Prakṛti-khaṇḍa · Chapter 11
Sourceनारद उवाच।। कलेः पञ्चसहस्रे सा समतीते सुरेश्वरी ।। क्व गता सा महाभागा तन्मे व्याख्यातुमर्हसि ।।१।। नारायण उवाच ।। भारतं भारतीशापात्समागत्येश्वरेच्छया ।। जगाम तं च वैकुण्ठं शापान्ते पुनरेव सा ।।२।। भारतं भारती त्यक्त्वा चागमत्तद्धरेः पदम् ।। पद्मावती च शापान्ते गंगायाश्चैव नारद ।।३।। गङ्गा सरस्वती लक्ष्मीश्चैतास्तिस्रः प्रिया हरेः।। तुलसीसहिता ब्रह्मंश्चतस्रः कीर्त्तिताः श्रुतौ।।४।। नारद उवाच ।। हेतुना केन देवी वै विष्णुपादाब्जसंभवा ।। धातुः कमण्डलुस्था च शङ्करस्य शिरोगता ।। ५ ।। बभूव सा मुनिश्रेष्ठ गंगा नारायणप्रिया ।। अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ।। ६ ।। ।। श्रीनारायण उवाच ।। पुरा बभूव गोलोके सा गंगा द्रवरूपिणी ।। राधाकृष्णांगसंभूता तदंशा तत्स्वरूपिणी ।। ७ ।। द्रवाधिष्ठातृरूपा या रूपेणाप्रतिमा भुवि ।। नवयौवनसम्पन्ना रत्नाभरणभूषिता ।। ८ ।। शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा ।। तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा ।। ९ ।। स्निग्धप्रभाऽतिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी ।। सुपीनकठिनश्रोणी सुनितम्बयुगं वरम् ।। 2.11.१० ।। पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् ।। सुचारु नेत्रयुगलं सुकटाक्षं सुवक्रिमम् ।। ।। ११ ।। वक्रिमं कबरीभारं मालतीमाल्यसंयुतम् ।। सिन्दूरबिन्दुललितं सार्द्धं चन्दनबिन्दुभिः ।। १२ ।। कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोहरम् ।। बन्धूककुसुमाकारमधरोष्ठं च सुंदरम् ।। १३ ।। पक्वदाडिमबीजाभदन्तपंक्तिसमुज्ज्वला ।। वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ।। १४ ।। सा सकामा कृष्णपार्श्वे समुत्तस्थे सुलज्जिता ।। पद्मपत्रसमानाभ्यां लोचनाभ्यां विभो मुखम् ।। १५ ।। निमेषरहिताभ्यां च पिबन्ती सततं मुदा ।। प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ।। १५ ।। मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ।। एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ।। १७ ।। गोपीत्रिंशत्कोटियुक्ता कोटिचन्द्रसमप्रभा ।। कोपेन रक्तपद्मास्या रक्तपङ्कजलोचना ।। १८ ।। श्वेतचम्पकवर्णाभा मत्तवारणगामिनी।। अमूल्यरत्नखचितनानाभरणभूषिता ।।१९।। माणिक्यखचितं हारममूल्यं वह्निशौचकम् ।। पीताभवस्त्रयुगलं नीवीयुक्तं च बिभ्रती ।। 2.11.२० ।। स्थलपद्मप्रभाजुष्टं कोमलं च सुरञ्जितम् ।। कृष्णदत्तार्घ्यसंयुक्तं विन्यस्यन्ती पदाम्बुजम् ।। २१ ।। रत्नेन्द्रराजखचितविमानादवरुह्य च ।। सेव्यमाना च सखिभिः श्वेत चामरवायुना ।। २२ ।। कस्तूरीबिन्दुतिलकं चन्दनेन्दुसमन्वितम् ।। दीप्तदीपप्रभाकारं सिन्दूरारुणसुन्दरम् ।। २३ ।। दधती भालमध्ये च सीमन्ताधस्तदुज्ज्वलम् ।। पारिजातप्रसूनादिमालायुक्तं सुवक्रिमम् ।। २४ ।। सुचारुकबरीभारं कम्पयन्ती च कम्पिता ।। सुचारुनासासंयुक्तमोष्ठं कम्पयती रुषा ।। २५ ।। गत्वा तस्थौ कृष्णपार्श्वे रत्नसिंहासने वरे ।। सखीनां च समूहैश्च परिपूर्णा विभोः सभा ।। २६ ।। तां च दृष्ट्वा समुत्तस्थौ कृष्णः सादरमच्युतः ।। संभाष्य मधुरालापैः सस्मितश्च ससंभ्रमः ।। २७ ।। प्रणेमुरभि संत्रस्ता गोपा नम्रात्मकन्धराः ।। तुष्टुवुस्ते च भक्त्या तं तुष्टाव परमेश्वरम् ।। २८ ।। उत्थाय गंगा सहसा सम्भाषां च चकार सा ।। कुशलं परिपप्रच्छ भीताऽतिविनयेन च ।। २९ ।। नम्रभावस्थिता त्रस्ता शुष्ककण्ठौष्ठतालुका ।। ध्यानेन शरणापन्ना श्री कृष्णचरणम्बुजे ।। 