Prakṛti-khaṇḍa · Chapter 42
Sourceनारायण उवाच ।। उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् ।। वक्ष्यामि दक्षिणाख्यानं सावधानं निशामय ।।१।। गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः ।। राधाप्रधाना सध्रीची धन्या मान्या मनोहरा ।। अतीव सुन्दरी रामा सुभगा सुदती सती ।।२।। विद्यावती गुणवती सती रूपवती तथा ।। कलावती कोमलांगी कान्ता कमललोचना ।। ३ ।। सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डला ।। ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता ।। ४ ।। श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना ।। कामशास्त्रसुनिष्णाता कामिनी कलहंसगा ।। ५ ।। भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी ।। रसज्ञा रसिका रासे रासेशस्य रसोत्सुका ।। ६ ।। उवास दक्षिणे क्रोडे राधायाः पुरतः पुरा ।। संबभूवानम्रमुखो भयेन मधुसूदनः ।। ७।। दृष्ट्वा राधां च पुरतो गोपीनां प्रवरां वराम्।। मानिनीं रक्तवदनां रक्तपङ्कजलोचनाम् ।। ८ ।। कोपेन कम्पिताङ्गी च कोपनां कोपदर्शनाम् ।। कोपेन निष्ठुरं वक्तुमुद्यतां स्फुरिताधराम् ।।९।। आगच्छन्तीं च वेगेन विज्ञाय तदनन्तरम्।। विरोधभीतो भगवानन्तर्द्धानं जगाम सः ।। 2.42.१० ।। पलायन्तं च तं शान्तं सत्त्वाधारं सुविग्रहम् ।। विलोक्य कम्पिता गोपी सुशीलाऽन्तर्दधौ भिया ।। ११ ।। विलोक्य सङ्कटं तत्र गोपीनां लक्षकोटयः ।। बद्धाञ्जलिपुटा भीता भक्तिनम्रात्मकन्धराः ।।१२।। रक्ष रक्षेत्युक्तवत्यो हे देवीति पुनः पुनः ।। ययुर्भयेन शरणं तस्याश्चरणपङ्कजे ।। ।। १३ ।। त्रिलक्षकोटयो गोपाः सुदामादय एव च ।। ययुर्भयेन शरणं तत्पादाब्जे च नारद ।। १४ ।। पलायन्तं च कान्तं वै विज्ञाय परमेश्वरी ।। पलायन्तीं सहचरीं सुशीलां च शशाप सा ।। १५ ।। अद्यप्रभृति गोलोकं सा चेदायाति गोपिका ।। सद्यो गमनमात्रेण भस्मसाच्च भविष्यति ।। १६ ।। इत्येवमुक्त्वा तत्रैव देवदेवीश्वरी रुषा ।। रासेश्वरी रासमध्ये रासेशं चाजुहाव ह।। ।। १७ ।। नालोक्य पुरतः कृष्णं राधा विरहकातरा ।। युगकोटिसमं मेने क्षणभेदेन सुव्रता ।। १८ ।। हे कृष्ण हे प्राणनाथागच्छ प्राणाधिकप्रिय ।। प्राणाधिष्ठातृदेवेह प्राणा यान्ति त्वया विना ।। १९ ।। स्त्रीगर्वः पतिसौभाग्याद्वर्द्धते च दिने दिने ।। सुस्त्री चेद्विभवो यस्मात्ते भजेद्धर्मतः सदा ।। 2.42.२० ।। पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदा गतिः ।। परं सम्पत्स्वरूपश्च सुखरूपश्च मूर्त्तिमान्।। ।। २१ ।। धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा ।। सम्मानदो मानदश्च मान्यो वै मानखण्डनः ।। २२ ।। सारात्सारतमः स्वामी बन्धूनां बन्धुवर्द्धनः ।। न च भर्त्तुः समो बन्धुः सर्वबन्धुषु दृश्यते ।।२३।। भरणादेव भर्ताऽयं पालनात्पतिरुच्यते ।। शरीरेशाच्च स स्वामी कामदः कान्त एव च ।। २४ ।। बन्धुश्च सुखबन्धाच्च प्रीतिदानात्प्रियः परः ।। ऐश्वर्य्यदानादीशश्च प्राणेशात्प्राणनायकः।।२५।। रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः ।। पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः।।२६।। शतपुत्रात्परःस्वामी कुलजानां प्रियः सदा।। असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ।।२७।। स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दीक्षणम् ।। प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि वै।।२८।। सर्वाण्येव व्रतादीनि महादानानि यानि च।। उपोषणानि पुण्यानि यान्यन्यानि च विश्वतः।।२९।। गुरुसेवाविप्रसेवादेवसेवादिकं च यत्। स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम्।।2.42.३०।। गुरुविप्रेष्टदेवेषु सर्वेभ्यश्च पतिर्गुरुः।। विद्यादाता यथा पुंसां कुलजानां तथा प्रियः।।३१।। गोपीत्रिलक्षकोटीनां गोपानां च तथैव च।। ब्रह्माण्डानामसंख्यानां तत्रस्थानां तथैव च ।।३२।। रमादिगोपकान्तानामीश्वरी तत्प्रसादतः।। अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः ।। ३३ ।। इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ सुभक्तितः ।। आरात्संप्राप तं तेन विजहार च तत्र वै ।। ३४ ।। अथ सा दक्षिणादेवी ध्वस्ता गोलोकतो मुने ।। सुचिरं च तपस्तप्त्वा विवेश कमलातनौ।।