Skip to main content

Prakṛti-khaṇḍa · Chapter 17

Chapter 17

Unit 47 of 276Prakṛti-khaṇḍa · Chapter 17Prakṛti-khaṇḍa · Chapter 171 source entries

Prakṛti-khaṇḍa · Chapter 17

Source

नारायण उवाच ।। ब्रह्मा शिवं संनियोज्य संहारे दानवस्य च ।। जगाम स्वालयं तूर्णं यथास्थानं महामुने ।। १ ।। चन्द्रभागानदीतीरे वटमूले मनोहरे ।। तत्र तस्थौ महादेवो देवनिस्तारहेतवे ।। २ ।। दूतं कृत्वा पुष्पदन्तं गन्धर्वेश्वरमीप्सितम् ।। शीघ्रं प्रस्थापयामास शंखचूडान्तिकं मुदा ।। ३ ।। स चेश्वराज्ञया शीघ्रं ययौ तन्नगरं वरम् ।। महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ।। ४ ।। पञ्चयोजनविस्तीर्णं दैर्घ्ये तद्द्विगुणं मुने ।। स्फाटिकाकारमणिभिस्समन्तात्परिवेष्टितम् ।। सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् ।। ५ ।। ज्वलदग्निनिभैर्नित्यं शोभितं रत्नकोटिभिः ।। युक्तं च वीथिशतकैर्मणिवेदिसमन्वितैः ।। ६ ।। परितो वणिजां संघैर्नानावस्तुविराजितैः ।। सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः ।। ७ ।। भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ।। गत्वा ददर्श तन्मध्ये शङ्खचूडालयं वरम् ।। ८ ।। अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ।। ज्वलदग्निशिखाभिश्च परिखाभिश्चतसृभिः।।९।। सुदुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ।। अत्युच्चैर्गगनस्पर्श्यमणिप्राचीरवेष्टितम्।।2.17.१०।। राजितं द्वादशद्वारैर्द्वारपालसमन्वितैः ।। रत्नकृत्रिमपद्माढ्यै रत्नदर्पणभूषितैः ।।११ ।। मणीन्द्रसारखचितैः शोभितं लक्षमन्दिरैः।। शोभितं रत्नसोपानै रत्नस्तम्भविराजितैः ।।१२।। रत्नचित्रकपाटाद्यैः सद्रत्नकलशान्वितैः।। रत्नेन्द्रचित्रराजीभिः सुदीप्ताभिर्विराजितैः।।१३।। परितो रक्षितं शश्वद्दानवैः शतकोटिभिः।। दिव्यास्त्रधारिभिः शूरैर्महाबलपराक्रमैः।।१४।। सुन्दरैश्च सुवेषैश्च नानालङ्कारभूषितैः ।। तान्दृष्ट्वा पुष्पदन्तोऽपि वरद्वारं ददर्श सः ।। १५ ।। द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ।। तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् ।। १६ ।। कथयामास वृत्तान्तं जगाम तदनुज्ञया ।। अतिक्रम्य नवद्वारं जगामाभ्यन्तरं पुरम् ।। १७ ।। न कैश्चिद्वारितो दूतो दूतरूपेण तस्य च ।। गत्वा सोऽभ्यन्तरं द्वारं द्वारपालमुवाच ह ।। १८ ।। रणस्य सर्ववृत्तान्तं विज्ञापयितुमीश्वरम् ।। स च तं कथयित्वा च दूतं गन्तुमुवाच ह ।। १९ ।। स गत्वा शंखचूडं तं ददर्श सुमनोहरम् ।। रासमण्डलमध्यस्थं स्वर्णसिंहासनस्थितम् ।। 2.17.२० ।। मणीन्द्रखचितं चित्रं रत्नदण्डसमन्वितम् ।। रत्नकृत्रिमपुष्पैश्च प्रशस्तं शोभितं सदा ।। २१ ।। भृत्येन हस्तविधृतं स्वर्णच्छत्रं मनोहरम् ।। सेवितं पार्षदगणैर्व्यजनैः श्वेतचामरैः ।। २२ ।। सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम् ।। माल्यानुलेपनं सूक्ष्मवस्त्रं च दधतं मुने ।। २३ ।। दानवेन्द्रैः परिवृतं सुवेषं च त्रिकोटिभिः ।। शतकोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रधारिभिः ।। २४ ।। एवंभूतं च तं दृष्ट्वा पुष्पदन्तः सविस्मयः ।। उवाच रणवृत्तान्तं यदुक्तं शङ्करेण च ।। २५ ।। पुष्पदन्त उवाच ।। राजेन्द्र शिवदूतोऽहं पुष्पदन्ताभिधः प्रभो ।। यदुक्तं शङ्करेणैव तद्ब्रवीमि निशामय ।। २६ ।। राज्यं देहि च देवानामधिकारं च साम्प्रतम् ।। देवाश्च शरणापन्ना देवेशे श्रीहरौ परे ।। २७ ।। दत्त्वा त्रिशूलं हरिणा तुभ्यं प्रस्थापितः शिवः ।। चन्द्रभागानदीतीरे वटमूले त्रिलोचनः ।।२८।। विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ।। गत्वा वक्ष्यामि किं शम्भुं तद्भवान्वक्तुमर्हति ।। २९ ।। दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च ।। प्रभाते ह्यागमिष्यामि त्वं च गच्छेत्युवाच ह ।। 