Skip to main content

Prakṛti-khaṇḍa · Chapter 23

Chapter 23

Unit 53 of 276Prakṛti-khaṇḍa · Chapter 23Prakṛti-khaṇḍa · Chapter 231 source entries

Prakṛti-khaṇḍa · Chapter 23

Source

नारद उवाच ।। तुलस्युपाख्यानमिदं श्रुतमीश सुधोपमम् ।। यत्तु सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ।। १ ।। पुरा येन समुद्भूता सा श्रुता च श्रुतिप्रसूः ।। केन वा पूजिता देवी प्रथमे कैश्च वा परे ।। २ ।। नारायण उवाच ।। ब्रह्मणा वेदजननी पूजिता प्रथमे मुने ।। द्वितीये च देवगणैस्तत्पश्चाद्विदुषां गणैः ।। ३ ।। तथा चाश्वपतिः पूर्वं पूजयामास भारते ।। तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ।। ४ ।। नारद उवाच ।। को वा सोऽश्वपतिर्ब्रह्मन्केन वा तेन पूजिता ।। सर्वपूज्या च सावित्री तन्मे व्याख्यातुमर्हसि ।। ५ ।। नारायण उवाच ।। मद्रदेशे महाराजो बभूवाश्वपतिर्मुने ।। वैरिणां बलहर्त्ता च मित्राणां दुःखनाशनः ।। ६ ।। आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी ।। मालतीति च सा ख्याता यथा लक्ष्मीर्गदाभृतः ।। ७ ।। सा च राज्ञी महासाध्वी वसिष्ठस्योपदेशतः ।। चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ।। ८ ।। प्रत्यादेशं न सा प्राप महिषी न ददर्श ताम् ।। गृहं जगाम सा दुःखाद्धृदयेन विदूयता ।। ९ ।। राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै ।। सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ।। 2.23.१० ।। तपश्चचार तत्रैव संयतः शतवत्सरम् ।। न ददर्श च सावित्रीं प्रत्यादेशो बभूव ह ।। ११ ।। शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् ।। गायत्रीदशलक्षं च जपं कुर्विति नारद ।। १२ ।। एतस्मिन्नन्तरे तत्र प्रजगाम पराशरः ।। प्रणनाम नृपस्तं च मुनिर्नृपमुवाच ह ।। १३ ।। पराशर उवाच ।। सकृज्जपश्च गायत्र्याः पापं दिनकृतं हरेत् ।। दशधा प्रजपान्नॄणां दिवारात्र्यघमेव च ।। १४ ।। शतधा च जपाच्चैवं पापं मासार्जितं परम् ।। सहस्रधा जपाच्चैव कल्मषं वत्सरार्जितम् ।। १५ ।। लक्षं जन्मकृतं पापं दशलक्षं त्रिजन्मनः ।। सर्वजन्मकृतं पापं शतलक्षो विनश्यति ।। १५ ।। करोति मुक्तिं विप्राणां जपो दशगुणस्ततः ।। करं सर्पफणाकारं कृत्वा तु ऊर्ध्वमुद्रितम् ।। १७ ।। आनम्रमूर्द्धमचलं प्रजपेत्प्राङ्मुखो द्विजः ।। अनामिकामध्यदेशादथो वामक्रमेण च ।। १८ ।। तर्जनीमूलपर्य्यन्तं जपस्यैष क्रमः करे ।। श्वेतपङ्कज बीजानां स्फाटिकानां च संस्कृताम् ।। १९ ।। कृत्वा वा मालिकां राजञ्जपेत्तीर्थे सुरालये ।। संस्थाप्य मालामश्वत्थपत्रसप्तसु संयतः ।। 2.23.२० ।। कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः ।। गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ।। २१ ।। अथवा पञ्चगव्येन स्नाता माला च संस्कृता ।। अथ गङ्गोदकेनैव स्नाता वाऽतिसुसंस्कृता ।।२२।। एवं क्रमेण राजर्षे दशलक्षं जपं कुरु ।। साक्षाद् द्रक्ष्यसि सावित्रीं त्रिजन्ममपातकक्षयात् ।। २३ ।। नित्यं नित्यं त्रिसन्ध्यं च करिष्यसि दिने दिने ।। मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ।। २४ ।। सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।। यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ।। २५ ।। नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।। स शूद्रवद्बहिष्कार्य्यः सर्वस्माद् द्विजकर्मणः ।।२६।। यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यां करोति च ।। स च सूर्य्यसमो विप्रस्तेजसा तपसा सदा ।।२७।। तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ।। जीवन्मुक्तः स तेजस्वी सन्ध्या पूतो हि यो द्विजः ।। २८ ।। तीर्थानि च पवित्राणि तस्य स्पर्शनमात्रतः ।। ततः पापानि यान्त्येव वैनतेयादिवोरगाः ।। २९ ।। न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् ।। स्वेच्छया च द्विजातेश्च त्रिसन्ध्यरहितस्य च ।। 2.23.३० ।। विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः ।। एकादशीविहीनश्च विषहीनो यथोरगः ।। ३१ ।। हरेरनैवेद्यभोजी धावको वृषवाहकः ।। शूद्रान्नभोजी विप्रश्च विषहीनो यथोरगः ।। ३२ ।। शवदाही च शूद्राणां यो विप्रो वृषलीपतिः ।। शूद्राणां सूपकारश्च विषहीनो यथोरगः ।। ३३ ।। शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः ।। असिजीवी मषीजीवी विषहीनो यथोरगः ।।३४।। यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ।। भगजीवी वार्धुषिको विषहीनो यथोरगः ।। ३५ ।। यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ।। यो विद्याविक्रयी भूप विषहीनो यथोरगः ।। ३६ ।। सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो द्विजः ।। शिलापूजादिरहितो विषहीनो यथोरगः ।। ३७ ।। इत्युक्त्वा च मुनिश्रेष्ठः सर्व पूजाविधिक्रमम् ।। तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम् ।। ३८ ।। दत्त्वा सर्वं नृपेन्द्राय प्रययौ स्वालयं मुनिः ।। राजा संपूज्य सावित्रीं ददर्श वरमाप च।।३९।। नारद उवाच।। किं वा ध्यानं च सावित्र्याः किं वा पूजाविधानकम्।। स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ।।2.23.४०।। नृपः केन विधानेन संपूज्य श्रुतिमातरम्।। वरं च किं वा संप्राप वद सोऽश्वपतिर्नृपः।।४१।। नारायण उवाच।। ज्येष्ठे कृष्णत्रयोदश्यां शुद्धे काले च संयतः।। व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत्।।४२।। व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम्।। दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं तथा ।।