2.11.३० ।। तद्धृत्पद्मे स्थितः कृष्णो भीतायै चाभयं ददौ ।। बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च ।। ३१ ।। ऊर्ध्वं सिंहासनस्थां च राधां गङ्गा ददर्श सा ।। सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा ।। ३२ ।। असंख्यब्रह्मणामाद्यां चादिसृष्टिं सनातनीम् ।। यथा द्वादशवर्षीयां कन्यां च नवयौवनाम् ।। ३३ ।। विश्ववृन्दे निरुपमां रूपेण च गुणेन च ।। शान्त कान्तामनन्तां तामाद्यन्तरहितां सतीम् ।। ३४ ।। शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् ।। सौन्दर्यसुन्दरीं श्रेष्ठां सुन्दरीष्वखिलासु च ।। ३९ ।। कृष्णार्द्धाङ्गी कृष्णसमां तेजसा वयसा त्विषा ।। पूजितां च महालक्ष्मीं महालक्ष्मीश्वरेण च ।। ३६ ।। प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् ।। सखीदत्तं च ताम्बूलं गृह्णतीमन्यदुर्लभम् ।। ३७ ।। अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् ।। कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम्।।३८।। दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी ।। निमेषरहिताभ्यां च लोच नाभ्यां पपौ च ताम्।।३९।। एतस्मिन्नन्तरे राधा जगदीशमुवाच सा।। वाचा मधुरया शान्ता विनीता सस्मिता मुने।।2.11.४०।। राधिकोवाच।। केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् ।। पश्यन्ती सततं पार्श्वे सकामा रक्तलोचना ।। ४१ ।। मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा ।। वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः ।। ४२ ।। त्वं चापि मां सन्निरीक्ष्य सकामः सस्मितः सदा ।। मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ।। ४३ ।। त्वमेव चैवं दुर्वृत्तं वारंवारं करोषि च ।। क्षमां करोमि ते प्रेम्णा स्त्रीजातिः स्निग्धमानसा ।। ४४ ।। संगृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लम्पट ।। अन्यथा नहि ते भद्रं भविष्यति सुरेश्वर ।। ४५ ।। दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने ।। क्षमा कृता मया पूर्वं सखीनां वचनादहो ।। ४६ ।। त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा ।। देहं सन्त्यज्य विरजा नदीरूपा बभूव सा ।। ४७ ।। कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा ।। अद्यापि विद्यमाना सा तव सत्की र्तिरूपिणी ।। ४८ ।। गृहं मयि गतायां च पुनर्गत्वा तदन्तिकम् ।। उच्चैररौषीर्विरजे विरजे चेति संस्मरन् ।। ४९ ।। तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी ।। सालङ्कारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ।। 2.11.५० ।। ततस्तां च समाश्लिष्य वीर्य्याधानं कृतं त्वया ।। ततो बभूवुस्तस्यां च समुद्राः सप्त चैव हि ।। ५१ ।। दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने ।। सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।।५२।। शोभा देहं परित्यज्य प्राविशच्चन्द्रमण्डलम् ।। ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ।। ५३ ।। संविभज्य त्वया दत्तं हृदयेन विदूयता ।। रत्नाय किञ्चित्स्वर्णाय किञ्चिन्मतिवराय च ।। ५४ ।। किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन ।। किञ्चित्प्रकृष्टवस्त्रेभ्यो रौप्येभ्यश्चापि किञ्चन ।। ५५ ।। किञ्चिच्चन्दनपङ्केभ्यस्तोयेभ्यश्चापि किञ्चन ।। किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किंचन ।। ५६ ।। किञ्चित्फलेभ्यः सस्येभ्यः सुपक्वेभ्यश्च किञ्चन ।। नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किंचन ।। ५७ ।। दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ।। सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।। ।। ५८ ।। प्रभा देहं परित्यज्य प्राविशत्सूर्य्यमण्डलम् ।। ततस्तस्याः शरीरं च तीक्ष्णं तेजो बभूव ह ।। ५९ ।। संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ।। विभज्य चक्षुषोर्दत्तं लज्जया तद्भयेन च ।। 