३५।। अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम् ।। न लभन्ते फलं तेषां विषण्णाः प्रययुर्विधिम् ।।३६।। विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिः ।। दध्यौ सुचिन्तितो भक्त्या तत्प्रत्यादेशमाप सः ।। ३७ ।। नारायणश्च भगवान्महालक्ष्मीश्च देहतः ।। मर्त्यलक्ष्मीं विनिष्कृष्य ब्रह्मणे दक्षिणां ददौ ।। ३८ ।। ब्रह्मा ददौ तां यज्ञाय पूर्णार्थं कर्मणां सताम् ।। यज्ञः संपूज्य विधिवत्तां तुष्टाव रमां मुदा ।। ३९ ।। तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् ।। अतीव कमनीयां च सुन्दरीं सुमनोहराम् ।। 2.42.४० ।। कमलास्यां कोमलाङ्गीं कमलायतलोचनाम् ।। कमलासनसंपूज्यां कमलाङ्गःसमुद्रवाम् ।। ४१ ।। वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम् ।। बिभ्रतीं कबरीभारं मालतीमाल्यभूषितम् ।। ४२ ।। ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।। सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनीम् ।। ४३ ।। कस्तूरीबिन्दुभिः सार्द्धं चन्दनैश्च सुगन्धिभिः ।। सिन्दूरबिन्दुनाऽत्यन्तं मस्तकाधस्थलोज्ज्वलाम्।।४४।। सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम् ।। कामदेवाधाररूपां कामबाणप्रपीडिताम्।।४५।। तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह ।। पत्नीं तामेव जग्राह विधिबोधितमार्गतः ।। ४६ ।। दिव्यं वर्षशतं चैव तां गृहीत्वाऽथ निर्जने ।। यज्ञो रेमे मुदा युक्तो रामया रमया सह ।। ४७ ।। गर्भं दधार सा देवी दिव्यं द्वादशवत्सरम् ।। ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् ।।४८।। कर्मणां फलदाता च दक्षिणा कर्मणां सताम् ।। परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः।।४९।। यज्ञो दक्षिणया सार्द्धं पुत्रेण च फलेन च ।। कर्मणां फलदाता चेत्येवं वेदविदो विदुः ।। 2.42.५० ।। यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् ।। फलं ददौ च सर्वेभ्यः कर्मठेभ्यो यदा मुने ।। ५१ ।। तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः ।। स्वस्थानं प्रययुः सर्वे धर्मवक्त्रादिदं श्रुतम् ।। ५२ ।। कृत्वा कर्म च कर्ता तु तूर्णं दद्याच्च दक्षिणाम् ।। तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने ।। ५३ ।। कर्ता कर्मणि पूर्णेऽपि तत्क्षणाद्यदि दक्षिणाम् ।। न दद्याद्ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा ।। ५४ ।। मुहूर्त्ते समतीते च द्विगुणा सा भवेद्ध्रुवम् ।। ५५ ।। एकरात्रे व्यतीते तु भवेद्रसगुणा च सा ।। त्रिरात्रे वै दशगुणा सप्ताहे द्विगुणा ततः ।। ५६ ।। मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्द्धते ।। संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् ।। ५७ ।। कर्म्म तद्यजमानानां सर्वं वै निष्फलं भवेत् ।। स च ब्रह्मस्वापहारी न कर्मार्होऽशुचिर्नरः ।। ५८ ।। दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी ।। तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् ।। ५९ ।। पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् ।। एवं सुराश्च तत्पूजां तद्दत्तां पावकाहुतिम् ।। 2.42.६० ।। दाता ददाति नो दानं ग्रहीता तन्न याचते ।। उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा घटः ।। ६१ ।। नार्पयेद्यजमानश्चेद्याचितारं च दक्षिणाम् ।। भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम् ।। ६२ ।। वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ।। ततो भवेत्स चण्डालो व्याधियुक्तो दरिद्रकः ।। ६३ ।। पातयेत्पुरुषान्सप्त पूर्वान्वै पूर्वजन्मनः ।। इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि ।। ६४ ।। नारद उवाच ।। यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने ।। पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद ।। ६५ ।। नारायण उवाच ।। कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने ।। सदक्षिणे कर्मणि च फलमेव प्रवर्त्तते ।। ६६ ।। या या कर्मणि सामग्री बलिर्भुङ्क्ते च तां मुने ।। बलये तत्प्रदत्तं च वामनेन पुरा मुने ।। ६७ ।। अश्रोत्रियं श्राद्धवस्तु चाश्राद्धं दानमेव च ।। वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् ।।