Skip to main content

Prakṛti-khaṇḍa · Chapter 33

Chapter 33

Unit 63 of 276Prakṛti-khaṇḍa · Chapter 33Prakṛti-khaṇḍa · Chapter 331 source entries

Prakṛti-khaṇḍa · Chapter 33

Source

यम उवाच ।। पूर्णेन्दुमण्डलाकारं सर्वकुण्डं च वर्तुलम् ।। अतीव निम्नं पाषाणभेदैश्च खचितं सति ।। १ ।। न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया ।। क्लेशदं वै पातकिनां नानारूपं तदालयम् ।। २ ।। ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् ।। परितः क्रोशमानं च वह्निकुण्डं प्रकीर्त्तितम् ।। ३ ।। महच्छब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् ।। रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ।। ४ ।। प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् ।। महाघोरान्धकारं च पापिसंघेन संकुलम् ।। ९ ।। प्रकुर्वता काकुशब्दं प्रहारैर्वर्णितेन च।। क्रोशार्द्धमानं मद्दूतस्ताडितेन च रक्षितम् ।। ६ ।। तत्तक्षारोदकैः पूर्णं नक्रैश्च परिवेष्टितम् ।। सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् ।। ७ ।। त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः ।। प्रचलद्भिरनाहारैः शुष्ककण्ठौष्ठतालुकैः ।। ८ ।। विण्मूत्रैरेव पूर्णं च क्रोशमानं च कुत्सितम् ।। अतिदुर्गन्धिसंयुक्तं व्याप्तं पापिभिरेव च ।। ९ ।। ताडितैर्मम दूतैश्चाप्यनाहारैरुपद्रवैः ।। रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितम्।। ।। 2.33.१० ।। तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च संकुलम् ।। युक्तं महापापिभिश्च तत्कीटैर्दंशितं सदा ।। ११ ।। गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम्।। मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठौष्ठतालुकैः ।।१२।। श्लैष्मपूर्णं क्रोशमितं वेष्टितं चेष्टितैः सदा ।। तद्भोजिभिः पापिभिश्च तत्कीटैर्भक्षितैः सदा ।। १३ ।। क्रोशार्द्धं गरपूर्णं च गरभोजिभिरन्वितम् ।। गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च।। १४।। ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ।। सर्पाकारैर्वज्रदंष्ट्रैः शुष्ककण्ठैः सुदारुणैः।।१५।। नेत्रयोर्मलपूर्णं च क्रोशार्द्धं कीटसंयुतम् ।। पापिभिः संकुलं शश्वद्द्रवद्भिः कीटभक्षितैः ।। १६ ।। वसारसेन पूर्णं च क्रोशतुर्य्यं सुदुस्सहम् ।। तद्भोजिभिः पातकिभिर्व्याप्तं दूतैश्च ताडितैः ।।१७।। शुक्रपूर्णं क्रोशतुर्य्यं शुक्रकीटैश्च भक्षितैः ।। क्रन्दद्भिः पापिभिः शश्वत्संकुलं व्याकुलैर्भिया।। ।। १८ ।। दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ।। तद्भोजिभिः पापिभिश्च संकुलं कीटभक्षितैः ।। १९ ।। पूर्णं नेत्राश्रुभिर्नृणां वाप्यर्द्धं पापिभिर्युतम् ।। ताडितैर्मम दूतैश्च तद्भक्ष्यैः कीटभक्षितैः ।। 2.33.२० ।। नृणां गात्रमलैः पूर्णं तद्भक्ष्यैः पापिभिर्युतम् ।। ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः।।२१।। कर्णविट्परिपूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ।। वापीतुर्य्यप्रमाणं च रुदद्भिः कीटभक्षितै।।२२।। मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ।। महापातकिभिर्युक्तं वापीतुर्य्यप्रमाणकम् ।। २३ ।। परिपूर्णं स्निग्धमांसैर्मम दूतैश्च ताडितैः।। पापिभिः सङ्कुलं चैव वापीमानं भयानकम् ।। २४ ।। कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ।। त्राहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकम् ।। २५ ।। वापीतुर्य्यप्रमाणं च नखादिकचतुष्टयम् ।। पापिभिः संकुलं शश्वन्मम दूतैश्च ताडितैः ।। २६ ।! प्रतप्तताम्रकुंडं च ताम्रपर्य्युन्मुखान्वितम् ।। ताम्राणां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ।। २७ ।। प्रत्येकं प्रतिमाश्लिष्टै रुदद्भिः पापिभिर्युतम् ।। गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः ।। २८ ।। प्रतप्तलोहधारं च ज्वलदङ्गारसंयुतम् ।। लोहानां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ।। २९ ।। प्रत्येकं सर्वसंश्लिष्टैः शश्वद्विचलितैर्भिया ।। रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः ।। 2.33.३० ।। महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ।। भयानकं ध्वान्तयुक्तं लौहकुण्डं प्रकीर्तितम् ।। ३१ ।। धर्मकुण्डं तप्तसुराकुण्डं वाप्यर्द्धमेव च ।। तद्भोजिभिः पापिभिश्च व्याप्तं मद्दूतताडितैः ।।३२।। अधः शाल्मलिवृक्षस्य तीक्ष्णकण्टककुण्डकम् ।। लक्षपौरुषमानं च क्रोशमानं च दुःखदम् ।। ३३ ।। धनुर्माने कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ।। ३४ ।। प्रत्येकं कंटकैर्विद्धं महापातकिभिर्युतम् ।। वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च ताडितैः ।। ३५ ।। जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः ।। महाभयाऽतिव्यग्रैश्च दण्डसंभिन्नमस्तकैः ।। प्रचलद्भिर्यथा तप्ततैले जीविभिरेव च ।।