Skip to main content

Prakṛti-khaṇḍa · Chapter 27

Chapter 27

Unit 57 of 276Prakṛti-khaṇḍa · Chapter 27Prakṛti-khaṇḍa · Chapter 271 source entries

Prakṛti-khaṇḍa · Chapter 27

Source

सावित्र्युवाच ।। प्रयांति स्वर्गमन्यं च येन येनैव कर्म्मणा।। मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ।। १ ।। यम उवाच ।। अन्नदानं च विप्राय यः करोति च भारते ।। अन्नप्रमाणवर्ष च शक्रलोके महीयते ।।२।। अन्नदानात्परं दानं न भूतं न भविष्यति ।। नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ।। ३ ।। देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ।। महीयते वह्निलोके वर्षाणामयुतं ध्रुवम् ।। ४ ।। यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।। तल्लोममानवर्णं च वैकुण्ठे च महीयते ।।५।। चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।। दानं नारायणक्षेत्रे फलं कोटिगुणं भवेत् ।। ६ ।। गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।। वर्षाणामयुतं चैव चन्द्रलोके महीयते ।।७।। यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।। तल्लोममानवर्षं च वैकुण्ठे च महीयते।।८।। यो ददाति ब्राह्मणाय शालिग्रामं सवस्त्रकम् ।। महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ।।९।। यो ददाति ब्राह्मणाय छत्रं च सुमनोहरम् ।। वर्षाणामयुतं सोऽपि मोदते वरुणालये ।। 2.27.१० ।। विप्राय पादुकायुग्मं यो ददाति च भारते ।। महीयते वायुलोके वर्षाणामयुतं सति।।११।। यो ददाति ब्राह्मणाय शय्यां दिव्यां मनोहराम्।। महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ।। १२ ।। यो ददाति प्रदीपं च देवाय ब्राह्मणाय च ।। यावन्मन्वन्तरं सोऽपि ब्रह्मलोके महीयते ।। १३ ।। सम्प्राप्य मानवीं योनिं चक्षुष्मांश्च भवेद्ध्रुवम् ।। न याति यमलोकं च तेन पुण्येन सुन्दरि ।। १४ ।। करोति गजदानं च यो हि विप्राय भारते।। यावदिन्द्रादिदेवस्य लोके चार्धासने वसेत् ।। १५ ।। भारते योऽश्वदानं च करोति ब्राह्मणाय च ।। मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ।। १६ ।। प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।। महीयते विष्णुलोके यावन्मन्वन्तरं सति ।। १७ ।। यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।। महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ।। १८ ।। धान्याचलं यो ददाति ब्राह्मणाय च भारते ।। स च धान्यप्रमाणाब्दं विष्णुलोके महीयते ।। १९ ।। ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी ।। दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ।। 2.27.२० ।। सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।। स एव चिरजीवी च ततो मृत्युः पलायते ।।२१ ।। यो नरो भारते वर्षे दोलनं कारयेद्धरेः ।। पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ।। २२ ।। इह लोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम्।। निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ।। २३ ।। फलमुत्तरफाल्गुन्यां ततोऽपि द्विगुणं भवेत् ।। कल्पान्तजीवी स भवेदित्याह कमलोद्भवः ।। २४ ।। तिलदानं ब्राह्मणाय यः करोति च भारते ।। तिलप्रमाणवर्षं च मोदते विष्णुमन्दिरे ।। २५ ।। ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी।। ताम्रपात्रस्थदानेन द्विगुणं च फलं लभेत्।।२६।। सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम्।। यो ददाति ब्राह्मणा य भारते च पतिव्रताम् ।। २७ ।। महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।। तत्र स्वर्वेश्यया सार्द्धं मोदते च दिवानिशम् ।। २८ ।। ततो गन्धर्वलोके च वर्षाणामयुतं सति ।। दिवानिशं कौतुकेन चोर्वश्या सह मोदते ।। २९ ।। ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।। सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ।। 2.27.३० ।। ददाति सफलं वृक्षं ब्राह्मणाय च यो नरः ।। फलप्रमाणवर्षं च शक्रलोके महीयते ।। ३१ ।। पुनः स्वयोनिं संप्राप्य लभते सुतमुत्तमम् ।। सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ।। ३२ ।। केवलं फलदानं च ब्राह्मणाय ददाति यः ।। सुचिरं स्वर्गवासं च कृत्वा याति च भारतम्।। ३३ ।। नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ।। ददाति यश्च विप्राय भारते विपुलं गृहम् ।। ३४ ।। कुबेरलोके वसति स च मन्वन्तरावधि ।। ततः स्वयोनिं संप्राप्य महांश्च धनवान्भवेत् ।। ३५ ।। यो जनः सस्यसंयुक्तां भूमिं च रुचिरां सति ।। ददाति भक्त्या विप्राय पुण्यक्षेत्रे च वा सति।। ।। ३६ ।। महीयते स वैकुण्ठे मन्वन्तरशतं ध्रुवम् ।। पुनः स्वयोनिं संप्राप्य महांश्च भूमिवान्भवेत् ।। ३७ ।। तं न त्यजति भूमिश्च जन्मनां शतकं परम् ।। श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ।। ३८ ।। सप्रजं च प्रकृष्टं च ग्रामं दद्याद्द्विजातये ।। लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ।।३९।। पुनः स्वयोनिं संप्राप्य ग्रामलक्षं लभेद्ध्रुवम् ।। न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ।।2.27.४०।। सप्रजं सुप्रकृष्टं च पञ्चसस्यसमन्वितम् ।। नानापुष्करिणीवृक्षफलभोगसमन्वितम् ।।४१।। नगरं यश्च विप्राय ददाति भारते भुवि ।। महीयते स वैकुण्ठे दशलक्षेन्द्रकालकम्।।४२।। पुनः स्वयोनिं संप्राप्य राजेन्द्रो भारते भवेत्।। नगराणां च नियुतं लभते नात्र संशयः।। ।। ४३ ।। धरा तं न जहात्येव जन्मनां नियुतं ध्रुवम् ।। परमैश्वर्य संयुक्तो भवेदेव महीतले ।।४४।। नगराणां च शतकं देशं यो हि द्विजातये ।। सुप्रकृष्टप्रजायुक्तं ददाति भक्तिपूर्वकम् ।। ४९ ।। वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ।। महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ।। ४६ ।। पुनः स्वयोनिं संप्राप्य जम्बूद्वीपपतिर्भवेत् ।। परमैश्वर्य्यसंयुक्तो यथा शक्रस्तथा भुवि ।। ४७ ।। मही तं न जहात्येव जन्मनां कोटिमेव च ।। कल्पान्तजीवी स भवेद्राजराजेश्वरो महान् ।।४८।। स्वाधिकारं समग्रं च यो ददाति द्विजातये।। चतुर्गुण फलं चातो भवेत्तस्य न संशयः ।।४९।। जम्बूद्वीपं यो ददाति ब्राह्मणाय पतिव्रते ।। फलं शतगुणं चातो भवेत्तस्य न संशयः ।।2.27.५०।। सप्तद्वीपमहीदातुः सर्वतीर्थानुसेविनः।। सर्वेषां तपसां कर्त्तुः सर्वोपवासकारिणः।।५१।। सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ।। अस्त्येव पुनरावृत्तिर्न भक्तस्य हरेरहो।।५२।। असंख्यब्रह्मणा पातं पश्यन्ति वैष्णवाः सति ।। निवसन्ति हि गोलोके वैकुण्ठे वा हरेः पदे।।५३।। विष्णुमन्त्रोपासकश्च विहाय मानवीं तनुम्।। बिभर्त्ति दिव्यरूपं च जन्ममृत्युजरापहम्।।५४।। लब्ध्वा विष्णोश्च सारूप्यं विष्णुसेवां करोति च।। स च पश्यति गोलोके ह्यसंख्यं प्राकृतं लयम्।।५५।। नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च।। कृष्णभक्ता न नश्यन्ति जन्ममृत्युजराहराः।।५६।। कार्त्तिके तुलसीदानं करोति हरये च यः ।। युगं पत्रप्रमाणं च मोदते हरिमन्दिरे ।। ५७ ।। पुनः स्वयोनिं संप्राप्य हरिभक्तिं लभेद्ध्रुवम् ।। सुखी च चिरजीवी च स भवेद्भारते भुवि।।५८।। घृतप्रदीपं हरये कार्त्तिके यो ददाति च ।। पलप्रमाणं वर्षं च मोदते हरिमन्दिरे ।। ५९ ।। पुनः स्वयोनिं संप्राप्य विष्णुभक्तिं लभेद्ध्रुवम् ।। महाधनाढ्यः स भवेच्चक्षुष्मांश्चैव दीप्तिमान् ।। 2.27.६० ।। माघे यः स्नाति गङ्गायामरुणोदयकालतः ।। युगषष्टिसहस्राणि मोदते हरिमन्दिरे ।। ६१ ।। पुनः स्वयोनिं संप्राप्य विष्णुभक्तिं लभेद्ध्रुवम् ।। जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि ।। ६२ ।। माघे यः स्नाति गंगायां प्रयागे चारुणोदये ।। वैकुण्ठे मोदते सोऽपि लक्षमन्वन्तरावधि ।। ६३ ।। पुनः स्वयोनिं संप्राप्य विष्णुमन्त्रं लभेद्ध्रुवम् ।। त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ।। ६४ ।। नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ।। करोति हरिदास्यं च लब्ध्वा सारूप्यमेव च ।। ६५ ।। नित्यस्नायी च गङ्गायां स पूतः सूर्य्यवद्भुवि ।। पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ।। ६६ ।। तस्यैव पादरजसा सद्यः पूता वसुन्धरा ।। मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ।। ६७ ।। पुनः स्वयोनिं संप्राप्य तपस्विप्रवरो भवेत् ।। स्वधर्मनिरतः शुद्धो विद्वांश्च सुजितेन्द्रियः ।। ६८ ।। मीनकर्कटयोर्मध्ये गाढं तपति भास्करे ।। भारते यो ददात्येव जलमेव सुवासितम् ।। ६९ ।। मोदते स च वैकुण्ठे यावदिन्द्राश्चतुर्दश ।। पुनः स्वयोनिं संप्राप्य सुखी निष्कपटो भवेत् ।। 2.27.७० ।। वैशाखे हरये भक्त्या यो ददाति च चन्दनम् ।। युगषष्टिसहस्राणि मोदते विष्णुमन्दिरे ।। पुनः स्वयोनिं संप्राप्य रूपवांश्च सुखी भवेत् ।।७१।। वैशाखे सक्तुदानं च यः करोति द्विजातये ।। सक्तुरेणुप्रमाणाब्दं मोदते विष्णुमन्दिरे ।। ७२।। करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।। शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ।।