६८।। ऋत्विजा न कृतं यज्ञमशुचेः पूजनं च यत् ।। गुरावभक्तस्य कर्म बलिर्भुङ्क्ते न संशयः ।। ६९ ।। दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् ।। तत्सर्वं काण्वशाखोक्तं प्रवक्ष्यामि निशामय ।। 2.42.७० ।। पुरा संप्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम्।। मुमोह तस्या रूपेण तुष्टुवे कामकातरः ।। ७१ ।। यज्ञ उवाच ।। पुरा गोलोकगोपी त्वं गोपीनां प्रवरा परा ।। राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये ।। ७२ ।। कार्त्तिकीपूर्णिमायां तु रासे राधामहोत्सवे ।। आविर्भूता दक्षिणांशात्कृष्णस्यातो हि दक्षिणा ।। ७३ ।। पुरा त्वं च सुशीलाख्या शीलेन सुशुभेन च ।। कृष्णदक्षांशवासाच्च राधाशापाच्च दक्षिणा ।। ७४ ।। गोलोकात्त्वं परिध्वस्ता मम भाग्यादुपस्थिता ।। कृपां कुरु त्वमेवाद्य स्वामिनं कुरु मां प्रिये ।। ७५ ।। कर्तॄणां कर्मणां देवी त्वमेव फलदा सदा ।। त्वया विना च सर्वेषां सर्व कर्म च निष्फलम् ।। ७६ ।। फलशाखाविहीनश्च यथा वृक्षो महीतले ।। त्वया विना तथा कर्म कर्तॄणां च न शोभते ।। ७७ ।। ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ।। कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ।। ७८ ।। कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ।। यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ।। ७९ ।। फलदाता परं ब्रह्म निर्गुणः प्रकृतेः परः ।। स्वयं कृष्णश्च भगवान्न च शक्तस्त्वया विना ।। 2.42.८० ।। त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ।। सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ।। ८१ ।। इत्युक्त्वा तत्पुरस्तस्थौ यज्ञाधिष्ठातृदेवकः ।। तुष्टा बभूव सा देवी भेजे तं कमलाकला ।। ८२ ।। इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ।। फलं च सर्वयज्ञानां लभते नात्र संशयः ।। ८३ ।। राजसूये वाजपेये गोमेधे नरमेधके ।। अश्वमेधे लांगले च विष्णुयज्ञे यशस्करे ।। ८४ ।। धनदे भूमिदे फल्गौ पुत्रेष्टौ गजमेधके ।। लोहयज्ञे स्वर्णयज्ञे पटलव्याधिखण्डने ।। ८५ ।। शिवयजे रुद्रयज्ञे शक्रयज्ञे च बन्धके ।। इष्टौ वरुणयागे च कन्दुके वैरिमर्दने ।। ८६ ।। शुचियागे धर्मयागे रेचने पापमोचने ।। बन्धने कर्मयागे च मणियागे सुभद्रके ।। ८७ ।। एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत् ।। निर्विघ्नेन च तत्कर्म साङ्गं भवति निश्चितम् ।। ८८ ।। इदं स्तोत्रं च कथितं ध्यानं पूजाविधानकम् ।। शालग्रामे घटे वाऽपि दक्षिणां पूजयेत्सुधीः ।। ८९ ।। लक्ष्मीदक्षांशसम्भूतां दक्षिणां कमलाकलाम् ।। सर्वकर्मसु दक्षां च फलदां सर्वकर्मणाम् ।। 2.42.९० ।। विष्णोःशक्तिस्वरूपां च सुशीलां शुभदां भजे ।। ध्यात्वाऽनेनैव वरदां सुधीर्मूलेन पूजयेत् ।। ९१ ।। दत्त्वा पाद्यादिकं देव्यै वेदोक्तेन च नारद।। ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः ।। ९२ ।। पूजयेद्विधिवद्भक्त्या दक्षिणां सर्वपूजिताम् ।। इत्येवं कथितं सर्वं दक्षिणाख्यानमुत्तमम् ।। ९३ ।। सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम् ।। इदं च दक्षिणाख्यानं यः शृणोति समाहितः ।। ९४ ।। अंगहीनं च तत्कर्म न भवेद्भारते भुवि ।। अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् ।। ९५ ।। भार्य्याहीनो लभेद्भार्य्यां सुशीलां सुन्दरीं पराम् ।। वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् ।। ९६ ।। पतिव्रतां सुव्रतां च शुद्धां च कुलजां वराम् ।। विद्याहीनो लभेद्विद्यां धनहीनो धनं लभेत् ।। ९७ ।। भूमिहीनो लभेद्भूमिं प्रजाहीनो लभेत्प्रजाः ।। सङ्कटे बन्धुविच्छेदे विपत्तौ बन्धने तथा ।। ९८ ।। मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः।। ९९ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दक्षिणोपाख्याने दक्षिणोत्पत्तितत्पूजादिविधानं नाम द्विचत्वारिंशत्तमोऽध्यायः ।। ४२ ।।