2.11.६० ।। हुताशनाय किंचिच्च नृपेभ्यश्चापि किञ्चन ।। किंचित्पुरुषसंघेभ्यो देवेभ्यश्चापि किंचन ।। ६१ ।। किंचिद्दस्युगणेभ्यश्च नागेभ्यश्चापि किंचन ।। ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किंचन ।।६२।। स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किंचन ।। तच्च दत्त्वा च सर्वेभ्यः पूर्वं रोदितुमुद्यतः ।।६३।। शान्त्या गोप्या युतस्त्वं च दृष्टो वै रासमण्डले ।। वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः ।। ६४ ।। रत्नप्रदीपैर्युक्तश्च रत्ननिर्मितमन्दिरे ।। रत्नभूषणभूषाढ्यो रत्नभूषितया सह ।। ६९ ।। त्वया दत्तं च ताम्बूलं भुक्तवत्यै सुवासितम् ।। तया दत्तं च ताम्बूलं भुक्तवांस्त्वं पुरा विभो ।।६६।। सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।। शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो ।।६७।। ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ।। संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ।। ६८ ।। विश्वे विषयिणे किंचित्सत्त्वरूपाय विष्णवे ।। शुद्धसत्त्वस्वरूपायै किंचिल्लक्ष्म्यै पुरा विभो ।।६९।। त्वन्मन्त्रोपासकेभ्यश्च वैष्णवेभ्यश्च किंचन ।। तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किंचन ।।2.11.७०।। मया पूर्वं हि दृष्टस्त्वं गोप्या च क्षमया सह ।। सुवेषवान्माल्यवांश्च गन्धचन्दनसंयुतः।। ।। ७१ ।। रत्नभूषितया चारुचन्दनोक्षितया तया ।। सुखेन मूर्छितस्तल्पे पुष्पचन्दनसंयुते ।। ७२ ।। श्लिष्टोऽभून्निद्रया सद्यः सुखेन नवसङ्गमात् ।। मया प्रबोधितौ सा च भवांश्च स्मरणं कुरु ।। ७३ ।। गृहीतं पीतवस्त्रं ते मुरली च मनोहरा ।। वनमाला कौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम् ।।७४।। पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो ।। लज्जया कृष्णवर्णोऽभूदद्यापि च भवान्प्रभो ।।७५।। क्षमा देहं परित्यज्य लज्जया पृथिवीं गता ।। ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ।। ७६ ।। संविभज्य त्वया दत्तं प्रेम्णा च रुदता पुरा ।। किंचिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किंचन ।। ७७ ।। धर्मिष्ठेभ्यश्च धर्माय दुर्बलेभ्यश्च किंचन ।। तपस्विभ्योऽपि देवेभ्यः पंडितेभ्यश्च किंचन ।। ७८ ।। एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।। त्वद्गुणं बहुविस्तारं जानामि च परं प्रभो।।७९।। इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना ।। गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ।। 2.11.८० ।। गङ्गा रहस्यं योगेन ज्ञात्वा वै सिद्धयोगिनी ।। तिरोभूय सभामध्यात्स्वजलं प्रविवेश सा ।।८१।। राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् ।। पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी ।। ८२ ।। गंगा रहस्यं योगेन ज्ञात्वा वै सिद्धयोगिनी ।। श्रीकृष्णचरणाम्भोजं परमं शरणं ययौ ।। ८३ ।। गोलोकं चैव वैकुण्ठं ब्रह्मलोकादिकं तथा ।। ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा ।। ८४ ।। सर्वतो जलशून्यं च शुष्कपङ्कजगोलकम् ।। जलजन्तुसमूहैश्च मृतदेहैः समन्वितम् ।। ८५ ।। ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः ।। मनवो मानवाः सर्वे देवाः सिद्धास्तपस्विनः ।। ८६ ।। गोलोकं च समाजग्मुः शुष्ककण्ठौष्ठतालुकाः ।। सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम् ।। ८७ ।। वरं वरेण्यं वरदं वरिष्ठं वरकारणम् ।। वरेशं च वरार्हं च सर्वेषां प्रवरं प्रभुम् ।। ८८ ।। निरीहं च निराकारं निर्लिप्तं च निराश्रयम् ।। निर्गुणं च निरुत्साहं निर्व्यूहं च निरञ्जनम् ।। ८९ ।। स्वेच्छामयं च साकारं भक्तानुग्रहविग्रहम् ।। सत्यस्वरूपं सत्येशं साक्षिरूपं सनातनम् ।। ।। 2.11.९० ।। परं परेशं परमं परमात्मानमीश्वरम् ।। प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ।। ९१ ।। सगद्गदा साश्रुनेत्राः पुलकाङ्कितविग्रहाः ।। सर्वे संस्तूय सर्वेशं भगवन्तं परं हरिम् ।।९२।। ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् ।। अमूल्यरत्नखचितचित्रसिंहासनस्थितम् ।। ९३ ।। सेव्यमानं च गोपालैः श्वेतचामरवायुना ।। गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा ।। ९४ ।। वल्गुवेषैः परिवृतं गोपैश्च शतकोटिभिः ।। चन्दनोक्षितसर्वांगं रत्नभूषणभूषितम् ।। ९५ ।। नवीननीरदश्यामं किशोरं पीतवाससम् ।। यथा द्वादशवर्षीयं बालं गोपालरूपिणम् ।। ९६ ।। कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहम् ।। स्वतेजसा परिवृतं सुसादृश्यं मनोहरम्।। ।। ९७ ।। कोटिकन्दर्पसौन्दर्य्यलीलालावण्यविग्रहम् ।। दृश्यमानं च गोपीभिः सस्मिताभिश्च सन्ततम् ।। ९८ ।। भूषणैर्भूषिताभिश्च महारत्नविनिर्मितैः ।। पिबन्तीभिर्लोचनाभ्यां मुखचन्द्रं प्रभोर्मुदा ।। ९९ ।। प्राणाधिकप्रियतमाराधावक्षःस्थलस्थितम् ।। तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ।। परिपूर्णतमं रासे ददृशुः सर्वतः सुराः ।। 2.11.१०० ।। मुनयो मानवाः सिद्धास्तपसा च तपस्विनः ।। प्रहृष्टमानसाः सर्वे जग्मुः परमविस्मयम् ।। १०१ ।। परस्परं समालोच्य ते तमूचुश्चतुर्मुखम् ।। निवेदितुं जगन्नाथं स्वाभिप्रायमभीप्सितम् ।। १०२ ।। ब्रह्मा तद्वचनं श्रुत्वा स्थितं विष्णोस्तु दक्षिणे ।। वामतो वामदेवस्य चागमत्कृष्णमुत्तमम् ।। १०३ ।। परमानन्दयुक्तं च परमानन्दरूपकम् ।। सर्वं कृष्णमयं धाता चापश्यद्रासमण्डले ।। १०४ ।। सर्वं समानवेषं च सभानासनसंस्थितम् ।। १०५ ।। द्विभुजं मुरलीहस्तं वनमालाविभूषितम् ।। मयूरपुच्छचूडं च कौस्तुभेन विराजितम् ।। १०६ ।। अतीव कमनीयं च सुन्दरं शान्तविग्रहम् ।। गुणभूषणरूपेण तेजसा वयसा त्विषा ।। १०७।। वाससा यशसाऽऽकृत्या मूर्त्या सुन्दरया समम् ।। परिपूर्णतमं सर्वं सर्वैश्वर्य्यसमन्वितम् ।। १०८ ।। कः सेव्यस्सेवको वेति दृष्ट्वा निर्वक्तुमक्षमः ।। क्षणं तेजः स्वरूपं च रूपराशियुतं क्षणम्।।१०९।। एकमेव क्षणं कृष्णं राधया सहितं परम्।। प्रत्येकासनसंस्थं च तया च सहितं क्षणम् ।।2.11.११०।। राधारूपधरं कृष्णं कृष्णरूपकलत्रकम् ।। किं स्त्रीरूपं च पुंरूपं विधाता ध्यातुमक्षमः।।१११।। हृत्पद्मस्थं च श्रीकृष्णं धाता ध्यानेन चेतसा ।। चकार स्तवनं भक्त्या प्रणम्याथ त्वनेकधा ।। ११२ ।। ततः स चक्षुरुन्मील्य पुनश्च तदनुज्ञया ।। अपश्यत्कृष्णमेकं च राधावक्षस्थलस्थितम् ।। ११३ ।। स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् ।। पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुश्च पुनश्च ते ।।