४३।। वस्त्रं यज्ञोपवीतं च भोज्यं च विधिपूर्वकम्।। संस्थाप्य मङ्गलघटं फलशाखासमन्वितम।।४४।। गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्।। संपूज्य पूजयेदिष्टं घटे आवाहिते मुने।।४५।। शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत्।। स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ।। ४६ ।। तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ।। ग्रीष्ममध्याह्नमार्त्तण्डसहस्रसमसुप्रभाम् ।। ४७ ।। ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्।। वह्निशुद्धांशुकाधानां भक्तानुग्रहकातराम् ।।४८।। सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः।। सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम् ।। ४९ ।। वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् ।। वेदे बीजस्वरूपां च भजे त्वां वेदमातरम् ।। 2.23.५० ।। ध्यात्वा ध्यानेन चानेन दत्त्वा पुष्पं स्वमूर्द्धनि ।। पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद्व्रती ।। ५१ ।। दत्त्वा षोडशोपचारं वेदोक्तमन्त्रपूर्वकम् ।। सम्पूज्य स्तुत्वा प्रणमेदेवं देवीं विधानतः ।। ५२ ।। आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ।। धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम्।।५३।। वसनं भूषणं माल्यं गन्धमाचमनीयकम्।। मनोहरं सुतल्पं च देयान्येतानि षोडश।।५४।। दारुसारविकारं च हेमादिनिर्मितं च वा ।। देवाधारं पुण्यदं च मया नित्यं निवेदितम् ।। ५५ ।। तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् ।। पूजाङ्गभूतं शुद्धं च मया भक्त्या निवेदितम्।। ५६ ।। पवित्ररूपमर्घ्यं च दूर्वापुष्पाक्षतान्वितम् ।। पुण्यदं शंखतोयाक्तं मया तुभ्यं निवेदितम् ।। ५७।। सुगन्धि धात्रीतैलं च देहसौन्दर्य्यकारणम् ।। मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम् ।। ५८ ।। मलयाचलसम्भूतं देहशोभाविवर्द्धनम् ।। सुगन्धियुक्तं सुखदं मया तुभ्यं निवेदितम् ।। ५९ ।। गन्धद्रव्योद्भवः पुण्यः प्रीतिदो दिव्यगन्धदः ।। मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ।। 2.23.६० ।। जगतां दर्शनीयं च दर्शनं दीप्तिकारणम् ।। अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् ।। ६१ ।। तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम् ।। पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् ।। ६२ ।। ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।। तुष्टिदं पुष्टिदं चैव मया भक्त्या निवेदितम् ।। ६३ ।। सुशीतलं वासितं च पिपासानाशकारणम् ।। जगतां जीवरूपं च जीवनं प्रतिगृह्यताम् ।।६४।। देहशोभास्वरूपं च सभाशोभाविवर्द्धनम् ।। कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् ।।६५।। काञ्चनादिभिराबद्धं श्रीयुक्तं श्रीकरं सदा।। सुखदं पुण्यदं चैव भूषणं प्रतिगृह्यताम् ।। ६६ ।। नानापुष्पलताकीर्णं बहुभासा समन्वितम् ।। प्रीतिदं पुण्यदं चैव माल्यं वै प्रतिगृह्यताम् ।। ६७ ।। सर्वमङ्गलरूपश्च सर्व मङ्गलदो वरः ।। पुण्यप्रदश्च गन्धाढ्यो गन्धश्च प्रतिगृह्यताम् ।।६८।। शुद्धं शुद्धिप्रदं चैव शुद्धानां प्रीतिदं महत् ।। रम्यमाचमनीयं च मया दत्तं प्रगृह्यताम् ।। ६९ ।। रत्नसारादिनिर्माणं पुष्पचन्दनसंयुतम् ।। सुखदं पुण्यदं चैव सुतल्पं प्रतिगृह्यताम ।। 2.23.७० ।। नानावृक्षसमुद्भूतं नानारूपसमन्वितम् ।। फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् ।। ७१ ।। सिन्दूरं च वरं रम्यं भालशोभाविवर्द्धनम् ।। भूषणं भूषणानां च सिन्दूरं प्रतिगृह्यताम् ।। ७२ ।। विशुद्धग्रंथिसंयुक्तं पुण्यसूत्रविनिर्मितम् ।। पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् ।। ७३ ।। द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः ।। ततः प्रणम्य विप्राय व्रती दद्याच्च दक्षिणाम् ।। ७४ ।। सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च ।। लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः ।। ७९ ।। श्रीं ह्रीं क्लीं सावित्र्यै स्वाहा ।। मध्यन्दिनोक्तं स्तोत्रं च सर्ववाञ्छाफलप्रदम् ।। विप्रजीवनरूपं च निबोध कथयामि ते ।।७६।। कृष्णेन दत्ता सावित्री गोलोके ब्रह्मणे पुरा ।।। न याति सा तेन सार्द्धं ब्रह्मलोकं तु नारद ।। ७७ ।। ब्रह्मा कृष्णाज्ञया भक्त्या पर्यष्टौद्वेदमातरम् ।। तदा सा परितुष्टा च ब्रह्माणं चकमे सती ।। ७८ ।। ब्रह्मोवाच ।। नारायणस्वरूपे च नारायणि सनातनि ।। नारायणात्समुद्भूते प्रसन्ना भव सुन्दरि ।। ७९ ।।।। तेजस्स्वरूपे परमे परमानन्दरूपिणि ।। द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि।।2.23.८०।। नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि।। सर्वमंगलरूपेण प्रसन्ना भव सुन्दरि ।।८१।। सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ।। सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि।।८२।। विप्रपापेन्धदाहाय ज्वलदग्निशिखोपमे ।। ब्रह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि ।। ८३ ।। कायेन मनसा वाचा यत्पापं कुरुते द्विजः ।। तत्ते स्मरणमात्रेण भस्मीभूतं भविष्यति।।८४।। इत्युक्त्वा जगतां धाता तत्र तस्थौ च संसदि ।। सावित्री ब्रह्मणा सार्द्धं ब्रह्मलोकं जगाम सा ।।८९ ।। अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः ।। ददर्श तां च सावित्रीं वरं प्राप मनोगतम् ।।८६।। स्तवराजमिदं पुण्यं त्रिसन्ध्यायां च यः पठेत् ।। पाठे चतुर्णां वेदानां यत्फलं तल्लभेद् ध्रुवम् ।। ८७ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने सावित्रीस्तोत्रकथनं नाम त्रयोविंशतितमोध्यायः ।। २३ ।।