nārāyaṇa uvāca || uktaṃ svāhāsvadhākhyānaṃ praśastaṃ madhuraṃ param || vakṣyāmi dakṣiṇākhyānaṃ sāvadhānaṃ niśāmaya ||1|| gopī suśīlā goloke purā''sītpreyasī hareḥ || rādhāpradhānā sadhrīcī dhanyā mānyā manoharā || atīva sundarī rāmā subhagā sudatī satī ||2|| vidyāvatī guṇavatī satī rūpavatī tathā || kalāvatī komalāṃgī kāntā kamalalocanā || 3 || suśroṇī sustanī śyāmā nyagrodhaparimaṇḍalā || īṣaddhāsyaprasannāsyā ratnālaṅkārabhūṣitā || 4 || śvetacampakavarṇābhā bimboṣṭhī mṛgalocanā || kāmaśāstrasuniṣṇātā kāminī kalahaṃsagā || 5 || bhāvānuraktā bhāvajñā kṛṣṇasya priyabhāminī || rasajñā rasikā rāse rāseśasya rasotsukā || 6 || uvāsa dakṣiṇe kroḍe rādhāyāḥ purataḥ purā || saṃbabhūvānamramukho bhayena madhusūdanaḥ || 7|| dṛṣṭvā rādhāṃ ca purato gopīnāṃ pravarāṃ varām|| māninīṃ raktavadanāṃ raktapaṅkajalocanām || 8 || kopena kampitāṅgī ca kopanāṃ kopadarśanām || kopena niṣṭhuraṃ vaktumudyatāṃ sphuritādharām ||9|| āgacchantīṃ ca vegena vijñāya tadanantaram|| virodhabhīto bhagavānantarddhānaṃ jagāma saḥ || 2.42.10 || palāyantaṃ ca taṃ śāntaṃ sattvādhāraṃ suvigraham || vilokya kampitā gopī suśīlā'ntardadhau bhiyā || 11 || vilokya saṅkaṭaṃ tatra gopīnāṃ lakṣakoṭayaḥ || baddhāñjalipuṭā bhītā bhaktinamrātmakandharāḥ ||12|| rakṣa rakṣetyuktavatyo he devīti punaḥ punaḥ || yayurbhayena śaraṇaṃ tasyāścaraṇapaṅkaje || || 13 || trilakṣakoṭayo gopāḥ sudāmādaya eva ca || yayurbhayena śaraṇaṃ tatpādābje ca nārada || 14 || palāyantaṃ ca kāntaṃ vai vijñāya parameśvarī || palāyantīṃ sahacarīṃ suśīlāṃ ca śaśāpa sā || 15 || adyaprabhṛti golokaṃ sā cedāyāti gopikā || sadyo gamanamātreṇa bhasmasācca bhaviṣyati || 16 || ityevamuktvā tatraiva devadevīśvarī ruṣā || rāseśvarī rāsamadhye rāseśaṃ cājuhāva ha|| || 17 || nālokya purataḥ kṛṣṇaṃ rādhā virahakātarā || yugakoṭisamaṃ mene kṣaṇabhedena suvratā || 18 || he kṛṣṇa he prāṇanāthāgaccha prāṇādhikapriya || prāṇādhiṣṭhātṛdeveha prāṇā yānti tvayā vinā || 19 || strīgarvaḥ patisaubhāgyādvarddhate ca dine dine || sustrī cedvibhavo yasmātte bhajeddharmataḥ sadā || 2.42.20 || patirbandhuḥ kulastrīṇāmadhidevaḥ sadā gatiḥ || paraṃ sampatsvarūpaśca sukharūpaśca mūrttimān|| || 21 || dharmadaḥ sukhadaḥ śaśvatprītidaḥ śāntidaḥ sadā || sammānado mānadaśca mānyo vai mānakhaṇḍanaḥ || 22 || sārātsāratamaḥ svāmī bandhūnāṃ bandhuvarddhanaḥ || na ca bharttuḥ samo bandhuḥ sarvabandhuṣu dṛśyate ||23|| bharaṇādeva bhartā'yaṃ pālanātpatirucyate || śarīreśācca sa svāmī kāmadaḥ kānta eva ca || 24 || bandhuśca sukhabandhācca prītidānātpriyaḥ paraḥ || aiśvaryyadānādīśaśca prāṇeśātprāṇanāyakaḥ||25|| ratidānācca ramaṇaḥ priyo nāsti priyātparaḥ || putrastu svāminaḥ śukrājjāyate tena sa priyaḥ||26|| śataputrātparaḥsvāmī kulajānāṃ priyaḥ sadā|| asatkulaprasūtā yā kāntaṃ vijñātumakṣamā ||27|| snānaṃ ca sarvatīrtheṣu sarvayajñeṣu dīkṣaṇam || prādakṣiṇyaṃ pṛthivyāśca sarvāṇi ca tapāṃsi vai||28|| sarvāṇyeva vratādīni mahādānāni yāni ca|| upoṣaṇāni puṇyāni yānyanyāni ca viśvataḥ||29|| gurusevāviprasevādevasevādikaṃ ca yat| svāminaḥ pādasevāyāḥ kalāṃ nārhanti ṣoḍaśīm||2.42.30|| guruvipreṣṭadeveṣu sarvebhyaśca patirguruḥ|| vidyādātā yathā puṃsāṃ kulajānāṃ tathā priyaḥ||31|| gopītrilakṣakoṭīnāṃ gopānāṃ ca tathaiva ca|| brahmāṇḍānāmasaṃkhyānāṃ tatrasthānāṃ tathaiva ca ||32|| ramādigopakāntānāmīśvarī tatprasādataḥ|| ahaṃ na jāne taṃ kāntaṃ strīsvabhāvo duratyayaḥ || 33 || ityuktvā rādhikā kṛṣṇaṃ tatra dadhyau subhaktitaḥ || ārātsaṃprāpa taṃ tena vijahāra ca tatra vai || 34 || atha sā dakṣiṇādevī dhvastā golokato mune || suciraṃ ca tapastaptvā