Prakṛti-khaṇḍa · Chapter 18
Sourceनारायण उवाच ।। श्रीकृष्णं मनसा ध्यात्वा राजा कृष्णपरायणः ।। ब्राह्मे मुहूर्त्ते चोत्थाय पुष्पतल्पान्मनोहरात् ।।१।। रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा ।। धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ।।२।। चकाराह्निकमावश्यमभीष्टगुरुवन्दनम् ।। दध्याज्यं मधु लाजांश्च सोऽपश्यद्वस्तु मङ्गलम् ।। ३ ।। रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् ।। ब्राह्मणेभ्यो ददौ भक्त्या यथानित्यं च नारद ।। ४ ।। अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् ।। ददौ विप्राय गुरवे यात्रामङ्गलहेतवे ।। ५ ।। गजरत्नं चाश्वरत्नं धेनुरत्नं मनोहरम् ।। ददौ सर्वं दरिद्राय विप्रार्थं मङ्गलाय च ।। ६ ।। कोशागारसहस्रं च नगराणां त्रिलक्षकम् ।। ग्रामाणां शतकोटिं च ब्राह्मणेभ्यो ददौ मुदा ।। ७ ।। पुत्रं कृत्वा च राजेन्द्रं सुचन्द्रं दानवेषु च ।। पुत्रे समर्प्य भार्यां च राज्यं वै सर्वसम्पदम् ।। ८ ।। प्रजानुचरसंघं च कोशौघं वाहनादिकम् ।। स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह ।। ९ ।। भृत्यद्वारा क्रमेणैव स चक्रे सैन्यसंचयम् ।। अश्वानां च त्रिलक्षेण पञ्चलक्षेण हस्तिनाम् ।। ।। 2.18.१० ।। रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः ।। त्रिकोटिभिश्चर्मिणां च शूलिनां च त्रिकोटिभिः ।। ११ ।। कृता सेनाऽपरिमिता दानवेन्द्रेण नारद ।। यस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः ।। १२ ।। महारथः स विज्ञेयो रथिनां प्रवरो रणे ।। त्रिलक्षाक्षौहिणी सेनापतिं कृत्वा नराधिपः।।१३।। त्रिंशदक्षौहिणीवाद्यभाण्डौघं च चकार सः ।। बहिर्बभूव शिबिरान्मनसा श्रीहरिं स्मरन्।।१४।। रत्नेन्द्रसारखचितं विमानं ह्यारुरोह सः ।। गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम् ।। १५ ।। पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।। सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नामतः ।।१६।। कपिलस्य तपस्थानं पुण्यक्षेत्रं च भारते ।। पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे।।१७।। श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ।। पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ।। शाश्वती जलपूर्णा च पुष्पभद्रानदी शुभा ।। १८ ।। लवणोदप्रिया भार्य्या शश्वत्सौभाग्यसंयुता ।। शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा ।।१९।। शरावतीमिश्रिता च निर्गता सा हिमालयात्।। गोमन्तं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।।2.18.२०।। तत्र गत्वा शंखचूडो लुलोके चन्द्रशेखरम् ।। वटमूले समासीनं सूर्य्यकोटिसमप्रभम् ।। २१ ।। कृत्वा योगासने स्थित्वा मुद्रायुक्तं च सस्मितम् ।। शुद्धस्फटिक सङ्काशं ज्वलन्तं ब्रह्मतेजसा ।। २२ ।। त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ।। तप्तकाञ्चनवर्णाभं जटाजालं च बिभ्रतम् ।। २३ ।। त्रिनेत्रं पञ्चवक्त्रं च नागयज्ञोपवीतिनम् ।। मृत्युञ्जयं कालमृत्युं विश्वमृत्युकरं परम् ।। २४ ।। भक्तमृत्युहरं शान्तं गौरीकान्तं मनोरमम् ।। तपसां फलदातारं दातारं सर्वसम्पदाम् ।। २५ ।। आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम् ।। विश्वनाथं विश्वरूपं विश्वबीजं च विश्वजम् ।। २६ ।। विश्वम्भरं विश्ववरं विश्वसंहारकारणम् ।। कारणं कारणानां च नरकार्णवतारणम् ।। २७ ।। ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।। अवरुह्य विमानाच्च स दृष्ट्वा दानवेश्वरः ।। २८ ।। सर्वैः सार्द्धं भक्तियुक्तः शिरसा प्रणनाम सः ।। वामतो भद्रकालीं च स्कन्दं तत्पुरतः स्थितम् ।। २९ ।। आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः ।। उत्तस्थुर्दानवं दृष्ट्वा सर्वे नन्दीश्वरादयः ।।2.18.३०।। परस्परं च सम्भाषां ते चकुस्तत्र साम्प्रतम्।। राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ ।।३१।। प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ।। ३२ ।। श्रीमहादेव उवाच ।। विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ।। मरीचिस्तस्य पुत्रश्च वैष्णवश्चापि धार्मिकः ।। ३३ ।। कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः ।। दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश ।। ३४ ।। तास्वेका च दनुः साध्वी तत्सौभाग्येन वर्द्धिता ।। चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोज्ज्वलाः ।। ३५ ।। तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः ।। तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ।। ३६ ।। जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ।। शुकाचार्य्यं गुरुं कृत्वा कृष्णस्य परमात्मनः ।। ३७ ।। तदा त्वां तनयं प्राप परं कृष्णपरायणम् ।। पुरा त्वं पार्षदो गोपो गोपेष्वष्टसु धार्मिकः ।। ३८ ।। अधुना राधिकाशापाद्भारते दानवेश्वरः ।। आब्रह्मस्तम्बपर्यन्तं भ्रमं मेने च वैष्णवः ।। ३९ ।। सालोक्यसार्ष्टिसारूप्यसामीप्यैक्यं हरेरपि ।। दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना।।2.18.४०।। ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ।। इन्द्रत्वं वा कुबेरत्वं न मेने गणनासु च ।। ४१ ।। कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे ।। देहि राज्यं च देवानां मत्प्रीतिं कुरु भूमिप ।। ४२ ।। सुखं स्वराज्ये त्वं तिष्ठ देवास्सन्तु स्वके पदे ।। अलं भ्रातृविरोधेन सर्वे कश्यपवंशजाः ।। ४३ ।। यानि कानि च पापानि ब्रह्महत्यादिकानि च ।। ज्ञातिद्रोहस्य पापस्य कलां नार्हन्ति षोडशीम् ।। ४४ ।। स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे ।। सर्वावस्थासु समता केषां याति च सर्वदा।।४५।। ब्रह्मणश्च तिरोभावो लये प्राकृतिके सति ।। आविर्भावः पुनस्तस्य प्रभवेदीश्वरेच्छया।। ।। ४६ ।। ज्ञानं बुद्धिश्च तपसा स्मृतिर्लोकस्य निश्चितम् ।। करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च ।।४७।। परिपूर्णतमो धर्मः सत्ये सत्याश्रयः सदा ।। सोऽपि त्रिभागस्त्रेतायां द्विभागो द्वापरे स्मृतः ।। ४८ ।। एकभागः कलेः पूर्वे तद्ध्रासश्च क्रमेण च ।। कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा ।। ४९ ।। यादृक्तेजो रवेर्ग्रीष्मे न तादृक्शिशिरे पुनः ।। दिने च यादृङ् मध्याह्ने सायंप्रातर्न तत्समम् ।। 2.18.५० ।। उदयं याति कालेन बाल्यतां च क्रमेण च ।। प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेव सः ।। ५१ ।। दिने प्रच्छन्नतां याति काले वै दुर्दिने घने ।। राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् ।। ५२ ।। परिपूर्णतमश्चन्द्रः पूर्णिमायां च यादृशः।। । तादृशो न भवेन्नित्यं क्षयं याति दिनेदिने ।।५३।। पुनः स पुष्टतां याति परकुह्वा दिनेदिने ।। सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा ।। ५४ ।। राहुग्रस्ते दिने म्लानो दुर्दिने निबिडे घने ।। काले चन्द्रो भवेच्छुद्धो भ्रष्टश्रीः कालभेदके ।। ५५ ।। भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना ।। कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा ।। ५६ ।। काले जले निमग्ना सा तिरोभूता विपद्गता ।। काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः ।। ९७ ।। चराचराश्च कालेन नश्यन्ति प्रभवन्ति च ।। ईश्वरस्यैव समता कृष्णस्य परमात्मनः ।। ५८ ।। अहं मृत्युञ्जयो यस्मादसंख्यं प्राकृतं लयम् ।। अदृश्यं चापि पश्यामि वारं वारं पुनः पुनः ।। ।। ५९ ।। स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ।। स चात्मा सर्वजीवश्च नानारूपधरः परः ।। 