nārada uvāca || tulasyupākhyānamidaṃ śrutamīśa sudhopamam || yattu sāvitryupākhyānaṃ tanme vyākhyātumarhasi || 1 || purā yena samudbhūtā sā śrutā ca śrutiprasūḥ || kena vā pūjitā devī prathame kaiśca vā pare || 2 || nārāyaṇa uvāca || brahmaṇā vedajananī pūjitā prathame mune || dvitīye ca devagaṇaistatpaścādviduṣāṃ gaṇaiḥ || 3 || tathā cāśvapatiḥ pūrvaṃ pūjayāmāsa bhārate || tatpaścātpūjayāmāsurvarṇāścatvāra eva ca || 4 || nārada uvāca || ko vā so'śvapatirbrahmankena vā tena pūjitā || sarvapūjyā ca sāvitrī tanme vyākhyātumarhasi || 5 || nārāyaṇa uvāca || madradeśe mahārājo babhūvāśvapatirmune || vairiṇāṃ balaharttā ca mitrāṇāṃ duḥkhanāśanaḥ || 6 || āsīttasya mahārājñī mahiṣī dharmacāriṇī || mālatīti ca sā khyātā yathā lakṣmīrgadābhṛtaḥ || 7 || sā ca rājñī mahāsādhvī vasiṣṭhasyopadeśataḥ || cakārārādhanaṃ bhaktyā sāvitryāścaiva nārada || 8 || pratyādeśaṃ na sā prāpa mahiṣī na dadarśa tām || gṛhaṃ jagāma sā duḥkhāddhṛdayena vidūyatā || 9 || rājā tāṃ duḥkhitāṃ dṛṣṭvā bodhayitvā nayena vai || sāvitryāstapase bhaktyā jagāma puṣkaraṃ tadā || 2.23.10 || tapaścacāra tatraiva saṃyataḥ śatavatsaram || na dadarśa ca sāvitrīṃ pratyādeśo babhūva ha || 11 || śuśrāvākāśavāṇīṃ ca nṛpendraścāśarīriṇīm || gāyatrīdaśalakṣaṃ ca japaṃ kurviti nārada || 12 || etasminnantare tatra prajagāma parāśaraḥ || praṇanāma nṛpastaṃ ca munirnṛpamuvāca ha || 13 || parāśara uvāca || sakṛjjapaśca gāyatryāḥ pāpaṃ dinakṛtaṃ haret || daśadhā prajapānnṝṇāṃ divārātryaghameva ca || 14 || śatadhā ca japāccaivaṃ pāpaṃ māsārjitaṃ param || sahasradhā japāccaiva kalmaṣaṃ vatsarārjitam || 15 || lakṣaṃ janmakṛtaṃ pāpaṃ daśalakṣaṃ trijanmanaḥ || sarvajanmakṛtaṃ pāpaṃ śatalakṣo vinaśyati || 15 || karoti muktiṃ viprāṇāṃ japo daśaguṇastataḥ || karaṃ sarpaphaṇākāraṃ kṛtvā tu ūrdhvamudritam || 17 || ānamramūrddhamacalaṃ prajapetprāṅmukho dvijaḥ || anāmikāmadhyadeśādatho vāmakrameṇa ca || 18 || tarjanīmūlaparyyantaṃ japasyaiṣa kramaḥ kare || śvetapaṅkaja bījānāṃ sphāṭikānāṃ ca saṃskṛtām || 19 || kṛtvā vā mālikāṃ rājañjapettīrthe surālaye || saṃsthāpya mālāmaśvatthapatrasaptasu saṃyataḥ || 2.23.20 || kṛtvā gorocanāktāṃ ca gāyatryā snāpayetsudhīḥ || gāyatrīśatakaṃ tasyāṃ japecca vidhipūrvakam || 21 || athavā pañcagavyena snātā mālā ca saṃskṛtā || atha gaṅgodakenaiva snātā vā'tisusaṃskṛtā ||22|| evaṃ krameṇa rājarṣe daśalakṣaṃ japaṃ kuru || sākṣād drakṣyasi sāvitrīṃ trijanmamapātakakṣayāt || 23 || nityaṃ nityaṃ trisandhyaṃ ca kariṣyasi dine dine || madhyāhne cāpi sāyāhne prātareva śuciḥ sadā || 24 || sandhyāhīno'śucirnityamanarhaḥ sarvakarmasu || yadahnā kurute karma na tasya phalabhāgbhavet || 25 || nopatiṣṭhati yaḥ pūrvāṃ nopāste yaśca paścimām || sa śūdravadbahiṣkāryyaḥ sarvasmād dvijakarmaṇaḥ ||26|| yāvajjīvanaparyyantaṃ yastrisandhyāṃ karoti ca || sa ca sūryyasamo viprastejasā tapasā sadā ||27|| tatpādapadmarajasā sadyaḥ pūtā vasundharā || jīvanmuktaḥ sa tejasvī sandhyā pūto hi yo dvijaḥ || 28 || tīrthāni ca pavitrāṇi tasya sparśanamātrataḥ || tataḥ pāpāni yāntyeva vainateyādivoragāḥ || 29 || na gṛhṇanti surāḥ pūjāṃ pitaraḥ piṇḍatarpaṇam || svecchayā ca dvijāteśca trisandhyarahitasya ca || 2.23.30 || viṣṇumantravihīnaśca trisandhyarahito dvijaḥ || ekādaśīvihīnaśca viṣahīno yathoragaḥ || 31 || hareranaivedyabhojī dhāvako vṛṣavāhakaḥ || śūdrānnabhojī vipraśca viṣahīno yathoragaḥ || 32 || śavadāhī ca śūdrāṇāṃ yo vipro vṛṣalīpatiḥ || śūdrāṇāṃ sūpakāraśca viṣahīno yathoragaḥ || 33 || śūdrāṇāṃ ca pratigrāhī śūdrayājī ca yo dvijaḥ || asijīvī maṣījīvī viṣahīno yathoragaḥ ||34|| yo vipro'vīrānnabhojī ṛtusnātānnabhojakaḥ || bhagajīvī vārdhuṣiko viṣahīno yathoragaḥ || 35 || yaḥ kanyāvikrayī vipro yo harernāmavikrayī || yo vidyāvikrayī bhūpa viṣahīno yathoragaḥ || 36 || sūryyodaye ca dvirbhojī matsyabhojī ca yo dvijaḥ || śilāpūjādirahito viṣahīno yathoragaḥ || 37 || ityuktvā ca muniśreṣṭhaḥ sarva pūjāvidhikramam || tamuvāca ca sāvitryā dhyānādikamabhīpsitam || 38 || dattvā sarvaṃ nṛpendrāya prayayau svālayaṃ muniḥ || rājā saṃpūjya sāvitrīṃ dadarśa varamāpa ca||39|| nārada uvāca|| kiṃ vā dhyānaṃ ca sāvitryāḥ kiṃ vā pūjāvidhānakam|| stotraṃ mantraṃ ca kiṃ dattvā prayayau sa parāśaraḥ ||2.23.40|| nṛpaḥ kena vidhānena saṃpūjya śrutimātaram|| varaṃ ca kiṃ vā saṃprāpa vada so'śvapatirnṛpaḥ||41|| nārāyaṇa uvāca|| jyeṣṭhe kṛṣṇatrayodaśyāṃ śuddhe kāle ca saṃyataḥ|| vratameva caturdaśyāṃ vratī bhaktyā samācaret||42|| vrataṃ caturdaśābdaṃ ca dvisaptaphalasaṃyutam|| dattvā dvisaptanaivedyaṃ puṣpadhūpādikaṃ tathā ||43|| vastraṃ yajñopavītaṃ ca bhojyaṃ ca vidhipūrvakam|| saṃsthāpya maṅgalaghaṭaṃ phalaśākhāsamanvitama||44|| gaṇeśaṃ ca dineśaṃ ca vahniṃ viṣṇuṃ śivaṃ śivām|| saṃpūjya pūjayediṣṭaṃ ghaṭe āvāhite mune||45|| śṛṇu dhyānaṃ ca sāvitryāścoktaṃ mādhyandine ca yat|| stotraṃ pūjāvidhānaṃ ca mantraṃ ca sarvakāmadam || 46 || taptakāñcanavarṇābhāṃ jvalantīṃ brahmatejasā || grīṣmamadhyāhnamārttaṇḍasahasrasamasuprabhām || 47 || īṣaddhāsyaprasannāsyāṃ ratnabhūṣaṇabhūṣitām|| vahniśuddhāṃśukādhānāṃ bhaktānugrahakātarām ||48|| sukhadāṃ muktidāṃ śāntāṃ kāntāṃ ca jagatāṃ vidheḥ|| sarvasampatsvarūpāṃ ca pradātrīṃ sarvasampadām || 49 || vedādhiṣṭhātṛdevīṃ ca vedaśāstrasvarūpiṇīm || vede bījasvarūpāṃ ca bhaje tvāṃ vedamātaram || 2.23.50 || dhyātvā dhyānena cānena dattvā puṣpaṃ svamūrddhani || punardhyātvā ghaṭe bhaktyā devīmāvāhayedvratī || 51 || dattvā ṣoḍaśopacāraṃ vedoktamantrapūrvakam || sampūjya stutvā praṇamedevaṃ devīṃ vidhānataḥ || 52 || āsanaṃ pādyamarghyaṃ ca snānīyaṃ cānulepanam || dhūpaṃ dīpaṃ ca naivedyaṃ tāmbūlaṃ śītalaṃ jalam||53|| vasanaṃ bhūṣaṇaṃ mālyaṃ gandhamācamanīyakam|| manoharaṃ sutalpaṃ ca deyānyetāni ṣoḍaśa||54|| dārusāravikāraṃ ca hemādinirmitaṃ ca vā || devādhāraṃ puṇyadaṃ ca mayā nityaṃ niveditam || 55 || tīrthodakaṃ ca pādyaṃ ca puṇyadaṃ prītidaṃ mahat || pūjāṅgabhūtaṃ śuddhaṃ ca mayā bhaktyā niveditam|| 56 || pavitrarūpamarghyaṃ ca dūrvāpuṣpākṣatānvitam || puṇyadaṃ śaṃkhatoyāktaṃ mayā tubhyaṃ niveditam || 57|| sugandhi dhātrītailaṃ ca dehasaundaryyakāraṇam || mayā niveditaṃ bhaktyā snānīyaṃ pratigṛhyatām || 58 || malayācalasambhūtaṃ dehaśobhāvivarddhanam || sugandhiyuktaṃ sukhadaṃ mayā tubhyaṃ niveditam || 59 || gandhadravyodbhavaḥ puṇyaḥ prītido divyagandhadaḥ || mayā nivedito bhaktyā dhūpo'yaṃ pratigṛhyatām || 2.23.60 || jagatāṃ darśanīyaṃ ca darśanaṃ dīptikāraṇam || andhakāradhvaṃsabījaṃ mayā tubhyaṃ niveditam || 61 || tuṣṭidaṃ puṣṭidaṃ caiva prītidaṃ kṣudvināśanam || puṇyadaṃ svādurūpaṃ ca naivedyaṃ pratigṛhyatām || 62 || tāmbūlaṃ ca varaṃ ramyaṃ karpūrādisuvāsitam || tuṣṭidaṃ puṣṭidaṃ caiva mayā bhaktyā niveditam || 63 || suśītalaṃ vāsitaṃ ca pipāsānāśakāraṇam || jagatāṃ jīvarūpaṃ ca jīvanaṃ pratigṛhyatām ||64|| dehaśobhāsvarūpaṃ ca sabhāśobhāvivarddhanam || kārpāsajaṃ ca kṛmijaṃ vasanaṃ pratigṛhyatām ||65|| kāñcanādibhirābaddhaṃ śrīyuktaṃ śrīkaraṃ sadā|| sukhadaṃ puṇyadaṃ caiva bhūṣaṇaṃ pratigṛhyatām || 66 || nānāpuṣpalatākīrṇaṃ bahubhāsā samanvitam || prītidaṃ puṇyadaṃ caiva mālyaṃ vai pratigṛhyatām || 67 || sarvamaṅgalarūpaśca sarva maṅgalado varaḥ || puṇyapradaśca gandhāḍhyo gandhaśca pratigṛhyatām ||68|| śuddhaṃ śuddhipradaṃ caiva śuddhānāṃ prītidaṃ mahat || ramyamācamanīyaṃ ca mayā dattaṃ pragṛhyatām || 69 || ratnasārādinirmāṇaṃ puṣpacandanasaṃyutam || sukhadaṃ puṇyadaṃ caiva sutalpaṃ pratigṛhyatāma || 2.23.70 || nānāvṛkṣasamudbhūtaṃ nānārūpasamanvitam || phalasvarūpaṃ phaladaṃ phalaṃ ca pratigṛhyatām || 71 || sindūraṃ ca varaṃ ramyaṃ bhālaśobhāvivarddhanam || bhūṣaṇaṃ bhūṣaṇānāṃ ca sindūraṃ pratigṛhyatām || 72 || viśuddhagraṃthisaṃyuktaṃ puṇyasūtravinirmitam || pavitraṃ vedamantreṇa yajñasūtraṃ ca gṛhyatām || 73 || dravyāṇyetāni mūlena dattvā stotraṃ paṭhetsudhīḥ || tataḥ praṇamya viprāya vratī dadyācca dakṣiṇām || 74 || sāvitrīti caturthyantaṃ vahnijāyāntameva ca || lakṣmīmāyākāmapūrvaṃ mantramaṣṭākṣaraṃ viduḥ || 79 || śrīṃ hrīṃ klīṃ sāvitryai svāhā || madhyandinoktaṃ stotraṃ ca sarvavāñchāphalapradam || viprajīvanarūpaṃ ca nibodha kathayāmi te ||76|| kṛṣṇena dattā sāvitrī goloke brahmaṇe purā ||| na yāti sā tena sārddhaṃ brahmalokaṃ tu nārada || 77 || brahmā kṛṣṇājñayā bhaktyā paryaṣṭaudvedamātaram || tadā sā parituṣṭā ca brahmāṇaṃ cakame satī || 78 || brahmovāca || nārāyaṇasvarūpe ca nārāyaṇi sanātani || nārāyaṇātsamudbhūte prasannā bhava sundari || 79 |||| tejassvarūpe parame paramānandarūpiṇi || dvijātīnāṃ jātirūpe prasannā bhava sundari||2.23.80|| nitye nityapriye devi nityānandasvarūpiṇi|| sarvamaṃgalarūpeṇa prasannā bhava sundari ||81|| sarvasvarūpe viprāṇāṃ mantrasāre parātpare || sukhade mokṣade devi prasannā bhava sundari||82|| viprapāpendhadāhāya jvaladagniśikhopame || brahmatejaḥprade devi prasannā bhava sundari || 83 || kāyena manasā vācā yatpāpaṃ kurute dvijaḥ || tatte smaraṇamātreṇa bhasmībhūtaṃ bhaviṣyati||84|| ityuktvā jagatāṃ dhātā tatra tasthau ca saṃsadi || sāvitrī brahmaṇā sārddhaṃ brahmalokaṃ jagāma sā ||89 || anena stavarājena saṃstūyāśvapatirnṛpaḥ || dadarśa tāṃ ca sāvitrīṃ varaṃ prāpa manogatam ||86|| stavarājamidaṃ puṇyaṃ trisandhyāyāṃ ca yaḥ paṭhet || pāṭhe caturṇāṃ vedānāṃ yatphalaṃ tallabhed dhruvam || 87 || iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvāde sāvitryupākhyāne sāvitrīstotrakathanaṃ nāma trayoviṃśatitamodhyāyaḥ || 23 ||