७३ ।। वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।। पुनः स्वयोनिं संप्राप्य कृष्णभक्तिं लभेद्ध्रुवम् ।। ७४ ।। इहैव भारते वर्षे शिवरात्रिं करोति यः ।। मोदते शिवलोके च सप्तमन्वन्तरावधि ।। ७९ ।। शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।। पत्रप्रमाणं च युगं मोदते शिवमन्दिरे ।। ७६।। पुनः स्वयोनिं संप्राप्य शिवभक्तिं लभेद्ध्रुवम् ।। विद्यावान्पुत्रवाञ्छ्रीमान्प्रजावान्भूमिवान्भवेत् ।। ७७ ।। चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती ।। करोति नर्त्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ।। ७८ ।। मासं वाप्यर्द्धमासं वा दश सप्तदिनानि वा ।। दिनमानं युगं सोऽपि शिवलोके महीयते ।। ७९ ।। श्रीरामनवमीं यो हि करोति भारते नरः।। सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ।। 2.27.८० ।। पुनः स्वयोनिं संप्राप्य रामभक्तिं लभेद्ध्रुवम् ।। जितेन्द्रियाणां प्रवरो महांश्च धार्मिको भवेत् ।। ८१ ।। शारदीयां महापूजां प्रकृतेर्यः करोति च ।। महिषैश्छागलैर्मेषैरिक्षुकूष्माण्डकैस्तथा ।। ८२ ।। नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।। नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलैः ।। ।। ८३ ।। शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।। पुनः स्वयोनिं संप्राप्य बुद्धिं च निर्मलां लभेत् ।। ८४ ।। अचलां श्रियमाप्नोति पुत्रपौत्रादिवर्द्धिनीम् ।। महाप्रभावयुक्तश्च गजवाजिसमन्वितः ।। ८५ ।। राजराजेश्वरः सोऽपि भवेदेव न संशयः ।। भाद्रशुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ।।८६ ।। नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ।। दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ।। ८७ ।। वैकुण्ठे मोदते सोऽपि यावच्चन्द्रदिवाकरौ।। पुनः स्वयोनिं संप्राप्य राजराजेश्वरो भवेत् ।। ८८ ।। कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् ।। गोपानां शतकं कृत्वा गोपीनां शतकं तथा ।। ८९ ।। शिलायां प्रतिमायां वा श्रीकृष्णं राधया सह ।। भारते पूजयेद्दत्त्वा चोपचाराणि षोडश ।। 2.27.९० ।। गोलोके च वसेत्सोऽपि यावद्वै ब्रह्मणो वयः ।। भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुवम् ।। ९१ ।। क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरपि ।। देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ।। ९२ ।। तत्र कृष्णस्य सारूप्यं संप्राप्य पार्षदो भवेत् ।। पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ।। ९३ ।। शुक्लां वाऽप्यथवा कृष्णां करोत्येकादशीं च यः ।। वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ।। ९४ ।। भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुवम् ।। पुनर्याति च वैकुण्ठं न तस्य पतनं भवेत् ।। ९५ ।। भाद्रे शुक्ले च द्वादश्यां यः शक्रं पूजयेन्नरः ।। षष्टिवर्षसहस्राणि शक्रलोके महीयते ।। ९६ ।। रविवारेऽर्कसंक्रान्त्यां सप्तम्यां शुक्लपक्षतः ।। सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते ।। ९७ ।। महीयते सोऽर्कलोके यावच्चन्द्रदिवाकरौ ।। भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ।। ९८ ।। ज्येष्ठशुक्लचतुर्दश्यां सावित्रीं यो हि पूजयेत् ।। महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ।। ९९ ।। पुनर्महीं समागत्य श्रीमानतुलविक्रमः ।। चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः ।। 2.27.१०० ।। माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ।। संयतो भक्तितो दत्त्वा चोपचाराणि षोडश।।१०१।। महीयते स वैकुण्ठे यावद्ब्रह्मदिवानिशम् ।। संप्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ।। १०२ ।। गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ।। नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ।। १०३ ।। गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ।। मोदते हरिणा सार्द्धं क्रीडाकौतुकमङ्गलैः ।। १०४ ।। ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम् ।। ततः पुनरिहागत्य राजराजेश्वरो भवेत् ।। गोमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी ।। १०५ ।। भोजयेद्यो हि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ।। विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ।। १०६ ।। ततः पुनरिहागत्य स सुखी धनवान्भवेत् ।। विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ।। १०७ ।। यो वक्ति वा ददात्येव हरेर्नामानि भारते ।। युगनामप्रमाणं च विष्णुलोके महीयते ।। १०८ ।। ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम् ।। यदि नारायणक्षेत्रे फलं कोटिगुणं लभेत् ।। १०९ ।। नाम्नां कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ।। सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् ।। 2.27.११० ।। लभते न पुनर्जन्म वैकुण्ठे स महीयते ।। लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ।। १११ ।। यः शिवं पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् ।। यावज्जीवनपर्य्यन्तं स याति शिवमन्दिरम् ।। ११२ ।। मृदां रेणुप्रमाणाब्दं शिवलोके महीयते ।। ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ।। ।। ११३ ।। शिलां च योऽर्चयेन्नित्यं शिलातोयं च भक्षति ।। महीयते स वैकुण्ठे यावद्वै ब्रह्मणः शतम् ।। ११४ ।। ततो लब्ध्वा पुनर्जन्म हरिभक्तिं सुदुर्लभाम् ।। महीयते विष्णुलोके न तस्य पतनं भवेत् ।। ११५ ।। तपांसि चैव सर्वाणि व्रतानि निखिलानि च।। कृत्वा तिष्ठति वैकुण्डे यावदिन्द्राश्चतुर्दश ।।११६।। ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ।। ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ।। ११७ ।। यः स्नाति सर्वर्तीर्थेषु भुवि कृत्वा प्रदक्षिणम् ।। स च निर्वाणतां याति न तज्जन्म भवेद्भुवि ।।११८।। पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ।। अश्वलोमप्रमाणाब्दं शक्रस्यार्द्धासने वसेत् ।। ११९ ।। चतुर्गुणं राजसूये फलमाप्नोति मानवः ।। नरमेधेऽश्वमेधार्द्धं गोमेधे च तदेव च।।2.27.१२०।। पुत्रेष्टौ च तदर्धं च सुपुत्रं च लभेद्ध्रुवम्।। लभते लाङ्गलेष्टौ च गोमेधसदृशं फलम्।।१२१।। तत्समानं च विप्रेष्टौ वृद्धियागे च तत्फलम् ।। पद्मयज्ञे तदर्द्धं च फलमाप्नोति मानवः ।।१२२।। विशोके च विशोकं च पद्मार्द्धं स्वर्गमश्नुते ।। विजये विजयी राजा स्वर्गे पद्मसमं भवेत्।।१२३।। प्राजापत्ये प्रजालाभो भूवृद्धिर्भूभृतां भवेत् ।। इह राजश्रियं लब्ध्वा पद्मार्द्धं स्वर्गमश्नुते ।। ऋद्धियागे महैश्वर्यं स्वर्गं पद्मसमं भवेत् ।।१२४।। विष्णुयज्ञः प्रधानं च सर्वयज्ञेषु सुन्दरि ।। ब्रह्मणा च कृतः पूर्वं महासम्भारसंयुतः ।। १२५ ।। बभूव कलहो यत्र दक्षशङ्करयोः सति ।। शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ।। १२६ ।। । यतो हेतोर्दक्षयज्ञं बभञ्ज चन्द्रशेखरः ।। चकार विष्णुयज्ञं च पुरा दक्षप्रजापतिः ।।१२७।। धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ।।। स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ।। १२८ ।। शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ।। राजसूयसहस्राणां समृद्ध्या च क्रतुर्भवेत् ।। १२९ ।। राजसूयसहस्राणां फलमाप्नोति निश्चितम् ।। विष्णुयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ।। 2.27.१३० ।। बहुकल्पान्तजीवी च जीवन्मुक्तो भवेद्ध्रुवम् ।। ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ।।१३१।। देवानां च यथा विष्णुर्वैष्णवानां यथा शिवः ।। शास्त्राणां च यथा वेदा आश्रमाणां च ब्राह्मणाः ।।१३२।। तीर्थानां च यथा गङ्गा पवित्राणां च वैष्णवाः ।। एकादशी व्रतानां च पुष्पाणां तुलसी यथा ।। १३३।। नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।। यथा स्त्रीणां च प्रकृतिराधाराणां वसुन्धरा।। ।। १३४ ।। शीघ्रगानां चेन्द्रियाणां चञ्चलानां यथा मनः ।। प्रजापतीनां ब्रह्मा च प्रजेशानां प्रजापतिः ।। १३९ ।। वृन्दावनं वनानां च वर्षाणां भारतं यथा ।। श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ।। १३६ ।। पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।। विष्णुयज्ञस्तथा वत्से यज्ञेषु च महानिति ।।१३७।। अश्वमेधशतेनैव शक्रत्वं लभते ध्रुवम् ।। सहस्रेण विष्णुपदं संप्राप पृथुरेव च ।। ।। १३८ ।। स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम् ।। सर्वेषां च व्रतानां च तपसां फलमेव च ।। १३९ ।। पाठश्चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा ।। फलं बीजमिदं सर्वं मुक्तिदं कृष्णसेवनम् ।। 2.27.१४० ।। पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ।। निरूपितं सारभूतं कृष्णपादाम्बुजार्चनम् ।। १४१ ।। तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्त्तनम् ।। तत्स्तोत्रं स्मरणं चैव वन्दनं जप एव च ।। १४२ ।। तत्पादोदकनैवेद्यभक्षणं नित्यमेव च ।। सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ।। १४३ ।। भज कृष्णं परं ब्रह्म निर्गुणं प्रकृतेः परम् ।। गृहाण स्वामिनं वत्से सुखं गच्छ स्वमन्दिरम् ।। १४४ ।। एतत्ते कथितं सर्वं विपाकं कर्मणां नृणाम् ।। सर्वेप्सितं सर्वमतं परं तत्त्वप्रदं नृणाम् ।। १४५ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे सावित्रीयमसंवादे सावि्त्र्युपाख्याने शुभकर्मविपाकप्रकथनं नाम सप्तविंशोऽध्यायः ।। २७ ।।