2.18.६० ।। करोति सततं यो हि तन्नामगुणकीर्त्तनम् ।। कालं मृत्युं स जयति जन्म रोगं जरां भयम् ।। ६१ ।। स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवे ।। अहं कृतश्च संहर्त्ता वयं विषयिणो यतः ।।६२।। कालाग्निरुद्रं संहारे नियुज्य विषये नृप ।। अहं करोमि सततं तन्नामगुणकीर्त्तनम् ।। ।। ६३ ।। तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः ।। मृत्युर्मत्तो भयाद्याति वैनतेयादिवोरगः ।। ६४ ।। इत्युक्त्वा स च सर्वेशः सर्वज्ञः सर्वभावनः ।। विररामाथ शर्वश्च सभामध्ये च नारद ।। ६९ ।। राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः ।। उवाच सुंदरं देवं परं विनयपूर्वकम् ।। ६६ ।। शंखचूड उवाच ।। त्वया यत्कथितं नाथ सर्वं सत्यं च नानृतम् ।। तथाऽपि किञ्चिद्यत्सत्यं श्रूयतां मन्निवेदनम् ।। ६७ ।। ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना त्रयम् ।। गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।। ६८ ।। मया समुद्धृतं सर्वमैश्वर्य्यं विक्रमेण च ।। सुतलाच्च समुद्धर्तुं नालं सोऽपि गदाधरः ।।६९ ।। सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ।। शुम्भादयश्चासुरा वै कथं देवैर्निपातिताः ।। 2.18.७० ।। पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ।। क्लेशभाजो वयं तत्र तैः सर्वफलभाजनैः।। ।। ७१ ।। क्रीडाभाण्डमिदं विश्वं कृष्णस्य परमात्मनः ।। यदा ददाति यस्मै स तस्यैश्वर्यं भवेत्तदा ।। ७२ ।। देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा ।। पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च ।। ७३ ।। तत्रावयोर्विरोधे च गमनं निष्फलं तव ।। सम सम्बन्धिनोर्बन्ध्वोरीश्वरस्य महात्मनः ।। ७४ ।। जायते महती लज्जा स्पर्द्धाऽस्माभिः सहाधुना ।। ततोऽधिका च समरे कीर्त्ति हानिः पराजये ।। ७५ ।। शंखचूडवचः श्रुत्वा प्रहस्याह त्रिलोचनः ।। यथोचितं सुमधुरमत्युग्रं दानवेश्वरम् ।। ७६ ।। श्रीमहादेव उवाच ।। युष्माभिः सह युद्धं मे ब्रह्मवंशसमुद्भवैः ।। का लज्जा महती राजन्नकीर्तिर्वा पराजये ।। ७७ ।। युद्धमादौ हरेरेव मधुना कैटभेन च ।। हिरण्यकशिपोश्चैव सह तेनात्मना नृप ।। ७८ ।। हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ।। त्रिपुरैः सह युद्धं च मया चापि पुरा कृतम् ।। ७९ ।। सर्वेश्वर्य्याः सर्वमातुः प्रकृत्याश्च बभूव ह ।। सह शुम्भादिभिः पूर्वं समरं परमाद्भुतम् ।। 2.18.८० ।। पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ।। ये ये हताश्च ते दैत्या नहि केऽपि त्वया समाः।। ८१ ।। का लज्जा महती राजन्मम युद्धे त्वया सह ।। सुराणां शरणस्यैव प्रेषितस्य हरेरहो ।। ८२ ।। देहि राज्यं च देवानां वाग्व्यये किं प्रयोजनम् ।। युद्धं मा कुरु मत्सार्द्धमिति मे निश्चितं वचः ।। ८३ ।। इत्युक्त्वा शंकरस्तत्र विरराम च नारद ।। उत्तस्थौ शंखचूडश्च स्वामान्यैः सह सत्वरः ।। ८४ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे नारदनारायणसंवादे द्वितीये प्रकृतिखण्डे तुलत्युपाख्याने शिव शंखचूडसंवादेऽष्टादशोऽध्यायः ।। १८ ।।
nārāyaṇa uvāca || śrīkṛṣṇaṃ manasā dhyātvā rājā kṛṣṇaparāyaṇaḥ || brāhme muhūrtte cotthāya puṣpatalpānmanoharāt ||1|| rātrivāsaḥ parityajya snātvā maṅgalavāriṇā || dhaute ca vāsasī dhṛtvā kṛtvā tilakamujjvalam ||2|| cakārāhnikamāvaśyamabhīṣṭaguruvandanam || dadhyājyaṃ madhu lājāṃśca so'paśyadvastu maṅgalam || 3 || ratnaśreṣṭhaṃ maṇiśreṣṭhaṃ vastraśreṣṭhaṃ ca kāñcanam || brāhmaṇebhyo dadau bhaktyā yathānityaṃ ca nārada || 4 || amūlyaratnaṃ yatkiñcinmuktāmāṇikyahīrakam || dadau viprāya gurave yātrāmaṅgalahetave || 5 || gajaratnaṃ cāśvaratnaṃ dhenuratnaṃ manoharam || dadau sarvaṃ daridrāya viprārthaṃ maṅgalāya ca || 6 || kośāgārasahasraṃ ca nagarāṇāṃ trilakṣakam || grāmāṇāṃ śatakoṭiṃ ca brāhmaṇebhyo dadau mudā || 7 || putraṃ kṛtvā ca rājendraṃ sucandraṃ dānaveṣu ca || putre samarpya bhāryāṃ ca rājyaṃ vai sarvasampadam || 8 || prajānucarasaṃghaṃ ca kośaughaṃ vāhanādikam || svayaṃ sannāhayuktaśca dhanuṣpāṇirbabhūva ha || 9 || bhṛtyadvārā krameṇaiva sa cakre sainyasaṃcayam || aśvānāṃ ca trilakṣeṇa pañcalakṣeṇa hastinām || || 2.18.10 || rathānāmayutenaiva dhānuṣkāṇāṃ trikoṭibhiḥ || trikoṭibhiścarmiṇāṃ ca śūlināṃ ca trikoṭibhiḥ || 11 || kṛtā senā'parimitā dānavendreṇa nārada || yasyāṃ senāpatiścaiva yuddhaśāstraviśāradaḥ || 12 || mahārathaḥ sa vijñeyo rathināṃ pravaro raṇe || trilakṣākṣauhiṇī senāpatiṃ kṛtvā narādhipaḥ||13|| triṃśadakṣauhiṇīvādyabhāṇḍaughaṃ ca cakāra saḥ || bahirbabhūva śibirānmanasā śrīhariṃ smaran||14|| ratnendrasārakhacitaṃ vimānaṃ hyāruroha saḥ || guruvargānpuraskṛtya prayayau śaṅkarāntikam || 15 || puṣpabhadrānadītīre yatrākṣayavaṭaḥ śubhaḥ || siddhāśramaṃ ca siddhānāṃ siddhikṣetraṃ ca nāmataḥ ||16|| kapilasya tapasthānaṃ puṇyakṣetraṃ ca bhārate || paścimodadhipūrve ca malayasya ca paścime||17|| śrīśailottarabhāge ca gandhamādanadakṣiṇe || pañcayojanavistīrṇā dairghye śataguṇā tathā || śāśvatī jalapūrṇā ca puṣpabhadrānadī śubhā || 18 || lavaṇodapriyā bhāryyā śaśvatsaubhāgyasaṃyutā || śuddhasphaṭikasaṅkāśā bhārate ca supuṇyadā ||19|| śarāvatīmiśritā ca nirgatā sā himālayāt|| gomantaṃ vāmataḥ kṛtvā praviṣṭā paścimodadhau ||2.18.20|| tatra gatvā śaṃkhacūḍo luloke candraśekharam || vaṭamūle samāsīnaṃ sūryyakoṭisamaprabham || 21 || kṛtvā yogāsane sthitvā mudrāyuktaṃ ca sasmitam || śuddhasphaṭika saṅkāśaṃ jvalantaṃ brahmatejasā || 22 || triśūlapaṭṭiśadharaṃ vyāghracarmāmbaraṃ varam || taptakāñcanavarṇābhaṃ jaṭājālaṃ ca bibhratam || 23 || trinetraṃ pañcavaktraṃ ca nāgayajñopavītinam || mṛtyuñjayaṃ kālamṛtyuṃ viśvamṛtyukaraṃ param || 24 || bhaktamṛtyuharaṃ śāntaṃ gaurīkāntaṃ manoramam || tapasāṃ phaladātāraṃ dātāraṃ sarvasampadām || 25 || āśutoṣaṃ prasannāsyaṃ bhaktānugrahakārakam || viśvanāthaṃ viśvarūpaṃ viśvabījaṃ ca viśvajam || 26 || viśvambharaṃ viśvavaraṃ viśvasaṃhārakāraṇam || kāraṇaṃ kāraṇānāṃ ca narakārṇavatāraṇam || 27 || jñānapradaṃ jñānabījaṃ jñānānandaṃ sanātanam || avaruhya vimānācca sa dṛṣṭvā dānaveśvaraḥ || 28 || sarvaiḥ sārddhaṃ bhaktiyuktaḥ śirasā praṇanāma saḥ || vāmato bhadrakālīṃ ca skandaṃ tatpurataḥ sthitam || 29 || āśiṣaṃ ca dadau tasmai kālī skandaśca śaṅkaraḥ || uttasthurdānavaṃ dṛṣṭvā sarve nandīśvarādayaḥ ||2.18.30|| parasparaṃ ca sambhāṣāṃ te cakustatra sāmpratam|| rājā kṛtvā ca sambhāṣāmuvāsa śivasannidhau ||31|| prasannātmā mahādevo bhagavāṃstamuvāca ha || 32 || śrīmahādeva uvāca || vidhātā jagatāṃ brahmā pitā dharmasya dharmavit || marīcistasya putraśca vaiṣṇavaścāpi dhārmikaḥ || 33 || kaśyapaścāpi tatputro