viveśa kamalātanau||35|| atha devādayaḥ sarve yajñaṃ kṛtvā suduṣkaram || na labhante phalaṃ teṣāṃ viṣaṇṇāḥ prayayurvidhim ||36|| vidhirnivedanaṃ śrutvā devādīnāṃ jagatpatiḥ || dadhyau sucintito bhaktyā tatpratyādeśamāpa saḥ || 37 || nārāyaṇaśca bhagavānmahālakṣmīśca dehataḥ || martyalakṣmīṃ viniṣkṛṣya brahmaṇe dakṣiṇāṃ dadau || 38 || brahmā dadau tāṃ yajñāya pūrṇārthaṃ karmaṇāṃ satām || yajñaḥ saṃpūjya vidhivattāṃ tuṣṭāva ramāṃ mudā || 39 || taptakāñcanavarṇābhāṃ candrakoṭisamaprabhām || atīva kamanīyāṃ ca sundarīṃ sumanoharām || 2.42.40 || kamalāsyāṃ komalāṅgīṃ kamalāyatalocanām || kamalāsanasaṃpūjyāṃ kamalāṅgaḥsamudravām || 41 || vahniśuddhāṃśukādhānāṃ bimboṣṭhīṃ sudatīṃ satīm || bibhratīṃ kabarībhāraṃ mālatīmālyabhūṣitam || 42 || īṣaddhāsyaprasannāsyāṃ ratnabhūṣaṇabhūṣitām || suveṣāḍhyāṃ ca susnātāṃ munimānasamohinīm || 43 || kastūrībindubhiḥ sārddhaṃ candanaiśca sugandhibhiḥ || sindūrabindunā'tyantaṃ mastakādhasthalojjvalām||44|| supraśastanitambāḍhyāṃ bṛhacchroṇipayodharām || kāmadevādhārarūpāṃ kāmabāṇaprapīḍitām||45|| tāṃ dṛṣṭvā ramaṇīyāṃ ca yajño mūrcchāmavāpa ha || patnīṃ tāmeva jagrāha vidhibodhitamārgataḥ || 46 || divyaṃ varṣaśataṃ caiva tāṃ gṛhītvā'tha nirjane || yajño reme mudā yukto rāmayā ramayā saha || 47 || garbhaṃ dadhāra sā devī divyaṃ dvādaśavatsaram || tataḥ suṣāva putraṃ ca phalaṃ vai sarvakarmaṇām ||48|| karmaṇāṃ phaladātā ca dakṣiṇā karmaṇāṃ satām || paripūrṇe karmaṇi ca tatputraḥ phaladāyakaḥ||49|| yajño dakṣiṇayā sārddhaṃ putreṇa ca phalena ca || karmaṇāṃ phaladātā cetyevaṃ vedavido viduḥ || 2.42.50 || yajñaśca dakṣiṇāṃ prāpya putraṃ ca phaladāyakam || phalaṃ dadau ca sarvebhyaḥ karmaṭhebhyo yadā mune || 51 || tadā devādayastuṣṭāḥ paripūrṇamanorathāḥ || svasthānaṃ prayayuḥ sarve dharmavaktrādidaṃ śrutam || 52 || kṛtvā karma ca kartā tu tūrṇaṃ dadyācca dakṣiṇām || tatkṣaṇaṃ phalamāpnoti vedairuktamidaṃ mune || 53 || kartā karmaṇi pūrṇe'pi tatkṣaṇādyadi dakṣiṇām || na dadyādbrāhmaṇebhyaśca daivenājñānato'thavā || 54 || muhūrtte samatīte ca dviguṇā sā bhaveddhruvam || 55 || ekarātre vyatīte tu bhavedrasaguṇā ca sā || trirātre vai daśaguṇā saptāhe dviguṇā tataḥ || 56 || māse lakṣaguṇā proktā brāhmaṇānāṃ ca varddhate || saṃvatsare vyatīte tu sā trikoṭiguṇā bhavet || 57 || karmma tadyajamānānāṃ sarvaṃ vai niṣphalaṃ bhavet || sa ca brahmasvāpahārī na karmārho'śucirnaraḥ || 58 || daridro vyādhiyuktaśca tena pāpena pātakī || tadgṛhādyāti lakṣmīśca śāpaṃ dattvā sudāruṇam || 59 || pitaro naiva gṛhṇanti taddattaṃ śrāddhatarpaṇam || evaṃ surāśca tatpūjāṃ taddattāṃ pāvakāhutim || 2.42.60 || dātā dadāti no dānaṃ grahītā tanna yācate || ubhau tau narakaṃ yātaśchinnarajjuryathā ghaṭaḥ || 61 || nārpayedyajamānaścedyācitāraṃ ca dakṣiṇām || bhavedbrahmasvāpahārī kumbhīpākaṃ vrajeddhruvam || 62 || varṣalakṣaṃ vasettatra yamadūtena tāḍitaḥ || tato bhavetsa caṇḍālo vyādhiyukto daridrakaḥ || 63 || pātayetpuruṣānsapta pūrvānvai pūrvajanmanaḥ || ityevaṃ kathitaṃ vipra kiṃ bhūyaḥ śrotumicchasi || 64 || nārada uvāca || yatkarma dakṣiṇāhīnaṃ ko bhuṅkte tatphalaṃ mune || pūjāvidhiṃ dakṣiṇāyāḥ purā yajñakṛtaṃ vada || 65 || nārāyaṇa uvāca || karmaṇo'dakṣiṇasyaiva kuta eva phalaṃ mune || sadakṣiṇe karmaṇi ca phalameva pravarttate || 66 || yā yā karmaṇi sāmagrī balirbhuṅkte ca tāṃ mune || balaye tatpradattaṃ ca vāmanena purā mune || 67 || aśrotriyaṃ śrāddhavastu cāśrāddhaṃ dānameva ca || vṛṣalīpativiprāṇāṃ pūjādravyādikaṃ ca yat ||68|| ṛtvijā na kṛtaṃ yajñamaśuceḥ pūjanaṃ ca yat || gurāvabhaktasya karma balirbhuṅkte na saṃśayaḥ || 69 || dakṣiṇāyāśca yaddhyānaṃ stotraṃ pūjāvidhikramam || tatsarvaṃ kāṇvaśākhoktaṃ pravakṣyāmi niśāmaya || 2.42.70 || purā saṃprāpya tāṃ yajñaḥ karmadakṣāṃ ca dakṣiṇām|| mumoha tasyā rūpeṇa tuṣṭuve kāmakātaraḥ || 71 || yajña uvāca || purā golokagopī tvaṃ gopīnāṃ pravarā parā || rādhāsamā tatsakhī ca śrīkṛṣṇapreyasī priye || 72 || kārttikīpūrṇimāyāṃ tu rāse rādhāmahotsave || āvirbhūtā dakṣiṇāṃśātkṛṣṇasyāto hi dakṣiṇā || 73 || purā tvaṃ ca suśīlākhyā śīlena suśubhena ca || kṛṣṇadakṣāṃśavāsācca rādhāśāpācca dakṣiṇā || 74 || golokāttvaṃ paridhvastā mama bhāgyādupasthitā || kṛpāṃ kuru tvamevādya svāminaṃ kuru māṃ priye || 75 || kartṝṇāṃ karmaṇāṃ devī tvameva phaladā sadā || tvayā vinā ca sarveṣāṃ sarva karma ca niṣphalam || 76 || phalaśākhāvihīnaśca yathā vṛkṣo mahītale || tvayā vinā tathā karma kartṝṇāṃ ca na śobhate || 77 || brahmaviṣṇumaheśāśca dikpālādaya eva ca || karmaṇaśca phalaṃ dātuṃ na śaktāśca tvayā vinā || 78 || karmarūpī svayaṃ brahmā phalarūpī maheśvaraḥ || yajñarūpī viṣṇurahaṃ tvameṣāṃ sārarūpiṇī || 79 || phaladātā paraṃ brahma nirguṇaḥ prakṛteḥ paraḥ || svayaṃ kṛṣṇaśca bhagavānna ca śaktastvayā vinā || 2.42.80 || tvameva śaktiḥ kānte me śaśvajjanmani janmani || sarvakarmaṇi śakto'haṃ tvayā saha varānane || 81 || ityuktvā tatpurastasthau yajñādhiṣṭhātṛdevakaḥ || tuṣṭā babhūva sā devī bheje taṃ kamalākalā || 82 || idaṃ ca dakṣiṇāstotraṃ yajñakāle ca yaḥ paṭhet || phalaṃ ca sarvayajñānāṃ labhate nātra saṃśayaḥ || 83 || rājasūye vājapeye gomedhe naramedhake || aśvamedhe lāṃgale ca viṣṇuyajñe yaśaskare || 84 || dhanade bhūmide phalgau putreṣṭau gajamedhake || lohayajñe svarṇayajñe paṭalavyādhikhaṇḍane || 85 || śivayaje rudrayajñe śakrayajñe ca bandhake || iṣṭau varuṇayāge ca kanduke vairimardane || 86 || śuciyāge dharmayāge recane pāpamocane || bandhane karmayāge ca maṇiyāge subhadrake || 87 || eteṣāṃ ca samārambhe idaṃ stotraṃ ca yaḥ paṭhet || nirvighnena ca tatkarma sāṅgaṃ bhavati niścitam || 88 || idaṃ stotraṃ ca kathitaṃ dhyānaṃ pūjāvidhānakam || śālagrāme ghaṭe vā'pi dakṣiṇāṃ pūjayetsudhīḥ || 89 || lakṣmīdakṣāṃśasambhūtāṃ dakṣiṇāṃ kamalākalām || sarvakarmasu dakṣāṃ ca phaladāṃ sarvakarmaṇām || 2.42.90 || viṣṇoḥśaktisvarūpāṃ ca suśīlāṃ śubhadāṃ bhaje || dhyātvā'nenaiva varadāṃ sudhīrmūlena pūjayet || 91 || dattvā pādyādikaṃ devyai vedoktena ca nārada|| oṃ śrīṃ klīṃ hrīṃ dakṣiṇāyai svāheti ca vicakṣaṇaḥ || 92 || pūjayedvidhivadbhaktyā dakṣiṇāṃ sarvapūjitām || ityevaṃ kathitaṃ sarvaṃ dakṣiṇākhyānamuttamam || 93 || sukhadaṃ prītidaṃ caiva phaladaṃ sarvakarmaṇām || idaṃ ca dakṣiṇākhyānaṃ yaḥ śṛṇoti samāhitaḥ || 94 || aṃgahīnaṃ ca tatkarma na bhavedbhārate bhuvi || aputro labhate putraṃ niścitaṃ ca guṇānvitam || 95 || bhāryyāhīno labhedbhāryyāṃ suśīlāṃ sundarīṃ parām || varārohāṃ putravatīṃ vinītāṃ priyavādinīm || 96 || pativratāṃ suvratāṃ ca śuddhāṃ ca kulajāṃ varām || vidyāhīno labhedvidyāṃ dhanahīno dhanaṃ labhet || 97 || bhūmihīno labhedbhūmiṃ prajāhīno labhetprajāḥ || saṅkaṭe bandhuvicchede vipattau bandhane tathā || 98 || māsamekamidaṃ śrutvā mucyate nātra saṃśayaḥ|| 99 || iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvāde dakṣiṇopākhyāne dakṣiṇotpattitatpūjādividhānaṃ nāma dvicatvāriṃśattamo'dhyāyaḥ || 42 ||
English translation
The story of Daksina Narayana said—I have narrated the sweet and praise-worthy stories of Svaha and Svadha. Now I am going to narrate the story of daksina to you.