११४।। विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः ।। सर्वात्मा सर्वयज्ञेशः सर्वेशः सर्वभावनः ।। ११५ ।। श्रीभगवानुवाच ।। आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते ।। इहागच्छ महादेव शश्वत्कुशलमस्तु वः ।। ११६ ।। आगताः स्थ महाभागा गङ्गानयनकारणात् ।। गंगा मच्चरणत्म्भोजे भयेन शरणं गता ।। ११७ ।। राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः ।। दास्यामीमां बहिः कृत्वा यूयं कुरुत निर्भयाम् ।। ११८ ।। श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः ।। तुष्टाव सर्वाराध्यां तां राधां श्रीकृष्णपूजिताम् ।। ११९ ।।। वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः ।। धाता चतुर्णां वेदानामुवाच चतुराननः ।। 2.11.१२० ।। गङ्गा त्वदङ्गसम्भूता प्रभोर्वै रासमण्डले।। द्रवरूपा च सा जाता मुग्धया शङ्करस्वरात्।।१२१।। कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया।। तन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम्।।१२२।। भविष्यति पतिस्तस्या वैकुण्ठे च चतुर्भुजः।। भूगतायाः कलायाश्च लवणोदश्च वारिधिः।।१२३।। गोलोकस्था च या राधा सर्वत्रस्था तथात्मिका ।। तदात्मिका त्वं देवेशि सर्वदा च तवात्मजा ।। १२४ ।। ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ।। बहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः ।।१२५।। तत्रैव संवृता शान्ता तस्थौ तेषां च मध्यतः ।। उवास तोयादुत्थाय तदधिष्ठातृदेवता ।। १२६ ।। तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ ।। किंचिद्दधार शिरसि चन्द्रार्द्धे चन्द्रशेखरः ।। १२७ ।। गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः ।। तत्स्तोत्रं कवचं पूजाविधानं ध्यानमेव च ।। १२८ ।। सर्वं तत्सामवेदोक्तं पुरश्चर्य्याक्रमं तथा ।। गङ्गा तामेव संपूज्य वैकुण्ठं प्रययौ सती ।। १२९ ।। लक्ष्मीः सरस्वती गंगा तुलसी विश्वपावनी ।। एता नारायणस्यैव चतस्रो योषितो मुने।।2.11.१३०।। अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच ह।। सर्वकालस्य वृत्तान्तं दुर्बोध्यमविपश्चिताम्।।१३१।। श्रीकृष्ण उवाच ।। गृहाण गंगां हे ब्रह्मन् हे विष्णो हे महेश्वर ।। शृणु कालस्य वृत्तान्तं यदतीतं निशामय ।। १३२ ।। यूयं च येऽन्यदेवाश्च मुनयो मनवस्तथा ।। सिद्धास्तपस्विनश्चैव ये येऽत्रैव समागताः ।।१३३।। ते ते जीवन्ति गोलोके कालचक्र विवर्जिते ।। जलाप्लुतं सर्वविश्वमागतं प्राकृते लये ।। १३४ ।। ब्रह्माद्या येऽन्यविश्वस्थास्ते लीना अधुना मयि ।। वैकुण्ठं च विना सर्वं सजलं पश्य पद्मज ।। १३५ ।। गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं परम् ।। सब्रह्माण्डं विरचय पश्चाद्गङ्गा च यास्यति ।। १३६ ।। एवमन्येषु विश्वेषु सृष्ट्वा ब्रह्मादिकं पुनः ।। करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह ।। १३७ ।। मच्चक्षुषोर्निमेषेण ब्रह्मणः पतनं भवेत् ।। गताः कतिविधास्ते च भविष्यन्ति च वेधसः ।। १३८ ।। इत्युक्त्वा राधिकानाथो जगामान्तःपुरं मुने ।। देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्नतः ।।१३९।। गोलोके च स्थिता गंगा वैकुण्ठे शिवलोकके।। ब्रह्मलोके तथाऽन्यत्र यत्र तत्र पुरा स्थिता ।। 2.11.१४० ।। तत्रैव सा गता गंगा चाज्ञया परमात्मनः ।। निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ।। १४१ ।। इत्येवं कथितं सर्वं गंगोपाख्यानमुत्तमम् ।। सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।। १४२ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे गंगोपाख्याने एकादशोऽध्यायः ।। ११ ।।