2.17.३० ।। स गत्वोवाच तूर्णं तं वटमूलस्थमीश्वरम् ।। शङ्खचूडस्य वचनं तदीयं यत्परिच्छदम् ।।३१।। एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ।। वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ।। ३२ ।। विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ।। विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः।।३३।। कपिलाक्षो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ।। कालङ्कटो बलीभद्रः कालजिह्वः कुटीचरः ।।३४।। बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा ।। अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः ।। ३९ ।। वसवो वासवाद्याश्च आदित्या द्वादश स्मृताः ।। हुताशनश्च चन्द्रश्च विश्वकर्माऽश्विनौ च तौ ।।३६।। कुबेरश्च यमश्चैव जयन्तो नलकूबरः ।। वायुश्च वरुणश्चैव बुधो वै मंगलस्तथा ।। ।। ३७ ।। धर्मश्च शनिरीशानः कामदेवश्च वीर्य्यवान् ।। उग्रदंष्ट्रा चोग्रचण्डा कोट्टरी कैटभी तथा ।। ३८ ।। स्वयं शतभुजा देवी भद्रकाली भयंकरी ।। रत्नेन्द्रराजखचितविमानोपरि संस्थिता ।। ३९ ।। रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ।। नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा ।।2.17.४०।। अभयं ददती भक्तमभया सा भयं रिपुम् ।। बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।। ।। ४१ ।। खर्परं वर्तुलाकारं गम्भीरं योजनायतम् ।। त्रिशूलं गगनस्पर्शिं शक्तिं वै योजनायताम् ।। ४२ ।। शंखं चक्रं गदां पद्मं शरांश्चापं भयंकरम् ।। मुद्गरं मुशलं वज्रं खड्गं फलकमुज्ज्वलम् ।। ४३ ।। वैष्णवास्त्रं वारुणास्त्रमाग्नेयं नागपाशकम् ।। नारायणास्त्रं ब्रह्मास्त्रं गान्धर्वं गारुडं तथा ।। ४४ ।। पार्जन्यं वै पाशुपतं जृम्भणास्त्रं च पार्वतम् ।। माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा ।। नानाविधान्यायुधानि दिव्यास्त्रशतकं परम् ।।४५।। आगत्य तत्र तस्थौ सा योगिनीनां त्रिकोटिभिः ।। सार्द्धं वै डाकिनीनां च विकटानां त्रिकोटिभिः ।। ४६ ।। भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः ।। वेतालाश्चैव यक्षाश्च राक्षसाश्चैव किन्नराः ।। ४७ ।। ताभिश्चैव सह स्कन्दो नत्वा वै चन्द्रशेखरम् ।। पितुः पार्श्वे सभायां च समुवास भवाज्ञया ।। ४८ ।। अथ दूते गते तत्र शंखचूडः प्रतापवान्।। उवाच तुलसीं वार्त्तां गत्वाऽभ्यन्तरमेव च ।।४९।। रणवार्त्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका ।। उवाच मधुरं साध्वी हृदयेन विदूयता ।।2.17.५०।। तुलस्युवाच ।। हे प्राणनाथ हे बन्धो तिष्ठ मे वक्षसि क्षणम् ।। हे प्राणाधिष्ठातृदेव रक्ष मे जीवनं क्षणम् ।।९१।। भुंक्ष्व जन्मसु भोग्यं तद्यद्वै मनसि वांछितम् ।। पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां पिपासिता ।। ५२ ।। आन्दोलयन्ति प्राणा मे मनो दग्धं च सन्ततम् ।। दुस्स्वप्नं च मया दृष्टं चाद्यैव चरमे निशि ।। ५३ ।। तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वरः ।। उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ।।५४।। शङ्खचूड उवाच ।। कालेन योजितं सर्वं कर्म भोगनिबन्धने ।। शुभं हर्षं सुखं दुःखं भयं शोकममंगलम् ।।५५।। काले भवन्ति वृक्षाश्च शाखावन्तश्च कालतः ।। क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः ।।५६।। तेषां फलानि पक्वानि प्रभवन्त्येव कालतः ।। ते सर्वे फलिनः काले काले कालं प्रयान्ति च।।५७।। भवन्ति काले भूतानि काले कालं प्रयान्ति च।। काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि।।५८।। स्रष्टा च काले सृजति पाता पाति च कालतः।। संहर्त्ता संहरेत्काले संचरन्ति क्रमेण ते ।।५९।। ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतेः परः।। स्रष्टा पाता च संहर्त्ता स कृत्स्नांशेन सर्वदा।2.17.६०।। काले स एव प्रकृतिं निर्माय स्वेच्छया प्रभुः।। निर्माय प्राकृतान्सर्वान्विश्वस्थांश्च चराचरान्।।६१।। आब्रह्मस्तंबपर्य्यन्तं सर्वं कृत्रिममेव च।। प्रवदन्ति च कालेन नश्यत्यपि हि नश्वरम्।।६२।। भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम् ।। सर्वेशं सर्वरूपं च सर्वात्मानन्तमीश्वरम।।६३।। जलं जलेन सृजति जलं पाति जलेन यः ।। हरेज्जलं जलेनैव तं कृष्णं भज सन्ततम् ।।६४।। यस्याज्ञया वाति वातः शीघ्रगामी च सन्ततम्।। यस्याज्ञया च तपनस्तपत्येव यथाक्षणम् ।। ६५ ।। यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।। यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति भीतवत्।।६६।। मृत्योर्मूलं कालमूलं यमस्य च यमं परम्।। स्रष्टारं स्रष्टुरपि च पातुः पालकमेव च ।।६७।। संहर्त्तारं च संहर्तुस्तं कृष्णं शरणं व्रज।। को बन्धुश्चैव केषां वा सर्वबन्धुं भज प्रिये ।। ६८ ।। अहं को वा त्वं च का वा विधिना योजितः पुरा ।। त्वया सार्द्धं कर्मणा च पुनस्तेन वियोजितः ।।६९।। अज्ञानी कातरः शोके विपत्तौ च न पण्डितः ।। सुखं दुःखं भ्रमत्येव चक्रनेमिक्रमेण च ।। ।। 2.17.७० ।। नारायणं तं सर्वेशं कान्तं प्राप्स्यसि निश्चितम् ।। तपः कृतं यदर्थे च पुरा बदरिकाश्रमे ।। ७१।। मया त्वं तपसा लब्धा ब्रह्मणश्च वरेण हि ।। हरेरर्थे तव तपो हरिं प्राप्स्यसि कामिनि ।। ७२ ।। वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि ।। अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम् ।। ७३ ।। तत्र द्रक्ष्यसि मां त्वं च त्वां च द्रक्ष्यामि सन्ततम् ।। आगमं राधिकाशापाद्भारतं च सुदुर्लभम् ।। ७४ ।। पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये ।। त्वं हि देहं परित्यज्य दिव्यरूपं विधाय च । ।।७५।। तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव ।। इत्युक्त्वा च दिनान्ते च तया सार्द्धं मनोहरे ।।७६।। सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते ।। नानाप्रकारविभवे चचार रत्नमन्दिरे ।। ७७ ।। रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् ।। निनाय रजनीं राजा क्रीडाकौतुकमंगलैः ।।७८।। कृत्वा वक्षसि कान्तां तां रुदन्तीमतिदुःखिताम् ।। कृशोदरीं निराहारां निमग्नां शोकसागरे।७९।। पुनस्तां बोधयामास दिव्यज्ञानेन बोधवित् ।। पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम् ।। 2.17.८० ।। स च तस्यै ददौ तच्च सर्वशोकहरं परम् ।। ज्ञानं संप्राप्य सा देवी प्रसन्नवदनेक्षणा ।। ८१ ।। क्रीडां चकार हर्षेण सर्वं मत्वाऽतिनश्वरम् ।। तौ दम्पती च क्रीडार्त्तौ निमग्नौ सुखसागरे ।। ८२ ।। पुलकाङ्कितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने ।। अंगप्रत्यंगसंयुक्तौ सुप्रीतौ सुरतोत्सुकौ ।। ८३ ।। एकांगौ च तथा तौ द्वौ चार्द्धनारीश्वरौ यथा ।। प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ।। ८४ ।। प्राणाधिकां च तां मेने राजा प्राणाधिकेश्वरीम् ।। तौ स्थितौ सुखसुप्तौ च तन्त्रितौ सुन्दरौ समौ ।। ८५ ।। सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ ।। क्षणं सचेतनौ तौ च कथयन्तौ रसाश्रयाम् ।। कथां मनोहरां दिव्यां हसन्तौ च क्षणं पुनः ।। ८६ ।। भुक्तवन्तौ च ताम्बूलं प्रदतं च परस्परम् ।। ८७ ।। परस्परं सेवितौ च सुप्रीत्या श्वेतचामरैः ।। क्षणं शयानौ सानन्दौ वसन्तौ च क्षणं पुनः ।। ८८ ।। क्षणं केलिनियुक्तौ च रसभावसमन्वितौ ।। सुरताद्विरतिर्नास्ति तौ तद्विषयपण्डितौ ।। ८९ ।। सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ ।। ।। 2.17.९० ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलसीशंखचूडसम्भोगो नाम सप्तदशोऽध्यायः ।। १७ ।।