sāvitryuvāca || prayāṃti svargamanyaṃ ca yena yenaiva karmmaṇā|| mānavāḥ puṇyavantaśca tanme vyākhyātumarhasi || 1 || yama uvāca || annadānaṃ ca viprāya yaḥ karoti ca bhārate || annapramāṇavarṣa ca śakraloke mahīyate ||2|| annadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati || nātra pātraparīkṣā syānna kālaniyamaḥ kvacit || 3 || devebhyo brāhmaṇebhyo vā dadāti cāsanaṃ yadi || mahīyate vahniloke varṣāṇāmayutaṃ dhruvam || 4 || yo dadāti ca viprāya divyāṃ dhenuṃ payasvinīm || tallomamānavarṇaṃ ca vaikuṇṭhe ca mahīyate ||5|| caturguṇaṃ puṇyadine tīrthe śataguṇaṃ phalam || dānaṃ nārāyaṇakṣetre phalaṃ koṭiguṇaṃ bhavet || 6 || gāṃ yo dadāti viprāya bhārate bhaktipūrvakam || varṣāṇāmayutaṃ caiva candraloke mahīyate ||7|| yaścobhayamukhīdānaṃ karoti brāhmaṇāya ca || tallomamānavarṣaṃ ca vaikuṇṭhe ca mahīyate||8|| yo dadāti brāhmaṇāya śāligrāmaṃ savastrakam || mahīyate sa vaikuṇṭhe yāvaccandradivākarau ||9|| yo dadāti brāhmaṇāya chatraṃ ca sumanoharam || varṣāṇāmayutaṃ so'pi modate varuṇālaye || 2.27.10 || viprāya pādukāyugmaṃ yo dadāti ca bhārate || mahīyate vāyuloke varṣāṇāmayutaṃ sati||11|| yo dadāti brāhmaṇāya śayyāṃ divyāṃ manoharām|| mahīyate candraloke yāvaccandradivākarau || 12 || yo dadāti pradīpaṃ ca devāya brāhmaṇāya ca || yāvanmanvantaraṃ so'pi brahmaloke mahīyate || 13 || samprāpya mānavīṃ yoniṃ cakṣuṣmāṃśca bhaveddhruvam || na yāti yamalokaṃ ca tena puṇyena sundari || 14 || karoti gajadānaṃ ca yo hi viprāya bhārate|| yāvadindrādidevasya loke cārdhāsane vaset || 15 || bhārate yo'śvadānaṃ ca karoti brāhmaṇāya ca || modate vāruṇe loke yāvadindrāścaturdaśa || 16 || prakṛṣṭāṃ śibikāṃ yo hi dadāti brāhmaṇāya ca || mahīyate viṣṇuloke yāvanmanvantaraṃ sati || 17 || yo dadāti ca viprāya vyajanaṃ śvetacāmaram || mahīyate vāyuloke varṣāṇāmayutaṃ dhruvam || 18 || dhānyācalaṃ yo dadāti brāhmaṇāya ca bhārate || sa ca dhānyapramāṇābdaṃ viṣṇuloke mahīyate || 19 || tataḥ svayoniṃ saṃprāpya cirajīvī bhavetsukhī || dātā grahītā tau dvau ca dhruvaṃ vaikuṇṭhagāminau || 2.27.20 || satataṃ śrīharernāma bhārate yo japennaraḥ || sa eva cirajīvī ca tato mṛtyuḥ palāyate ||21 || yo naro bhārate varṣe dolanaṃ kārayeddhareḥ || pūrṇimārajanīśeṣe jīvanmukto bhavennaraḥ || 22 || iha loke sukhaṃ bhuktvā yātyante viṣṇumandiram|| niścitaṃ nivasettatra śatamanvantarāvadhi || 23 || phalamuttaraphālgunyāṃ tato'pi dviguṇaṃ bhavet || kalpāntajīvī sa bhavedityāha kamalodbhavaḥ || 24 || tiladānaṃ brāhmaṇāya yaḥ karoti ca bhārate || tilapramāṇavarṣaṃ ca modate viṣṇumandire || 25 || tataḥ svayoniṃ saṃprāpya cirajīvī bhavetsukhī|| tāmrapātrasthadānena dviguṇaṃ ca phalaṃ labhet||26|| sālaṃkṛtāṃ ca bhogyāṃ ca savastrāṃ sundarīṃ priyām|| yo dadāti brāhmaṇā ya bhārate ca pativratām || 27 || mahīyate candraloke yāvadindrāścaturdaśa || tatra svarveśyayā sārddhaṃ modate ca divāniśam || 28 || tato gandharvaloke ca varṣāṇāmayutaṃ sati || divāniśaṃ kautukena corvaśyā saha modate || 29 || tato janmasahasraṃ ca prāpnoti sundarīṃ priyām || satīṃ saubhāgyayuktāṃ ca komalāṃ priyavādinīm || 2.27.30 || dadāti saphalaṃ vṛkṣaṃ brāhmaṇāya ca yo naraḥ || phalapramāṇavarṣaṃ ca śakraloke mahīyate || 31 || punaḥ svayoniṃ saṃprāpya labhate sutamuttamam || saphalānāṃ ca vṛkṣāṇāṃ sahasraṃ ca praśaṃsitam || 32 || kevalaṃ phaladānaṃ ca brāhmaṇāya dadāti yaḥ || suciraṃ svargavāsaṃ ca kṛtvā yāti ca bhāratam|| 33 || nānādravyasamāyuktaṃ nānāsasyasamanvitam || dadāti yaśca viprāya bhārate vipulaṃ gṛham || 34 || kuberaloke vasati sa ca manvantarāvadhi || tataḥ svayoniṃ saṃprāpya mahāṃśca dhanavānbhavet || 35 || yo janaḥ sasyasaṃyuktāṃ bhūmiṃ ca rucirāṃ sati || dadāti bhaktyā viprāya puṇyakṣetre ca vā sati|| || 36 || mahīyate sa vaikuṇṭhe manvantaraśataṃ dhruvam || punaḥ svayoniṃ saṃprāpya mahāṃśca bhūmivānbhavet || 37 || taṃ na tyajati bhūmiśca janmanāṃ śatakaṃ param || śrīmāṃśca dhanavāṃścaiva putravāṃśca prajeśvaraḥ || 38 || saprajaṃ ca prakṛṣṭaṃ ca grāmaṃ dadyāddvijātaye || lakṣamanvantaraṃ caiva vaikuṇṭhe sa mahīyate ||39|| punaḥ svayoniṃ saṃprāpya grāmalakṣaṃ labheddhruvam || na jahāti ca taṃ pṛthvī janmanāṃ lakṣameva ca ||2.27.40|| saprajaṃ suprakṛṣṭaṃ ca pañcasasyasamanvitam || nānāpuṣkariṇīvṛkṣaphalabhogasamanvitam ||41|| nagaraṃ yaśca viprāya dadāti bhārate bhuvi || mahīyate sa vaikuṇṭhe daśalakṣendrakālakam||42|| punaḥ svayoniṃ saṃprāpya rājendro bhārate bhavet|| nagarāṇāṃ ca niyutaṃ labhate nātra saṃśayaḥ|| || 43 || dharā taṃ na jahātyeva janmanāṃ niyutaṃ dhruvam || paramaiśvarya saṃyukto bhavedeva mahītale ||44|| nagarāṇāṃ ca śatakaṃ deśaṃ yo hi dvijātaye || suprakṛṣṭaprajāyuktaṃ dadāti bhaktipūrvakam || 49 || vāpītaḍāgasaṃyuktaṃ nānāvṛkṣasamanvitam || mahīyate sa vaikuṇṭhe koṭimanvantarāvadhi || 46 || punaḥ svayoniṃ saṃprāpya jambūdvīpapatirbhavet || paramaiśvaryyasaṃyukto yathā śakrastathā bhuvi || 47 || mahī taṃ na jahātyeva janmanāṃ koṭimeva ca || kalpāntajīvī sa bhavedrājarājeśvaro mahān ||48|| svādhikāraṃ samagraṃ ca yo dadāti dvijātaye|| caturguṇa phalaṃ cāto bhavettasya na saṃśayaḥ ||49|| jambūdvīpaṃ yo dadāti brāhmaṇāya pativrate || phalaṃ śataguṇaṃ cāto bhavettasya na saṃśayaḥ ||2.27.50|| saptadvīpamahīdātuḥ sarvatīrthānusevinaḥ|| sarveṣāṃ tapasāṃ karttuḥ sarvopavāsakāriṇaḥ||51|| sarvadānapradātuśca sarvasiddheśvarasya ca || astyeva punarāvṛttirna bhaktasya hareraho||52|| asaṃkhyabrahmaṇā pātaṃ paśyanti vaiṣṇavāḥ sati || nivasanti hi goloke vaikuṇṭhe vā hareḥ pade||53|| viṣṇumantropāsakaśca vihāya mānavīṃ tanum|| bibhartti divyarūpaṃ ca janmamṛtyujarāpaham||54|| labdhvā viṣṇośca sārūpyaṃ viṣṇusevāṃ karoti ca|| sa ca paśyati goloke hyasaṃkhyaṃ prākṛtaṃ layam||55|| naśyanti devāḥ siddhāśca viśvāni nikhilāni ca|| kṛṣṇabhaktā na naśyanti janmamṛtyujarāharāḥ||56|| kārttike tulasīdānaṃ karoti haraye ca yaḥ || yugaṃ patrapramāṇaṃ ca modate harimandire || 57 || punaḥ svayoniṃ saṃprāpya haribhaktiṃ labheddhruvam || sukhī ca cirajīvī ca sa bhavedbhārate bhuvi||58|| ghṛtapradīpaṃ haraye kārttike yo dadāti ca || palapramāṇaṃ varṣaṃ ca modate harimandire || 59 || punaḥ svayoniṃ saṃprāpya viṣṇubhaktiṃ labheddhruvam || mahādhanāḍhyaḥ sa bhaveccakṣuṣmāṃścaiva dīptimān || 2.27.60 || māghe yaḥ snāti gaṅgāyāmaruṇodayakālataḥ || yugaṣaṣṭisahasrāṇi modate harimandire || 61 || punaḥ svayoniṃ saṃprāpya viṣṇubhaktiṃ labheddhruvam || jitendriyāṇāṃ pravaraḥ sa bhavedbhārate bhuvi || 62 || māghe yaḥ snāti gaṃgāyāṃ prayāge cāruṇodaye || vaikuṇṭhe modate so'pi lakṣamanvantarāvadhi || 63 || punaḥ svayoniṃ saṃprāpya viṣṇumantraṃ labheddhruvam || tyaktvā ca mānuṣaṃ dehaṃ punaryāti hareḥ padam || 64 || nāsti tatpunarāvṛttirvaikuṇṭhācca mahītale || karoti haridāsyaṃ ca labdhvā sārūpyameva ca || 65 || nityasnāyī ca gaṅgāyāṃ sa pūtaḥ sūryyavadbhuvi || pade pade'śvamedhasya labhate niścitaṃ phalam || 66 || tasyaiva pādarajasā sadyaḥ pūtā vasundharā || modate sa ca vaikuṇṭhe yāvaccandradivākarau || 67 || punaḥ svayoniṃ saṃprāpya tapasvipravaro bhavet || svadharmanirataḥ śuddho vidvāṃśca sujitendriyaḥ || 68 || mīnakarkaṭayormadhye gāḍhaṃ tapati bhāskare || bhārate yo dadātyeva jalameva suvāsitam || 69 || modate sa ca vaikuṇṭhe yāvadindrāścaturdaśa || punaḥ svayoniṃ saṃprāpya sukhī niṣkapaṭo bhavet || 2.27.70 || vaiśākhe haraye bhaktyā yo dadāti ca candanam || yugaṣaṣṭisahasrāṇi modate viṣṇumandire || punaḥ svayoniṃ saṃprāpya rūpavāṃśca sukhī bhavet ||71|| vaiśākhe saktudānaṃ ca yaḥ karoti dvijātaye || saktureṇupramāṇābdaṃ modate viṣṇumandire || 72|| karoti bhārate yo hi kṛṣṇajanmāṣṭamīvratam || śatajanmakṛtātpāpānmucyate nātra saṃśayaḥ ||73 || vaikuṇṭhe modate so'pi yāvadindrāścaturdaśa || punaḥ svayoniṃ saṃprāpya kṛṣṇabhaktiṃ labheddhruvam || 74 || ihaiva bhārate varṣe śivarātriṃ karoti yaḥ || modate śivaloke ca saptamanvantarāvadhi || 79 || śivāya śivarātrau ca bilvapatraṃ dadāti yaḥ || patrapramāṇaṃ ca yugaṃ modate śivamandire || 76|| punaḥ svayoniṃ saṃprāpya śivabhaktiṃ labheddhruvam || vidyāvānputravāñchrīmānprajāvānbhūmivānbhavet || 77 || caitramāse'thavā māghe śaṅkaraṃ yo'rcayedvratī || karoti narttanaṃ bhaktyā vetrapāṇirdivāniśam || 78 || māsaṃ vāpyarddhamāsaṃ vā daśa saptadināni vā || dinamānaṃ yugaṃ so'pi śivaloke mahīyate || 79 || śrīrāmanavamīṃ yo hi karoti bhārate naraḥ|| saptamanvantaraṃ yāvanmodate viṣṇumandire || 2.27.80 || punaḥ svayoniṃ saṃprāpya rāmabhaktiṃ labheddhruvam || jitendriyāṇāṃ pravaro mahāṃśca dhārmiko bhavet || 81 || śāradīyāṃ mahāpūjāṃ prakṛteryaḥ karoti ca || mahiṣaiśchāgalairmeṣairikṣukūṣmāṇḍakaistathā || 82 || naivedyairupahāraiśca dhūpadīpādibhistathā || nṛtyagītādibhirvādyairnānākautukamaṅgalaiḥ || || 83 || śivaloke vasetso'pi saptamanvantarāvadhi || punaḥ svayoniṃ saṃprāpya buddhiṃ ca nirmalāṃ labhet || 84 || acalāṃ śriyamāpnoti putrapautrādivarddhinīm || mahāprabhāvayuktaśca gajavājisamanvitaḥ || 85 || rājarājeśvaraḥ so'pi bhavedeva na saṃśayaḥ || bhādraśuklāṣṭamīṃ prāpya mahālakṣmīṃ ca yo'rcayet ||86 || nityaṃ bhaktyā pakṣamekaṃ puṇyakṣetre ca bhārate || dattvā tasyai prakṛṣṭāni copacārāṇi ṣoḍaśa || 87 || vaikuṇṭhe modate so'pi yāvaccandradivākarau|| punaḥ svayoniṃ saṃprāpya rājarājeśvaro bhavet || 88 || kārtikīpūrṇimāyāṃ ca kṛtvā tu rāsamaṇḍalam || gopānāṃ śatakaṃ kṛtvā gopīnāṃ śatakaṃ tathā || 89 || śilāyāṃ pratimāyāṃ vā śrīkṛṣṇaṃ rādhayā saha || bhārate pūjayeddattvā copacārāṇi ṣoḍaśa || 2.27.90 || goloke ca vasetso'pi yāvadvai brahmaṇo vayaḥ || bhārataṃ punarāgatya haribhaktiṃ labheddhruvam || 91 || krameṇa sudṛḍhāṃ bhaktiṃ labdhvā mantraṃ harerapi || dehaṃ tyaktvā ca golokaṃ punareva prayāti saḥ || 92 || tatra kṛṣṇasya sārūpyaṃ saṃprāpya pārṣado bhavet || punastatpatanaṃ nāsti jarāmṛtyuharo mahān || 93 || śuklāṃ vā'pyathavā kṛṣṇāṃ karotyekādaśīṃ ca yaḥ || vaikuṇṭhe modate so'pi yāvadvai brahmaṇo vayaḥ || 94 || bhārataṃ punarāgatya haribhaktiṃ labheddhruvam || punaryāti ca vaikuṇṭhaṃ na tasya patanaṃ bhavet || 95 || bhādre śukle ca dvādaśyāṃ yaḥ śakraṃ pūjayennaraḥ || ṣaṣṭivarṣasahasrāṇi śakraloke mahīyate || 96 || ravivāre'rkasaṃkrāntyāṃ saptamyāṃ śuklapakṣataḥ || sampūjyārkaṃ haviṣyānnaṃ yaḥ karoti ca bhārate || 97 || mahīyate so'rkaloke yāvaccandradivākarau || bhārataṃ punarāgatya cārogī śrīyuto bhavet || 98 || jyeṣṭhaśuklacaturdaśyāṃ sāvitrīṃ yo hi pūjayet || mahīyate brahmaloke saptamanvantarāvadhi || 99 || punarmahīṃ samāgatya śrīmānatulavikramaḥ || cirajīvī bhavetso'pi jñānavānsampadā yutaḥ || 2.27.100 || māghasya śuklapañcamyāṃ pūjayedyaḥ sarasvatīm || saṃyato bhaktito dattvā copacārāṇi ṣoḍaśa||101|| mahīyate sa vaikuṇṭhe yāvadbrahmadivāniśam || saṃprāpya ca punarjanma sa bhavetkavipaṇḍitaḥ || 102 || gāṃ suvarṇādikaṃ yo hi brāhmaṇāya dadāti ca || nityaṃ jīvanaparyantaṃ bhaktiyuktaśca bhārate || 103 || gavāṃ lomapramāṇābdaṃ dviguṇaṃ viṣṇumandire || modate hariṇā sārddhaṃ krīḍākautukamaṅgalaiḥ || 104 || tataḥ punarihāgatya viṣṇubhaktiṃ labheddhruvam || tataḥ punarihāgatya rājarājeśvaro bhavet || gomāṃśca putravānvidvāñjñānavānsarvataḥ sukhī || 105 || bhojayedyo hi miṣṭānnaṃ brāhmaṇebhyaśca bhārate || vipralomapramāṇābdaṃ modate viṣṇumandire || 106 || tataḥ punarihāgatya sa sukhī dhanavānbhavet || vidvānsucirajīvī ca śrīmānatulavikramaḥ || 107 || yo vakti vā dadātyeva harernāmāni bhārate || yuganāmapramāṇaṃ ca viṣṇuloke mahīyate || 108 || tataḥ punarihāgatya viṣṇubhaktiṃ labheddhruvam || yadi nārāyaṇakṣetre phalaṃ koṭiguṇaṃ labhet || 109 || nāmnāṃ koṭiṃ hareryo hi kṣetre nārāyaṇe japet || sarvapāpavinirmukto jīvanmukto bhaveddhruvam || 2.27.110 || labhate na punarjanma vaikuṇṭhe sa mahīyate || labhedviṣṇośca sārūpyaṃ na tasya patanaṃ bhavet || 111 || yaḥ śivaṃ pūjayennityaṃ kṛtvā liṅgaṃ ca pārthivam || yāvajjīvanaparyyantaṃ sa yāti śivamandiram || 112 || mṛdāṃ reṇupramāṇābdaṃ śivaloke mahīyate || tataḥ punarihāgatya rājendro bhārate bhavet || || 113 || śilāṃ ca yo'rcayennityaṃ śilātoyaṃ ca bhakṣati || mahīyate sa vaikuṇṭhe yāvadvai brahmaṇaḥ śatam || 114 || tato labdhvā punarjanma haribhaktiṃ sudurlabhām || mahīyate viṣṇuloke na tasya patanaṃ bhavet || 115 || tapāṃsi caiva sarvāṇi vratāni nikhilāni ca|| kṛtvā tiṣṭhati vaikuṇḍe yāvadindrāścaturdaśa ||116|| tato labdhvā punarjanma rājendro bhārate bhavet || tato mukto bhavetpaścātpunarjanma na vidyate || 117 || yaḥ snāti sarvartīrtheṣu bhuvi kṛtvā pradakṣiṇam || sa ca nirvāṇatāṃ yāti na tajjanma bhavedbhuvi ||118|| puṇyakṣetre bhārate ca yo'śvamedhaṃ karoti ca || aśvalomapramāṇābdaṃ śakrasyārddhāsane vaset || 119 || caturguṇaṃ rājasūye phalamāpnoti mānavaḥ || naramedhe'śvamedhārddhaṃ gomedhe ca tadeva ca||2.27.120|| putreṣṭau ca tadardhaṃ ca suputraṃ ca labheddhruvam|| labhate lāṅgaleṣṭau ca gomedhasadṛśaṃ phalam||121|| tatsamānaṃ ca vipreṣṭau vṛddhiyāge ca tatphalam || padmayajñe tadarddhaṃ ca phalamāpnoti mānavaḥ ||122|| viśoke ca viśokaṃ ca padmārddhaṃ svargamaśnute || vijaye vijayī rājā svarge padmasamaṃ bhavet||123|| prājāpatye prajālābho bhūvṛddhirbhūbhṛtāṃ bhavet || iha rājaśriyaṃ labdhvā padmārddhaṃ svargamaśnute || ṛddhiyāge mahaiśvaryaṃ svargaṃ padmasamaṃ bhavet ||124|| viṣṇuyajñaḥ pradhānaṃ ca sarvayajñeṣu sundari || brahmaṇā ca kṛtaḥ pūrvaṃ mahāsambhārasaṃyutaḥ || 125 || babhūva kalaho yatra dakṣaśaṅkarayoḥ sati || śepuśca nandinaṃ viprā nandī viprāṃśca kopataḥ || 126 || | yato hetordakṣayajñaṃ babhañja candraśekharaḥ || cakāra viṣṇuyajñaṃ ca purā dakṣaprajāpatiḥ ||127|| dharmaśca kaśyapaścaiva śeṣaścāpi ca kardamaḥ ||| svāyambhuvo manuścaiva tatputraśca priyavrataḥ || 128 || śivaḥ sanatkumāraśca kapilaśca dhruvastathā || rājasūyasahasrāṇāṃ samṛddhyā ca kraturbhavet || 129 || rājasūyasahasrāṇāṃ phalamāpnoti niścitam || viṣṇuyajñātparo yajño nāsti vede phalapradaḥ || 2.27.130 || bahukalpāntajīvī ca jīvanmukto bhaveddhruvam || jñānena tejasā caiva viṣṇutulyo bhavediha ||131|| devānāṃ ca yathā viṣṇurvaiṣṇavānāṃ yathā śivaḥ || śāstrāṇāṃ ca yathā vedā āśramāṇāṃ ca brāhmaṇāḥ ||132|| tīrthānāṃ ca yathā gaṅgā pavitrāṇāṃ ca vaiṣṇavāḥ || ekādaśī vratānāṃ ca puṣpāṇāṃ tulasī yathā || 133|| nakṣatrāṇāṃ yathā candraḥ pakṣiṇāṃ garuḍo yathā || yathā strīṇāṃ ca prakṛtirādhārāṇāṃ vasundharā|| || 134 || śīghragānāṃ cendriyāṇāṃ cañcalānāṃ yathā manaḥ || prajāpatīnāṃ brahmā ca prajeśānāṃ prajāpatiḥ || 139 || vṛndāvanaṃ vanānāṃ ca varṣāṇāṃ bhārataṃ yathā || śrīmatāṃ ca yathā śrīśca viduṣāṃ ca sarasvatī || 136 || pativratānāṃ durgā ca saubhāgyānāṃ ca rādhikā || viṣṇuyajñastathā vatse yajñeṣu ca mahāniti ||137|| aśvamedhaśatenaiva śakratvaṃ labhate dhruvam || sahasreṇa viṣṇupadaṃ saṃprāpa pṛthureva ca || || 138 || snānaṃ ca sarvatīrtheṣu sarvayajñeṣu dakṣiṇam || sarveṣāṃ ca vratānāṃ ca tapasāṃ phalameva ca || 139 || pāṭhaścaturṇāṃ vedānāṃ prādakṣiṇyaṃ bhuvastathā || phalaṃ bījamidaṃ sarvaṃ muktidaṃ kṛṣṇasevanam || 2.27.140 || purāṇeṣu ca vedeṣu cetihāseṣu sarvataḥ || nirūpitaṃ sārabhūtaṃ kṛṣṇapādāmbujārcanam || 141 || tadvarṇanaṃ ca taddhyānaṃ tannāmaguṇakīrttanam || tatstotraṃ smaraṇaṃ caiva vandanaṃ japa eva ca || 142 || tatpādodakanaivedyabhakṣaṇaṃ nityameva ca || sarvasammatamityevaṃ sarvepsitamidaṃ sati || 143 || bhaja kṛṣṇaṃ paraṃ brahma nirguṇaṃ prakṛteḥ param || gṛhāṇa svāminaṃ vatse sukhaṃ gaccha svamandiram || 144 || etatte kathitaṃ sarvaṃ vipākaṃ karmaṇāṃ nṛṇām || sarvepsitaṃ sarvamataṃ paraṃ tattvapradaṃ nṛṇām || 145 || iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nārada nārāyaṇasaṃvāde sāvitrīyamasaṃvāde sāvitryupākhyāne śubhakarmavipākaprakathanaṃ nāma saptaviṃśo'dhyāyaḥ || 27 ||