You listen to it attentively, In the Goloka there was a cowherdesses named Susila. In the earlier times she happened to be the beloved of lord Krs na and she was the chief friend of Radhika. She was graceful, filled with pride, quite pleasant to look at, extremely beautiful, channing, fortunate, possessing beautiful teeth, quite chaste, knowledgeable, virtuous, beautiful, intelligent, having tender limbs, full of glory, having the lotus-like eyes, developed breasts and pelvic region, dark complexion and the stiff pelvic region, stiff breasts plastered with sandal-paste.
She wore a serene smile on her face and adorned with all the ornaments studded with gems. She had the complexion of the white campaka flower, lips like the ripe wood-apple, doe like eyes, well- versed in the art of love, fulfilling the desires of all. She walked like the goose and moved as per the desires for lord Krsna. She knew the mind of lord Krsna. She knew the mind of lord Krsna and was his beloved, well-versed in all the rasas and delighted lord Krsna at the time of Rasa.
In earlier times she was once seated on the right lap of lord Krsna but lord Madhusildana kept his head downwards being afraid of Radha.
Finding Radha there, who was the best of all the cowherdesses, filled with pride, having a red complexioned body, having the eyes like the lotus flower. Her limbs were fluttering in anger.
She was filled with anger and displayed her anger pretty well. She spoke harsh words because of the anger. Her lips fluttered with anger. Finding her coming into rage, lord Krsna disappeared from the scene.
Thereafter finding Krsna disappearing from the scene, who was the base of sattva, extremely peaceful and possessing the beautiful body, the cowherdesses Susila too felt terrified and Finding the danger approaching fast, the lakh and crores of cowherdesses stood there in terror with folded hands and their heads cast downwards. They said: “O goddess, protect us.
They all took refuge under the feet of Radhika. O Narada, the three lakh crores of the cowherdesses, took refuge under the lotus-like feet of Radhika. Thereafter, the goddess Radhika finding Krsna running away from the scene, pronounced a curse on SusTla that in case she reappeared in Goloka in future, she would be reduced to ashes.
The one who happened to be the great goddess of all the gods and goddesses, the lady of Rasa, Radhika after uttering these words went to the place of dancing and started calling for Krsna.
Burning with the fire of separation, the chaste Radhika finding Krsna absent from the place started suffering from the pain of separation and a single moment for her passed like a crore of I IJOTT I 3nURTmS5W She uttered, “O Krsna, O lord of my life, you are the one dearer to me than my life, you come immediately, O lord of my life, I am going to die in your absence.” Because the fortune of a lady goes on increasing day by day only with the husband, therefore, if one has the best of a spouse one would serve him.
Because the chaste ladies have only the husband as their true relatives. He happens to be the great god for them, their movement, the great fortune, the form of pleasure, the fonn of dharma always loveable and peaceful, the one who grants grace, pride is adorable, the ornament of pride, essence of the essences, the best lord, the relatives and the brothers. This is the reason why there is no other relative better than a husband even for a moment.
MlfdciHifrtr'y: rt: i He is called Bharta because he feeds, a husband because he maintain, the lord because he happens to be the lord of the body, a relative because he is bound by a pleasant relation, the dearest one because he imparts love, because he bestows fortune, lord of the life because he happens to be leader in the life and Ramana, because he bestows grace in love. There is no one else dearer to a lady than her husband. With the semen of the husband a son is bom; that is why he is called the dearest of all.
That is why for the chaste lady a husband is dearer than hundreds of her sons, but the unclean woman is unable to assess the worth of her She had the complexion of molten gold, a beautiful body having the lustre of crores of moons, quite attractive, the one who could influence the mind, the lotus-faced, tender- limped, having broad eyes like the lotus, seated on a lotus, bom out of the limbs of LaksmI, clad in the garments purified by the god of fire, having the lips resembling the wood-apples, having beautiful teeth, the chaste lady adorned with the matted locks of hair, wearing a serene smile on her face, adorned with beautiful ornaments studded with gems appeared in beautiful costumes, who had taken her bath nicely and could attract the mind of sages. Her forehead was adorned with the vennilion spot and with the shining of her lower part, the navel region was praise-worthy. She had broad hips.
She possessed unprecedented beauty and was infatuated with the arrows of the god of love.
Daksind provides the reward of the good deeds of the people and after completion of the deeds her son gives the reward. The people well- versed in the Vedas say that the yajna with his wife Daksina and the son (putraphala) provides the reward for one's deeds.
O sage, at the time of achieving daksind as his wife and phala as his son, yajna distributed rewards to all the people. The gods felt delighted and getting their desires fulfilled, they went back to their abodes. This is what has been heard by us from the mouth of Dharma.
Finding such a beautiful damsel there, yajna fainted. Thereafter Brahma brought him back to his senses and he apprised him of the factual position, after which he accepted her as his spouse. After that he carried the lady to a secluded place and spent the time of a hundred divine years with her pleasantly.
O sage, if a performer after performing the yajna gives away daksind at once he gets the reward at the same time. This has been ordained by the Vedas.
If a performer, innocently after the completion of the yajha does not give away daksind to the Brahmanas, then with the lapse of a muhurta the amount of daksind is doubled.
Thereafter she became pregnant and remained like that for twelve years. Thereafter she gave birth to a son quite joyfully who happened to be the result of all the good deeds.
After the passing of a night, the amount of daksind is multiplied to six times. After the lapse of three nights, the amount of daksind is multiplied to ten times and after the lapse of a week, the amount is doubled and after the completion of a month, the amount of daksind is multiplied to a lakh of times and after the lapse of one year, the amount is increased to three crores of times.