English translation

The method of adoration of Goddess Narada said—O lord, I have listened to the nectar-like sweet story of TulasL Now you kindly tell me the story of Savitrl.

The goddess Savitrl is the mother of the Vedas, according to the general belief. How was this goddess bom earlier and who adored her first Narayana said—O sage, the mother of the Vedas was adored by Brahma first of ail.

Thereafter the other gods adored her.

In the land of Bharata the king Asvapati adored her first of all. Thereafter all the four varnas adored her.

Narada said—O Brahman, who was this Asvapati and how did he adore Savitrl? You kindly tell me.

Narayaiia said—O sage, Asvapati had been the king of Madradesa; he was the destroyer of these enemies with his prowess and always removed the miseries of his friends.

His queen was quite chaste and was known by the name of Malati she appeared gracefiil with the king in the same way as Laksmi remained with lord Visnu. O Narada, the chaste queen adored the goddess Savitrl at the advice of the sage Vasistha.

But the goddess neither appeared before her nor was any message communicated to her. With a painful heart, she returned to her abode.

Finding her so painful at heart, the king tried I to make her understand in various ways and in order to adore the goddess Savitrl herself with great devotion, he went to Puskara region.

He perfonned tapas with great devotion for a hundred years. Still the goddess did not appear before him. A message however was received from her. I O Narada, the king had the divine voice from the sky at the same time which said; “You recite the Gayatrl mantra ten lakh times.” In the meantime the sage ParSsara arrived there. The king bowed before him in reverence. Thereafter the sage spoke to the king.