nārāyaṇa uvāca || brahmā śivaṃ saṃniyojya saṃhāre dānavasya ca || jagāma svālayaṃ tūrṇaṃ yathāsthānaṃ mahāmune || 1 || candrabhāgānadītīre vaṭamūle manohare || tatra tasthau mahādevo devanistārahetave || 2 || dūtaṃ kṛtvā puṣpadantaṃ gandharveśvaramīpsitam || śīghraṃ prasthāpayāmāsa śaṃkhacūḍāntikaṃ mudā || 3 || sa ceśvarājñayā śīghraṃ yayau tannagaraṃ varam || mahendranagarotkṛṣṭaṃ kuberabhavanādhikam || 4 || pañcayojanavistīrṇaṃ dairghye taddviguṇaṃ mune || sphāṭikākāramaṇibhissamantātpariveṣṭitam || saptabhiḥ parikhābhiśca durgamābhiḥ samanvitam || 5 || jvaladagninibhairnityaṃ śobhitaṃ ratnakoṭibhiḥ || yuktaṃ ca vīthiśatakairmaṇivedisamanvitaiḥ || 6 || parito vaṇijāṃ saṃghairnānāvastuvirājitaiḥ || sindūrākāramaṇibhirnirmitaiśca vicitritaiḥ || 7 || bhūṣitaṃ bhūṣitairdivyairāśramaiḥ śatakoṭibhiḥ || gatvā dadarśa tanmadhye śaṅkhacūḍālayaṃ varam || 8 || atīva valayākāraṃ yathā pūrṇendumaṇḍalam || jvaladagniśikhābhiśca parikhābhiścatasṛbhiḥ||9|| sudurgamaṃ ca śatrūṇāmanyeṣāṃ sugamaṃ sukham || atyuccairgaganasparśyamaṇiprācīraveṣṭitam||2.17.10|| rājitaṃ dvādaśadvārairdvārapālasamanvitaiḥ || ratnakṛtrimapadmāḍhyai ratnadarpaṇabhūṣitaiḥ ||11 || maṇīndrasārakhacitaiḥ śobhitaṃ lakṣamandiraiḥ|| śobhitaṃ ratnasopānai ratnastambhavirājitaiḥ ||12|| ratnacitrakapāṭādyaiḥ sadratnakalaśānvitaiḥ|| ratnendracitrarājībhiḥ sudīptābhirvirājitaiḥ||13|| parito rakṣitaṃ śaśvaddānavaiḥ śatakoṭibhiḥ|| divyāstradhāribhiḥ śūrairmahābalaparākramaiḥ||14|| sundaraiśca suveṣaiśca nānālaṅkārabhūṣitaiḥ || tāndṛṣṭvā puṣpadanto'pi varadvāraṃ dadarśa saḥ || 15 || dvāre niyuktaṃ puruṣaṃ śūlahastaṃ ca sasmitam || tiṣṭhantaṃ piṅgalākṣaṃ ca tāmravarṇaṃ bhayaṅkaram || 16 || kathayāmāsa vṛttāntaṃ jagāma tadanujñayā || atikramya navadvāraṃ jagāmābhyantaraṃ puram || 17 || na kaiścidvārito dūto dūtarūpeṇa tasya ca || gatvā so'bhyantaraṃ dvāraṃ dvārapālamuvāca ha || 18 || raṇasya sarvavṛttāntaṃ vijñāpayitumīśvaram || sa ca taṃ kathayitvā ca dūtaṃ gantumuvāca ha || 19 || sa gatvā śaṃkhacūḍaṃ taṃ dadarśa sumanoharam || rāsamaṇḍalamadhyasthaṃ svarṇasiṃhāsanasthitam || 2.17.20 || maṇīndrakhacitaṃ citraṃ ratnadaṇḍasamanvitam || ratnakṛtrimapuṣpaiśca praśastaṃ śobhitaṃ sadā || 21 || bhṛtyena hastavidhṛtaṃ svarṇacchatraṃ manoharam || sevitaṃ pārṣadagaṇairvyajanaiḥ śvetacāmaraiḥ || 22 || suveṣaṃ sundaraṃ ramyaṃ ratnabhūṣaṇabhūṣitam || mālyānulepanaṃ sūkṣmavastraṃ ca dadhataṃ mune || 23 || dānavendraiḥ parivṛtaṃ suveṣaṃ ca trikoṭibhiḥ || śatakoṭibhiranyaiśca bhramadbhiśśastradhāribhiḥ || 24 || evaṃbhūtaṃ ca taṃ dṛṣṭvā puṣpadantaḥ savismayaḥ || uvāca raṇavṛttāntaṃ yaduktaṃ śaṅkareṇa ca || 25 || puṣpadanta uvāca || rājendra śivadūto'haṃ puṣpadantābhidhaḥ prabho || yaduktaṃ śaṅkareṇaiva tadbravīmi niśāmaya || 26 || rājyaṃ dehi ca devānāmadhikāraṃ ca sāmpratam || devāśca śaraṇāpannā deveśe śrīharau pare || 27 || dattvā triśūlaṃ hariṇā tubhyaṃ prasthāpitaḥ śivaḥ || candrabhāgānadītīre vaṭamūle trilocanaḥ ||28|| viṣayaṃ dehi teṣāṃ ca yuddhaṃ vā kuru niścitam || gatvā vakṣyāmi kiṃ śambhuṃ tadbhavānvaktumarhati || 29 || dūtasya vacanaṃ śrutvā śaṅkhacūḍaḥ prahasya ca || prabhāte hyāgamiṣyāmi tvaṃ ca gacchetyuvāca ha || 2.17.30 || sa gatvovāca tūrṇaṃ taṃ vaṭamūlasthamīśvaram || śaṅkhacūḍasya vacanaṃ tadīyaṃ yatparicchadam ||31|| etasminnantare skanda ājagāma śivāntikam || vīrabhadraśca nandī ca mahākālaḥ subhadrakaḥ || 32 || viśālākṣaśca bāṇaśca piṅgalākṣo vikampanaḥ || virūpo vikṛtiścaiva maṇibhadraśca bāṣkalaḥ||33|| kapilākṣo dīrghadaṃṣṭro vikaṭastāmralocanaḥ || kālaṅkaṭo balībhadraḥ kālajihvaḥ kuṭīcaraḥ ||34|| balonmatto raṇaślāghī durjayo durgamastathā || aṣṭau ca bhairavā raudrā rudrāścaikādaśa smṛtāḥ || 39 || vasavo vāsavādyāśca ādityā dvādaśa smṛtāḥ || hutāśanaśca candraśca viśvakarmā'śvinau ca tau ||36|| kuberaśca yamaścaiva jayanto nalakūbaraḥ || vāyuśca varuṇaścaiva budho vai maṃgalastathā || || 37 || dharmaśca śanirīśānaḥ kāmadevaśca vīryyavān || ugradaṃṣṭrā cogracaṇḍā koṭṭarī kaiṭabhī tathā || 38 || svayaṃ śatabhujā devī bhadrakālī bhayaṃkarī || ratnendrarājakhacitavimānopari saṃsthitā || 39 || raktavastraparīdhānā raktamālyānulepanā || nṛtyantī ca hasantī ca gāyantī susvaraṃ mudā ||2.17.40|| abhayaṃ dadatī bhaktamabhayā sā bhayaṃ ripum || bibhratī vikaṭāṃ jihvāṃ sulolāṃ yojanāyatām || || 41 || kharparaṃ vartulākāraṃ gambhīraṃ yojanāyatam || triśūlaṃ gaganasparśiṃ śaktiṃ vai yojanāyatām || 42 || śaṃkhaṃ cakraṃ gadāṃ padmaṃ śarāṃścāpaṃ bhayaṃkaram || mudgaraṃ muśalaṃ vajraṃ khaḍgaṃ phalakamujjvalam || 43 || vaiṣṇavāstraṃ vāruṇāstramāgneyaṃ nāgapāśakam || nārāyaṇāstraṃ brahmāstraṃ gāndharvaṃ gāruḍaṃ tathā || 44 || pārjanyaṃ vai pāśupataṃ jṛmbhaṇāstraṃ ca pārvatam || māheśvarāstraṃ vāyavyaṃ daṇḍaṃ sammohanaṃ tathā || nānāvidhānyāyudhāni divyāstraśatakaṃ param ||45|| āgatya tatra tasthau sā yoginīnāṃ trikoṭibhiḥ || sārddhaṃ vai ḍākinīnāṃ ca vikaṭānāṃ trikoṭibhiḥ || 46 || bhūtapretapiśācāśca kūṣmāṇḍabrahmarākṣasāḥ || vetālāścaiva yakṣāśca rākṣasāścaiva kinnarāḥ || 47 || tābhiścaiva saha skando natvā vai candraśekharam || pituḥ pārśve sabhāyāṃ ca samuvāsa bhavājñayā || 48 || atha dūte gate tatra śaṃkhacūḍaḥ pratāpavān|| uvāca tulasīṃ vārttāṃ gatvā'bhyantarameva ca ||49|| raṇavārttāṃ ca sā śrutvā śuṣkakaṇṭhoṣṭhatālukā || uvāca madhuraṃ sādhvī hṛdayena vidūyatā ||2.17.50|| tulasyuvāca || he prāṇanātha he bandho tiṣṭha me vakṣasi kṣaṇam || he prāṇādhiṣṭhātṛdeva rakṣa me jīvanaṃ kṣaṇam ||91|| bhuṃkṣva janmasu bhogyaṃ tadyadvai manasi vāṃchitam || paśyāmi tvāṃ kṣaṇaṃ kiñcillocanābhyāṃ pipāsitā || 52 || āndolayanti prāṇā me mano dagdhaṃ ca santatam || dussvapnaṃ ca mayā dṛṣṭaṃ cādyaiva carame niśi || 53 || tulasīvacanaṃ śrutvā bhuktvā pītvā nṛpeśvaraḥ || uvāca vacanaṃ prājño hitaṃ satyaṃ yathocitam ||54|| śaṅkhacūḍa uvāca || kālena yojitaṃ sarvaṃ karma bhoganibandhane || śubhaṃ harṣaṃ sukhaṃ duḥkhaṃ bhayaṃ śokamamaṃgalam ||55|| kāle bhavanti vṛkṣāśca śākhāvantaśca kālataḥ || krameṇa puṣpavantaśca phalavantaśca kālataḥ ||56|| teṣāṃ phalāni pakvāni prabhavantyeva kālataḥ || te sarve phalinaḥ kāle kāle kālaṃ prayānti ca||57|| bhavanti kāle bhūtāni kāle kālaṃ prayānti ca|| kāle bhavanti viśvāni kāle naśyanti sundari||58|| sraṣṭā ca kāle sṛjati pātā pāti ca kālataḥ|| saṃharttā saṃharetkāle saṃcaranti krameṇa te ||59|| brahmaviṣṇuśivādīnāmīśvaraḥ prakṛteḥ paraḥ|| sraṣṭā pātā ca saṃharttā sa kṛtsnāṃśena sarvadā|2.17.60|| kāle sa eva prakṛtiṃ nirmāya svecchayā prabhuḥ|| nirmāya prākṛtānsarvānviśvasthāṃśca carācarān||61|| ābrahmastaṃbaparyyantaṃ sarvaṃ kṛtrimameva ca|| pravadanti ca kālena naśyatyapi hi naśvaram||62|| bhaja satyaṃ paraṃ brahma rādheśaṃ triguṇātparam || sarveśaṃ sarvarūpaṃ ca sarvātmānantamīśvarama||63|| jalaṃ jalena sṛjati jalaṃ pāti jalena yaḥ || harejjalaṃ jalenaiva taṃ kṛṣṇaṃ bhaja santatam ||64|| yasyājñayā vāti vātaḥ śīghragāmī ca santatam|| yasyājñayā ca tapanastapatyeva yathākṣaṇam || 65 || yathākṣaṇaṃ varṣatīndro mṛtyuścarati jantuṣu || yathākṣaṇaṃ dahatyagniścandro bhramati bhītavat||66|| mṛtyormūlaṃ kālamūlaṃ yamasya ca yamaṃ param|| sraṣṭāraṃ sraṣṭurapi ca pātuḥ pālakameva ca ||67|| saṃharttāraṃ ca saṃhartustaṃ kṛṣṇaṃ śaraṇaṃ vraja|| ko bandhuścaiva keṣāṃ vā sarvabandhuṃ bhaja priye || 68 || ahaṃ ko vā tvaṃ ca kā vā vidhinā yojitaḥ purā || tvayā sārddhaṃ karmaṇā ca punastena viyojitaḥ ||69|| ajñānī kātaraḥ śoke vipattau ca na paṇḍitaḥ || sukhaṃ duḥkhaṃ bhramatyeva cakranemikrameṇa ca || || 2.17.70 || nārāyaṇaṃ taṃ sarveśaṃ kāntaṃ prāpsyasi niścitam || tapaḥ kṛtaṃ yadarthe ca purā badarikāśrame || 71|| mayā tvaṃ tapasā labdhā brahmaṇaśca vareṇa hi || harerarthe tava tapo hariṃ prāpsyasi kāmini || 72 || vṛndāvane ca govindaṃ goloke tvaṃ labhiṣyasi || ahaṃ yāsyāmi tallokaṃ tanuṃ tyaktvā ca dānavīm || 73 || tatra drakṣyasi māṃ tvaṃ ca tvāṃ ca drakṣyāmi santatam || āgamaṃ rādhikāśāpādbhārataṃ ca sudurlabham || 74 || punaryāsyāmi tatraiva kaḥ śoko me śṛṇu priye || tvaṃ hi dehaṃ parityajya divyarūpaṃ vidhāya ca | ||75|| tatkālaṃ prāpsyasi hariṃ mā kānte kātarā bhava || ityuktvā ca dinānte ca tayā sārddhaṃ manohare ||76|| suṣvāpa śobhane talpe puṣpacandanacarcite || nānāprakāravibhave cacāra ratnamandire || 77 || ratnapradīpasaṃyukte strīratnaṃ prāpya sundarīm || nināya rajanīṃ rājā krīḍākautukamaṃgalaiḥ ||78|| kṛtvā vakṣasi kāntāṃ tāṃ rudantīmatiduḥkhitām || kṛśodarīṃ nirāhārāṃ nimagnāṃ śokasāgare|79|| punastāṃ bodhayāmāsa divyajñānena bodhavit || purā kṛṣṇena yaddattaṃ bhāṇḍīre tattvamuttamam || 2.17.80 || sa ca tasyai dadau tacca sarvaśokaharaṃ param || jñānaṃ saṃprāpya sā devī prasannavadanekṣaṇā || 81 || krīḍāṃ cakāra harṣeṇa sarvaṃ matvā'tinaśvaram || tau dampatī ca krīḍārttau nimagnau sukhasāgare || 82 || pulakāṅkitasarvāṅgau mūrcchitau nirjane mune || aṃgapratyaṃgasaṃyuktau suprītau suratotsukau || 83 || ekāṃgau ca tathā tau dvau cārddhanārīśvarau yathā || prāṇeśvaraṃ ca tulasī mene prāṇādhikaṃ param || 84 || prāṇādhikāṃ ca tāṃ mene rājā prāṇādhikeśvarīm || tau sthitau sukhasuptau ca tantritau sundarau samau || 85 || suveṣau sukhasambhogādaceṣṭau sumanoharau || kṣaṇaṃ sacetanau tau ca kathayantau rasāśrayām || kathāṃ manoharāṃ divyāṃ hasantau ca kṣaṇaṃ punaḥ || 86 || bhuktavantau ca tāmbūlaṃ pradataṃ ca parasparam || 87 || parasparaṃ sevitau ca suprītyā śvetacāmaraiḥ || kṣaṇaṃ śayānau sānandau vasantau ca kṣaṇaṃ punaḥ || 88 || kṣaṇaṃ keliniyuktau ca rasabhāvasamanvitau || suratādviratirnāsti tau tadviṣayapaṇḍitau || 89 || satataṃ jayayuktau dvau kṣaṇaṃ naiva parājitau || || 2.17.90 || iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvāde tulasīśaṃkhacūḍasambhogo nāma saptadaśo'dhyāyaḥ || 17 ||

