Prakṛti-khaṇḍa · Chapter 46
Sourceनारायण उवाच ।। पूजाविधानं स्तोत्रं च श्रूयतां मुनिपुंगव ।। ध्यानं च सामवेदोक्तं देवीपूजाविधानकम् ।। १ ।। श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।। वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ।।२।। महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम् ।। सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ।। ३ ।। इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् ।। नैवेद्यैर्विविधैर्दीपैः पुष्पैर्धूपानुलेपनैः ।। ४ ।। मूलमन्त्रश्च वेदोक्तो भक्तानां वाञ्छितप्रदः।। मूलकल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ।।५।। ॐ ह्रीं श्रीं क्रीं ऐं मनसादेव्यै स्वाहेति कीर्तितः ।। पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।। ६ ।। मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ।। सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ।। ७ ।। ब्रह्मन्नाषाढसंक्रान्त्यां गुडाशाखासु यत्नतः ।। आवाह्य देवीं मासान्तं पूजयेद्यो हि भक्तितः ।। ८ ।। पञ्चम्यां मानसाख्यायां देव्यै दद्याच्च यो बलिम् ।। धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद्ध्रुवम् ।। ९ ।। पूजाविधानं कथितं तदाख्यानं निशामय ।। कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ।। 2.46.१० ।। पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि ।। यान्यान्खादन्ति नागाश्च न ते जीवन्ति नारद ।। ११ ।। मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणाऽर्थितः ।। वेदबीजानुसारेण चोपदेशेन वेधसः ।।१ २।। मन्त्राधिष्ठातृदेवीं तां मानसां ससृजे ततः ।। तपसा मनसा तेन मानसा सा बभूव ह ।। १३ ।। कुमारी सा च संभूय चागमच्छङ्करालयम् ।। भक्त्या सम्पूज्य कैलासे तुष्टुवे चन्द्रशेखरम् ।। १४ ।। दिव्यं वर्षसहस्रं च तं सिषेवे मुनेः सुता ।। आशुतोषो महेशश्च तां च तुष्टो बभूव ह ।। १५ ।। महाज्ञानं ददौ तस्यै पाठयामास साम च ।। कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ।। १६ ।। लक्ष्मीमायाकामबीज ङेन्तं कृष्णपदं तथा ।। ॐ श्रीं ह्रीं क्लीं कृष्णाय ।। त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ।। १७ ।। स्तवनं सर्वपूज्यं च ध्यानं भुवनपावनम् ।। पुरश्चर्य्याक्रमं चापि वेदोक्तं सर्वसम्मतम् ।। १८ ।। प्राप्य मृत्युञ्जयाज्ज्ञानं परं मृत्युञ्जयं सती ।। जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया ।।१९।। त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ।। सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ।। 2.46.२० ।। दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः ।। पूजां च कारयामास चकार च हरिः स्वयम् ।। २१ ।। वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ।। वरं दत्त्वा च कल्याण्यै सद्यश्चान्तर्दधे विभुः ।। २२ ।। प्रथमे पूजिता सा च कृष्णेन परमात्मना ।। द्वितीये शङ्करेणैव कश्यपेन सुरेण च ।। २३ ।। मनुना मुनिना चैव ह्यहिना मानवादिना ।। बभूव पूजिता सा च त्रिषु लोकेषु सुश्रुता ।। २४ ।। जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ।। अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ।। २५ ।। कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ।। सुष्वाप देव्या जघने वटमूले च पुष्करे ।। २६ ।। निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ।। जगामास्तं दिनकरः सायंकाल उपस्थितः ।। २७ ।। संचिन्त्य मनसा तत्र मनसा च पतिव्रता ।। धर्म्मलोपभयेनैव चकारालोचनं सती ।। २८ ।। अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम्।। ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ।। २९ ।। नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।। स सर्वदाऽशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ।। 2.46.३० ।। वेदोक्तमिति संचिन्त्य बोधयामास तं मुनिम् ।। स च बुद्ध्वा मुनिश्रेष्ठस्तां चुकोप भृशं मुनिः ।। ३१ ।। जरत्कारुरुवाच ।। कथं मे सुव्रते साध्वि निद्राभङ्गः कृतस्त्वया ।। व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी ।।३२।। तपश्चानशनं चैव व्रतं दानादिकं च यत् ।। भर्तुरप्रियकारिण्याः सर्वं भवति निष्फलम् ।। ३३ ।। यया पतिः पूजितश्च श्रीकृष्णः पूजितस्तया ।। पतिव्रताव्रतार्थं च पतिरूपी हरिः स्वयम् ।। ३४ ।। सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम्।। सर्वं तपो व्रतं सर्वमुपवासादिकं च यत् ।। ३५ ।। सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम् ।। तत्सर्वं स्वामिसेवायाः कलां नार्हन्ति षोडशीम् ।। ३६ ।। सुपुण्ये भारते वर्षे पतिसेवा करोति या ।। वैकुण्ठं स्वामिना सार्द्धं सा याति ब्रह्मणः पदम् ।। ३७ ।। विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ।। असत्कुलप्रजाता या तत्फलं श्रूयतां सति ।।३८।। कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ ।। ततो भवति चाण्डाली पतिपुत्रविवर्जिता ।। ३९ ।। इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः ।। चकम्पे मनसा साध्वी भयेनोवा च तं पतिम् ।। 2.46.४० ।। मनसोवाच ।। सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव ।। कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत ।। ४१ ।। शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च ।। स व्रजेत्कालसूत्रं च स्वामिनश्च विशेषतः ।। ४२ ।। इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे ।। पपात भक्त्या भीता च रुरोद च पुनः पुनः ।। ४३ ।। कुपितं च मुनिं दृष्ट्वा श्रीसूर्य्यं शप्तुमुद्यतम् ।। तत्राजगाम भगवान्सन्ध्यया सह नारद ।। ४४ ।। तत्रागत्य मुनिश्रेष्ठमवोचद्भास्करः स्वयम् ।। विनयेन विनीतश्च तया सह यथोचितम् ।। ४५ ।। श्रीसूर्य्य उवाच ।। सूर्य्यास्तसमयं दृष्ट्वा धर्मलोपभयेन च ।। त्वां बोधयामास विप्र नाहमस्तं गतस्तदा ।। ४६ ।। क्षमस्व भगवन्ब्रह्मन्मां शप्तुं नोचितं मुने ।। ब्राह्मणानां च हृदयं नवनीतसमं सदा ।।४७।। तेषां क्षणार्द्धं क्रोधश्च ततो भस्म भवेज्जगत् ।। पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः ।। ४८ ।। ब्रह्मणो वंशसम्भूतः प्रज्वलन्ब्रह्मतेजसा ।। श्रीकृष्णं भावयेन्नित्यं ब्रह्म ज्योतिः सनातनम् ।। ४९ ।। सूर्य्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह ।। सूर्य्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् ।।2.46.५०।। तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ।। रुदन्तीं शोकयुक्तां च हृदयेन विदूयता ।। ५१ ।। सा सस्मार गुरुं शम्भुमिष्टदेवं हरिं विधिम् ।। कश्यपं जन्मदातारं विपत्तौ भयकर्शिता ।। ५२ ।। तत्राजगाम भगवान्गोपीशः शम्भुरेव च ।। विधिश्च कश्यपश्चैव मनसा परिचिन्तयन् ।। ५३ ।। स च दृष्ट्वाऽभीष्टदेवं निगुणे प्रकृतेः परम् ।। तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ।। ९४ ।। नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा ।। कथमागमनं त्वत्रेत्येवं प्रश्नं चकार सः ।। ५५ ।। ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम्।। तमुवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ।। ५६ ।। यदि त्यक्ता धर्मपत्नी धर्मिष्ठा मनसा सती ।। कुरुष्वास्यां सुतोत्पत्तिं धर्मसंस्थापनाय वै ।। ५७ ।। यतिर्वा ब्रह्मचारी वा भिक्षुर्वनचरोऽपि वा ।। जायाया च सुतोत्पत्तिं कृत्वा पश्चाद्भवेन्मुनिः ।।५८।। अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् ।। स्रवेत्तपस्तत्पुण्यं च चालिन्यां च यथा जलम् ।।५९।। ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः ।। चक्रे तन्नाभिसंस्पर्शं योगाद्वै मन्त्रपूर्वकम् ।। 2.46.६० ।। तस्यै शुभाशिषं दत्त्वा ययुर्देवा मुदाऽन्विताः ।। मुदाऽन्विता च मनसा जरत्कारुर्मुदाऽन्वितः ।। ६१ ।। मुनेः करस्पर्शमात्रात्सद्यो गर्भो बभूव ह।। मनसा या मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् ।।६२।। जरत्कारुरुवाच ।। गर्भेणानेन मनसे तव पुत्रो भविष्यति।। जितेन्द्रियाणां प्रवरो धर्मिष्ठो वैष्णवाग्रणीः।।६३।। तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ।। वरो वेदविदां चैव योगिनां ज्ञानिनां तथा।।६४।। स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत् ।। नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा ।। ६५ ।। पतिव्रता सुशीला या सप्रिया प्रियवादिनी ।। धर्मिष्ठा पुत्रमाता च कुलजा कुलपालिका ।। ६६ ।। हरिभक्तिप्रदो बन्धुस्तदिष्टं यत्सुखप्रदम् ।। यो बन्धच्छित्स च पिता हरेर्वर्त्मप्रदर्शकः ।। ६७ ।। सा गर्भधारिणी या च गर्भवासविमोचिनी ।। विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ।। ६८ ।। गुरुश्च ज्ञानदाता च तज्ज्ञानं कृष्णभावनम् ।। आब्रह्मस्तम्बपर्य्यन्तं यतो विश्वं चराचरम् ।। ६९ ।। आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः ।। वेदजं योगजं यद्यत्तत्सारं हरिसेवनम् ।। 2.46.७० ।। तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् ।। दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ।। ७१ ।। ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः ।। विष्णुभक्तियुतं ज्ञानं यो ददाति स वै गुरुः ।। ७२ ।। स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् ।। जननीगर्भजात्क्लेशाद्यमताडनजात्तथा ।। ७३ ।। न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः ।। परमानन्दरूपं च कृष्णमार्गमनश्वरम् ।। ७४ ।। न दर्शयेद्यः स कथं कीदृशो बान्धवो नृणाम् ।। भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम् ।। निर्मूलं च पुराकर्म भवेद्यत्सेवया ध्रुवम् ।। ७५ ।। मया छलेन त्वं त्यक्ता दोषं मे क्षम्यतां प्रिये ।। क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते।। ७६ ।। पुष्करे तपसे यामि गच्छ देवि यथासुखम् ।। श्रीकृष्णचरणाम्भोजे ध्यानविच्छेदकातरः ।।७७।। धनादिषु स्त्रियां प्रीतिः प्रवृत्तिपथगामिनाम् ।। श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः ।। ७८ ।। जरत्कारुवचः श्रुत्वा मनसा शोककातरा ।। सा साश्रुनेत्रा विनयादुवाच प्राणवल्लभम् ।। ७९ ।। मनसोवाच ।। दोषेणाहं त्वया त्यक्ता निद्राभङ्गेन ते प्रभो ।। यत्र स्मरामि त्वां बन्धो तत्र मामागमिष्यसि।।2.46.८०।। बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परः ।। प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः ।।८१।। पतिः पतिव्रतानां च शतपुत्राधिकः प्रियः ।। सर्वस्माच्च प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः।।८२।। पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ।। नेत्रे यथैकनेत्राणां तृषितानां यथा जले ।।८३।। क्षुधितानां यथाऽन्ने च कामुकानां यथा स्त्रियाम्।। यथा परस्वे चौराणां यथा जारे कुयोषिताम्।। ।। ८४ ।। विदुषां च यथा शास्त्रे वणिज्ये वणिजां यथा ।। तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ।। ८५ ।। इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ।। क्षणं चकार क्रोडे तां कृपया च कृपानिधिः ।।८६ ।। नेत्रोदकेन मनसां स्नापयामास तां मुनिः ।। साऽश्रुणा च मुनेः क्रोडं सिषेवे भेदकातरा ।।८७।। तदा ज्ञानेन तौ द्वौ च विशोकौ च बभूवतुः ।। स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ।। ८८ ।। जगाम तपसे विप्रः स कान्तां सुप्रबोध्य च ।। जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः ।। ८९ ।। पार्वती बोधयामास मनसां शोककर्शिताम् ।। शिवश्चातीव बोधेन शिवेन च शिवालये।। 2.46.९० ।। सुप्रशस्ते दिने साध्वी सुषुवे मङ्गले क्षणे।। नारायणांशं पुत्रं च ज्ञानिनां योगिनां गुरुम् ।। ९१ ।। गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः ।। स बभूव महायोगी योगिनां ज्ञानिनां गुरुः ।। ९२ ।। जातकं कारयामास वाचयामास मंगलम् ।। वेदांश्च पाठयामास शिवाय च शिवः शिशोः ।। ९३ ।। रत्नत्रिकोटिलक्षं च ब्राह्मणेभ्यो ददौ शिवः ।। पार्वती च गवां लक्षं रत्नानि विविधानि च ।। ९४ ।। शम्भुश्च चतुरो वेदान्वेदांगानितरांस्तथा ।। बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ।। ९५ ।। भक्तिरस्ति स्वकान्ते चाभीष्टे देवे हरौ गुरौ।। यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च ।। ९६ ।। जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया ।। संप्राप्य च महामन्त्रं तपश्च परमात्मनः ।। ९७ ।। दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ।। आजगाम महायोगी नमस्कर्तुं शिवं प्रभुम् ।। ९८ ।। शंकरं च नमस्कृत्य पुरः कृत्वा च बालकम् ।। सा चाजगाम मनसा कश्यपस्याश्रमं पितुः ।।९९।। तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ।। शतलक्षं च रत्नानां ब्राह्मणेभ्यो ददौ मुने ।। 2.46.१०० ।। ब्राह्मणान्भोजयामास त्वसंख्याञ्छ्रेयसे शिशोः ।। अदितिश्च दितिश्चान्या मुदं प्रापुः परं तथा ।। १०१ ।। सा सपुत्रा च सुचिरं तस्थौ तातालये तदा ।। तदीयं पुनराख्यानं वक्ष्ये त्वं तन्निशामय ।। १०२ ।। अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ।। बभूव सहसा ब्रह्मन्दैवदोषेण कर्मणा ।। १०३ ।। सप्ताहे समतीते तु तक्षकस्त्वां च दंक्ष्यति ।। शशाप शृङ्गी कौशिक्या जलं संस्पृश्य चेति सः ।। १०४ ।। राजा श्रुत्वा तत्प्रवृत्तिं गंगाद्वारं जगाम सः ।। तत्र तस्थौ च सप्ताहं शुश्रुवे धर्मसंहिताम् ।। १०५ ।। सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ।। धन्वन्तरिर्मोचयितुमपश्यद्गन्तुको नृपम् ।। १०६ ।। तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ।। धन्वन्तरेर्मणिं श्रेष्ठं तक्षकः स्वेच्छया ददौ ।। १०७ ।। स ययौ तं गृहीत्वा तु तुष्टसंहृष्ट मानसः ।। अपश्यत्तक्षकस्तूर्णं नृपं मञ्चकसंस्थितम् ।।१ ०८ ।। राजा जगाम वैकुण्ठं स्मारं स्मारं हरि गुरुम् ।। संस्कारं कारयामास पितुर्वै जनमेजयः।।