nārada uvāca|| kaleḥ pañcasahasre sā samatīte sureśvarī || kva gatā sā mahābhāgā tanme vyākhyātumarhasi ||1|| nārāyaṇa uvāca || bhārataṃ bhāratīśāpātsamāgatyeśvarecchayā || jagāma taṃ ca vaikuṇṭhaṃ śāpānte punareva sā ||2|| bhārataṃ bhāratī tyaktvā cāgamattaddhareḥ padam || padmāvatī ca śāpānte gaṃgāyāścaiva nārada ||3|| gaṅgā sarasvatī lakṣmīścaitāstisraḥ priyā hareḥ|| tulasīsahitā brahmaṃścatasraḥ kīrttitāḥ śrutau||4|| nārada uvāca || hetunā kena devī vai viṣṇupādābjasaṃbhavā || dhātuḥ kamaṇḍalusthā ca śaṅkarasya śirogatā || 5 || babhūva sā muniśreṣṭha gaṃgā nārāyaṇapriyā || aho kena prakāreṇa tanme vyākhyātumarhasi || 6 || || śrīnārāyaṇa uvāca || purā babhūva goloke sā gaṃgā dravarūpiṇī || rādhākṛṣṇāṃgasaṃbhūtā tadaṃśā tatsvarūpiṇī || 7 || dravādhiṣṭhātṛrūpā yā rūpeṇāpratimā bhuvi || navayauvanasampannā ratnābharaṇabhūṣitā || 8 || śaranmadhyāhnapadmāsyā sasmitā sumanoharā || taptakāñcanavarṇābhā śaraccandrasamaprabhā || 9 || snigdhaprabhā'tisusnigdhā śuddhasattvasvarūpiṇī || supīnakaṭhinaśroṇī sunitambayugaṃ varam || 2.11.10 || pīnonnataṃ sukaṭhinaṃ stanayugmaṃ suvartulam || sucāru netrayugalaṃ sukaṭākṣaṃ suvakrimam || || 11 || vakrimaṃ kabarībhāraṃ mālatīmālyasaṃyutam || sindūrabindulalitaṃ sārddhaṃ candanabindubhiḥ || 12 || kastūrīpatrikāyuktaṃ gaṇḍayugmaṃ manoharam || bandhūkakusumākāramadharoṣṭhaṃ ca suṃdaram || 13 || pakvadāḍimabījābhadantapaṃktisamujjvalā || vāsasī vahniśuddhe ca nīvīyukte ca bibhratī || 14 || sā sakāmā kṛṣṇapārśve samuttasthe sulajjitā || padmapatrasamānābhyāṃ locanābhyāṃ vibho mukham || 15 || nimeṣarahitābhyāṃ ca pibantī satataṃ mudā || praphullavadanā harṣānnavasaṅgamalālasā || 15 || mūrcchitā prabhurūpeṇa pulakāṅkitavigrahā || etasminnantare tatra vidyamānā ca rādhikā || 17 || gopītriṃśatkoṭiyuktā koṭicandrasamaprabhā || kopena raktapadmāsyā raktapaṅkajalocanā || 18 || śvetacampakavarṇābhā mattavāraṇagāminī|| amūlyaratnakhacitanānābharaṇabhūṣitā ||19|| māṇikyakhacitaṃ hāramamūlyaṃ vahniśaucakam || pītābhavastrayugalaṃ nīvīyuktaṃ ca bibhratī || 2.11.20 || sthalapadmaprabhājuṣṭaṃ komalaṃ ca surañjitam || kṛṣṇadattārghyasaṃyuktaṃ vinyasyantī padāmbujam || 21 || ratnendrarājakhacitavimānādavaruhya ca || sevyamānā ca sakhibhiḥ śveta cāmaravāyunā || 22 || kastūrībindutilakaṃ candanendusamanvitam || dīptadīpaprabhākāraṃ sindūrāruṇasundaram || 23 || dadhatī bhālamadhye ca sīmantādhastadujjvalam || pārijātaprasūnādimālāyuktaṃ suvakrimam || 24 || sucārukabarībhāraṃ kampayantī ca kampitā || sucārunāsāsaṃyuktamoṣṭhaṃ kampayatī ruṣā || 25 || gatvā tasthau kṛṣṇapārśve ratnasiṃhāsane vare || sakhīnāṃ ca samūhaiśca paripūrṇā vibhoḥ sabhā || 26 || tāṃ ca dṛṣṭvā samuttasthau kṛṣṇaḥ sādaramacyutaḥ || saṃbhāṣya madhurālāpaiḥ sasmitaśca sasaṃbhramaḥ || 27 || praṇemurabhi saṃtrastā gopā namrātmakandharāḥ || tuṣṭuvuste ca bhaktyā taṃ tuṣṭāva parameśvaram || 28 || utthāya gaṃgā sahasā sambhāṣāṃ ca cakāra