JTini'Huii rc-g i { T aig ^ ct gn Parasara said—By reciting the name of Gayatri a person is relieved of all the sins earned during the day and by reciting it ten times the sin committed during the day and the night By reciting the mantra of Gayatri a hundred times, the sins committed by a person during a month vanish and by reciting the same mantra a thousand times a person is relieved of the sins committed by him during one year.

By reciting the mantra for a lakh of times, the sins committed during the entire life disappear and by reciting the same mantra ten lakh times, the sins committed during three births disappear.

Similarly by reciting the mantra one thousand lakh times, the sins committed during all the gjflfW inil ^?ppTi3?r;i xirthiHigii g xtfjwt Hii4'4ryy1:i By reciting the mantra ten times more the Brahmanas achieve salvation. A Brahmana should get himself seated facing the east. He should turn his hands like the serpents hood.

Raising the hands he should remain in that position. Then he should be tilted a little. He should then start the recitation from the lowest mark of the little finger and moving on the lower side turning to the left, should move to the lower part of the fore-finger and then touch the thumb.

This is the method of the recitation of the mantra with hands. O king, one should make a rosary of the seeds of the white lotus or the beads of the ciystal stone and seated in a temple or a sacred place, one should perform the recitation. Prior to that, one should place the rosary on the seven leaves of a pipala tree and the fragrance paste should be applied to it. Thereafter reciting the hymn of Gayatrl, the rosary should be washed.

Then one should recite the hymn of Gayatri a Alternatively by offering the Pancagavya and the water of the Gahga, the rosary gets consecrated. O royal sage, the hymn of Gayatrl should be recited ten lakh times which removes the sins of all the three births after which you will surely have an audience with Savitrl.

Thus, you should repeat the recitation of Gayatrl hymn thrice a day in the morning, noon and evening getting yourself purified.

Because without performing sandhya one remains unclean and is therefore considered to be unfit form performing any religious acts. The one who performs and whatever he performs during the day, he does not get the reward for it.

Such of the Brahmanas who do not perform sandhya during the morning as well as the evening, are considered to be excommunicated from the rites performed by the Brahmarias.

Such of the Brahmanas who perform sandhya during all the three times a day get the glory of the sun and shine like him.

The earth gets purified with the dust of the feet of such Brahmanas. Such Brahmanas who get purified with the reciting of Gayatri hymn, achieve great glory and are freed from human life. With their veiy touch all the sacred places get purified. All their sins at once disappear in the same way as the serpents disappear at the sight of a Garuda.

The one who does not perform sandhya thrice a day and conducts himself according to his own will, the gods do not accept the offering made by him and the manes do not accept the pindas offered by him.

The one who is deprived of mantra of Visnu, fails to perform sandhya thrice a day, does not fast on the eleventh day of moon, such a Brahmana becomes like a serpent without its The one who takes food without first offering it to the lord, the one who rides a bull, the one who eats the food of Siidras, he is coiripared with a snake having no poison.

fergr wrtt;!i ^ 9 a The one who burns the bodies of the Sudras, takes a Sudra as his wife and Cc.ts v/ith them, such a Brahmana is considered to be a serpent without poison.

The one who receives charity from Sudras, performs yay/ra for them and makes a living by means of his sword or conducts like a revenue officer, such a Brahmana is considered to be a serpent without poison. The one who consumes food from a widow having no son, the wmmen in period and the one earning his livelihood by forcing his wife on evil path, such a Brahmana and the money-lender are considered to be snakes without poison.

O king, the one who sells away his daughter, sells away the figures of gods, the Brahmana who sells away knowledge, he is considered to be a serpent without poison. One vvho takes food twice at dawn, the one v/ho consumes fish, one who does not perform of Sdlagrdma, such a Brahmana is considered to be a serpent without Thus speaking the best of the sages made the king aware of the correct method of the adoration of Savitrl, her dhyemam and other details. Thus making the king aware of all the details about adoration the sage left for his place. Thereafter the king adoring Savitrl achieved a boon from Narada said—What is the method of the adoration of Savitrl, what is her dhydnatn, stotra and mantra which was given by the sage Parasara to the king?

How did the king AsVapati adore Savitrl, the mother of the Vedas and what type of boon could he get from her? You kindly tell me.

Narayana said—One should perform vrata on the thirteenth or fourteenth day of the black fortnight of the month of Jyestha. A devotee should perform the pCijd of Savitrl.

i jyl l f^itlM? g' 4l4chKHdH' IU^II After performing the vvata for fourteen years the iiaivedyas, flowers, essence, clothes, yajnopavlta and eatables should be offered.

Thereafter fruits and fresh leaves should be consecrated followed by the adoration of Ganesa, Surya, Agni, Visnii, Siva and Parvati. He should invoke the presence of his family goddess over the vase. O sage, according the Madhyandini- sakhd of Yajiirveda, the dhydnam and the stotra of Savitr! should be recited besides perfonning piljcL I am now speaking out the mantra of the goddess which brings about success to all.