३६।। विषौघैस्तक्षकादीनां पूर्णं च क्रोशमानकम्।। तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ।। ३७ ।। प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ।। तद्भक्ष्यैः पापिभिर्युक्तं स्निग्धगात्रैश्च वेष्टितैः ।। ३८ ।। काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतताडितैः ।। महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ।। ३९ ।। शस्त्रकुण्डं ध्वान्तयुक्तं क्रोशमानं भयानकम् ।। शूलाकारैः सुतीक्ष्णाग्रैर्लौहशस्त्रैश्च वेष्टितम् ।। 2.33.४० ।। शस्त्रतल्पस्वरूपं च क्रोशतुर्य्यप्रमाणकम् ।। पातकिभिर्वेष्टितं च कुन्तविद्धैश्च वेष्टितम् ।। ४१ ।। ताडितैर्मम दूतैश्च शुष्ककण्ठौष्ठतालकैः ।। कीटैः संपीड्यमानैश्च सर्पयानैर्भयङ्करैः ।।४२।। तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति ।। महापातकिभिर्युक्तं भीतैर्वा कीटभक्षितैः ।। रुदद्भिः क्रोशमानं च मम दूतैश्च ताडितैः ।। ४३ ।। अतिदुर्गन्धिसंयुक्तं क्रोशार्द्धं पूयसंयुतम् ।। तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ।। ४४ ।। द्विगव्यूति प्रमाणं च हिमतोयप्रपूरितम् ।। तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् ।। ४९' ।। सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ।। संकुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः ।। ४६ ।। कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ।। सर्वं कोशार्द्धमानं च महापातकिभिर्युतम् ।। ४७ ।। हस्तपादादिभिर्बद्धैः क्षत्रैः क्षतजलौहितैः ।। हाहेति शब्दं कुर्वद्भिः प्रचलद्भिश्च सन्ततम्।।४८।। वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ।। वाप्यर्द्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः ।। ४९ ।। कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ।। तैर्विद्धैः पापिभिर्युक्तं वाप्यर्द्धं रक्तलोहितैः ।।2.33.५०।। तप्तपङ्कोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ।। कीटैः संपीड्यमानैश्च भक्षितैः पापिभिर्युतम् ।। ५१ ।। वाप्यर्द्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ।। दारुणैर्विकृताकारैर्भक्षितैः पापिभिर्युतम् ।। ५२ ।। विण्मूत्रश्लेष्मभक्ष्यैश्च संयुक्तं शतकोटिभिः ।। काकैश्च विकृताकारैर्धनुर्लक्षं च पापिभिः ।। ५३ ।। सञ्चालवाजयोः कुण्डं ताभ्यां च परिपूरितम् ।। भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम् ।। ५४ ।। धनुःशतं वज्रयुक्तं पापिभिः सङ्कुलं सदा ।। शब्दकृद्भिर्वज्रदग्धैरन्तर्ध्वान्तमयं सदा।। ।। ५५ ।। वापीद्विगुणयानं च तप्तप्रस्तरनिर्मितम् ।। ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम् ।। ५६ ।। क्षुरधारोपमैस्तीक्ष्णैः पाषाणे र्निर्मितं परम् ।। महापातकिभिर्युक्तं क्षतं क्षतजलोहितैः ।। ५७ ।। दुर्गन्धिलालापूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ।। क्रोशमानं गभीरं च मम दूतैश्च ताडितैः ।।५८।। तप्ततोयेऽञ्जनाकारैः परिपूर्णं धनुश्शतम् ।। चलद्भिः पापिभिर्युक्तं मम दूतेन ताडितैः।।५९।। पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ।। तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः ।। 2.33.६० ।। कुण्डं कुलालचक्राभं घूर्ण्यमानं च सन्ततम् ।। सुतीक्ष्णषोडशारं च घूर्णितैः पापिभिर्युतम् ।। ६१ ।। अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ।। कन्दराकारनिर्माणं तप्तोदकसमन्वितम् ।।६२।। महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ।। प्रचलद्भिः शब्दकृद्भिर्ध्वान्तयुक्तं भयानकम् ।। ६३ ।। कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ।। जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम्।।६४।। ज्वालाकलापैस्तेजोभिनिर्मितं क्रोशमानकम् ।। शब्दकृद्भिः पापिभिश्च चलद्भिः संयुतं सदा ।। ६५ ।। क्रोशमानं गभीरं च तप्तभस्मभिरन्वितम् ।। शश्वच्चलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः ।। ६६ ।। तप्तपाषाणलोष्टानां समूहैः परिपूरितम् ।। प्राणिभिर्दग्धगात्रैश्च युक्तं वै शुष्कतालुकैः ।। ६७ ।। क्रोशमानं ध्वान्तमयं गभीरमतिदारुणैः ।। ताडितैर्मम दूतैश्च दग्धकुण्डं प्रकीर्तितम् ।। ६८ ।। अप्यूर्मियुक्ततोयं च प्रतप्तक्षारसंयुतम् ।। नानाप्रकार विकृतं जलजन्तुसमन्वितम् ।। ६९ ।। द्विगव्यूतिप्रमाणं च गभीरं ध्वान्तसंयुतम् ।। तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः।।2.33.७०।। चलद्भिः क्रन्दमानैश्च न पश्यद्भिः परस्परम् ।। उत्तप्तसूर्मिकुण्डं च कीर्तितं च भयानकम् ।। ७१ ।। असिपत्रवनस्यैवाप्युच्चैस्ताल तरोरधः ।। क्रोशार्द्धमानकुण्डं च पतत्पत्रसमन्वितम् ।। ७२ ।। पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां परम् ।। परित्राहीति शब्दं च कुर्वतामसतामपि ।। ७३ ।। गभीरं ध्वान्तसंयुक्तं रक्तकीटसमन्वितम् ।। तदसीपत्रकुण्डं च कीर्तितं च भयानकम् ।। ७४ ।। धनुश्शतप्रमाणं च क्षुराकारास्त्रसंकुलम्।। पापिनां रक्तपूर्णं च क्षुरधारं भयानकम्।।७५।। सूचीवाश्यास्त्रसंयुक्तं पापिरक्तौघपूरितम्।। पञ्चाशद्धनुरायामं क्लेशदं सूचीकामुखम् ।। ७६ ।। गोधाह्वजन्तुभेदस्य मुखाकृति भयानकम् ।। कूपरूपं गभीरं च धनुर्विंशतिमानकम् ।। ७७ ।। महापातकिना चैव महाक्लेशकरं परम् ।। तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् ।। ७८ ।। कुण्डं नरमुखाकारं धनुष्षोडशमानकम् ।। गभीरं कूपरूपं च पापिष्ठैः संकुलं सदा ।। ७९ ।। गजेन्द्राणां समूहेन व्याप्तं कुण्डाकृति स्थलम्।। गजदन्तहतानां च पापिनां रक्तपूरितम् ।। 