sā || kuśalaṃ paripapraccha bhītā'tivinayena ca || 29 || namrabhāvasthitā trastā śuṣkakaṇṭhauṣṭhatālukā || dhyānena śaraṇāpannā śrī kṛṣṇacaraṇambuje || 2.11.30 || taddhṛtpadme sthitaḥ kṛṣṇo bhītāyai cābhayaṃ dadau || babhūva sthiracittā sā sarveśvaravareṇa ca || 31 || ūrdhvaṃ siṃhāsanasthāṃ ca rādhāṃ gaṅgā dadarśa sā || susnigdhāṃ sukhadṛśyāṃ ca jvalantīṃ brahmatejasā || 32 || asaṃkhyabrahmaṇāmādyāṃ cādisṛṣṭiṃ sanātanīm || yathā dvādaśavarṣīyāṃ kanyāṃ ca navayauvanām || 33 || viśvavṛnde nirupamāṃ rūpeṇa ca guṇena ca || śānta kāntāmanantāṃ tāmādyantarahitāṃ satīm || 34 || śubhāṃ subhadrāṃ subhagāṃ svāmisaubhāgyasaṃyutām || saundaryasundarīṃ śreṣṭhāṃ sundarīṣvakhilāsu ca || 39 || kṛṣṇārddhāṅgī kṛṣṇasamāṃ tejasā vayasā tviṣā || pūjitāṃ ca mahālakṣmīṃ mahālakṣmīśvareṇa ca || 36 || pracchādyamānāṃ prabhayā sabhāmīśasya suprabhām || sakhīdattaṃ ca tāmbūlaṃ gṛhṇatīmanyadurlabham || 37 || ajanyāṃ sarvajananīṃ dhanyāṃ mānyāṃ ca māninīm || kṛṣṇaprāṇādhidevīṃ ca prāṇapriyatamāṃ ramām||38|| dṛṣṭvā rāseśvarīṃ tṛptiṃ na jagāma sureśvarī || nimeṣarahitābhyāṃ ca loca nābhyāṃ papau ca tām||39|| etasminnantare rādhā jagadīśamuvāca sā|| vācā madhurayā śāntā vinītā sasmitā mune||2.11.40|| rādhikovāca|| keyaṃ prāṇeśa kalyāṇī sasmitā tvanmukhāmbujam || paśyantī satataṃ pārśve sakāmā raktalocanā || 41 || mūrcchāṃ prāpnoti rūpeṇa pulakāṅkitavigrahā || vastreṇa mukhamācchādya nirīkṣantī punaḥ punaḥ || 42 || tvaṃ cāpi māṃ sannirīkṣya sakāmaḥ sasmitaḥ sadā || mayi jīvati goloke bhūtā durvṛttirīdṛśī || 43 || tvameva caivaṃ durvṛttaṃ vāraṃvāraṃ karoṣi ca || kṣamāṃ karomi te premṇā strījātiḥ snigdhamānasā || 44 || saṃgṛhyemāṃ priyāmiṣṭāṃ golokādgaccha lampaṭa || anyathā nahi te bhadraṃ bhaviṣyati sureśvara || 45 || dṛṣṭastvaṃ virajāyukto mayā candanakānane || kṣamā kṛtā mayā pūrvaṃ sakhīnāṃ vacanādaho || 46 || tvayā macchabdamātreṇa tirodhānaṃ kṛtaṃ purā || dehaṃ santyajya virajā nadīrūpā babhūva sā || 47 || koṭiyojanavistīrṇā tato dairghye caturguṇā || adyāpi vidyamānā sā tava satkī rtirūpiṇī || 48 || gṛhaṃ mayi gatāyāṃ ca punargatvā tadantikam || uccairarauṣīrviraje viraje ceti saṃsmaran || 49 || tadā toyātsamutthāya sā yogātsiddhayoginī || sālaṅkārā mūrtimatī dadau tubhyaṃ ca darśanam || 2.11.50 || tatastāṃ ca samāśliṣya vīryyādhānaṃ kṛtaṃ tvayā || tato babhūvustasyāṃ ca samudrāḥ sapta caiva hi || 51 || dṛṣṭastvaṃ śobhayā gopyā yuktaścampakakānane || sadyo macchabdamātreṇa tirodhānaṃ kṛtaṃ tvayā ||52|| śobhā dehaṃ parityajya prāviśaccandramaṇḍalam || tatastasyāḥ śarīraṃ ca snigdhaṃ tejo babhūva ha || 53 || saṃvibhajya tvayā dattaṃ hṛdayena vidūyatā || ratnāya kiñcitsvarṇāya kiñcinmativarāya ca || 54 || kiñcitstrīṇāṃ mukhābjebhyaḥ kiñcidrājñe ca kiñcana || kiñcitprakṛṣṭavastrebhyo raupyebhyaścāpi kiñcana || 55 || kiñciccandanapaṅkebhyastoyebhyaścāpi kiñcana || kiñcitkisalayebhyaśca puṣpebhyaścāpi kiṃcana || 56 || kiñcitphalebhyaḥ sasyebhyaḥ supakvebhyaśca kiñcana || nṛpadevagṛhebhyaśca