dharmiṣṭhaśca prajāpatiḥ || dakṣaḥ prītyā dadau tasmai bhaktyā kanyāstrayodaśa || 34 || tāsvekā ca danuḥ sādhvī tatsaubhāgyena varddhitā || catvāriṃśaddanoḥ putrā dānavāstejasojjvalāḥ || 35 || teṣveko vipracittiśca mahābalaparākramaḥ || tatputro dhārmiko dambho viṣṇubhakto jitendriyaḥ || 36 || jajāpa paramaṃ mantraṃ puṣkare lakṣavatsaram || śukācāryyaṃ guruṃ kṛtvā kṛṣṇasya paramātmanaḥ || 37 || tadā tvāṃ tanayaṃ prāpa paraṃ kṛṣṇaparāyaṇam || purā tvaṃ pārṣado gopo gopeṣvaṣṭasu dhārmikaḥ || 38 || adhunā rādhikāśāpādbhārate dānaveśvaraḥ || ābrahmastambaparyantaṃ bhramaṃ mene ca vaiṣṇavaḥ || 39 || sālokyasārṣṭisārūpyasāmīpyaikyaṃ harerapi || dīyamānaṃ na gṛhṇanti vaiṣṇavāḥ sevanaṃ vinā||2.18.40|| brahmatvamamaratvaṃ vā tucchaṃ mene ca vaiṣṇavaḥ || indratvaṃ vā kuberatvaṃ na mene gaṇanāsu ca || 41 || kṛṣṇabhaktasya te kiṃ vā devānāṃ viṣaye bhrame || dehi rājyaṃ ca devānāṃ matprītiṃ kuru bhūmipa || 42 || sukhaṃ svarājye tvaṃ tiṣṭha devāssantu svake pade || alaṃ bhrātṛvirodhena sarve kaśyapavaṃśajāḥ || 43 || yāni kāni ca pāpāni brahmahatyādikāni ca || jñātidrohasya pāpasya kalāṃ nārhanti ṣoḍaśīm || 44 || svasampadāṃ ca hāniṃ ca yadi rājendra manyase || sarvāvasthāsu samatā keṣāṃ yāti ca sarvadā||45|| brahmaṇaśca tirobhāvo laye prākṛtike sati || āvirbhāvaḥ punastasya prabhavedīśvarecchayā|| || 46 || jñānaṃ buddhiśca tapasā smṛtirlokasya niścitam || karoti sṛṣṭiṃ jñānena sraṣṭā so'pi krameṇa ca ||47|| paripūrṇatamo dharmaḥ satye satyāśrayaḥ sadā || so'pi tribhāgastretāyāṃ dvibhāgo dvāpare smṛtaḥ || 48 || ekabhāgaḥ kaleḥ pūrve taddhrāsaśca krameṇa ca || kalāmātraṃ kaleḥ śeṣe kuhvāṃ candrakalā yathā || 49 || yādṛktejo ravergrīṣme na tādṛkśiśire punaḥ || dine ca yādṛṅ madhyāhne sāyaṃprātarna tatsamam || 2.18.50 || udayaṃ yāti kālena bālyatāṃ ca krameṇa ca || prakāṇḍatāṃ ca tatpaścātkāle'staṃ punareva saḥ || 51 || dine pracchannatāṃ yāti kāle vai durdine ghane || rāhugraste kampitaśca punareva prasannatām || 52 || paripūrṇatamaścandraḥ pūrṇimāyāṃ ca yādṛśaḥ|| | tādṛśo na bhavennityaṃ kṣayaṃ yāti dinedine ||53|| punaḥ sa puṣṭatāṃ yāti parakuhvā dinedine || sampadyuktaḥ śuklapakṣe kṛṣṇe mlānaśca yakṣmaṇā || 54 || rāhugraste dine mlāno durdine nibiḍe ghane || kāle candro bhavecchuddho bhraṣṭaśrīḥ kālabhedake || 55 || bhaviṣyati baliścendro bhraṣṭaśrīḥ sutale'dhunā || kālena pṛthvī sasyāḍhyā sarvādhārā vasundharā || 56 || kāle jale nimagnā sā tirobhūtā vipadgatā || kāle naśyanti viśvāni prabhavantyeva kālataḥ || 97 || carācarāśca kālena naśyanti prabhavanti ca || īśvarasyaiva samatā kṛṣṇasya paramātmanaḥ || 58 || ahaṃ mṛtyuñjayo yasmādasaṃkhyaṃ prākṛtaṃ layam || adṛśyaṃ cāpi paśyāmi vāraṃ vāraṃ punaḥ punaḥ || || 59 || sa ca prakṛtirūpaśca sa eva puruṣaḥ smṛtaḥ || sa cātmā sarvajīvaśca nānārūpadharaḥ paraḥ || 2.18.60 || karoti satataṃ yo hi tannāmaguṇakīrttanam || kālaṃ mṛtyuṃ sa jayati janma rogaṃ jarāṃ bhayam || 61 || sraṣṭā kṛto vidhistena pātā viṣṇuḥ kṛto bhave || ahaṃ kṛtaśca saṃharttā vayaṃ viṣayiṇo yataḥ ||62|| kālāgnirudraṃ saṃhāre niyujya viṣaye nṛpa || ahaṃ karomi satataṃ tannāmaguṇakīrttanam || || 63 || tena mṛtyuñjayo'haṃ ca jñānenānena nirbhayaḥ || mṛtyurmatto bhayādyāti vainateyādivoragaḥ || 64 || ityuktvā sa ca sarveśaḥ sarvajñaḥ sarvabhāvanaḥ || virarāmātha śarvaśca sabhāmadhye ca nārada || 69 || rājā tadvacanaṃ śrutvā praśaśaṃsa punaḥ punaḥ || uvāca suṃdaraṃ devaṃ paraṃ vinayapūrvakam || 66 || śaṃkhacūḍa uvāca || tvayā yatkathitaṃ nātha sarvaṃ satyaṃ ca nānṛtam || tathā'pi kiñcidyatsatyaṃ śrūyatāṃ mannivedanam || 67 || jñātidrohe mahatpāpaṃ tvayoktamadhunā trayam || gṛhītvā tasya sarvasvaṃ kutaḥ prasthāpito baliḥ || 68 || mayā samuddhṛtaṃ sarvamaiśvaryyaṃ vikrameṇa ca || sutalācca samuddhartuṃ nālaṃ so'pi gadādharaḥ ||69 || sabhrātṛko hiraṇyākṣaḥ kathaṃ devaiśca hiṃsitaḥ || śumbhādayaścāsurā vai kathaṃ devairnipātitāḥ || 2.18.70 || purā samudramathane pīyūṣaṃ bhakṣitaṃ suraiḥ || kleśabhājo vayaṃ tatra taiḥ sarvaphalabhājanaiḥ|| || 71 || krīḍābhāṇḍamidaṃ viśvaṃ kṛṣṇasya paramātmanaḥ || yadā dadāti yasmai sa tasyaiśvaryaṃ bhavettadā || 72 || devadānavayorvādaḥ śaśvannaimittikaḥ sadā || parājayo jayasteṣāṃ kāle'smākaṃ krameṇa ca || 73 || tatrāvayorvirodhe ca gamanaṃ niṣphalaṃ tava || sama sambandhinorbandhvorīśvarasya mahātmanaḥ || 74 || jāyate mahatī lajjā sparddhā'smābhiḥ sahādhunā || tato'dhikā ca samare kīrtti hāniḥ parājaye || 75 || śaṃkhacūḍavacaḥ śrutvā prahasyāha trilocanaḥ || yathocitaṃ sumadhuramatyugraṃ dānaveśvaram || 76 || śrīmahādeva uvāca || yuṣmābhiḥ saha yuddhaṃ me brahmavaṃśasamudbhavaiḥ || kā lajjā mahatī rājannakīrtirvā parājaye || 77 || yuddhamādau harereva madhunā kaiṭabhena ca || hiraṇyakaśipoścaiva saha tenātmanā nṛpa || 78 || hiraṇyākṣasya yuddhaṃ ca punastena gadābhṛtā || tripuraiḥ saha yuddhaṃ ca mayā cāpi purā kṛtam || 79 || sarveśvaryyāḥ sarvamātuḥ prakṛtyāśca babhūva ha || saha śumbhādibhiḥ pūrvaṃ samaraṃ paramādbhutam || 2.18.80 || pārṣadapravarastvaṃ ca kṛṣṇasya paramātmanaḥ || ye ye hatāśca te daityā nahi ke'pi tvayā samāḥ|| 81 || kā lajjā mahatī rājanmama yuddhe tvayā saha || surāṇāṃ śaraṇasyaiva preṣitasya hareraho || 82 || dehi rājyaṃ ca devānāṃ vāgvyaye kiṃ prayojanam || yuddhaṃ mā kuru matsārddhamiti me niścitaṃ vacaḥ || 83 || ityuktvā śaṃkarastatra virarāma ca nārada || uttasthau śaṃkhacūḍaśca svāmānyaiḥ saha satvaraḥ || 84 || iti śrībrahmavaivartte mahāpurāṇe nāradanārāyaṇasaṃvāde dvitīye prakṛtikhaṇḍe tulatyupākhyāne śiva śaṃkhacūḍasaṃvāde'ṣṭādaśo'dhyāyaḥ || 18 ||
English translation
The conversation between lord Siva and Sri Narayana said— Samkhacuda the devotee of lord Kr§na got up in the early morning and with his mind devoted towards lord Krsna, he left the bed. He discarded the sleeping clothes and took a bath with sweet water and clad himself in two washed clotlies.
O Narada, he relieved himself of all the morning routines, bowing himself to his family gods and the teacher and had a look at curd, ghee, honey, fried rice and other things of bodily welfare. He then gave away in charity the best of gems, clothes and gold with devotion.
Thereafter, for performing a peaceful journey, he offered invaluable gems, Jewels, articles made of gem and ruby to the Brahmanas and the teacher.
