Dharma deceitfully, therefore you enlighten me on the truth.

O best of the yogis, those, who indulge in the killing of women and cows, are ungrateful and by enjoying the company of the wife of a Guru also indulge in the killing of the Brahmana, what a type of sin is attracted by them. You kindly tell Vasistha said—O king, the one who intentionally kills the cow, such a person should go on a pilgrimage for a year and he should consume the pulp of barley and should consume water with hands only.

Thereafter he should offer the best of cows to the Brahmaiia, feed a hundred Brahmana give daksina. He is then relieved of his sin.

Even after repenting, he is not freed from the entire sin and because of this, he has to be bom and a Candala.

Thereafter the great sinner is bom as a pig for seven births and for another seven births he is bom as a serpent. He is purified thereafter.

earns double the sin of killing a woman by indulging in Brahmahatyd.

For this he has to remain for a lakh of years in Thereafter the condemned sinner is reborn as an insect of refuse for a hundred years and is further reborn as a snake for seven births, before he is purified.

Gautama said—O king, an ungrateful person attracts four time more the sin than Brahmahatyd and it is certain that the Vedas do not prescribe the redemption of an ungrateful person.

If one kills a cow at the instance of another, he earns half of the sin and he also cannot be relieved of all the sins, by performing acts of Sukra said—One earns double the sin of Gohatyd by killing a woman and for that he has to fall into the kdlasutra hell and remain there for The king said—O best of those well-versed in the Vedas, you kindly enlighten me on the symptoms of the ungrateful people, its different divisions and what type of sin is attracted by each one of them.

Rsyasrhga said—In the Sdmaveda sixteen types of ungrateful people have been listed. Each one has to suffer for the sin committed by him.

The one who performs good to others, is truthful, perfonns noble deed, is devoted to his Dharma, is truthful to the vow taken by him, performs charity, keeps up his words and the one who perfonns the task of his teacher, the task of the gods, perfonns good deeds, adore the Brahmanas, adores the lord daily, is always commendable but the one who creates obstruction in the performing of these noble deeds, is considered to be an ungrateful person.

The sinners get different abodes in the hell for committing different sins and have also to be O king, whichever hell is visited by the sinners, Yama is always found present there.

Suyajna said—O lord, by performing which deed one is termed as ungrateful and to which of the terrific hells he has to move. You kindly tell me, because I am quite anxious to know about Katayayana said—The one who is not tmthful after taking an oath and desecrates the same, such an ungrateful fellow falls into kdlasutra hell and remains there for four yugas, Thereafter for seven births he is bom as an owl and for seven births he is bom as a Siidra suffering from some ailment. He is redeemed Sanandana Said—The one who after performing the good deeds, piraises himself suclf an ungrateful person falls into the hell named TaptasQrmI and remains there for three Thereafter for five births he is bom as a frog, for three births he is bom as a crab, then he is bom as a dumb person suffering from grave ailment and a pauper. He is purified thereafter.

iihRiid R)buj2i^gieifSd:ii'!smi Sanatana said—Such of Brahmanas who does not perform the sandhya thrice and takes a bath without performing tarpana, discarding his dharma or eats without first offering the food to Visnu or neglects the devotion of Visnu, the mantra of Visnu, Ekddas'l-vrata or takes food on the birthday of Krsna, Sivaratri or RSmanavaml and does not perfonn the rites for the manes, is considered to be an ungrateful person.

Because of these sins, he remains in Kumbhlpaka hell up to the time equivalent to the life of fourteen Indras. Thereafter, he is bom as a vulture for a hundred times, as a pig for a hundred times and becomes a store-keeper of the Sudras thereafter. After that, he is bom for seven births as the one who loads weight on the bulls or yokes them to the plough. For further seven births he is reborn as a Brahmana burning the dead bodies of ^tidra and for further seven births he becomes a Brahmana having a Sudra woman as his wife. Thus he remains in the terrific hell till a fraction of the sins committed by him remains. He takes birth in the sinful way and again falls into the hell. Thereafter he is bom as an ass seven times and a frog five times before he is purified.

Siiyajna said—O sage, what type of sin is attracted by a person by becoming a store-keeper of the Sudras, by burning their dead bodies, by eating the food of the Sudras and by keeping company of the Sudra woman or a Brahmana becoming a weight-loader of the bulls? You kindly tell me everything in detail.

Parasara said—Because of the lack of knowledge a Brahmarta becomes a store-keeper of the Sudras. He falls in the Asipatra hell for Thereafter he becomes an ass, a mouse, an insect of oil for seven births before he is purified.

Jaratkam said— O Brahmana, the one who himself being a Brahmana engages himself in the loading of the bulls or yoking them to the plough, is known as an ungrateful person in the land of Bharata.

By maintainings the bull daily and beating it, one earns the sin of Brahmahatya and by loading the weight over the bull, one earns double the Thus the one who yokes lo the plough a hungry and thirsty bull in the summer, earns the sin of Brahmahatya. There is no doubt about it.

O Brahmana, the food of such a Brahmana who loads the bulls, is considered to be like the refuse and the water is like the urine. As such the sraddha and tarpana performed by such a Brahmana for the manes are not accepted by them. The gods also do not accept the flowers offered by him. A Branmana who willingly gives food to the driver of the bullock, is deprived of all the rites of the manes and the gods. He has to fall into the terrific hell and remains there till the moon and the sun last, consuming refuse and urine. The messengers of Yama torture him with tridents at the time of the three sandhyas. They thrust the burning wood into their mouths and prick their bodies continuously with needles.

Thereafter, he is bom as the insect of refuse for sixty thousand years. For five births he appears as a crow, skylark and a vulture. For seven births he has to be bom as a jackal. Thereafter he is bom as a pauper and a Sudra suffering from great ailment before he is purified.

Bharadvaja said—O best of the kings, the one who burnt the bodies of the Siidras, is called an I ungrateful person. He earns the sin of Brahmahatyd according to the appropriate time.

Thereafter, he wanders in similar forms and falls ultimately into the hell and is purified thereafter.

The sin which a Brahmana earns by burning the dead bodies of the Sudras, the same sin is earned i by him by taking food and drink with the Stldras.

Vibhandaka said—Such of the degraded Brahmana who takes food in the srdddha performed by the Sudra, is discarded for participating in noble deeds, like the drunkards sfhd the killers of the Brahmana.

Markandeya said—O king, the sin which a Brahmana earns by cohabiting with the wife of a the same is going to be defined by me.

You please listen to me attentively. The Brahmana who takes a ^Qdra woman as his wife, he is considered to be an ungrateful person and he has to remain in the Krmidaritsfra hell up to the period equivalent to the life of fourteen Indras. He is bitten by the insects there and the messengers of Yama torture him at the same time. He is made to embrace the daily burning image of the said woman. Thereafter he is bom as an insect of the vagina of the wicked woman.

He has to remain in that position for a thousand years before he is purified.

Suyajna said—O sage, you kindly enlighten me on the results of the deeds of other ungrateful ground, he falls into the SulapotCi hell because of that sin and remains there up to the period equivalent to the number of the particles of dust multiplied by one thousand. He has to consume the burning flames and the boiling urine sleeping on the burning bed of flames. The messengers of Yama torture him beside that.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 118691 (2017-08-30T02:35:34Z); Shanti Lal Nagar English scan pages n487–n494: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n487/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.