2.33.८० ।। तत्कीटभक्षितानां च दीनशब्दकृतां सदा ।। धनुश्शतप्रमाणं च कीर्त्तितं गजदंशनम् ।। ८१ ।। धनुस्त्रिंशत्प्रमाणं च कुण्डं वै गोमुखाकृति ।। पापिनां दुःखदं चैव गोमुखं परिकीर्त्तितम् ।। ८२ ।। भ्रमितं कालचक्रेण सन्ततं च भयानकम् ।। कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ।। ८३ ।। लक्षमानवमानं च गभीरमतिविस्तृतम् ।। कुत्रचित्तप्ततैलं च कुण्डाभ्यन्तरमन्तिके ।।८४।। कुत्रचित्तप्तलौहादिकुण्डं ताम्रादिकं तथा ।। कुत्रचित्तप्तपाषाणकुण्डाभ्यन्तरमन्तिके ।। ८५ ।। पापिनां च प्रधानैश्च महापातकिभिर्युतम् ।। परस्परं न पश्यद्भिः शब्दकृद्भिश्च सन्ततम् ।। ८६ ।। ताडितैर्मम दूतैश्च दण्डैश्च मुसलैस्तथा ।। ८७ ।। घूर्णमानं पतद्भिश्च मूर्च्छितैश्च मुहुर्मुहुः ।। पातितैर्मम दूतैश्चाप्यत्यूर्ध्वात्पतितैः क्षणम् ।। ८८ ।। यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ।। चतुर्गुणाः सन्ति तत्र कुम्भीपाके च दुस्तरे ।। ८९ ।। सुचिरं पतिताश्चैव भोगदेहविवर्जिताः ।। सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् ।। 2.33.९० ।। कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ।। उत्थापिताश्च मद्दूतैः क्षणमेव निमज्जिताः ।। ९१ ।। निश्वासबन्धाः सुचिरं कुण्डानामन्तरे तथा ।। अतीवक्लेशयुक्ताश्च भोगदेहा अनश्वराः ।। ९२ ।। दण्डेन मुसलेनैव मम दूतैश्च ताडिताः ।। प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ।। ९३ ।। अवटः कूपभेदश्च यत्रोदं च तदाकृति ।। प्रतप्ततोयपूर्णं च धनुर्विंशत्प्रमाणकम् ।। ९४ ।। व्याप्तं महापापिभिश्च दग्धगात्रैश्च सन्ततम् ।। मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ।। ९५ ।। यत्तोयस्पर्शमात्रेण सर्व व्याधिश्च पापिनाम् ।। भवेदकस्मात्पततां यत्र कुण्डे धनुश्शते ।। ९६ ।। सर्वे रुद्धाः पापिनश्च व्यथन्ते यत्र सन्ततम् ।। हाहेति शब्दं कुर्वन्तस्तदेवारुन्तुदं विदुः ।।।९७।। तप्तपांसुभिराकीर्णं ज्वलद्भिस्तु सुदग्धकैः ।। तद्भक्ष्यैः पापिभिर्युक्तं पांसुभोजं धनुश्शतम् ।।९८।। पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।। पातमात्रेण पापी वै भवेत्पाशेन वेष्टितः ।। ९९ ।। क्रोशमाने च कुण्डे वै विदुस्तत्पाशवेष्टनम् ।। धनुर्विंशतिमानं च शूलप्रोतं प्रकीर्तितम् ।। 2.33.१०० ।। पातमात्रेण पापी च शूलेन ग्रथितो भवेत् ।। पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।। १०१ ।। अतीव हिमतोये च क्रोशार्द्धं च प्रकम्पनम् ।। ददत्येव हि मद्दूता यत्रोल्काः पापिनां मुखे ।। १०२ ।। धनुर्विंशतिमानं च तदुल्काभिश्च संकुलम् ।। लक्षमानवमानं च गभीरं च धनुश्शतम् ।। १०३ ।। नानाप्रकारक्रिमिभिः संयुक्तं च भयानकैः ।। अत्यन्धकारख्याप्तं यत्कूपाकारं च वर्त्तुलम् ।। १०४ ।। तद्भक्ष्यैः पापिभिर्युक्तं न पश्यद्भिः परस्परम्।। तप्ततोयप्रदग्धैश्च चलद्भिः कीटभक्षितैः ।। ध्वान्तेन चक्षुषा चान्धैरन्धकूपं प्रकीर्तितम् ।। १०५ ।। नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः ।। धनुर्विंशतिमानं च वेधनं तत्प्रकीर्तितम् ।। १०६ ।। दण्डेन ताडिता यत्र मम दूतैश्च पापिनः ।। धनुःषोडशमानं च तत्कुण्डं दण्डताडनम् ।। १०७ ।। निबद्धाश्च महाजालैर्यथा मीनाश्च पापिनः ।। धनुस्त्रिंशत्प्रमाणं च जालबद्धप्रकीर्तितम् ।। १०८ ।। पततां पापिनां कुण्डे देहाश्चूर्णीभवन्ति च ।। लौहवेदिनिबद्धान्तः कोटिमानवमानकम् ।।१०९।। गभीरं ध्वान्तयुक्तं च धनुर्विंशतिमानकम् ।। मूर्च्छितानां जडानां तद्देहचूर्णं प्रकीर्तितम् ।। 2.33.११० ।। दलिताः पापिनो यत्र मद्दूतैर्मुसलैः सदा ।। धनुष्षोडशमानं च तत्कुण्डं दलनं स्मृत म् ।। १११ ।। पातमात्रे यत्र पापी शुष्ककण्ठौष्ठतालुकः ।। वालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम् ।। ११२ ।। शतमानवमानं च गभीरं ध्वान्तसंयुतम्।। जलाहारैर्विरहितं शोषणं तत्प्रकीर्तितम्।।११३।। नानाचर्मकषायोदैः परिपूर्णं धनुःशतम्।। दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः संकुलं महत् ।।११४।। शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम्।। तप्तलौहीवालुकाभिः पूर्णं पातकिभिर्युतम्।।११५।। अन्तरा ऽग्निशिखानां च ज्वालाव्यात्तमुखं सदा ।। धनुर्विंशतिमानं च यस्य कुण्डस्य सुन्दरि ।। ११६ ।। ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव यत् ।। तन्महत्क्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् ।। ११७ ।। पातमात्राद्यत्र पापी मूर्छितो व्यथितो भवेत्।। तप्तेष्टकाभ्यन्तरितं वाप्यर्द्धं जिह्मकुण्डकम् ।। ११८ ।। धूमान्धकारयुक्तं च धूमान्धैः पापिभिर्युतम् ।। धनुःशतं श्वासबद्धैर्धूमान्धं परिकीर्तितम् ।। ११९ ।। पातमात्राद्यत्र पापी नागैस्संवेष्टितो भवेत् ।। धनुःशतं नागपूर्णं नागवेष्टनकुण्डकम् ।। 2.33.१२० ।। षडशीतिश्च कुण्डानि मयोक्तानि निशामय ।। लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ।। १२१ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने यमलोकस्थनरककुण्डलक्षणप्रकथनं नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।