English translation

Dialogue between Savitrl and Dharmaraja Savitrl said— You kindly tell me the means by which the meritorius person proceeds to Yaiiia said—In the land of Bharata, the one who offers food to a Brahmana, enjoys his stay in the Indraloka for the number of years equivalent to the number of particles of the food given in charity.

But there is no greater merit than the giving away of food in charity nor shall it be there in future. In such a case, one does not have to test I about the suitability of the receiver nor could the time for giving away in charity be prescribed.

The one who offers a seat to the gods or the Brahmanas, enjoys the pleasure of staying in Agniloka for ten thousand years.

The one who gives away in charity to a Brahmana, a wet cow, enjoys the pleasure of staying in Vaikuntha for the number of years equivalent to the hair on the body of the cow and earns great respects there.

In case a cow is given in charity on some auspicious occasion, the accruing merit is multiplied to four times. In case the same charity is offered at a sacred place the merit is multiplied to a hundred times. But if the same charity is offered in the region of Narayana, the charity gets multiplied to a crore of times.

In the land of Bharata the one who gives away a cow in charity to a Brahmana, enjoys a blissful life in the region of moon for ten thousand years.

The one who gives away to Brahmana a milch cow, remains in Vaikuntha for the number of years equivalent to the hair on the body of the One, who gives in charity an image of Sdlagrama together with the clothes to a Brahmana, enjoys his stay in Vaikuntha for as long as the sun and the moon last.

The one who offers a beautiful umbrella to a BrShmana, enjoys his stay in the Vamnaloka for In the land of Bharata if one offers sandals to a Brahmana, enjoys a stay in Vdyuloka for ten Anyone who gives away in charity to Brahmana a beautiful and divine bed remains in heaven for as long as the sun and the moon last.

O beautiful one, the one who gives away to a Brahmana a lamp in charity, stays in heaven for a manvantara and is adored there.

By the merit of that charity his eye-sight always remains intact and he never goes to the abode of Yama.

The one who gives away in charity an elephant to a Brahmana in the land of Bharata, lives in Indraloka for a period as long as Indra lasts. Indra shares his throne with such a person.

In the land of Bharata if anyone offers a horse in charity to a Brahmana, he remains in the Varimaloka for the period of the duration of fourteen Indras. He enjoy his life there.

The one who gives away in charity a beautiful, palanquin, resides in Visnuloka for a manvantara and is respected there.

Tit ri oiriR j^drimiH.i The one who gives away in charity a white fly-whisk to a Brahmana, enjoys pleasure in the Vdyuloka, for ten thousands years.

The one who gives away land in Bharata, with heaps of paddy equivalent to the size of a mountain, enjoys comfortable life in Visnuloka for the number of years equivalent to the number of the paddy given away.

Thereafter he is reborn in the human race and enjoys a comfortable long life. Thus the one who gives away in charity and the one who receives it, both of them stay in Vaikuntha.

In the land of Bharata due to the perpetual recitation of the name of lord Visnu, they enjoy a long life and death runs away at their very sight.