English translation

The proceeding of Pu$padanta to as a messenger Narayana said—O great sage, Brahma after entrusting Siva with the tasks of killing Sarhkhacuda, he himself went to his own abode.

Thereafter Siva took his seat on the bank of the river Candrabhaga with the resolve of uplifting the gods. He then sent Puspadanta the king of the Gandharvas as the messenger to At the command of Siva, the messenger moved towards that city, which was more beautiful than Amaravatl the capital of Indra or the city of Kubera.

O sage, the city was five yojana in width and ten yojanas in length. It was surrounded by crystal gems on all sides and had seven castles in it. It illuminated with studded gems and hundreds of lanes.

There were the commercial establishments of Vaisyas scattered everywhere and were filled with commodities. It had a hundred crores of beautiful and astonishing buildings which emitted the lustre of rubies. Reaching there the messengers looked at such a type of gigantic buildings which were circular in shape and were shinning like fire flames and surrounded by four It was beyond the access of the enemies but was quite pleasant for others. It was surrounded by high boundary walls. It had many gates guarded by the gate-keepers and the doors were painted with gems, lotuses and mirrors besides the precious gems. It had a lakh of temples in it.

It had the steps made of gems, the pillars were studded with gems. The doors and gates were studded with gems. The best of the vases were studded with gems. Even the lotuses, the mirrors and the astonishing lines were decorated with gems, adding to the beauty of the place.

Crores of Danvas were guarding the place holding divine weapons in their hands. They were quite brave, valorous and possessed great powers. They were also adorned with beautiful ornaments and clad in charming clothes. After looking at all of them, Puspadanta looked at the The god of the gate was seated holding a trident in his hand and wearing a smile on his face. His eyes were pinkish and had a complexion of copper. He looked terrific in Disclosing to him the cause of his arrival, Pus padanta entered into the palace with his permission. Thereafter crossing nine gates he reached the court.

Considering him to be a messenger, no one stopped him. Reaching the inner court, he conveyed to the gate-keeper the purpose of his arrival and whatever his lord had told him. After hearing the message the gate-keeper permitted him to enter.

Reaching inside, he saw the most beautiful Sarhkhacuda who was seated in his court together with all his courtiers on a lion throne studded with precious gems.

A golden umbrella with its rod was also studded with gems. Besides, artificial flowers were also studded in the umbrella. The white and glittering fly-whisks were held by the attendants and moved over Sarhkhacuda. He looked very beautiful because he was adorned with all kinds of ornaments. He wore a garland around his neck. His body was plastered with sandal-paste.

He was clad in two fine garments and was surrounded by innumerable and famous demons, while the other demons guarded the place holding the weapons in their hands. Finding such a glorious Samkhacuda, Puspadanta was surprised. Theveafter he started narrating to him the tale of the battle as spoken to him by lord messenger of lord Siva and known by the name of Puspadanta. O lord, I am repeating to you whatever has been ordained by Siva to be spoken to you. You kindly listen to me.

RRIH ^TRiTTRR RTII-R q I!

You better return the rights and the kingdom of the gods because all the gods had reached the abode of Visnu to take his refuge.

He has handed over his trident to lord Siva for killing you. Lord Siva is turn in currently lodged on the bank of river Candrabhaga under a banyan You will, therefore, either return the kingdom of the gods to them or get ready for a battle. Now you tell me everything that I have to tell to lord Siva on my return.” On hearing the words of the messenger, Sarhkhacuda smiled and said: 'T shall go there in the morning. You can go now”. On hearing this the messenger went back at once to lord Siva and conveyed to him the message of Saihkhacuda together with the news about his soldiers.

TTRfWRRH WR 3RRRm f?TRlf%RRI.I In the meantime, Karttikeya also reached with his army before Siva. He was accompanied by twelve Adityas, Agni, the moon, Visvakarma, Dharma, Isan, Saturn, the powerful god of love Kaitabhl, the hundred armed and terrific Bhadrakali. The great goddess was seated on a plane studded with the dust of gems.

She was clad in red garments and a garland of the same colour, her body was plastered with red paste. She was dancing, laughing and singing in She removed the fear of her devotees and was terrific for the enemies. The goddess had a terrific tongue which was a yojana in length.

Her hands were a yojana in length and she was holding a begging bowl which was wavering in shape. Her trident was almost touching the sky and her salcti was a yojana long. Her other attributes were a samkha, a cakra, a gadd, a lotus, horrible bow, a club, a gadd, vajra and a She also had Vaisnavdstra, Vdrundstra, Pdrvata, Vdyavya, Danda, Sammohandstra and hundreds of weapons which could never be infructuous. Besides she had a hundred divine weapons held by her and three crores of Yoginis and three crores of Ddkinls supported her.