yama uvāca || pūrṇendumaṇḍalākāraṃ sarvakuṇḍaṃ ca vartulam || atīva nimnaṃ pāṣāṇabhedaiśca khacitaṃ sati || 1 || na naśvaraṃ cāpralayaṃ nirmitaṃ ceśvarecchayā || kleśadaṃ vai pātakināṃ nānārūpaṃ tadālayam || 2 || jvaladaṅgārarūpaṃ ca śatahastaśikhānvitam || paritaḥ krośamānaṃ ca vahnikuṇḍaṃ prakīrttitam || 3 || mahacchabdaṃ prakurvadbhiḥ pāpibhiḥ paripūritam || rakṣitaṃ mama dūtaiśca tāḍitaiścāpi santatam || 4 || prataptodakapūrṇaṃ ca hiṃsrajantusamanvitam || mahāghorāndhakāraṃ ca pāpisaṃghena saṃkulam || 9 || prakurvatā kākuśabdaṃ prahārairvarṇitena ca|| krośārddhamānaṃ maddūtastāḍitena ca rakṣitam || 6 || tattakṣārodakaiḥ pūrṇaṃ nakraiśca pariveṣṭitam || saṅkulaṃ pāpibhiścaiva krośamānaṃ bhayānakam || 7 || trāhīti śabdaṃ kurvadbhirmama dūtaiśca tāḍitaiḥ || pracaladbhiranāhāraiḥ śuṣkakaṇṭhauṣṭhatālukaiḥ || 8 || viṇmūtraireva pūrṇaṃ ca krośamānaṃ ca kutsitam || atidurgandhisaṃyuktaṃ vyāptaṃ pāpibhireva ca || 9 || tāḍitairmama dūtaiścāpyanāhārairupadravaiḥ || rakṣeti śabdaṃ kurvadbhistatkīṭaireva bhakṣitam|| || 2.33.10 || taptamūtradravaiḥ pūrṇaṃ mūtrakīṭaiśca saṃkulam || yuktaṃ mahāpāpibhiśca tatkīṭairdaṃśitaṃ sadā || 11 || gavyūtimānaṃ dhvāntāktaṃ śabdakṛdbhiśca santatam|| maddūtaistāḍitairghoraiḥ śuṣkakaṇṭhauṣṭhatālukaiḥ ||12|| ślaiṣmapūrṇaṃ krośamitaṃ veṣṭitaṃ ceṣṭitaiḥ sadā || tadbhojibhiḥ pāpibhiśca tatkīṭairbhakṣitaiḥ sadā || 13 || krośārddhaṃ garapūrṇaṃ ca garabhojibhiranvitam || garakīṭairbhakṣitaiśca pāpibhiḥ pūrṇameva ca|| 14|| tāḍitairmama dūtaiśca śabdakṛdbhiśca kampitaiḥ || sarpākārairvajradaṃṣṭraiḥ śuṣkakaṇṭhaiḥ sudāruṇaiḥ||15|| netrayormalapūrṇaṃ ca krośārddhaṃ kīṭasaṃyutam || pāpibhiḥ saṃkulaṃ śaśvaddravadbhiḥ kīṭabhakṣitaiḥ || 16 || vasārasena pūrṇaṃ ca krośaturyyaṃ sudussaham || tadbhojibhiḥ pātakibhirvyāptaṃ dūtaiśca tāḍitaiḥ ||17|| śukrapūrṇaṃ krośaturyyaṃ śukrakīṭaiśca bhakṣitaiḥ || krandadbhiḥ pāpibhiḥ śaśvatsaṃkulaṃ vyākulairbhiyā|| || 18 || durgandhiraktapūrṇaṃ ca vāpīmānaṃ gabhīrakam || tadbhojibhiḥ pāpibhiśca saṃkulaṃ kīṭabhakṣitaiḥ || 19 || pūrṇaṃ netrāśrubhirnṛṇāṃ vāpyarddhaṃ pāpibhiryutam || tāḍitairmama dūtaiśca tadbhakṣyaiḥ kīṭabhakṣitaiḥ || 2.33.20 || nṛṇāṃ gātramalaiḥ pūrṇaṃ tadbhakṣyaiḥ pāpibhiryutam || tāḍitairmama dūtaiśca vyagraiśca kīṭabhakṣitaiḥ||21|| karṇaviṭparipūrṇaṃ ca tadbhakṣyaiḥ pāpibhiryutam || vāpīturyyapramāṇaṃ ca rudadbhiḥ kīṭabhakṣitai||22|| majjāpūrṇaṃ narāṇāṃ ca mahādurgandhisaṃyutam || mahāpātakibhiryuktaṃ vāpīturyyapramāṇakam || 23 || paripūrṇaṃ snigdhamāṃsairmama dūtaiśca tāḍitaiḥ|| pāpibhiḥ saṅkulaṃ caiva vāpīmānaṃ bhayānakam || 24 || kanyāvikrayibhiścaiva tadbhakṣyaiḥ kīṭabhakṣitaiḥ || trāhīti śabdaṃ kurvadbhistrāsitaiśca bhayānakam || 25 || vāpīturyyapramāṇaṃ ca nakhādikacatuṣṭayam || pāpibhiḥ saṃkulaṃ śaśvanmama dūtaiśca tāḍitaiḥ || 26 |! prataptatāmrakuṃḍaṃ ca tāmraparyyunmukhānvitam || tāmrāṇāṃ pratimālakṣaiḥ prataptairāvṛtaṃ sadā || 27 || pratyekaṃ pratimāśliṣṭai rudadbhiḥ pāpibhiryutam || gavyūtimānaṃ vistīrṇaṃ mama dūtaiśca tāḍitaiḥ || 28 || prataptalohadhāraṃ ca jvaladaṅgārasaṃyutam || lohānāṃ pratimālakṣaiḥ prataptairāvṛtaṃ sadā || 29 || pratyekaṃ sarvasaṃśliṣṭaiḥ śaśvadvicalitairbhiyā || rakṣa rakṣeti śabdaṃ ca kurvadbhirdūtatāḍitaiḥ || 2.33.30 || mahāpātakibhiryuktaṃ dvigavyūtipramāṇakam || bhayānakaṃ dhvāntayuktaṃ lauhakuṇḍaṃ prakīrtitam || 31 || dharmakuṇḍaṃ taptasurākuṇḍaṃ vāpyarddhameva ca || tadbhojibhiḥ pāpibhiśca vyāptaṃ maddūtatāḍitaiḥ ||32|| adhaḥ śālmalivṛkṣasya tīkṣṇakaṇṭakakuṇḍakam || lakṣapauruṣamānaṃ ca krośamānaṃ ca duḥkhadam || 33 || dhanurmāne kaṇṭakaiśca sutīkṣṇaiḥ pariveṣṭitam || 34 || pratyekaṃ kaṃṭakairviddhaṃ mahāpātakibhiryutam || vṛkṣāgrānnipatadbhiśca mama dūtaiśca tāḍitaiḥ || 35 || jalaṃ dehīti śabdaṃ ca kurvadbhiḥ śuṣkatālukaiḥ || mahābhayā'tivyagraiśca daṇḍasaṃbhinnamastakaiḥ || pracaladbhiryathā taptataile jīvibhireva ca ||36|| viṣaughaistakṣakādīnāṃ pūrṇaṃ ca krośamānakam|| tadbhakṣyaiḥ pāpibhiryuktaṃ mama dūtaiśca tāḍitaiḥ || 37 || prataptatailapūrṇaṃ ca kīṭādiparivarjitam || tadbhakṣyaiḥ pāpibhiryuktaṃ snigdhagātraiśca veṣṭitaiḥ || 38 || kākuśabdaṃ prakurvadbhiścaladbhirdūtatāḍitaiḥ || mahāpātakibhiryuktaṃ dvigavyūtipramāṇakam || 39 || śastrakuṇḍaṃ dhvāntayuktaṃ krośamānaṃ bhayānakam || śūlākāraiḥ sutīkṣṇāgrairlauhaśastraiśca veṣṭitam || 2.33.40 || śastratalpasvarūpaṃ ca krośaturyyapramāṇakam || pātakibhirveṣṭitaṃ ca kuntaviddhaiśca veṣṭitam || 41 || tāḍitairmama dūtaiśca śuṣkakaṇṭhauṣṭhatālakaiḥ || kīṭaiḥ saṃpīḍyamānaiśca sarpayānairbhayaṅkaraiḥ ||42|| tīkṣṇadantaiśca vikṛtairvyāptaṃ dhvāntayutaṃ sati || mahāpātakibhiryuktaṃ bhītairvā kīṭabhakṣitaiḥ || rudadbhiḥ krośamānaṃ ca mama dūtaiśca tāḍitaiḥ || 43 || atidurgandhisaṃyuktaṃ krośārddhaṃ pūyasaṃyutam || tadbhakṣyaiḥ pāpibhiryuktaṃ mama dūtaiśca tāḍitaiḥ || 44 || dvigavyūti pramāṇaṃ ca himatoyaprapūritam || tālavṛkṣapramāṇaiśca sarpakoṭibhirāvṛtam || 49' || sarpaveṣṭitagātraiśca pāpibhiḥ sarpabhakṣitaiḥ || saṃkulaṃ śabdakṛdbhiśca mama dūtaiśca tāḍitaiḥ || 46 || kuṇḍatrayaṃ maśādīnāṃ pūrṇaṃ ca maśakādibhiḥ || sarvaṃ kośārddhamānaṃ ca mahāpātakibhiryutam || 47 || hastapādādibhirbaddhaiḥ kṣatraiḥ kṣatajalauhitaiḥ || hāheti śabdaṃ kurvadbhiḥ pracaladbhiśca santatam||48|| vajravṛścikayoḥ kuṇḍaṃ tābhyāṃ ca paripūritam || vāpyarddhaṃ pāpibhiryuktaṃ vajravṛścikadaṃśitaiḥ || 49 || kuṇḍatrayaṃ śarādīnāṃ taireva paripūritam || tairviddhaiḥ pāpibhiryuktaṃ vāpyarddhaṃ raktalohitaiḥ ||2.33.50|| taptapaṅkodakaiḥ pūrṇaṃ sadhvāntaṃ golakuṇḍakam || kīṭaiḥ saṃpīḍyamānaiśca bhakṣitaiḥ pāpibhiryutam || 51 || vāpyarddhaṃ paripūrṇaṃ ca jalasthairnakrakoṭibhiḥ || dāruṇairvikṛtākārairbhakṣitaiḥ pāpibhiryutam || 52 || viṇmūtraśleṣmabhakṣyaiśca saṃyuktaṃ śatakoṭibhiḥ || kākaiśca vikṛtākārairdhanurlakṣaṃ ca pāpibhiḥ || 53 || sañcālavājayoḥ kuṇḍaṃ tābhyāṃ ca paripūritam || bhakṣitaiḥ pāpibhiryuktaṃ śabdakṛdbhiśca santatam || 54 || dhanuḥśataṃ vajrayuktaṃ pāpibhiḥ saṅkulaṃ sadā || śabdakṛdbhirvajradagdhairantardhvāntamayaṃ sadā|| || 55 || vāpīdviguṇayānaṃ ca taptaprastaranirmitam || jvaladaṅgārasadṛśaṃ caladbhiḥ pāpibhiryutam || 56 || kṣuradhāropamaistīkṣṇaiḥ pāṣāṇe rnirmitaṃ param || mahāpātakibhiryuktaṃ kṣataṃ kṣatajalohitaiḥ || 57 || durgandhilālāpūrṇaṃ ca tadbhakṣyaiḥ pāpibhiryutam || krośamānaṃ gabhīraṃ ca mama dūtaiśca tāḍitaiḥ ||58|| taptatoye'ñjanākāraiḥ paripūrṇaṃ dhanuśśatam || caladbhiḥ pāpibhiryuktaṃ mama dūtena tāḍitaiḥ||59|| pūrṇaṃ cūrṇadravaiḥ krośamānaṃ pāpibhiranvitam || tadbhojibhiḥ pradagdhaiśca mama dūtaiśca tāḍitaiḥ || 2.33.60 || kuṇḍaṃ kulālacakrābhaṃ ghūrṇyamānaṃ ca santatam || sutīkṣṇaṣoḍaśāraṃ ca ghūrṇitaiḥ pāpibhiryutam || 61 || atīva vakraṃ nimnaṃ ca dvigavyūtipramāṇakam || kandarākāranirmāṇaṃ taptodakasamanvitam ||62|| mahāpātakibhiryuktaṃ bhakṣitairjalajantubhiḥ || pracaladbhiḥ śabdakṛdbhirdhvāntayuktaṃ bhayānakam || 63 || koṭibhirvikṛtākāraiḥ kacchapaiśca sudāruṇaiḥ || jalasthaiḥ saṃyutaṃ taiśca bhakṣitaiḥ pāpibhiryutam||64|| jvālākalāpaistejobhinirmitaṃ krośamānakam || śabdakṛdbhiḥ pāpibhiśca caladbhiḥ saṃyutaṃ sadā || 65 || krośamānaṃ gabhīraṃ ca taptabhasmabhiranvitam || śaśvaccaladbhiḥ saṃyuktaṃ pāpibhirbhasmabhakṣitaiḥ || 66 || taptapāṣāṇaloṣṭānāṃ samūhaiḥ paripūritam || prāṇibhirdagdhagātraiśca yuktaṃ vai śuṣkatālukaiḥ || 67 || krośamānaṃ dhvāntamayaṃ gabhīramatidāruṇaiḥ || tāḍitairmama dūtaiśca dagdhakuṇḍaṃ prakīrtitam || 68 || apyūrmiyuktatoyaṃ ca prataptakṣārasaṃyutam || nānāprakāra vikṛtaṃ jalajantusamanvitam || 69 || dvigavyūtipramāṇaṃ ca gabhīraṃ dhvāntasaṃyutam || tadbhakṣyaiḥ pāpibhiryuktaṃ daṃśitairjalajantubhiḥ||2.33.70|| caladbhiḥ krandamānaiśca na paśyadbhiḥ parasparam || uttaptasūrmikuṇḍaṃ ca kīrtitaṃ ca bhayānakam || 71 || asipatravanasyaivāpyuccaistāla taroradhaḥ || krośārddhamānakuṇḍaṃ ca patatpatrasamanvitam || 72 || pāpināṃ raktapūrṇaṃ ca vṛkṣāgrātpatatāṃ param || paritrāhīti śabdaṃ ca kurvatāmasatāmapi || 73 || gabhīraṃ dhvāntasaṃyuktaṃ raktakīṭasamanvitam || tadasīpatrakuṇḍaṃ ca kīrtitaṃ ca bhayānakam || 74 || dhanuśśatapramāṇaṃ ca kṣurākārāstrasaṃkulam|| pāpināṃ raktapūrṇaṃ ca kṣuradhāraṃ bhayānakam||75|| sūcīvāśyāstrasaṃyuktaṃ pāpiraktaughapūritam|| pañcāśaddhanurāyāmaṃ kleśadaṃ sūcīkāmukham || 76 || godhāhvajantubhedasya mukhākṛti bhayānakam || kūparūpaṃ gabhīraṃ ca dhanurviṃśatimānakam || 77 || mahāpātakinā caiva mahākleśakaraṃ param || tatkīṭabhakṣitānāṃ ca namrāsyānāṃ ca santatam || 78 || kuṇḍaṃ naramukhākāraṃ dhanuṣṣoḍaśamānakam || gabhīraṃ kūparūpaṃ ca pāpiṣṭhaiḥ saṃkulaṃ sadā || 79 || gajendrāṇāṃ samūhena vyāptaṃ kuṇḍākṛti sthalam|| gajadantahatānāṃ ca pāpināṃ raktapūritam || 2.33.80 || tatkīṭabhakṣitānāṃ ca dīnaśabdakṛtāṃ sadā || dhanuśśatapramāṇaṃ ca kīrttitaṃ gajadaṃśanam || 81 || dhanustriṃśatpramāṇaṃ ca kuṇḍaṃ vai gomukhākṛti || pāpināṃ duḥkhadaṃ caiva gomukhaṃ parikīrttitam || 82 || bhramitaṃ kālacakreṇa santataṃ ca bhayānakam || kumbhākāraṃ dhvāntayuktaṃ dvigavyūtipramāṇakam || 83 || lakṣamānavamānaṃ ca gabhīramativistṛtam || kutracittaptatailaṃ ca kuṇḍābhyantaramantike ||84|| kutracittaptalauhādikuṇḍaṃ tāmrādikaṃ tathā || kutracittaptapāṣāṇakuṇḍābhyantaramantike || 85 || pāpināṃ ca pradhānaiśca mahāpātakibhiryutam || parasparaṃ na paśyadbhiḥ śabdakṛdbhiśca santatam || 86 || tāḍitairmama dūtaiśca daṇḍaiśca musalaistathā || 87 || ghūrṇamānaṃ patadbhiśca mūrcchitaiśca muhurmuhuḥ || pātitairmama dūtaiścāpyatyūrdhvātpatitaiḥ kṣaṇam || 88 || yāvantaḥ pāpinaḥ santi sarvakuṇḍeṣu sundari || caturguṇāḥ santi tatra kumbhīpāke ca dustare || 89 || suciraṃ patitāścaiva bhogadehavivarjitāḥ || sarvakuṇḍapradhānaṃ ca kumbhīpākaṃ prakīrtitam || 2.33.90 || kālanirmitasūtreṇa nibaddhā yatra pāpinaḥ || utthāpitāśca maddūtaiḥ kṣaṇameva nimajjitāḥ || 91 || niśvāsabandhāḥ suciraṃ kuṇḍānāmantare tathā || atīvakleśayuktāśca bhogadehā anaśvarāḥ || 92 || daṇḍena musalenaiva mama dūtaiśca tāḍitāḥ || prataptatoyayuktaṃ ca kālasūtraṃ prakīrtitam || 93 || avaṭaḥ kūpabhedaśca yatrodaṃ ca tadākṛti || prataptatoyapūrṇaṃ ca dhanurviṃśatpramāṇakam || 94 || vyāptaṃ mahāpāpibhiśca dagdhagātraiśca santatam || maddūtaistāḍitaiḥ śaśvadavaṭodaṃ prakīrtitam || 95 || yattoyasparśamātreṇa sarva vyādhiśca pāpinām || bhavedakasmātpatatāṃ yatra kuṇḍe dhanuśśate || 96 || sarve ruddhāḥ pāpinaśca vyathante yatra santatam || hāheti śabdaṃ kurvantastadevāruntudaṃ viduḥ |||97|| taptapāṃsubhirākīrṇaṃ jvaladbhistu sudagdhakaiḥ || tadbhakṣyaiḥ pāpibhiryuktaṃ pāṃsubhojaṃ dhanuśśatam ||98|| patatāṃ pāpināṃ yatra bhavedeva prakampanam || pātamātreṇa pāpī vai bhavetpāśena veṣṭitaḥ || 99 || krośamāne ca kuṇḍe vai vidustatpāśaveṣṭanam || dhanurviṃśatimānaṃ ca śūlaprotaṃ prakīrtitam || 2.33.100 || pātamātreṇa pāpī ca śūlena grathito bhavet || patatāṃ pāpināṃ yatra bhavedeva prakampanam || 101 || atīva himatoye ca krośārddhaṃ ca prakampanam || dadatyeva hi maddūtā yatrolkāḥ pāpināṃ mukhe || 102 || dhanurviṃśatimānaṃ ca tadulkābhiśca saṃkulam || lakṣamānavamānaṃ ca gabhīraṃ ca dhanuśśatam || 103 || nānāprakārakrimibhiḥ saṃyuktaṃ ca bhayānakaiḥ || atyandhakārakhyāptaṃ yatkūpākāraṃ ca varttulam || 104 || tadbhakṣyaiḥ pāpibhiryuktaṃ na paśyadbhiḥ parasparam|| taptatoyapradagdhaiśca caladbhiḥ kīṭabhakṣitaiḥ || dhvāntena cakṣuṣā cāndhairandhakūpaṃ prakīrtitam || 105 || nānāprakāraśastraughairyatra viddhāśca pāpinaḥ || dhanurviṃśatimānaṃ ca vedhanaṃ tatprakīrtitam || 106 || daṇḍena tāḍitā yatra mama dūtaiśca pāpinaḥ || dhanuḥṣoḍaśamānaṃ ca tatkuṇḍaṃ daṇḍatāḍanam || 107 || nibaddhāśca mahājālairyathā mīnāśca pāpinaḥ || dhanustriṃśatpramāṇaṃ ca jālabaddhaprakīrtitam || 108 || patatāṃ pāpināṃ kuṇḍe dehāścūrṇībhavanti ca || lauhavedinibaddhāntaḥ koṭimānavamānakam ||109|| gabhīraṃ dhvāntayuktaṃ ca dhanurviṃśatimānakam || mūrcchitānāṃ jaḍānāṃ taddehacūrṇaṃ prakīrtitam || 2.33.110 || dalitāḥ pāpino yatra maddūtairmusalaiḥ sadā || dhanuṣṣoḍaśamānaṃ ca tatkuṇḍaṃ dalanaṃ smṛta m || 111 || pātamātre yatra pāpī śuṣkakaṇṭhauṣṭhatālukaḥ || vālukāsu ca taptāsu dhanustriṃśatpramāṇakam || 112 || śatamānavamānaṃ ca gabhīraṃ dhvāntasaṃyutam|| jalāhārairvirahitaṃ śoṣaṇaṃ tatprakīrtitam||113|| nānācarmakaṣāyodaiḥ paripūrṇaṃ dhanuḥśatam|| durgandhiyuktaṃ tadbhakṣyaiḥ pāpibhiḥ saṃkulaṃ mahat ||114|| śūrpākāramukhaṃ kuṇḍaṃ dhanurdvādaśamānakam|| taptalauhīvālukābhiḥ pūrṇaṃ pātakibhiryutam||115|| antarā 'gniśikhānāṃ ca jvālāvyāttamukhaṃ sadā || dhanurviṃśatimānaṃ ca yasya kuṇḍasya sundari || 116 || jvālābhirdagdhagātraiśca pāpibhirvyāptameva yat || tanmahatkleśadaṃ śaśvatkuṇḍaṃ jvālāmukhaṃ smṛtam || 117 || pātamātrādyatra pāpī mūrchito vyathito bhavet|| tapteṣṭakābhyantaritaṃ vāpyarddhaṃ jihmakuṇḍakam || 118 || dhūmāndhakārayuktaṃ ca dhūmāndhaiḥ pāpibhiryutam || dhanuḥśataṃ śvāsabaddhairdhūmāndhaṃ parikīrtitam || 119 || pātamātrādyatra pāpī nāgaissaṃveṣṭito bhavet || dhanuḥśataṃ nāgapūrṇaṃ nāgaveṣṭanakuṇḍakam || 2.33.120 || ṣaḍaśītiśca kuṇḍāni mayoktāni niśāmaya || lakṣaṇaṃ cāpi teṣāṃ ca kiṃ bhūyaḥ śrotumicchasi || 121 || iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvāde sāvitryupākhyāne yamalokasthanarakakuṇḍalakṣaṇaprakathanaṃ nāma trayastriṃśo'dhyāyaḥ || 33 ||