The one who gives away in charity a beautiful queen to lord Krsna on the full moon night, is freed from all bondages. After enjoying all the pleasures in his present life he proceeds to Vis nuloka and there also he lives for a hundred Ill the uttard-phdlgunl constellation, the one who celebrates the Dolotsava, earns double the merit. Such a person remains alive up to the end of kalpa. This has been ordained by Brahma. The one who offers in charity the sesamum seeds to a Brahmana in the land of Bharata, remains in Vis nloka for as many years as the number of the seeds of the sesamum.

Thereafter he is reborn in the human race and enjoys comfortable life for long. The one who gives away in charity these same seeds in a copper vase, earns double the merit.

The one who gives away in charity to a Brahmana a beautiful chaste girl adorned with all ornaments and clad in beautifol costumes, is respected in the Candraloka, for a period of fourteen Indras, where he will spend his time always in the company of Apsaras quite Thereafter he will spend ten thousand years in the Gandharvaloka enjoying the company of UrvasT. Thereafter for a thousand births he will get a beautiful beloved who will be quite chaste, fortunate, tender-limbed and one who would speak in a sweet voice.

The one who gives away in charity to a Brahmana a tree laden with fruits, is adored in Indraloka for the number of years equivalent to the number the fruits in the trees.

Thereafter he is reborn in human race and because of the glory of the tree laden with the fruits given by him in charity, he gets a virtuous son. The glory of giving away in charity the trees laden with fruits has been described to have a thousand times more merit.

The one who gives away to a Brahmana in charity only the fruits, resides in heaven for a long time and thereafter he is reborn in the land of Bharata. If a person residing in Bharata gives away a house with many valuables and filled with cereals to a Brahmana, (as a result of the same) he remains in the abode of Kubera for a long time. Thereafter he is reborn in the human race and enjoys all the riches.

Such of the persons who gives away in charity at a sacred place to a Brahmana a plot of green land with devotion, he remains in Vaikuntha for a hundred manvantara and is established there.

He is reborn in the human race and owns a lot of land and riches.

During hundreds of births the land never disowns him and he always remains rich, glorious and has sons. He becomes a king also.

The one who gives away in charity to a Brahmana the best of the villages with its population, stays in Vaikimtha for a lakh of He is reborn in the human race and becomes the honour of a lakli of villages. The land never deserts him for a lakh of his births.

The one who gives away to the Brahmana, in the land of Bharata, rich crops, several step-wells and trees laden with flowers and fruits, he remains in the abode of Indra for the period equivalent to the age of ten lakhs of Indra and is respected there.

He is reborn in the human race and becomes a great king over a lakh of cities. There is no doubt about it.

The earth never parts company with such a person for ten thousand births. He always remains filled with riches on the earth.

The one who gives away in charity with devotion a hundred cities to a Brahmana, which are inhabited by high ranking people and having step-wells, tanks and trees of various kinds, he remains in Vaikuntha for crores of manvantaras is respected there. Thereafter he is reborn in the human race and becomes the lord of Jambudvipa and he enjoys all the royal pleasures and rules on earth like Indra.

The earth never deserts him for a crore of births. He enjoys long life and becomes a great monarch. The one who bestows all his riches on a Brahmana earns four times the merit. There is no doubt about it.

O chaste lady, one who offers to a Brahmana in charity the entire Jambudvipa, earns a hundred times more merit, there is no doubt about it.

The one who gives away in charity the seven continents of the world or the one who serves all the holy places or the one who always engages himself in tapas or the one who is always engaged in performing the vrafas without consuming anything or the one who gives away everything in charity, achieves all the success in life; he also has to be reborn on earth. But surprisingly enough the devotees of the lord never return to the earth.

The devotees of Visnu remain in the Goloka or the abode of Visnu. From there, they witness the fall of innumerable Brahmas.

Such of the Vaisnava people as recite the mantra of Visnu, after meeting the end of their lives, are relieved of their birth, death and old age, They take to the divine form and go to the abode of Visnu. From there, after having an audience with lord Visnu they proceed on to Goloka, the abode of lord Krsna, where they serve him. They witness to innumerable natural The gods, the siddhas and the entire universe can be destroyed but the one who is devoted to lord Krsna never meets with his end. Death, birth and old age can never approach him.

The one who offers a lamp of ghee in the month of KSrtika, enjoys living in the abode cf the lord for the number of the years equivalent to the number of the seconds for which the lamp is Ultimately he is reborn in the human race and achieves the devotion of lord Visnu. He becomes an immensely rich person on earth, with a clear vision and glory.

The one who takes a bath in the Gahga in the month of Magha at sunrise, enjoys life in the abode of Visnu for sixty thousand yugas delightfully. Thereafter he is reborn in the human race and undoubtedly becomes a devotee of lord Visnu. He becomes the best among the self- whrIcir gjRfg w g; i The one who offers the TulasT leaf to the lord in the month of Kartika remains in the abode of the lord delightfully for the number of years equivalent to the number of TulasT leaves offered Thereafter, he is reborn in the human race and continues to be a devotee of the lord. He Therefore lives a comfortable life in the land of Bharala for long.

The one who takes a bath in the month of Magha in the Prayaga region in the waters of Gahga at sunrise, enjoys the comforts of Vaikunt ha for a lakh of manvantaras, Thereafter he is reborn in the human race and recites the mantra of Visnu. Ultimately he meets with the end of the human body and proceeds on to the abode of Visnu. The people of Vaikuntha never send him back to the earth. By achieving salvation, he becomes a courtier of lord Visnu.

The one who take a bath in the Gahga daily, is purified on earth like the sun in the sky and he earns the merit of Asvamedha sacrifice at every step. The earth gets purified with the dust of his feet. He lives with pleasure in the Vaikuntha for as long as the sun and the moon last.

Thereafter he is reborn in the human race the as best of the ascetics remaining devoted to his dharma possessing spotless intelligence and The one who gives away in charity in the land of Bharata the fragrant water during the time of extreme heat, enjoys his stay in the Vaikuntha for a period of fourteen Indras. He is then reborn in the human race and is free from cheating, TTsT ir?nT:i The one who offers sandal-paste to the lord in the month of Vaisakha, enjoys a blissful life in the abode of the lord for sixty thousand yiigas.

Thereafter he is reborn on earth as a beautiful human and lives a comfortable life. By offering a yqjnopavUa in charity, one undoubtedly achieves the same merit and enjoys the same comfort in the Vaikuntha. Ultimately he achieves the devotion of lord Krsna.

In the month of Vaisakha whosoever offers in charity to the Brahmanas the ground barley, enjoys a comfortable life in the Visnuloka up to the number of years equivalent to the particles of the barley.

The one who performs the vrata of Krsna is relieved of the sins of crores of births. There is no doubt about it. He also enjoys life in Vaikuntha up to the period of fourteen Indras; thereafter he is reborn in the human race and surely achieves the devotion of lord Krsna.

In the land of Bharata the one who performs the vrata of Sivaratri, remains in Sivaloka for seven manvantaras. The one who offers the leaves of wood-apples to lord Siva on the day of Sivaratri, enjoys the life of Sivaloka for the number of years equivalent to the number of leaves offered by him.

Thereafter he is reborn in the human race and achieves the devotion of lord Siva, besides being virtuous obtains high education, sons, riches, the people and land.

In the month of Caitra or Magha whosoever adores lord Siva and also dances before him for a week during the day and night, achieves the Sivaloka and remains there for the number of years equivalent to the moments for which he performed the dance. Whether he dances for a day, half a mouth, ten days, a week or only for two days or even a day, he achieves the similar type of merit.

In the land of Bharata whosoever celebrates RamanavamI, enjoys a comfortable life for seven nianvantaras in Visnuloka. He is reborn in the human race and achieves the devotion of Rama.

He becomes the best of the self-disciplined people and appears as a great religious leader.

v i Kjlo t jT: Citium I In the Navaratra of the winter season whosoever performs the pujd of goddess Durga and offers sacrifice in a buffalo, a goat, a sheep, sugar-cane, a melon and naivedyas beside other presents like essence, a lamp etc., performing dance at the same time accompanied by music and celebrates the festival, he also proceeds to Sivaloka and remains there for seven manvantaras. Thereafter he is reborn in the human race and gets spotless wisdom. He has a sons and grandsons and the gloty which does not vanish. Becoming influential he becomes a king possessing several elephants and horses. There is no doubt about it. In the sacred land of Bharata on the bright eighth day of the moon in the month of Bhadrapada, whosoever adores MahalaksmI for a week regularly with devotion offering her puja with sixteen types of offering, he remains in the Vaikuntha till the sun and the moon last and enjoys the earth there with delight.