Thus all the goblins, pretas, pisdeas, kus asas and kinnars also arrived there in the company of Karltikeya who bowed in reverence to lord Siva and all of them were seated beside After the return of the messenger, Samkhacuda went to the inner apartment and narrated to TulasI everything about the messenger of Siva.

Learning about the battle, the throat, the lips and tongue of the damsel were dried up. She was pained at heart and then spoke to her husband in a sweet tone.

TulasI said—O lord of my life, O closest of my relatives, you rcitiain in my embrace for some time. You are lord of my life and protect my life for a moment.

Let me enjoy all the desired pleasures of my life and let me have a graceful look at you for some time.

My mind is tluttering and burning at the same time. I have witnessed a horrible dream at the end of tonight.

On hearing these words of TulasI, Sathkhacuda the king of kings after finishing his meals, spoke truthful, beneficial and realistic words of her.

Saitikhacuda said—“The result of all the deeds is tied up in a cord of time. The auspices, pleasure, joy, pain, tear and grief besides harm or all influenced the time.

A tree grows according to the time, in time its branches grow and in time it bears flowers and The time makes the fmits grow and ripen.

With the passage of time, after bearing flowers and fruits, it meets with its end.

O beautiful one, similarly people arc born under the influence of time and are also destroyed by the influence of the same. The entire universe emerges under the influence of the time and it also gets destroyed by the influence of the same.

Under the influence of time Brahma indulges himself in creation, Visnu preserves it and Rudra destroys the same under the influence of time.

All of them perform their respective duties under the influence of time.

Lord Krsna is beyond Brahma, Visnu, Siva besides the gods and the Prakfti and one of his arhsas becomes the preserver of the universe.

The same lord under the influence of time creates the Prakrti and through Prakrti he creates all moveable and immovable things of the world.

Because of this all the space between my loka and Brahmaloka is considered to be artificial, they are created at times and are also destroyed in due course of time. Therefore, you adore the truthful, eternal Brahman, the lord of Radha who is beyond all the three gunas, the lord of everyone, the form of everyone, the soul of everyone, beyond measure and is the lord.

He creates a creature from a creature and also protects a creature from a creature. Then he puts an end to a creature by a creature. Therefore you should recite the name of lord Krsna alone.

The wind blows and is moved at great speed at the command of lord Krsna, at whose command the sun burns at mid-day.

Indra showers rain in time and death over¬ powers all creatures, the fire consumes everything and the moon getting terrified always Therefore, O beloved one, Krsna happens to be the death for the death and for the time, the best controller of Yama, all-pervading, is creator of Brahma, is the preserver of the preserver and also the killer of the god of death. You therefore take refuge under such a lord Krsna. O beloved, who is the brother of whom in this universe? The one who is the brother of everyone you better adore him.

Look here, who was I and who were you but Brahma united both of us on the basis of our deeds and he is going to separate both of us again on the basis of our deeds. At the approaching of grief and misfortune a person with little knowledge feels helpless but an intellectual person does not feel like that because pleasure and pain have to be faced by a person in his life cycle like a wheel.

Therefore, you will surely achieve lord Krsna as your husband sometime or the other for whose sake you had performed severe austerities at beautiful one, I achieved you after performing tapas for Brahma but your tapas was for the lord and as such you are sure to achieve the lord.

You will meet lord Govinda at Vmdavana and Goloka, I also after shedding this body shall proceed to Goloka.

You will meet me there and I will always be looking at you in Goloka. Both of us had reached the countiy of Bharata because of the curse of O dear one, we shall have to go there again.

Therefore, there appears to be no cause for grief.

You will also achieve the abode of the great lord after discarding this body. Therefore, O beautiful one, don't get disgusted for nothing.'' Thus speaking Samkhacuda enjoyed the company of Tulasi in the divine bed decorated with flowers and sandal-paste. His bedroom was decorated with gems and all the articles of worldly pleasures were stored therein.

Both of them spent the night together while the lamps of gems continued burning. The king Samkhacuda enjoyed various love-sports with Tiilasi during the night. Thereafter Tulasi who was siender-waisted with an extremely painful heart remained without food and was engrossed in the deep ocean of grief. Samkhacuda embraced her affectionately and started imparting to her the divine knowledge which he had received in the earlier times from lord Krs After receiving the divine knowledge the damsel was immensely pleased and her face and Considering everything to be perishable, the couple enjoyed love-sports and were drawn in O sage, the hair of the bodies of both of them stood on end and for enjoying the conjugal pleasures both of them were united.

Both of them became one like Ardhanarisvara Siva. At that point of time Tulasi considered his beloved to be more important than her own life and the king Samkhacuda felt in the same way.

Both of them slept delightfully. Both of them looked fine in sleep. Both of them were clad in the best of costumes. Both of them looked pleasant after enjoying the company of each other. They regained consciousness after a moment and narrated a divine story to each other. Simultaneously they were chewing the betels offered by each other.

yyicqi I They were moving white fly whisks over each other. In a moment they lay down together and in the next moment, they sat up and in another moment they behaved passionately. Thus both of them who were well-versed in the love-sports could never get fully satisfied. Both of them were always victorious and never felt defeated.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 117618 (2017-08-11T03:08:41Z); Shanti Lal Nagar English scan pages n281–n288: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n281/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.