१ ०९।। राजा चकार यज्ञं च सर्पसत्राभिधं मुने ।। प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ।।2.46.११०।। स तक्षकश्च भीतश्च महेन्द्रं शरणं ययौ ।। सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ।। १११ ।। अथ देवाश्च मुनयश्चाययुर्मनसान्तिकम् ।। तां तुष्टाव महेन्द्रश्च समक्षं भयकातरः ।।१ १२।। तत्र आस्तीक आगत्य मातुर्यज्ञमथाज्ञया ।। महेन्द्रतक्षकप्राणान्ययाचे भूमिपं वरम्।। ।। ११३ ।। ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ।। यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा ।। ११४ ।। विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ।। मनसां पूजयामासुस्तुष्टुवुश्च पृथक्पृथक् ।।१ १५।। शक्रः संभृतसंभारो भक्तियुक्तः सदा शुचिः ।। मनसां पूजयामास तुष्टाव परमादरात् ।। १ १६।। उपचारः षोडशभिर्बलिं दत्त्वा प्रियं तदा ।। प्रददौ परितुष्टश्च ब्रह्मविष्णुसुराज्ञया।। ।।१ १७।। संपूज्य मनसादेवीं प्रययुः स्वालयं च ते ।। इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।। ११८ ।। नारद उवाच ।। केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ।। पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ।। ११९ ।। नारायण उवाच ।। सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ।। रत्नसिंहासने देवीं वासयामास भक्तितः ।। 2.46.१२० ।। स्वर्गगङ्गाजलेनैव रत्नकुम्भ स्थितेन च ।। स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ।। १२१ ।। वाससी वासयामास वह्निशुद्धे मनोरमे ।। सर्वांगे चन्दनं लिप्त्वा पाद्यार्घ्यं भक्तिसंयुतः ।। १२२ ।। गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।। संपूज्य देवषट्कं च पूजयामास तां सतीम् ।। ।। १२३ ।। ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः ।। दशाक्षरेण मन्त्रेण ददौ सर्वान्यथोचितम् ।। १२४ ।। उपचारान्षोडशकान्भक्तितो दुर्लभान्हरिः ।। पूजयामास भक्त्या च ब्रह्मणा प्रेरितो मुदा ।। १२५ ।। वाद्यं नानाप्रकारं च वादयामास तत्र वै ।। बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ।। १२६ ।। देवो विप्राज्ञया तत्र ब्रह्मविष्णुशिवाज्ञया ।। तुष्टाव साश्रुनेत्रश्च पुलकाञ्चित विग्रहः ।। ३२७ ।। महेन्द्र उवाच ।। देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् ।। परात्परां च परमां नहि स्तोतुं क्षमो ऽधुना ।। १२८ ।। स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् ।। न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ।। १२९ ।। शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता।। न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ।। त्वं मया पूजिता साध्वि जननी च यथाऽदितिः ।। ।। 2.46.१३० ।। दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ।। त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि ।। १३१ ।। अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्द्धते ।। नित्यं यद्यापि पूज्या त्वं भवेऽत्र जगदम्बिके ।। १३२ ।। तथाऽपि तव पूजां वै वर्द्धयामि पुनः पुनः ।। ये त्वामाषाढसंक्रान्त्यां पूजयिष्यन्ति भक्तितः ।।१३३।। पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ।। पुत्रपौत्रादयस्तेषां वर्द्धन्ते च धनानि च ।। १३४ ।। यशस्विनः कीर्त्तिमन्तो विद्यावन्तो गुणान्विताः ।। ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ।। ।। १३५ ।। लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ।। त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमला कला ।। १३६।। नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः ।। तपसा तेजसा त्वां च मनसा ससृजे पिता ।।१३७।। अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ।। मनसा देवितुं शक्ता चात्मना सिद्धयोगिनी ।। १३८ ।। तेन त्वं मनसादेवी पूजिता वन्दिता भवे ।। यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ।। १३९ ।। तेन त्वां मनसादेवीं प्रवदन्ति पुराविदः ।। सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया ।। 2.46.१४० ।। यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ।। इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीं च ताम् ।। १४१ ।। निर्जगाम स्वभवनं भूषावासपरिच्छदाम् ।। पुत्रेण सार्द्धं सा देवी चिरं तस्थौ पितुर्गृहे ।।१४२।। भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः ।। गोलोकात्सुरभी ब्रह्मंस्तत्रागत्य सुपूजिताम् ।। १४३ ।। तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ।। ज्ञानस्य कथयामास स्वरूपं सर्वदुर्लभम् ।। तदा देवैः पूजिता सा स्वर्गलोकं पुनर्ययौ ।।१४४।। इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् ।। तस्य नागभयं नास्ति तस्य वंशे भवेच्च यः ।। १४५ ।। विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ।। पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।।१४६।। सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ।। १४७ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मनसोपाख्याने तदुत्पत्तिपूजास्तोत्रादिकथनं नाम षट्चत्वारिंशत्तमोऽध्यायः ।। ४६ ।।
nārāyaṇa uvāca || pūjāvidhānaṃ stotraṃ ca śrūyatāṃ munipuṃgava || dhyānaṃ ca sāmavedoktaṃ devīpūjāvidhānakam || 1 || śvetacampakavarṇābhāṃ ratnabhūṣaṇabhūṣitām || vahniśuddhāṃśukādhānāṃ nāgayajñopavītinīm ||2|| mahājñānayutāṃ caiva pravarāṃ jñānināṃ satām || siddhādhiṣṭhātṛdevīṃ ca siddhāṃ siddhipradāṃ bhaje || 3 || iti dhyātvā ca tāṃ devīṃ mūlenaiva prapūjayet || naivedyairvividhairdīpaiḥ puṣpairdhūpānulepanaiḥ || 4 || mūlamantraśca vedokto bhaktānāṃ vāñchitapradaḥ|| mūlakalpatarurnāma susiddho dvādaśākṣaraḥ ||5|| oṃ hrīṃ śrīṃ krīṃ aiṃ manasādevyai svāheti kīrtitaḥ || pañcalakṣajapenaiva mantrasiddhirbhavennṛṇām || 6 || mantrasiddhirbhavedyasya sa siddho jagatītale || sudhāsamaṃ viṣaṃ tasya dhanvantarisamo bhavet || 7 || brahmannāṣāḍhasaṃkrāntyāṃ guḍāśākhāsu yatnataḥ || āvāhya devīṃ māsāntaṃ pūjayedyo hi bhaktitaḥ || 8 || pañcamyāṃ mānasākhyāyāṃ devyai dadyācca yo balim || dhanavānputravāṃścaiva kīrtimānsa bhaveddhruvam || 9 || pūjāvidhānaṃ kathitaṃ tadākhyānaṃ niśāmaya || kathayāmi mahābhāga yacchrutaṃ dharmavaktrataḥ || 2.46.10 || purā nāgabhayākrāntā babhūvurmānavā bhuvi || yānyānkhādanti nāgāśca na te jīvanti nārada || 11 || mantrāṃśca sasṛje bhītaḥ kaśyapo brahmaṇā'rthitaḥ || vedabījānusāreṇa copadeśena vedhasaḥ ||1 2|| mantrādhiṣṭhātṛdevīṃ tāṃ mānasāṃ sasṛje tataḥ || tapasā manasā tena mānasā sā babhūva ha || 13 || kumārī sā ca saṃbhūya