English translation

Description of the Kun^as of hell Yama said—All tiie pits in the hell are circular like the moon. They are quite deep and have many types of stones arranged in them.

They have been constructed according to the will of the lord; that is why they caimot be destroyed before the time of dissolution. They are of various types and are painful to the They have burning flames rising up to a hundred feet, have a circumference of a Kosa.

One. of them is called Agnikuiida. It always remains filled with sinners who cry aloud always. My messengers always protect the kunda, torturing the sinners all the time.

There is a Prataptodakakunda having a diameter of half of Kosa which is filled with wild animals, boiling water, complete darkness and the sinners. My messengers torture the sinners there who cry aloud expressing their grief and The Taptaksaroda-kunda always remains filled with boiling saline water, having a number of crocodiles and the sinners. It has a circumference of a Kosa and is quite terrific. The sinners cry aloud after having been tortured by my attendants there. They always keep on moving in the same and in the absence of any food, their lips and throat always remain dry.

The Vinmiitra-kiinda is filled with refuse and urine and is spread in the area of one Kosa; it is denounced by everyone and emits a foul smell and is filled with the sinners. They are made to staiwe there and are tortured by my attendants, as a result of which they cry for hell. Many of the insects bite them severely.

The Kunda is filled with boiling urine and the insects of the urine bite the great sinners. This is named as Mutra-kunda and is spread in an area of two Kosas, covered with darkness where the sinners are always bitten by the insects and are also tortured by my attendants who always cry aloud and their throat, tongue and lips get dried is always filled with cough and is spread over an area of one Kosa. The area is inhabited by the sinners who consume the cough and are eaten away by the insects daily.

The poison Kunda is spread over an area of half a kosa and the sinners consuming the poison reside there, the insects of the poison always bite them with their fangs resembling those of the snakes and vajra. My terrific messengers torture them who cry aloud while trembling and their throats dry up.

Then there is a Netramala-kunda which is spread over half a kosa and is filled with many types of insects in which the sinners are lodged.

Because of their having been bitten by the insects daily they become lean and thin. There is another kunda filled with fat and is spread over an area of four kosas, the sinners who consume the fat are lodged there. They are tortured by my attendants There is another Sudra-kutjda which is filled with semen and is spread over an area of four kosas. The place is inhabited by the terrified sinners who are bitten by the insects of semen as a result of which they cry aloud. It is like a step- well filled with blood emitting a foul smell and is given the name of Rakta-kunda; the sinners who consume the blood are lodged there. The insects eat them up daily.

The Asrukimda is filled with tears and looks like half a portion of the step-well. It is filled with the sinners whom my messengers always torture. Besides, the insects of the place bite them and eat them up; the sinners lodged there consume only the tears. The Karnavit-kunda is filled with ear wax and has the size of four step- wells; it is filled with the sinners who consume the refuse and they are eaten up by the insects, the pain of which they have to bear.

There is a Gatramala-kunda which is filled with the refuse of the human bodies. The sinners consume the same and the messengers torture them daily. The insects bite them daily which keep the sinners quite unhappy.

There is a Majja-lainda which is filled with the human veins and it emits a terrific evil smell.

It is spread over an area of four step-wells.

cTTilt: I The Mansa-kunda is filled with human flesh and is spread over an area of a step-well; the sinners are lodged there who are tortured by my messengers. They include those who sell their daughter and they eat the same flesh. They are bitten by the insects and they always cry for hell There is another kunda named Nakha-kunda which is spread over an area of four step-wells I and is filled with the sinners who are tortured by I my attendants daily.

The Prataptamra-kunda is encased with copper from all sides. It contains lakhs of images of copper. They are always kept there to torture the sinners who have to embrace the burning images which make them cry aloud. They are beaten by messengers also. The hinda is spread over an area of two kosas, There is another kunda having the weapon of sharp edged iron and is filled with burning flames; it is surrounded by iron balls which always remain burning and the sinners are required to embrace them. This terrify them and they try to separate themselves from the same but are unsuccessful. On the other hand when they are tortured by the messengers of Yama they cry for help.

There is a Lauha-kunda in which the great sinners dwell. It is spread over an area of four kosas. The Dharma-kunda and Taptasura-kunda are of the size of half a step-well and they are meant for the types of sinners who are beaten by my messengers and have to consume boiling There is a htnda beneath the Salmali-tree which is filled with sharp edged thorns; it is spread in one kosa land and very painfiiL Lakhs of people are lodge there; it is surrounded with sharp edged thorns of the size of arrows.

Those thorns pierce through the bodies of a great sinner which are thrown from the top of the tree. These sinners are further tortured by my attendants. They cry for water but they never get it and their tongues dry. up. Their heads are broken by the strike of rods. Running in the boiling oil, such people suffer badly terrified.

There is another kunda of snakes in which serpents like Taksaka and others bite the sinners who are also tortured by my messengers.

There is another kunda which always remains filled with boiling oil, having no insects, the burning oil is applied on the tender limbs of the sinners. Besides my messengers beat them mercilessly as a result of which they cry aloud; thus this kunda which is filled with great sinners is spread over an area of four kosas.

The kunda which is filled with darkness is spread over an area of one kosa. It is quite horrible and is surrounded by weapons which are terrific, like the tridents and pointed tops and are made of iron. This kunda is named as Sastra- There is a kunda named the weapon-fe/nrfa which has beds of spears on which each one of the sinners is made to hang. Thereafter my messengers torture them, as a result of which their throats, lips and tongues get dried up. There is a Krmi-kunda where there are insects with sharp fangs and is filled with great sinners.

Those insects bite the sinners daily. Besides my messengers continue to torture them, making them cry-aloud.

There is a Jainda which is spread over an area of half a kosa which is filled with puss. It is always filled with sinners who have to consume the same and my messengers always beat them.

There is a snow-water kunda which is spread over an area of four kosas. It is filled with snakes of the size of a palm tree; the sinners are dumped therein and the snakes encircle their bodes. My messengers always belabour them making the There are three kundas which are filled with leeches and mosquitoes. They are all spread in an area of half a kosa each. They remain filled with sinners. Their hands and feet are tied and are soaked in blood. They are crying ha ha words and walking constantly.

Then there are lamdas which are filled with scorpions and vajras. They are of the size of step-wells and are filled with the scorpions and vajras. They are of the size of a step-well and are filled with evil-doers they are pierced with arrows. They appear red having been soaked with blood. Such kundas are half the size of a The Gola-kunda is filled with boiling mud and darkness. The sinners are bitten by the insects there. Such a kunda is half the size of a step-well.

The Nakra-kunda always remains filled with crores of crocodiles which are horrible in appearance. The sinners are bitten by them.

Similarly there are kundas of refuse, urine and cough in which crows peck at the bodies of the sinners. Such kundas are called Vinmutras'lesma- laindas. They are spread over an area of a lakh of The Sancdla and Vaja-kunda are filled with birds where the sinners in large number have to reside. The birds eat up the siimers daily as a result of which they cry aloud.

The vajra-kunda is of the size of a hundred bows in area, is filled with vajm and always remains dark. The sinners lodged in that kunda always cry with pain caused by the vajra. They are spread over double the area of a step-well.

There is Pdsdna-kun4a which is of double the size of a step-well and is filled with stones which are always burning hot. The sinners are made to sit on them, who cry aloud. Then there is a sharp- arrow kunda having sharp blades made of stones.

The sinners are tortured with them which are filled with blood and wounds.

irRjpf m:?wrq;i The Ldla-kunda is filled with bad smell and spit. The sinners have to consume the same. It is spread over an area of half a kosa. My messengers torture the sinners badly. The kunda of boiling water is quite black in colour, like the collyrium and is spread over an area of a hundred bows. It remains filled with sinners who are tortured by my messengers and cry aloud.

T nRlfinf^ra T t l There is a kunda of melted metals which is spread over an area of one kosa and is filled with sinners. The sinners have to consume the same liquid which keeps on burning. On the other hand my messengers also torture them. There is a which is like the potter's wheels and keeps on moving. It has saws and tusks on which the sinners are made to sit.