The goddess has the complexion of molten gold, having the lustre of Brahman and the glory exceeding Ihousajids of suns of the summer season at noon, wearing a smile on her face, adorned with ail the ornaments, clad in the clothes purified by the god of fire and the one who always remains eager to shower her grace- over her devotees. She is the bestower of pleasures and salvation. She is peaceful and is the wife of the creator of the universe. She is the form of all the treasures, a bestower of wealth, the goddess of the Vedas. I serve the mother of the Vedas.

Thus meditating upon her the perfonner should place the flowers on her head and should invoke the goddess in the vase. Thereafter, reciting the Vedic hymns one should adore the goddess in sixteen ways, offering her prayers and Thereafter, he should provide a bath, besides offering padya, arghya and water for bathing besides the paste, the essence, the lamp, naivedya, betel, cool water, the cloth, the oniaments, rosary, sandal-paste, sipping of water and the beautiful bed. These are the sixteen types of offerings.

One should offer sixteen things by reciting the sixteen mantras. A wooden seat or the seat made of gold which should be suitable for the seating of the gods, I am offering for the gods.

I offer with devotion the water of the sacred places for washing the feet, which is quite pure and is suitable for performing puja. I offer the sacred arghya which consists of Dtlrva-grass, flowers and rice. Besides the sacred water poured with conch is offered by me.

I am offering the fragrant oil of myrobalan which increases beauty, for the purpose of bathing. You kindly accept it. I offer the sandal- paste, which is grown in Malayacala, increases the beauty of the body, is fragrant and bestows I offer with devotion the fragrant and sacred essence which may kindly be accepted. I am offering to you the lamp which illumines the universe and helps the sight, is the cause of light and is the remover of darkness.

I offer the Naivedya which provides satisfaction, growth, love and removes hunger beside being tasteful and graceful.

You kindly accept it. I am offering you the best of betels which is quite charming, is filled with camphor, fragrant and provides satisfaction and growth. I am offering the water which is quite cool, fragrant, is the remover of thirst besides being the life of the universe. You kindly accept it.

I am offering the cotton and silken cloth which increases the chann of the body and glory of the body in the assembly. You kindly accept it.

I am offering the divine ornaments made of gold and other metals which are beautiful to look at, which are the cause of glory and quite pleasant. You kindly accept them.

I am offering the garland of flowers and creepers with extremely shining, which increase love and gives righteous. You kindly accept it.

I am offering you the fragrant essence which is the form of all welfare; it is the bestower of welfare, the best and meritorious. You kindly accept it. I am offering you the clean water which removes dirt and helps in keeping one clean, is quite adorable and fit for sipping. You kindly accept it.

I am offering you a meritorious and beautiful bed which is made of the essence of the gems and is adorned with flowers and sandal. You kindly accept it.

I am offering you fruits of several keAiend efo trees which are quite sweet and tasteful. You kindly accept them.

I am offering you the saffron which is the best, beautful, increases the beauty of one's forehead and is a substitute for ornament; kindly accept it.

I am offering you the sanctified yajnopavlta with pure knots and is made of divine Sudras and purified by the Vedic hymn. You kindly accept Thus all the articles should be offered reciting the MQla mantra and thereafter the mtelligent people should recite the stotra. Then after bowing before her, the daksind should be given over to the Brahmanas.

You possess extreme lustre and are quite blissful. O beautiful one, you are of the caste of Brahmanas and you be pleased with me.

By adding the prefixes of* ffto Laksml, Maya and Kama, together with the fourth form of Savitrl (^urf^) and further adding the word Svaha as a suffix, the mantra If ^ is formed. This eight letter mantra has been called the basic or the SQti-mantra by the Now you listen to the mantra of Savitrl which fulfils all the desires according to Madhyandini- sakhd and is the life line for the Brahmanas. You listen to it.

IF fFnw O Narada— Lord Sri Krsna had initially given away SavitrT to Brahma but she did not agree to go with Brahmana to the Brahmaloka. Thereafter at the command of lord Krsna when Brahma adored the mother of the Vedas, then the chaste lady agreed to accompany Brahma.

Brahma said—O goddess, you have the form of Narayana and are called NarayanI as well as Sanatani. You have emerged from lord Narayana. O beautiful one, you be pleased with O goddess, you are eternal, are always loved and are blissful. You bestow all the welfare on all and therefore be pleased.

O goddess, you are everything for the Brahmanas, the essence of the mantras and are the best of the best. O beautiful one, you bestow pleasure and redemption; you be pleased with O goddess, you are like a fire flame for the burning of the sins of the Brahmanas and you bestow the gloiy of Brahmanas. O beautiful one, you be pleased.

crrar fflT: I Whatever sins are committed by the Brahmana by his speech or deed, are washed away by the mere reciting of your name.

Brahma the creator of the universe kept quiet after thus speaking. Thereafter, Savitri went to Brahmaloka accompanied by Brahma. The king Asvapati adored SavitrT with the same stotra, SavitrT then appeared before him and gave him the desired boon.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 117695 (2017-08-13T02:40:10Z); Shanti Lal Nagar English scan pages n317–n325: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n317/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.