cāgamacchaṅkarālayam || bhaktyā sampūjya kailāse tuṣṭuve candraśekharam || 14 || divyaṃ varṣasahasraṃ ca taṃ siṣeve muneḥ sutā || āśutoṣo maheśaśca tāṃ ca tuṣṭo babhūva ha || 15 || mahājñānaṃ dadau tasyai pāṭhayāmāsa sāma ca || kṛṣṇamantraṃ kalpataruṃ dadāvaṣṭākṣaraṃ mune || 16 || lakṣmīmāyākāmabīja ṅentaṃ kṛṣṇapadaṃ tathā || oṃ śrīṃ hrīṃ klīṃ kṛṣṇāya || trailokyamaṅgalaṃ nāma kavacaṃ pūjanakramam || 17 || stavanaṃ sarvapūjyaṃ ca dhyānaṃ bhuvanapāvanam || puraścaryyākramaṃ cāpi vedoktaṃ sarvasammatam || 18 || prāpya mṛtyuñjayājjñānaṃ paraṃ mṛtyuñjayaṃ satī || jagāma tapase sādhvī puṣkaraṃ śaṅkarājñayā ||19|| triyugaṃ ca tapastaptvā kṛṣṇasya paramātmanaḥ || siddhā babhūva sā devī dadarśa purataḥ prabhum || 2.46.20 || dṛṣṭvā kṛśāṅgīṃ bālāṃ ca kṛpayā ca kṛpānidhiḥ || pūjāṃ ca kārayāmāsa cakāra ca hariḥ svayam || 21 || varaṃ ca pradadau tasyai pūjitā tvaṃ bhave bhava || varaṃ dattvā ca kalyāṇyai sadyaścāntardadhe vibhuḥ || 22 || prathame pūjitā sā ca kṛṣṇena paramātmanā || dvitīye śaṅkareṇaiva kaśyapena sureṇa ca || 23 || manunā muninā caiva hyahinā mānavādinā || babhūva pūjitā sā ca triṣu lokeṣu suśrutā || 24 || jaratkārumunīndrāya kaśyapastāṃ dadau purā || ayācito muniśreṣṭho jagrāha brāhmaṇājñayā || 25 || kṛtvodvāhaṃ mahāyogī viśrāntastapasā ciram || suṣvāpa devyā jaghane vaṭamūle ca puṣkare || 26 || nidrāṃ jagāma sa muniḥ smṛtvā nidreśamīśvaram || jagāmāstaṃ dinakaraḥ sāyaṃkāla upasthitaḥ || 27 || saṃcintya manasā tatra manasā ca pativratā || dharmmalopabhayenaiva cakārālocanaṃ satī || 28 || akṛtvā paścimāṃ sandhyāṃ nityāṃ caiva dvijanmanām|| brahmahatyādikaṃ pāpaṃ labhiṣyati patirmama || 29 || nopatiṣṭhati yaḥ pūrvāṃ nopāste yaśca paścimām || sa sarvadā'śucirnityaṃ brahmahatyādikaṃ labhet || 2.46.30 || vedoktamiti saṃcintya bodhayāmāsa taṃ munim || sa ca buddhvā muniśreṣṭhastāṃ cukopa bhṛśaṃ muniḥ || 31 || jaratkāruruvāca || kathaṃ me suvrate sādhvi nidrābhaṅgaḥ kṛtastvayā || vyarthaṃ vratādikaṃ tasyā yā bharttuścāpakāriṇī ||32|| tapaścānaśanaṃ caiva vrataṃ dānādikaṃ ca yat || bharturapriyakāriṇyāḥ sarvaṃ bhavati niṣphalam || 33 || yayā patiḥ pūjitaśca śrīkṛṣṇaḥ pūjitastayā || pativratāvratārthaṃ ca patirūpī hariḥ svayam || 34 || sarvadānaṃ sarvayajñaḥ sarvatīrthaniṣevaṇam|| sarvaṃ tapo vrataṃ sarvamupavāsādikaṃ ca yat || 35 || sarvadharmaśca satyaṃ ca sarvadevaprapūjanam || tatsarvaṃ svāmisevāyāḥ kalāṃ nārhanti ṣoḍaśīm || 36 || supuṇye bhārate varṣe patisevā karoti yā || vaikuṇṭhaṃ svāminā sārddhaṃ sā yāti brahmaṇaḥ padam || 37 || vipriyaṃ kurute bharturvipriyaṃ vadati priyam || asatkulaprajātā yā tatphalaṃ śrūyatāṃ sati ||38|| kumbhīpākaṃ vrajetsā ca yāvaccandradivākarau || tato bhavati cāṇḍālī patiputravivarjitā || 39 || ityuktvā ca muniśreṣṭho babhūva sphuritādharaḥ || cakampe manasā sādhvī bhayenovā ca taṃ patim || 2.46.40 || manasovāca || sandhyālopabhayenaiva nidrābhaṅgaḥ kṛtastava || kuru śāntiṃ mahābhāga duṣṭāyā mama suvrata || 41 || śṛṅgārāhāranidrāṇāṃ yaśca bhaṅgaṃ karoti ca || sa vrajetkālasūtraṃ ca svāminaśca viśeṣataḥ || 42 || ityuktvā manasā devī svāminaścaraṇāmbuje || papāta bhaktyā bhītā ca ruroda ca punaḥ punaḥ || 43 || kupitaṃ ca muniṃ dṛṣṭvā śrīsūryyaṃ śaptumudyatam || tatrājagāma bhagavānsandhyayā saha nārada || 44 || tatrāgatya muniśreṣṭhamavocadbhāskaraḥ svayam || vinayena vinītaśca tayā saha yathocitam || 45 || śrīsūryya uvāca || sūryyāstasamayaṃ dṛṣṭvā dharmalopabhayena ca || tvāṃ bodhayāmāsa vipra nāhamastaṃ gatastadā || 46 || kṣamasva bhagavanbrahmanmāṃ śaptuṃ nocitaṃ mune || brāhmaṇānāṃ ca hṛdayaṃ navanītasamaṃ sadā ||47|| teṣāṃ kṣaṇārddhaṃ krodhaśca tato bhasma bhavejjagat || punaḥ sraṣṭuṃ dvijaḥ śakto na tejasvī dvijātparaḥ || 48 || brahmaṇo vaṃśasambhūtaḥ prajvalanbrahmatejasā || śrīkṛṣṇaṃ bhāvayennityaṃ brahma jyotiḥ sanātanam || 49 || sūryyasya vacanaṃ śrutvā dvijastuṣṭo babhūva ha || sūryyo jagāma svasthānaṃ gṛhītvā brāhmaṇāśiṣam ||2.46.50|| tatyāja manasāṃ vipraḥ pratijñāpālanāya ca || rudantīṃ śokayuktāṃ ca hṛdayena vidūyatā || 51 || sā sasmāra guruṃ śambhumiṣṭadevaṃ hariṃ vidhim || kaśyapaṃ janmadātāraṃ vipattau bhayakarśitā || 52 || tatrājagāma bhagavāngopīśaḥ śambhureva ca || vidhiśca kaśyapaścaiva manasā paricintayan || 53 || sa ca dṛṣṭvā'bhīṣṭadevaṃ niguṇe prakṛteḥ param || tuṣṭāva parayā bhaktyā praṇanāma muhurmuhuḥ || 94 || namaścakāra śambhuṃ ca brahmāṇaṃ kaśyapaṃ tathā || kathamāgamanaṃ tvatretyevaṃ praśnaṃ cakāra saḥ || 55 || brahmā tadvacanaṃ śrutvā sahasā samayocitam|| tamuvāca namaskṛtya hṛṣīkeśapadāmbujam || 56 || yadi tyaktā dharmapatnī dharmiṣṭhā manasā satī || kuruṣvāsyāṃ sutotpattiṃ dharmasaṃsthāpanāya vai || 57 || yatirvā brahmacārī vā bhikṣurvanacaro'pi vā || jāyāyā ca sutotpattiṃ kṛtvā paścādbhavenmuniḥ ||58|| akṛtvā tu sutotpattiṃ virāgī yastyajetpriyām || sravettapastatpuṇyaṃ ca cālinyāṃ ca yathā jalam ||59|| brahmaṇo vacanaṃ śrutvā jaratkārurmunīśvaraḥ || cakre tannābhisaṃsparśaṃ yogādvai mantrapūrvakam || 2.46.60 || tasyai śubhāśiṣaṃ dattvā yayurdevā mudā'nvitāḥ || mudā'nvitā ca manasā jaratkārurmudā'nvitaḥ || 61 || muneḥ karasparśamātrātsadyo garbho babhūva ha|| manasā yā muniśreṣṭha muniśreṣṭha uvāca tām ||62|| jaratkāruruvāca || garbheṇānena manase tava putro bhaviṣyati|| jitendriyāṇāṃ pravaro dharmiṣṭho vaiṣṇavāgraṇīḥ||63|| tejasvī ca tapasvī ca yaśasvī ca guṇānvitaḥ || varo vedavidāṃ caiva yogināṃ jñānināṃ tathā||64|| sa ca putro viṣṇubhakto dhārmikaḥ kulamuddharet || nṛtyanti pitaraḥ sarve janmamātreṇa vai mudā || 65 || pativratā suśīlā yā sapriyā priyavādinī || dharmiṣṭhā putramātā ca kulajā kulapālikā || 66 || haribhaktiprado bandhustadiṣṭaṃ yatsukhapradam || yo bandhacchitsa ca pitā harervartmapradarśakaḥ || 67 || sā garbhadhāriṇī yā ca garbhavāsavimocinī || viṣṇumantrapradātā ca sa gururviṣṇubhaktidaḥ || 68 || guruśca jñānadātā ca tajjñānaṃ kṛṣṇabhāvanam || ābrahmastambaparyyantaṃ yato viśvaṃ carācaram || 69 || āvirbhūtaṃ tirobhūtaṃ kiṃ vā jñānaṃ tadanyataḥ || vedajaṃ yogajaṃ yadyattatsāraṃ harisevanam || 2.46.70 || tattvānāṃ sārabhūtaṃ ca hareranyadviḍambanam || dattaṃ jñānaṃ mayā tubhyaṃ sa svāmī jñānado hi yaḥ || 71 || jñānātpramucyate bandhātsa ripuryo hi bandhadaḥ || viṣṇubhaktiyutaṃ jñānaṃ yo dadāti sa vai guruḥ || 72 || sa ripuḥ śiṣyaghātī ca yato bandhānna mocayet || jananīgarbhajātkleśādyamatāḍanajāttathā || 73 || na mocayedyaḥ sa kathaṃ gurustāto hi bāndhavaḥ || paramānandarūpaṃ ca kṛṣṇamārgamanaśvaram || 74 || na darśayedyaḥ sa kathaṃ kīdṛśo bāndhavo nṛṇām || bhaja sādhvi paraṃ brahmācyutaṃ kṛṣṇaṃ ca nirguṇam || nirmūlaṃ ca purākarma bhavedyatsevayā dhruvam || 75 || mayā chalena tvaṃ tyaktā doṣaṃ me kṣamyatāṃ priye || kṣamāyutānāṃ sādhvīnāṃ sattvātkrodho na vidyate|| 76 || puṣkare tapase yāmi gaccha devi yathāsukham || śrīkṛṣṇacaraṇāmbhoje dhyānavicchedakātaraḥ ||77|| dhanādiṣu striyāṃ prītiḥ pravṛttipathagāminām || śrīkṛṣṇacaraṇāmbhoje niḥspṛhāṇāṃ manorathāḥ || 78 || jaratkāruvacaḥ śrutvā manasā śokakātarā || sā sāśrunetrā vinayāduvāca prāṇavallabham || 79 || manasovāca || doṣeṇāhaṃ tvayā tyaktā nidrābhaṅgena te prabho || yatra smarāmi tvāṃ bandho tatra māmāgamiṣyasi||2.46.80|| bandhubhedaḥ kleśatamaḥ putrabhedastataḥ paraḥ || prāṇeśabhedaḥ prāṇānāṃ vicchedātsarvataḥ paraḥ ||81|| patiḥ pativratānāṃ ca śataputrādhikaḥ priyaḥ || sarvasmācca priyaḥ strīṇāṃ priyastenocyate budhaiḥ||82|| putre yathaikaputrāṇāṃ vaiṣṇavānāṃ yathā harau || netre yathaikanetrāṇāṃ tṛṣitānāṃ yathā jale ||83|| kṣudhitānāṃ yathā'nne ca kāmukānāṃ yathā striyām|| yathā parasve caurāṇāṃ yathā jāre kuyoṣitām|| || 84 || viduṣāṃ ca yathā śāstre vaṇijye vaṇijāṃ yathā || tathā śaśvanmanaḥ kānte sādhvīnāṃ yoṣitāṃ prabho || 85 || ityuktvā manasā devī papāta svāminaḥ pade || kṣaṇaṃ cakāra kroḍe tāṃ kṛpayā ca kṛpānidhiḥ ||86 || netrodakena manasāṃ snāpayāmāsa tāṃ muniḥ || sā'śruṇā ca muneḥ kroḍaṃ siṣeve bhedakātarā ||87|| tadā jñānena tau dvau ca viśokau ca babhūvatuḥ || smāraṃ smāraṃ padāmbhojaṃ kṛṣṇasya paramātmanaḥ || 88 || jagāma tapase vipraḥ sa kāntāṃ suprabodhya ca || jagāma manasā śambhoḥ kailāsaṃ mandiraṃ guroḥ || 89 || pārvatī bodhayāmāsa manasāṃ śokakarśitām || śivaścātīva bodhena śivena ca śivālaye|| 2.46.90 || supraśaste dine sādhvī suṣuve maṅgale kṣaṇe|| nārāyaṇāṃśaṃ putraṃ ca jñānināṃ yogināṃ gurum || 91 || garbhasthito mahājñānaṃ śrutvā śaṅkaravaktrataḥ || sa babhūva mahāyogī yogināṃ jñānināṃ guruḥ || 92 || jātakaṃ kārayāmāsa vācayāmāsa maṃgalam || vedāṃśca pāṭhayāmāsa śivāya ca śivaḥ śiśoḥ || 93 || ratnatrikoṭilakṣaṃ ca brāhmaṇebhyo dadau śivaḥ || pārvatī ca gavāṃ lakṣaṃ ratnāni vividhāni ca || 94 || śambhuśca caturo vedānvedāṃgānitarāṃstathā || bālakaṃ pāṭhayāmāsa jñānaṃ mṛtyuñjayaṃ param || 95 || bhaktirasti svakānte cābhīṣṭe deve harau gurau|| yasyāstena ca tatputro babhūvāstīka eva ca || 96 || jagāma tapase viṣṇoḥ puṣkaraṃ śaṅkarājñayā || saṃprāpya ca mahāmantraṃ tapaśca paramātmanaḥ || 97 || divyaṃ varṣatrilakṣaṃ ca tapastaptvā tapodhanaḥ || ājagāma mahāyogī namaskartuṃ śivaṃ prabhum || 98 || śaṃkaraṃ ca namaskṛtya puraḥ kṛtvā ca bālakam || sā cājagāma manasā kaśyapasyāśramaṃ pituḥ ||99|| tāṃ saputrāṃ sutāṃ dṛṣṭvā mudaṃ prāpa prajāpatiḥ || śatalakṣaṃ ca ratnānāṃ brāhmaṇebhyo dadau mune || 2.46.100 || brāhmaṇānbhojayāmāsa tvasaṃkhyāñchreyase śiśoḥ || aditiśca ditiścānyā mudaṃ prāpuḥ paraṃ tathā || 101 || sā saputrā ca suciraṃ tasthau tātālaye tadā || tadīyaṃ punarākhyānaṃ vakṣye tvaṃ tanniśāmaya || 102 || athābhimanyutanaye brahmaśāpaḥ parīkṣite || babhūva sahasā brahmandaivadoṣeṇa karmaṇā || 103 || saptāhe samatīte tu takṣakastvāṃ ca daṃkṣyati || śaśāpa śṛṅgī kauśikyā jalaṃ saṃspṛśya ceti saḥ || 104 || rājā śrutvā tatpravṛttiṃ gaṃgādvāraṃ jagāma saḥ || tatra tasthau ca saptāhaṃ śuśruve dharmasaṃhitām || 105 || saptāhe samatīte tu gacchantaṃ takṣakaṃ pathi || dhanvantarirmocayitumapaśyadgantuko nṛpam || 106 || tayorbabhūva saṃvādaḥ suprītiśca parasparam || dhanvantarermaṇiṃ śreṣṭhaṃ takṣakaḥ svecchayā dadau || 107 || sa yayau taṃ gṛhītvā tu tuṣṭasaṃhṛṣṭa mānasaḥ || apaśyattakṣakastūrṇaṃ nṛpaṃ mañcakasaṃsthitam ||1 08 || rājā jagāma vaikuṇṭhaṃ smāraṃ smāraṃ hari gurum || saṃskāraṃ kārayāmāsa piturvai janamejayaḥ||1 09|| rājā cakāra yajñaṃ ca sarpasatrābhidhaṃ mune || prāṇāṃstatyāja sarpāṇāṃ samūho brahmatejasā ||2.46.110|| sa takṣakaśca bhītaśca mahendraṃ śaraṇaṃ yayau || sendraṃ ca takṣakaṃ hantuṃ vipravargaḥ samudyataḥ || 111 || atha devāśca munayaścāyayurmanasāntikam || tāṃ tuṣṭāva mahendraśca samakṣaṃ bhayakātaraḥ ||1 12|| tatra āstīka āgatya māturyajñamathājñayā || mahendratakṣakaprāṇānyayāce bhūmipaṃ varam|| || 113 || dadau varaṃ nṛpaśreṣṭhaḥ kṛpayā brāhmaṇājñayā || yajñaṃ samāpya viprebhyo dakṣiṇāṃ ca dadau mudā || 114 || viprāśca munayo devā gatvā ca manasāntikam || manasāṃ pūjayāmāsustuṣṭuvuśca pṛthakpṛthak ||1 15|| śakraḥ saṃbhṛtasaṃbhāro bhaktiyuktaḥ sadā śuciḥ || manasāṃ pūjayāmāsa tuṣṭāva paramādarāt || 1 16|| upacāraḥ ṣoḍaśabhirbaliṃ dattvā priyaṃ tadā || pradadau parituṣṭaśca brahmaviṣṇusurājñayā|| ||1 17|| saṃpūjya manasādevīṃ prayayuḥ svālayaṃ ca te || ityevaṃ kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotumicchasi || 118 || nārada uvāca || kena stotreṇa tuṣṭāva mahendro manasāṃ satīm || pūjāvidhikramaṃ tasyāḥ śrotumicchāmi tattvataḥ || 119 || nārāyaṇa uvāca || susnātaḥ śucirācānto dhṛtvā dhaute ca vāsasī || ratnasiṃhāsane devīṃ vāsayāmāsa bhaktitaḥ || 2.46.120 || svargagaṅgājalenaiva ratnakumbha sthitena ca || snāpayāmāsa manasāṃ mahendro vedamantrataḥ || 121 || vāsasī vāsayāmāsa vahniśuddhe manorame || sarvāṃge candanaṃ liptvā pādyārghyaṃ bhaktisaṃyutaḥ || 122 || gaṇeśaṃ ca dineśaṃ ca vahniṃ viṣṇuṃ śivaṃ śivām || saṃpūjya devaṣaṭkaṃ ca pūjayāmāsa tāṃ satīm || || 123 || oṃ hrīṃ śrīṃ manasādevyai svāhetyevaṃ ca mantrataḥ || daśākṣareṇa mantreṇa dadau sarvānyathocitam || 124 || upacārānṣoḍaśakānbhaktito durlabhānhariḥ || pūjayāmāsa bhaktyā ca brahmaṇā prerito mudā || 125 || vādyaṃ nānāprakāraṃ ca vādayāmāsa tatra vai || babhūva puṣpavṛṣṭiśca nabhaso manasopari || 126 || devo viprājñayā tatra brahmaviṣṇuśivājñayā || tuṣṭāva sāśrunetraśca pulakāñcita vigrahaḥ || 327 || mahendra uvāca || devi tvāṃ stotumicchāmi sādhvīnāṃ pravarāṃ varām || parātparāṃ ca paramāṃ nahi stotuṃ kṣamo 'dhunā || 128 || stotrāṇāṃ lakṣaṇaṃ vede svabhāvākhyānataḥ param || na kṣamaḥ prakṛtiṃ vaktuṃ guṇānāṃ tava suvrate || 129 || śuddhasattvasvarūpā tvaṃ kopahiṃsāvivarjitā|| na ca śapto munistena tyaktayā ca tvayā yataḥ || tvaṃ mayā pūjitā sādhvi jananī ca yathā'ditiḥ || || 2.46.130 || dayārūpā ca bhaginī kṣamārūpā yathā prasūḥ || tvayā me rakṣitāḥ prāṇāḥ putradārāḥ sureśvari || 131 || ahaṃ karomi tvāṃ pūjyāṃ mama prītiśca varddhate || nityaṃ yadyāpi pūjyā tvaṃ bhave'tra jagadambike || 132 || tathā'pi tava pūjāṃ vai varddhayāmi punaḥ punaḥ || ye tvāmāṣāḍhasaṃkrāntyāṃ pūjayiṣyanti bhaktitaḥ ||133|| pañcamyāṃ manasākhyāyāṃ māsānte vā dine dine || putrapautrādayasteṣāṃ varddhante ca dhanāni ca || 134 || yaśasvinaḥ kīrttimanto vidyāvanto guṇānvitāḥ || ye tvāṃ na pūjayiṣyanti nindantyajñānato janāḥ || || 135 || lakṣmīhīnā bhaviṣyanti teṣāṃ nāgabhayaṃ sadā || tvaṃ svargalakṣmīḥ svarge ca vaikuṇṭhe kamalā kalā || 136|| nārāyaṇāṃśo bhagavāñjaratkārurmunīśvaraḥ || tapasā tejasā tvāṃ ca manasā sasṛje pitā ||137|| asmākaṃ rakṣaṇāyaiva tena tvaṃ manasābhidhā || manasā devituṃ śaktā cātmanā siddhayoginī || 138 || tena tvaṃ manasādevī pūjitā vanditā bhave || yāṃ bhaktyā manasā devāḥ pūjayantyaniśaṃ bhṛśam || 139 || tena tvāṃ manasādevīṃ pravadanti purāvidaḥ || sattvarūpā ca devī tvaṃ śaśvatsattvaniṣevayā || 2.46.140 || yo hi yadbhāvayennityaṃ śataṃ prāpnoti tatsamam || indraśca manasāṃ stutvā gṛhītvā bhaginīṃ ca tām || 141 || nirjagāma svabhavanaṃ bhūṣāvāsaparicchadām || putreṇa sārddhaṃ sā devī ciraṃ tasthau piturgṛhe ||142|| bhrātṛbhiḥ pūjitā śaśvanmānyā vandyā ca sarvataḥ || golokātsurabhī brahmaṃstatrāgatya supūjitām || 143 || tāṃ snāpayitvā kṣīreṇa pūjayāmāsa sādaram || jñānasya kathayāmāsa svarūpaṃ sarvadurlabham || tadā devaiḥ pūjitā sā svargalokaṃ punaryayau ||144|| idaṃ stotraṃ puṇyabījaṃ tāṃ saṃpūjya ca yaḥ paṭhet || tasya nāgabhayaṃ nāsti tasya vaṃśe bhavecca yaḥ || 145 || viṣaṃ bhavetsudhātulyaṃ siddhastotraṃ yadā paṭhet || pañcalakṣajapenaiva siddhastotro bhavennaraḥ ||146|| sarpaśāyī bhavetso'pi niścitaṃ sarpavāhanaḥ || 147 || iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvāde manasopākhyāne tadutpattipūjāstotrādikathanaṃ nāma ṣaṭcatvāriṃśattamo'dhyāyaḥ || 46 ||
English translation
The stotra of Manasa Devi Narayana said—O best among the sages, now I tell you the method of her adoration and the stotra as prescribed in the Samaveda besides the dhyana. You listen to it attentively.
She has the complexion of white campaka flowers; is adored with all the oniaments studded with gems, clad in the garments purified by the gold of fire. She wears the yajnopavUa of the Nagas, possesses immense wisdom and is the best among the intellectuals. She is the chief goddess of the siddhas, she is the form of siddhi and grants success to all. I adore such a goddess.
One should adore the goddess reciting the basic mantra. One should offer naivedya, lamp, flowers, essence, paste of sandal-wood and then adore her.
Kalpatani is the root of the basic mantra which bestows success on the devotees according to the provision of the Vedas. It grants success and her mantra comprises of twelve By reciting this mantra for five lakhs of times, one meets with success.
And the one who achieves siddhi, he is termed as the siddha in the universe. For him his wish turns as a nectar and he equates himself with O Brahman, on the first day of the month of Asadha one should invoke the goddess Manasa in the branch of a cotton plant and should adore her with devotion. On the fifth day of the moon, one who makes the offering to the goddess Manasadevi receives immense riches, sons and great glory. There is no doubt about it.
O sage, I have thus apprised you of the method of adoration of the goddess. Now I speak out to you the story about her, which I had heard from Dharma. Please listen to it.
O Narada, in the earlier times the people of earth were feeling half dead because of the danger from the serpents. This was because such of the people as were bitten by the snakes could Thereafter at the instance of Brahma, the terrified Kasyapa composed mantras which were based on the Vedas.
Then by performing tapas they pleased the goddess Manasa who is considered to be the supreme goddess of the mantras. This is the reason why she was given the name of Manasa.
After her birth, the goddess Manasa immediately went to Kailasa, the abode of lord Siva and started adoring lord Siva having the crescent over his head.
The daughter of the sage performed tapas for Siva for a thousand divine years. Thereafter Asutosa Siva was pleased with her.
O sage, imparting to her immense knowledge, he made her study the Samaveda. He also gave to her the eight-lettered mantra of lord Krsna.
The mantra was formed with Laksmi, Maya, Kama as the seed and with the adding of the fourth form and Krsiia. The mantra was read as if M Its kavaca, the sequence of adoration and the stuti which is recited by all, the dhyanam which purifies the universe and the anusthanam besides ahydnam purifies the universe and bestows the knowledge of over¬ powering death. The chaste goddess achieved the knowledge of over powering the death. With the permission of the lord, she went to the Puskara- Icsetra for performing tapas.