Again for the purpose of welfare he gave away in charity the best of the elements, horses, cows to the needy Brahmanas. He then distributed a thousand of his treasures, three lakhs of cities and a hundred crores of the villages to the He collected all the soldiers, three lakhs of horses, five lakhs of elephants, ten thousand chariots, three crores of archers, three crores of warriors holding swords and shields. Three crores of trident bearers accompanied him.
O Narada, thus the king of the demons commissioned a vast army, the commander of which was well-versed in the science of archery and battle field. Only such of the warriors could be considered as the chief charioteers as could be the best in the driving of the chariot. The king Samkhacuda placed the vast army under the charge of the commander accompanied with thirty Ahauhinl, war-bands; he marched ahead reciting the name of Hari, from his kingdom.
He declared his son Sucandra as the king of the demon and handed over to his son the care of his own wife, the kingdom, entire wealth,) the people, the servants, the treasures, the vehicles and everything else. He himself wore a kavaca, holding a bow. and arrow in his hands.
He seated his teachers ahead of him in the plane and started to reach immediately lord Siva.
There is an eternal banyan tree on the bank of the Puspabhadra river, where a large number of the abodes of siddhas are available. As a result of this the place is known by the name of In the country of Bharata the place is known as the abode of sage Kapila. It is located between the western sea and the Malaya mountain. It is located to the north of Sri Saila mountain and Gandhamadana mountain on the south, spreading over to five yojanas in width and five hundred yojanas in length, where the Puspabhadra river flows which is always filled with water.
She happens to be the spouse of the salty ocean. It is always filled with virtues and is quite meritorious of the land of Bharatavarsa and shines like the a crystal stone. It emerges from the Himalaya and after crossing some distance, a river named Sarasvatl falls into it. Flowing to the left of the Gomanta mountain it proceeds towards three oceans. Reaching there, she has an audience with Candrasekhara Siva the lord of Samkhacuda who always remains meditating, having the lustre of crores of suns seated under a He was seated in yogdsana, displaying vara and abhaya mudras in his hands, wearing a smile on his face emitting the divine lustre. His limbs always remain shining like crystal gems and he holds a trident and a pattisa in his hands clad in tiger skin. The lord is dear to goddess Gaurl and looked quite beautiful. His body is peaceful and removes all danger of death from his devotees.
His natural instinct is to provide the fruits of the tapas and to fill the treasures of his devotees. He gets easily pleased. He never feels sad and bestows his grace on his devotees also. He is called the lord of the universe, the seed of the universe, the form of the universe, Visvaja, one who feeds the universe, Visvavara and the destroyer of the universe. He is the cause of the causes and is quite competent to rescue one from the hell. He is the eternal lord, the bestower of knowledge and all knowledgeable. Saifikhacuda the king of the demons got down from his plane and had an audience with him. He along with the others stood before lord Siva and bowed in reverence to him. The goddess BhadrakSlT appeared on his left and Skanda was seated in front of him, He was blessed by Kali, Skanda and Siva while Nandisvara and others welcomed him.
Looking at the demon king all the people conversed quietly among themselves. Thereafter the demon king took his seat in.front of lord Siva. Thereafter lord Siva delightfully spoke to Lord Siva said—Brahma happens to be the creator of the universe, is well-versed in dharma besides being the father of Dhanna. He had a religious-minded son named Marici. Marici had a son named Kasyapa. Daksa married his thirteen daughters to Kasyapa. One of them is known by the name of Danu who had been quite chaste. In due course of time Danu gave birth to forty demon sons who were quite valorous.
The Vaisnavas consider the lokas between the earth and the Brahmaloka to be of no consequence, except for the only devotion of the lord they do not consider any other type of salvation to be of no consequence, The great warrior Vipracitti happens to be one of the Danavas. He had a son named Dambha who was quite religious-minded, self-controlled and a devotee of Visnu. He under the guidance of his teacher Sukracaiya performed tapas at Pus kara for a lakh of years by reciting the mantra of lord Krsna. You were therefore born to him as a son and are devoted to lord Krsna. In your earlier life you were the courtier of lord Krsna and quite a religious cowherd. You had earned great glory among the cowherds.
Thereafter, you were cursed by Radhika and had to be born on earth at the Vaisnava Danava.
The Vaisnava people consider that to become Brahman or etenial is of no consequence. They care the least for the kingdom of Indra or Kubera. Therefore you are a devotee of lord Krs na. As such the kingship of the gods is like an illusion for you, how can you have any belief in that? You return the kingdom of the gods to them and please me. You enjoy your country with pleasure and let the god live in their own abodes, because you happen to be the sons of the same Kasyapa and as such it would not be proper to have a conflict between the two brothers. The sins of Brahmahatyd and other horrible sins are of no consequence as compared to the sin committed to your own brother. O king of the kings, if you consider this to be a loss of your riches, then you just think with whom are these riches to remain forever?