He is reborn in the human race and becomes a TiRmrat gr Tmr i In the month of Kartika, in the land of Bharata, whosoever organises Rdsamandala (the divine dance) and taking to the form of a hundred cowherds and cowherdesses worship the stone image of lord Krsna with sixteen type of offerings remains in Goloka up to the age of Brahma. Thereafter he is reborn in the land of Bharata and becomes a devotee of lord Hari.

Thus by achieving the deep devotion of Vis nu with the recitation of mantras he achieves Goloka after his death.

Reaching there he achieves salvation and becomes a courtier of lord Krsna; he ne ver has to face old age nor has he to fall from the Goloka, fOTT cbfiriJchKVM I The one who performs the Ekadashvrata during the bright or dark fortnight remains in Vaikuntha up to the age of Brahma.

Thereafter he is reborn in the land of Bharata and undoubtedly achieves the devotion of lord Visnu. With the influence of the same he goes back to Vaikuntha from where he never falls back. On the bright DvadasI of the month of Bhadrapada whosoever adores Indra enjoys life in Indraloka for sixty thousand years.

Such of the people who in the land of Bharata adore the sun on Sunday, on the first day of the month and the seventh day of the bright fortnight offering food and other eatables remain in the Suryaloka fill the sun and the moon last.

Thereafter they are reborn on the land of Bharata and remain healthy and possesse numerous On the fourteenth the bright fortnight of the month of Jyestha whosoever adores Savitri, remains in Brahmaloka for seven manvantaras and resides there gracefully. Thereafter he is reborn on earth as an immensely valorous person enjoying a long life possessing great intelligence and riches.

The one who adores goddess Sarasvatl with sixteen types of offerings getting self-disciplined on the bright fifth day of the month of Magha, offering sixteen types of presents, he resides in the Vaikuntha up to the age of Brahma and is held in high esteem. Ultimately he is reborn again on earth and he becomes a poet and an The one who, during his life time offers with devotion, cows or gold to a Brahmana resides in the Goloka for double the number of years more than the number of cows given by him in charity.

He enjoys the company of the lord there spending time playfully with the lord.

Thereafter, he is reborn on earth and achieves the devotion of lord Visnu. After he returns to the earth, he becomes a great monarch having innumerable cows, sons, great intelligence, knowledge and all types of pleasures.

The one who serves sweet food to the Brahmana in the land of Bharata, enjoys life in the Visnuloka for the number of years equivalent to the hair-pits on the body of the Brahmana.

After his retiini to Vaikuntha, he is reborn in the human race and enjoys a long life and all pleasures, possessing intelligence, riches, wealth and great prowess.

The one who recites the name of Visnu in the land of Bharata is adored in the Visnuloka for the number of years equivalent to the number of names of the lord recited by him.

TO oKtfIjjui fH^ii II When he is reborn on earth, he surely achieves the devotion of the lord. If he has performed good deeds in the Narayana region he gets merit many times more.

The one who recites the name of the lord a crore of times in the Narayana region, is relieved of all sins and achieves salvation. This is certain.

He is never reborn and is respected in the.

Vaikimtha. He then earns the place of Visnu and he never falls from that place.

The one who adores lord Siva daily preparing a linga and follows the practice throughout his life, proceeds to the land of Siva and stays there for the number of years equivalent to the particles of dust with which he had prepared the i linga while adoring them. Thereafter he is reborn in the land of Bharata as a grea monarch.

The one who adores the Sdlagrama stone daily and sips the water with which the stone is I washed, remains in the Vaikuntha up to the age of a hundred Brahmas. Thereafter he is reborn in the land of Bharata and achieves the devotion of the lord. He again proceeds to Visnuloka from where he never falls back.

By performing all the vratas and other religious ceremonies, he spends time in the Vaikuntha up to the age of Bharata and becomes a monarch. Thereafter he achieves salvation ultimately and he is never reborn.

The one who takes a bath in the holy places going round the earth, achieves salvation and he is never reborn on earth.

The one who performs the Asvamedha sacrifice on the sacred land of Bharata, remains in the land of Indra for the number of years equivalent to the hair on the body of the horse.

Indra then shares half of his throne with him but by performing the Rdjasuya yajna, one gets four times the merit and by performing Naramedha yajna, one gets half the merit and by performing Gomedha ya/na. one achieves similar By performing putrestl yajPia, one gets half the merit and a very good son. By performing langalestt yajiia, one achieves merit comparable to the Gomedha yajna. Similarly with the performing of the vipresti and vrddhi yajfia, one achieves similar merits. By performing padma yajna, one achieves half the merit.

By performing the visoka yajna, one is relieved of all the sins and by performing padma yajna, one achieves heaven. The one who performs the vijaya yajna, the king after becoming victorious earns the merit equivalent to the padma yajna and enjoys heavenly bliss.

After performing prdjapatya yajna there is an increase in the population as well as the land. A king after performing this yajna enjoys all the riches and pleasures and ultimately with the influence of half the merit of the padma yajna, he achieves heaven. By performing the rddhi yajna, he achieves heaven. By performing padma yajna, one gets heaven.

O beautiful one, of all the sacrifice of Visnu is considered to be the best which was celebrated earlier by Brahma with great pomp and show.

At that point of time there has been a fight between Daksa and lord Siva where the Brahmanas getting enraged had pronounced a curse on Nand! and in turn Nandi had cursed the Brahmana as a result of which lord Candrasekhar Siva had destroyed the yajna of Daksa. Thus in the earlier times Daksa Prajapati had performed the Visrm yajna.

Svayambhuva, Manu, his son Priyavrata, Siva, Sanatkumara, Kapila and Dhruva also performed the Visiiu yajna. Thousands of Rdjasuya yajnas can be performed with the availability of the riches but by performing Visnu yajna one gets the knowledge equivalent to a thousand Rdjasuyayajnas. Therefore there is no other yajna more rewarding than the Visnu yajna. This has been ordained in the Vedas.

By performing that yajna a person is freed from birth and enjoys life in heaven for many kalpas; such a person is equated with lord Vimu in intelligence and prowess.

fiiagftuigHi tjsjt %g:i As lord Visnu happens to be the best of the gods, Siva among the Vaisnavas, the Vedas among the scriptures, Brahmana among the Asramas, Gangd among the sacred rivers, Vais nava among the pious people Ekadasl among the vratas, the Tulasi among the trees, the moon among the constellations, Garuda among the birds, Prakrti among the ladies, the earth among the bases, the mind among the fast moving unstable organs of the senses, Brahma among the Prajajpatis, the Prajapati among the people, Vrndavana among the forests, Sri with the rich people, SarasvatT among the intellectuals. Durga among the chaste ladies, Radhika among the virtuous ladies, similarly, O daughter, Visnu yajria is the best of all ih^yajiias.

Thus after performing a hundred Asvamedha sacrifices, one gets the place of Indra. The king Prthu achieved the Visnupadas after performing a thousand Asvamedha sacrifices.

Therefore by taking a bath in all the sacred places, by performing all the yajhas, by performing all the vratas and by performing lapaSy by reciting all the four Vedas, by going round the entire universe, one earns the adoration of the supreme lord Krsna who bestows This is the gist derived from the Vedas, the Puranas and the historical treatises. All the scriptures go on to justify that one should serve the lotus-like feet of lord Krsna somehow or the Thus he has always to be adored, meditated upon, reciting his glory and mantra besides the stotras, offering prayer, performing japam and sipping the water of his feet. One should then take naivedya for him. This is the method by which all the desires are flilfilied.

Therefore one should recite the name of Krs na only who is Parabrahman, invisible and beyond Prakrti. Therefore, O daughter, you take over your husband and get back comfortably to your abode.

I have narrated to you the rewards one gets after performing the various deeds which are desired by all and is quite educative for the

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 117757 (2017-08-15T03:54:34Z); Shanti Lal Nagar English scan pages n337–n348: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n337/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.