She performed tapas for lord Krsna for three yugas. At the time of achieving success, she found the lord before her physically present, Thereafter, the compassionate lord, made the goddess Manasa, who had become free, lean and thin, adore him and he himself also adored her.
He then pronounced a boon on her thus, “You will be adored the world over”. Thus blessing her with a boon, lord Krsna disappeared.}^ Thus she was adored by lord Krsna first of all.
Thereafter Siva did so, followed by Kasyapa and the other gods besides Manu, the sages, the serpents and human beings. Thus the chaste goddess was adored in the three worlds.
In the earlier times Kasyapa had handed her over to Jaratkaru, though the sage never desired for her, but he had to accept her because of the command of the Brahma.
After the marriage Jaratkaru the great yogi thought of having a respite from the prolonged tapas. With the above purpose in view, he lay down under the shade of a banyan tree placing his head on the thigh of the chaste lady and slept Thereafter, thinking about the lord who is the lord of sleep as well, he went to sleep and remained in that position till the evening.
At that point of time, the chaste Manasa variously considered in her mind about the passage of time and the decrease of dharma, thus, “In case my husband is unable to perform the daily sandhya in the evening, he would earn the sin of Brahmahatyd.
Because, the one who does not perform sandhya in the morning and evening regularly, he becomes impure and attracts Brahmahatya and other sins.
yRi'rii wtsraranr rt igf^i She ccmsidered all these aspects in the background of the Vedas and she therefore made the sage to wake up but when awake the sage was immensely enraged.
Jaratkaru said—O chaste lady, why did you disturb my sleep? The lady who indulges in the evil of her husband, all her tapas and vratas become infructuous.
Similarly the wife who does wrong to her husband, all her tapas, fasting, vratas, charities and all the noble deeds become infructuous.
Because whosoever adores her husband it amounts to adoring lord Krsna; thus for the performing of the vratas of the chaste lady, the lord Krsna himself appears in the form of her Therefore all the charities, the yajhas, visiting of the holy places, performing of all types of tapas, vratas, fasting, the religious practices, truthfulness, adoration of all the gods, all these combined do not weigh even the sixteenth ray as compared to the adoration of the husband.
Therefore in the sacred land of Bharata, a lady who serves her husband goes to Vaikuntha and Bmhmaloka with her husband.
A wife who does not belong to the high family, always engages herself in causing harm to her husband, speaking harsh words. The sufferings she has to face are being told by me.
You listen to it.
Because of that sin she falls into the Kumbhlpaka hell and is ultimately bom as a Candela woman having no husband or son.
While thus speaking, the lips of the sage were fluttering. At the sight of her husband the chaste goddess trembled in fear and spoke to him, Manasa said—O great saint, O noble one, I woke you up because the time for performing sandhya was running out. Therefore, you award peace to a wicked person like me.
Because the one who disturbs in the make up of the body or while taking up food and sleep, he falls into the kdlasutra hell and by committing the same sin as the husband, one gets the same Thus speaking, feeling panicky with her mind filled with devotion, she fell at the feet of her husband and started crying.
O Narada, realising that the enraged ascetic was about to pronounce a curse on SUrya, the sun god himself arrived there together with sandhyd. \ Reaching there the sun god together with I sandhyd, bowed in reverence to the sage and started speaking to him with humility.
Surya said—Finding the time of sunset and to save you from earning the sin for not performing sandhyd, Manasa woke you up. I had not set at that point of time. Therefore, O lord, O Brahman,: O sage, you kindly forgive her. It is not proper I on your part also to pronounce a curse on me | because the minds of the Brahmanas are always If he gets enraged, he can reduce the entire universe to ashes in a moment and he can also re¬ create the same. This is because there is no one else, possessing more tejas than the Brahmana.
Therefore having been bom in the race of Brahmana and illumining with the tejas of Brahman, a Brahmana should always adore lord Krsna who happens to be the divine flame.
On hearing the words of the sun god, the Brahmana was pleased and he returned to his abode after receiving the blessing of the sage.
But the Brahmana in order to honour his own words, disowned the chaste goddess Manasa who had been crying with mental agony.
Thereafter, she remembered his teacher Siva, the family god Visnu and BrahmS besides her father Kasyapa at that hour of misfortune.
At the instance of Manasa, Krsna the lord of Gopis, Siva, Brahma and Kasyapa arrived there.
The Brahmana also started adoring the lord who was invisible and beyond Prakrti, with his mind filled with devotion and offered salutation to him again and again.
He also offered his salutation to Siva, BrahmE and Kasyapa and said; “O gods what for have you arrived her”?
On hearing his words, Brahma bowed at the lotus-like feet of Krsna and said. “Since you have disowned the chaste wife ManasS therefore you must implant your seed in her for the birth of Because all the yogis, Brahmacdris, Sathnydsis, forest dwellers or sages become recluses only after bearing out a child from their wives. In case a recluse disowns his wife without producing a child, all his performances like tapas and other noble deeds become infructuous as the water poured in a sieve disappears in no time.
virtuous, best and best among those well-versed in the Vedas, the yogis and people with wisdom.
The son would be a great devotee of lord Vi§ nu besides being extremely religious and shall redeem the entire race. With the birth of the child all the manes will dance with ecstasy.
Because a chaste lady is always loved by the husband, speaking sweet words. A devoted mother belonging to the noble race is the one who maintains the race.
The sage Jaratkaru then listened to the words of Brahma and reciting the mantras touched the navel of Manasa.
The gods also then left the place pronouncing their blessings on the couple. The goddess Manasa was then immensely pleased together with Jaratkaru. O best of the sages, with the touch of the sage, Manasa conceived and the sage said to her.
A true brother is the one who bestows the best of the pleasures. A true father is the one who is instrumental in the destruction of the deeds and leads towards the path of lord Krsna.
Only such a lady bearing the child in her womb could maintain the pregnancy pretty well.
A compassionate sister is the one, who relieves one of the fear of Yama.
A true teacher is the one, who bestows the mantra of Visnu besides the devotion of the lord.
A teacher is the one, who bestows knowledge and the knowledge is the one which inculcates the love for lord Krsna.
Jaratkaru said—O Manasa, with this conception, a son would be bom to you who would be self disciplined, the bejst of the people, devoted to dharma, the forembst of the Vais navas, glorious one, a great tapasvl, full of lustre.
Therefore the essence of the Vedas and the yogic practices happens to be that one should adore the lord this is also the essence of all the tattvas and whatever is there except lord Hari, is illusion only.
Because the space between the earth and the Brahmaloka is filled with the creatures created by the lord and they merge into the same lord.
What more knowledge can be expected of him?
Thus I have imparted to you the divine knowledge. The husband is one who bestows the knowledge, because by possessing the knowledge one is freed from all the fetters and one could be called an enemy who entangles one into the fetters.
Therefore such a BrShmana who does not impart knowledge with the devotion of lord Vis pu, indeed happens to be a destroyer of the pupil because he is unable to free the pupil from the Therefore the one who cannot relieve a pupil from re-entering the womb of the mother and the sufferings, such a teacher, a father or a brother, is considered to be of no consequence.
The one who cannot lead another to the infallible path of lord Krsna, such a human relative is of no consequence.
O chaste lady, you recite the name of lord Krs na who is the supreme Brahman, infallible and devoid of guijas and by adoring him all the deeds of the past births disappear. O dear, I have disowned you deceitfully, therefore I beg forgiveness. Forgiveness is the prime quality of the chaste lady, as such ladies do not get O goddess I am proceeding to Puskara for performing tapas. You also go pleasantly from this place, because I am feeling disturbed for not reciting the name of lord Krspa.
Engrossed in the household affairs the women devote their minds towards their sons and the riches besides thinking of welfare of their husband. Let us devote ourselves at the lotus-like feet of lord Krsna.” On hearing these words of JaratkSru, the eyes of goddess Manasa were filled with tears and she spoke to his beloved the humble words.
Manasa said—O lord I have disturbed your sleep and because of this, you have disowned me. But, O best of my relatives, you give me a word that you will reach me, whenever I remember you.
The separation from a relative it quite painful and the separation from a son is more painful but the separation of a woman from her husband is much more painful and is like the departing of the soul from the body.
For the chaste lady, the husband is dearer to her than hundreds of her sons. Thus the husband is extremely dear to the ladies and as such the intellectuals call the husband to be the dearest of the woman.