At the time of dissolution even Brahma has to disappear and by the grace of the god he reappears again. There is an increase in intelligence because of his tapas and he is adored in the universe because of the same. Thereafter Brahma with his divine knowledge creates the In the Satyayuga, dharma is all powerful and is always based on truth. In the Tretayuga only the three amsas of dharma remain, while in the Dvapara only two of them are to be seen. At the start of the age of kaliyiiga, he is seen in one part only and it goes on declining gradually.
Ultimately only a small ray of dharma remains on earth like the light of the moon on a moonless night. The lustre of the sun is never the same in the winter season as is found in the summer season. The position the sun achieves during the noon is not to be found during the morning or the evenings. The sun rises in due course of time, crosses infancy and then reaches the maximum height in the noon and ultimately it sets in the Because of the constant movement of the cycle of time, when one meets with misfortune, then it has to disappear even during the day, at the sight of Rahil. The sun gets terrified and then after some time, it reappears delightfully.
Similarly the moon on the full-moon night appears in a complete form but cannot remain the same all throughout the night. He goes on Thereafter by gradually increasing it appears in its full and complete form. Therefore the people during the bright fortnight get nourishment while during the dark fortnight, they are infested with diseases. Thus having been eclipsed by Rahu and having been covered by the cloud, both the sun and the moon lose their pristine glory and after the passage of time, the moon gets purified. Again in the course of time its glory again subsides.
Look, currently Bali is living in the nether world losing all his glory and in due course of time he would become Indra. The earth which happens to be the base of all, is filled with greenery in due course of time and eventually it gets submerged in water and in misfortune she disappears also. Thus the entire universe is destroyed in due course of time and it re- emerges. All the moveable or immovable things appear and disappear according to the time. Only lord Krsna remains eternal at all the times. I am the one, who has over powered the death, therefore I have witnessed innumerable dissolutions. I have also witnessed its disappearance again and again. The same lord Krsna happens to be the form of Prakrti and Punisa, soul and the great-soul. He takes to many forms and is the best of all.
The one who recites his name always with devotion, overpowers the time, the death, birth, disease, old age and danger.
Brahma happens to be the creator of universe while Visnu happens to be the preserver and I myself become the destroyer because all of us appear in material form.
O king, Rudra named Kalagni, engages Rudra in destruction. He thus engages himself reciting the name of lord Krsna.
Because of that the death has no influence over me. The death flies away in panic from me as the serpents disappear in panic at the sight of O Narada, lord Siva who is compassionate to all and is the form of all besides being the lord of all, kept quiet after speaking these words.” On hearing these words, the king praised lord Siva immensely and spoke to him in a sweet and beautiful voice.
Samkhacuda said—Though whatever you have spoken is eompletely true and there is no untruth in it, yet still I want to submit truthfully everything before you, you kindly listen to me.
You have just now stated that there are three types of great sins in betraying one's race. Why did the gods drive out Bali after snatching his entire position. I have achieved these riches with the strength of my own prowess, I redeemed the riches of the earlier demon race. Lord Visnu is also not in favour of the removal of the demon race from the earth.
Why did the gods kill Hiranyaksa together with his brothers? Why were the demons like Sumbha and others killed. Similarly in the earlier times when the ocean was churned and amrta emerged out of it, it was consumed totally by the gods. And the labour of churning the ocean was performed by the demons but the fruits were reaped by the gods alone.
The entire universe is like the play ground of lord Krsna. He grants riches to someone at sometime and he becomes the lord of riches accordingly. The controversy between the gods and demons is eternal and therefore both of us had to face victory and defeat according to the Therefore it is not proper for you to interfere in this conflict between the gods and the demons because you are the one who has the best of the relations with both of us and are adorable by us being a great lord. It will be a shameful thing for you to interfere in the conflict between two of us and still worse would be to get defeated in the On hearing the words of Samkhacuda, lord Siva spoke to the kings of Danavas quite appropriate words thus.
Lord Mahadeva said—O king, you were bom of the race of Brahma. In case I fight with you there will no loss of grace. Shall it be disgraceful to get defeated at your hands?
O king, the lord has already fought the battle with Madhu and Kaitabha who had also fought with Hiranyakasipu.
Again the mace-holder lord Visnu had a fight with Hiranyaksa and in earlier times I had to fight with Tripura.
In earlier times the mother of all beings, the goddess Prakrti had to fight with Sumbha and other demons.
You are also the best of the courtiers of lord Krsna and all the demons who were killed earlier can hardly be compared with your prowess.
Therefore why would I be ashamed of getting engaged in a fight with you? It is the lord himself who happens to be the protector of the gods who had sent me to fight with you.
Therefore, I am of the firm opinion that you should not engage yourself in fight with me and will not enter into further controversies. O Narada, after speaking thus, Siva kept quiet and Saihkhacuda also got up at once with his rT fjHirPT xiTxnrtR:i
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 117619 (2017-08-11T03:10:23Z); Shanti Lal Nagar English scan pages n288–n295: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n288/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.