Thus the entire effort of the performer of the yajna becomes infructuous and earns the sin of misappropriating the. riches of a Brahmana besides becoming unclean and incompetent.
Because of that sin, he becomes sinful, a pauper, a patient and the formne departs from his house pronouncing a terrific curse.
The s'mddhas and tarpanas performed by him are not received by the manes. Similarly the gods refuse to accept his adoration and the fire-gods refuse to accept the offerings made by them.
In case the giver does not give away the charity and the receiver goes on demanding for it, both of them fail into the hell as a pitcher with the broken falls into the well.
In case a performer does not give away daks ind, he is considered to be a thief stealing the riches of the Brahmanas and ultimately falls into the Kumbhipdka hell.
He is tortured by the messengers of Yama for a lakh of years. Thereafter he is bom as a man with diseases and a Candala deprived of all the riches. He is then consigned to the hell his seven earlier and seven future generations. O Brahmana, I have narrated to you all the details, now what else do you want to listen to from me?
Narada said—O sage, who takes care of the remedy for a deed performed without giving away daksind and in the earlier times how did Narayana said—O sage, there is no reward for a deed performed without daksind. One gets the reward only after a deed is performed by giving O sage, whatever materials are required for performing a deed are consumed by Bali. This part was handed over by lord Vdmana to Bali in Therefore, the one who is deprived of the knowledge of all the Vedas, Bali consumes the offerings in s'rdddha. The charity given without devotion, the articles of adoration offered by a Brahmana by properly performing pujd, the deeds of a person who is not devoted, are consumed by Bali. There is no doubt about it.
Now I tell you the form of adoration of goddess daksindy her dhydnam, stotra and pujd according to Kaiivasakha.
In the earlier times yajna after achieving daks ind was infested with her beauties and infatuated with passion for her, he started offering prayers Yajha said—O dear, in the earlier times, in the Goloka, you happened to be the best of the cowherds among the cowherdesses. You were the friend of Radha and were equal to her. You were the beloved of lord Krsna.
gfumiiji 5 TisrmitrR^i On the full moon day of the Kartika, at the Radhamahotsava festival you were bom out of the right side of lord Krsna in the Rdsamandala.
At that point of time you were known as Suslla because of the nobility in your character.
Since you adorned the right lap of lord Krsna you were cursed by Radha and that is why you are called Daksina.
O dear one, the cause of our great fortune, you have arrived here from Goloka. Be pleased with me and make me your lord today, You bestow the reward for the deeds performed by the people. Without you the deeds of all the people become infmctuous like a tree on earth having no fruits or branches. Similarly without you the performers do not feel graceful.
Similarly Brahma, Visnu and Siva besides Dikpalas and other gods are unable to bestow the reward for the deeds on you.
Brahma himself believes in karmas and lord Siva as the form of the reward, Visnu has the form of yajna and you are the gist of all, You are always beyond Prakrti and are formless but the supreme Brahman has been believed to be the giver of the reward. Even lord Krsna is unable to give the reward without you.
O damsel, you are the strength of each and every birth of ours, the possessed competence to perform any deeds because of keeping your company. Thus speaking, the lord of the yajna kept on standing before her. Thereafter, the ray of lord LaksmI was pleased with the yajna and started serving him as her husband.
Thus whosoever recites this stotra at the time of yajna receives reward for performing the yajna. There is no doubt about it.
The people who performed Rdjasuya, Ldngala, Visnu-yajna, which bestows glory, Phalguyajna, which bestows riches and land Siivarna-yajiia which removes eye ailment, Siva- yajna, Riidra-yajna, Indra-yajna, Varuna-yajfia, Kandiika, Vairimardana, Suciydga, then Karmaydga and> the Maniydga the bestower of welfare, at the start of all these whosoever recites this stotra, his yajfia is surely completed in all respects without any obstruction, Thus I have narrated to you the details about the stotra and dhydnam; now you listen to the method of adoration. Daksina should be invoked ill the image of Sdlagrdma or a kalasa and should be adored by the intellectuals.
Daksina is the ray of Kamala and has emerged out of the ray of LaksmI who is well-versed in performing all the deeds and provides rewards for all the deeds.
She represents the prowess of lord Visnu, is adored by him, who offers prayers to her, is auspicious, provides purity, the form of purity and is considered to be sacred in all respects. I adore SusTla. Thus concentrating the mind on the goddess who bestows the boons, one should perform pujd with the recitation of the basic mantra. O Narada, the goddess should be offered for arghya, pddya as prescribed in the Vedas, *3}f By reciting this mantra one should adore the goddess daksina. Thus I have narrated to you the graceful story of daksind which bestows pleasure, devotion and bestows the reward of all the deeds; therefore the story of Daksina should be heard attentively and whoever does so, none of his efforts go without bearing The one who is without a son gets a virtuous son. The one who is without a wife gets a noble, beautiful, the best, charming, humble, soft- spoken wife who bears the son. She is chaste,
beautiful, well-disciplined, pure belongs to a high caste and is the best among the ladies. The one without learnings, gets educated, a pauper gets immense riches, a person without land receives land, the people having no issues have their progeny. A man is relieved of all danger, separation from relatives comes to an end and all types of fetters are cleared within a month of the hearing of this stotra and the dangers are removed; there is no doubt about it.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 118193 (2017-08-24T00:31:40Z); Shanti Lal Nagar English scan pages n438–n445: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n438/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.