It is quite deep and is spread over an area of four kosas and appears like a cave filled with boiling water. It is quite dark and terrific in size; many of the great sinners are lodged there who are consumed by aquatic animals daily and they keep on crying.

The Kurma-kundas is filled with crores of tortoises of gigantic size who surround the sinners and eat them daily. There is a kunda of multitude flames, built with lustre, which is spread in the area of one kos'a, where the sinners cire crying for help and walking continuously.

There is a kunda of hot ashes which is spread over an area of one kosa and is quite deep. It is filled with many sinners who wander about.

They have to consume the burning ashes daily.

One of the kundas is filled with burning rocks and earth having a large number of sinners lodged therein. Their bodies are badly burnt and the tongue is dried up completely.

It is spread over an area of one kosa and is dark and quite deep. The terrific messengers of Yama always torture them. It is called the One of the kundas is filled with innumerable waves of hot and saline water having a large number of aquatic animals. It is spread over an area of four kosas and is quite deep and full of darkness. The sinners are eaten by the aquatic animals daily where they cry aloud but they are unable to see one another in darkness. This kunda is called UttaptasurmUkunda.

aTRttragqrWgtwvidTtw; I mftRt TTni;i imtt idiebliUdPidH^i There are forests having trees with leaves as sharp as sharp-edged swords and the leaves of palm trees. This kunda is spread over an area of half a kosa and the falling leaves of the palm tree injures many sinners and the blood always keeps oozing from their bodies who cry for help.

Besides, in the darkness red-coloured insects torture the evil souls. This is called Asipatra The kunda which is spread over an area of a hundred bows has sharp-edged weapons like daggers and swords, is filled with evil souls who are injured by these weapons. This kunda is called Ksuradhar-hinda.

The Sucilcamukha hell has weapons having their tips as sharp as the tip of a needle; it makes the evil souls to undergo considerable agony.

The Godhamukha lamda is of the shape of a lizard. It is quite terrific and has the shape of a lizard spreading over an area of twenty bows.

The great sinners have to suffer considerable torture in this kunda. The insects of the kunda eat away the sinners quite badly.

The Nakra-kunda is filled with many of the terrible aquatic animals including crocodiles. It is spread over an area of sixteen bows. It is quite deep like a well and is covered with darkness and is filled with the sinners. There is another kunda which is infested with elephants or tuskers who injure the sinners with their tusks.

RTRTtT Wife: The Kdlacakra-kunda, has a Kdlacah^a which always keeps on rotating. It is quite terrific to look at and resembles a pitcher. It is also called the Kumbhlpcika hell. It is spread over an area of four kosas and filled with darkness. Its death is equivalent to a lakh of humans. The Taptataila- kiinda, Laiihadi-kunda and Tamradi-kiinda and Taptapdscma-kuncia form part of the same kunda It always remains filled with great sinners who are unable to see any one and cry again and again. They faint quite often and sometimes they fall unconscious. The messengers of Yama throw them from Many of the insects bite them severely and they cry always helplessly. This kunda is spread over an area of a hundred bows and is known by the name of Gajadamsana, The Gomukha-kunda is spread over an area of three bows, is circular in shape and is filled with the sinners who are tortured there.

O beautiful one, the number of sinners lodged in the Kumbhlpcika hell excels the collective number of the sinners of all other kiindas.

The Kiimbhlpdka hell is the topmost of all the hells where the sinners have to remain after shedding their human body. Such of the sinners as are tied in the kcdasiitra are lifted up by my messengers and the next moment they are drowned again.

The sinners remain captive in all the kundas for long and go on breathing. Their bodies which have to suffer all the pain and torture never die.

On the other hand my messengers beat them with rods, clubs and many other weapons. The hell always remains filled with boiling water and is known as the kalasiitra hell.

The Avata~hell is of the shape of a well filled with water. That is why it is known as a part of the well. It is filled with boiling water in an area of twenty-four bows, where a large number of sinners reside whose bodies always remain burning and on the other hand my messengers keep on torturing them. Such a place is called Tfddt tnftfdt m wcrtt i After having a fall in a kunda of the size of a hundred bows and with the touch of its water, the body of the sinners attract ailments. All the sinners are stuck up there and have to suffer.

They cry aloud continuously. That is why the wise people call it Anintiida hell.

Covered with burning ashes and the bodies of the sinners, the kunda always remains filled with them. All the sinners have to consume the burning ashes. It is spread over an area of a hundred bows and sinners start trembling as soon as they fall in it. They are then tied in a noose.

The kunda is spread over an area of one kosa.

This is called the Pdsavestana hell. The kunda known as Siilaprota hell is spread over an area of twenty bows. As soon as the sinners fall in it, they are torn with the tridents and start trembling.

It is filled with snow and is spread over an area of half a kosa. It has been named as Prakampana hell where our messengers insert burning flames into the mcniths of the sinners. It is spread over an area of twenty bows and is infested with comets. It has therefore been named as Ulkdmiikha hell. This one keeps lakhs of people together and is quite deep and spread over an area of a hundred bows infested with terrific insects and is filled with darkness, having the form of a circular well. It is filled with all the sinners who are unable to see one another and they keep on suffering in the boiling water and the biting of the insects. Since it is pitch dark there, nothing is visible. It is therefore called the The hell where the sinners are tortured with various weapons is spread over an area of twenty bows. It is called the Vedhana-kunda.

The place at which our messengers torture the sinner is spread over an area of sixteen bows. It is called Dandatadana-hinda.

The place where the sinners are trapped like the fish in a net is spread over an area of thirty bows and is known as Jdlabaddha-kunda.

This is the kimda in which the bodies of sinners are reduced to pieces when they fall and where a number of pedestals are made which can accommodate crores of people. It is quite deep and dark. It is spread over an area of twenty bows. It is called the Dehaciirna-kun^a for those who fall in it, faint and become motionless.

The kunda in which my messengers torture the sinners with clubs in their hands, is spread over an area of sixteen bows. It is called Dalana- The kimda in which the sinners, while falling, have their throat, lips and tongues dried up, is filled with burning sand and is spread over an area of thirty bows, is deep as much as a hundred | humans. It is filled with darkness, is deprived of water. It is called the Sosana- kunda..

The kunda which is filled with leather giving out a bad smell, is spread over an area of a hundred bows. It is infested with evil smells and the sinners feed on the same.

The kurida of the shape of a winnowing basket is spread over an area of twelve bows. It has the sands burning like iron and is filled with sinners.

O beautiful one, the kunda in which heaps of fire are found and the flames of fire keep on burning, has to be faced by the sinners. The flames of fire emerge from their bodies. The one which always inflicts terrific pain is called The hinda in which the sinners lose their senses after a fall, the inner part of which always remains burning and which is spread over an area of half a step-well, is called Jihma-kunda.

The kunda which is filled with darkness like a well and blinded by the smoke inside, is filled with sinners. It is spread over an area of a hundred bows and is know by the name of The kunda in which the sinners are encircled by the serpents with their fall and which is spread over an area of a hundred bows^ is filled with snakes. It is called the Nagaveslcma kiindci.

I have thus spell out the details of eighty kundas with their nariies and definitions, what else do you want lo listen to Ironi me further?

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 117826 (2017-08-17T13:04:00Z); Shanti Lal Nagar English scan pages n379–n389: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n379/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.