As a person is devoted to his son, the Vais navas are devoted to the lord, the one-eyed man is devoted to his eye, the thirsty man thinks of water only, the hungry man thinks of food only, the passionate person thinks of woman only and the thief about the stealing of the riches of others, the unchaste woman thinks of the other man only, the intellectuals are devoted to the study of scriptures and the traders are devoted to the commerce, similarly the mind of a chaste lady is always devoted to her husband.
rranr gnt m f5w w Thus speaking, the goddess Manasa fell at the feet of her husband Jaratkaru. The mind of the merciful sage was filled with compassion and in a moment he lifted her up in his lap.
And made her body bathe with the flow of the; tears from his eyes. Manasa too made Jaratkaru to bathe with the tears flowing from her eyes j keeping in view the separation from the husband.
But, suddenly over-powered with the divine thought, both of them were relieved of the grief and they started reciting the name of lord Krsna again and again.
Jaratkaru then imparted the divine knowledge to his wife and proceeded for performing tapas, Manasa too proceeded towards the abode of Siva at Kailasa who happens to be her teacher as well.
Reaching the temple of Siva, Parvatl enlightened Manasa with divine knowledge and removed her grief. Siva also did so to remove her grief. The chaste lady then gave birth to a son on an auspicious day, who was born of the ray of Narayana and happened to be the teacher of all the yogis.
In fact he had listened to the divine knowledge imparted by lord Siva, while he was still in the womb. This made him the teacher of the yogis and the intellectuals.
Siva himself perfonned all the rites at the birth of the child besides the reciting of the Vedas.
Siva gave away at the same time three crores of gems to the Brahmanas while Parvatl gave aw^ay a lakh of cows in charity besides many gems.
As the time passed, Siva himself imparted the knowledge of the Vedas to the boy besides the knowledge of Mrtyunjaya mantra.
Manasa on the other hand was extremely devoted to her husband, the family god, Visnu and the teacher. As such, her son was given the name of Astika. At the command of lord Siva receiving the great mantra from him, he went to Puskara-ksetra to perform tapas for lord Visnu.
The great ascetic performed tapas there for three lakhs of years, after which he returned to Kailasa to bow in reverence to Siva and his Manasa went with the child to lord Siva and bowed before him. The mother Manasa then accompanied with her son went to her father O sage, Prajapati Kasyapa, finding his daughter there before him together with her son, was extremely pleased and delightfully he gave a hundred lakh of gems in charity to the BrShmana. A number of Brahmanas were fed by Kas'yapa for the welfare of the child. Both Diti and Aditi besides others, were also delighted at the sight of the boy.
Thus the goddess Manasa stayed in the parents' house for a long time with her son; now I tell you the story about the place also; you please listen to it.
O Brahman, after that the king ParTksit son of Abhimanyu was cursed by a Brahmana as a move of destiny, that “on the seventh day from today the serpent Taksaka will bite you.” This curse was pronounced by the sage Snigl holding the water of the river KausikI in his hand.
On hearing that curse, the king at once proceeded to Haridvara and remaining there, he perfonned the recitation of Srltnad Bhdgavata Purdna which he listened to for a week.
After the completion of the seventh day, Tak§ aka was spotted by Dhanvantari who was going to the king in order to remove the effect of the poison. Both of them had a pleasant conversation. As a result of this Taksaka willingly handed over his gem to Dhanvantari who after receiving the same returned to his home. Taksaka on the other hand reached the court of the king who was sitting on a high throne. The serpent Tak$aka bit him.
The king reciting the name of NarSyana and his teacher went to Vaikuntha. Janamejaya, the son of Parlksita cremated the body of his father.
O sage, Janamejaya then started the serpent yajna and started dropping the serpents as.
offerings in \hQ yajnakiinda, The terrified Taksaka fled the scene and went to Indra the god of gods to take refuge with him.
On coming to know that the Brahmana intended to make the offering of Taksaka as well as Indra in the yajm-kimda.
The god and the sages went to the goddess I Manasa. Struck with terror Indrq offered his prayer to the goddess Manasa quite humbly.
When the goddess was pleased, she deputed Astrka to go to the king and beg for the lives of Taksaka and Indra.
offering various articles of pujd and prayers to her. Making sixteen types of offerings, Indra, with the command of the Brahmana and the gods, offered her many presents.
After adoring the goddess Manasa, the gods proceeded to their respective abodes. I have now narrate everything to you; what more do you want listen to from me?
Narada said—By reciting which mantra and stotra, Indra adored goddess Manasa and what is the method of her adoration, I would like to know the whole secret of it.
Narayana said—Mahendra properly took his bath purifying his body. Sipping dcamana he clad himself in two garments, he then placed the goddess on a gem-studded throne.
With the permission of the Br^manas, the best of the kings granted them the boon, delightfully ending the yajna giving away daks ind to the Brahmana.
Thereafter the sages, the gods and the Brahmanas went to goddess Manasa and adored her offering separate prayers to her. Indra adored the goddess with his mind filled with devotion, few Rarwf He consecrated the vases of sacred Gahga-jala made of gems and made the goddess to bathe with the reciting of Vedic hymns. He then offered beautiful costumes to her which were purified by the god Agni applying the sandal- paste on her body. With his mind filled with utmost devotion he offered pddya and arghya to the goddess, besides adoring Ganesa, Stirya, Agni, Visnu, Siva and Durga. He then recited the mantra H'lyl which comprises of ten letters, made over to her with other offerings. Thereafter at the instance of Brahma, Indra with his mind filled with delight made sixteen types of offerings to her. Several of the musical instruments were played upon. There was a shower of flowers from the sky over the
goddess Manasa. Mahendra then with the permission of the Brahmanas, Brahma, Visnu and Siva offered prayers to the goddess with his mind filled with emotion and tears flowing from his eyes.
Mahendra said—O goddess, I went to offer prayers to you who happens to be the best of the goddesses, best of the chaste women, beyond everything, best of all. I am unable to offer prayers to you. O chaste lady, your virtues and the stotras are contained in the Vedas. Your story is enshrined theirin which cannot be recited even by Prakrti.
q gq rf qg rf S ^ qRr;i You are absolutely pure and free from anger, violence and faults. Though the sage has disowned you, yet you never pronounced a curse on him, after his so doing. O chaste lady, I adore you like Aditi my own mother. O goddess you are a compassionate sister and are pardonable like the mother. You have earlier saved our lives, besides those of our sons and wives. Therefore, O mother of the universe, I adore you. I am getting more and more devoted towards you.
Though you are adorable in the universe always yet I go on increasing your worship daily. Thus on the first day of Asadha whosoever adores you with devotion on the day of Manasa-PancamI or will adore you daily will always have an increase in his riches. Besides, he will earn popularity, glory, intelligence and virtues. Such of the people as will not adore you out of ignorance, will be denounced by others and will be deprived of the riches; they will also be infested with the danger of serpents.
You are the Lak§ml of the heaven and KamalS of Vaikuntha. The sage Jaratkaru happens to be the ray of lord Vispu.
Brahma, our father had created you by perfomiing tapas. Because of this you have been given the, name of Manasa. You are a Siddhayoginl and adorable by heart. Therefore, you have been given the name of Manasa and people adore you accordingly.
You are the goddess who is adored with devotion by the gods, that is why you have been given the name of Manasa by the ancient people.
Because you lead the path of sattva you are called the form of sattva. Thus whosoever offers you anything with devotion, gets it back multiplied by hundred times.
Indra thus adored Manasa, his sister, who also offered him clothes and ornaments and then left for his abode. The goddess then left the place and retreated to the house of her father and remained there for long.
She is always adored by her brother; no other goddess is so adorable. O Brahman, Surabhl took her to Golokci and made her bathe in milk adoring her at the same time, imparting to her the divine knowledge which is difficult to get. Thus having been adored by the gods, the goddess Manasa left for heaven.
Whosoever recites this stotra adoring the goddess Manasa never meets with the danger from serpents. Not only that, no one from his future generation ever meets any danger from the serpents. When recites her stotra achieving its siddhi, the poison is turned into a nectar for him.
The one who recites this mantra five lakhs of times, he meets with success. Thereafter he can surely subjugate the serpent and can even make the serpent his vehicle.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 118524 (2017-08-29T02:52:22Z); Shanti Lal Nagar English scan pages n457–n469: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n457/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.