saṃskṛtebhyaśca kiṃcana || 57 || dṛṣṭastvaṃ prabhayā gopyā yukto vṛndāvane vane || sadyo macchabdamātreṇa tirodhānaṃ kṛtaṃ tvayā || || 58 || prabhā dehaṃ parityajya prāviśatsūryyamaṇḍalam || tatastasyāḥ śarīraṃ ca tīkṣṇaṃ tejo babhūva ha || 59 || saṃvibhajya tvayā dattaṃ premṇā ca rudatā purā || vibhajya cakṣuṣordattaṃ lajjayā tadbhayena ca || 2.11.60 || hutāśanāya kiṃcicca nṛpebhyaścāpi kiñcana || kiṃcitpuruṣasaṃghebhyo devebhyaścāpi kiṃcana || 61 || kiṃciddasyugaṇebhyaśca nāgebhyaścāpi kiṃcana || brāhmaṇebhyo munibhyaśca tapasvibhyaśca kiṃcana ||62|| strībhyaḥ saubhāgyayuktābhyo yaśasvibhyaśca kiṃcana || tacca dattvā ca sarvebhyaḥ pūrvaṃ roditumudyataḥ ||63|| śāntyā gopyā yutastvaṃ ca dṛṣṭo vai rāsamaṇḍale || vasante puṣpaśayyāyāṃ mālyavāṃścandanokṣitaḥ || 64 || ratnapradīpairyuktaśca ratnanirmitamandire || ratnabhūṣaṇabhūṣāḍhyo ratnabhūṣitayā saha || 69 || tvayā dattaṃ ca tāmbūlaṃ bhuktavatyai suvāsitam || tayā dattaṃ ca tāmbūlaṃ bhuktavāṃstvaṃ purā vibho ||66|| sadyo macchabdamātreṇa tirodhānaṃ kṛtaṃ tvayā || śāntirdehaṃ parityajya bhiyā līnā tvayi prabho ||67|| tatastasyāḥ śarīraṃ ca guṇaśreṣṭhaṃ babhūva ha || saṃvibhajya tvayā dattaṃ premṇā ca rudatā purā || 68 || viśve viṣayiṇe kiṃcitsattvarūpāya viṣṇave || śuddhasattvasvarūpāyai kiṃcillakṣmyai purā vibho ||69|| tvanmantropāsakebhyaśca vaiṣṇavebhyaśca kiṃcana || tapasvibhyaśca dharmāya dharmiṣṭhebhyaśca kiṃcana ||2.11.70|| mayā pūrvaṃ hi dṛṣṭastvaṃ gopyā ca kṣamayā saha || suveṣavānmālyavāṃśca gandhacandanasaṃyutaḥ|| || 71 || ratnabhūṣitayā cārucandanokṣitayā tayā || sukhena mūrchitastalpe puṣpacandanasaṃyute || 72 || śliṣṭo'bhūnnidrayā sadyaḥ sukhena navasaṅgamāt || mayā prabodhitau sā ca bhavāṃśca smaraṇaṃ kuru || 73 || gṛhītaṃ pītavastraṃ te muralī ca manoharā || vanamālā kaustubhaścāpyamūlyaṃ ratnakuṇḍalam ||74|| paścātpradattaṃ premṇā ca sakhīnāṃ vacanādaho || lajjayā kṛṣṇavarṇo'bhūdadyāpi ca bhavānprabho ||75|| kṣamā dehaṃ parityajya lajjayā pṛthivīṃ gatā || tatastasyāḥ śarīraṃ ca guṇaśreṣṭhaṃ babhūva ha || 76 || saṃvibhajya tvayā dattaṃ premṇā ca rudatā purā || kiṃciddattaṃ viṣṇave ca vaiṣṇavebhyaśca kiṃcana || 77 || dharmiṣṭhebhyaśca dharmāya durbalebhyaśca kiṃcana || tapasvibhyo'pi devebhyaḥ paṃḍitebhyaśca kiṃcana || 78 || etatte kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotumicchasi || tvadguṇaṃ bahuvistāraṃ jānāmi ca paraṃ prabho||79|| ityevamuktvā sā rādhā raktapaṅkajalocanā || gaṅgāṃ vaktuṃ samārebhe namrāsyāṃ lajjitāṃ satīm || 2.11.80 || gaṅgā rahasyaṃ yogena jñātvā vai siddhayoginī || tirobhūya sabhāmadhyātsvajalaṃ praviveśa sā ||81|| rādhā yogena vijñāya sarvatrāvasthitāṃ ca tām || pānaṃ kartuṃ samārebhe gaṇḍūṣātsiddhayoginī || 82 || gaṃgā rahasyaṃ yogena jñātvā vai siddhayoginī || śrīkṛṣṇacaraṇāmbhojaṃ paramaṃ śaraṇaṃ yayau || 83 || golokaṃ caiva vaikuṇṭhaṃ brahmalokādikaṃ tathā || dadarśa rādhā sarvatra naiva gaṅgāṃ dadarśa sā || 84 || sarvato jalaśūnyaṃ ca śuṣkapaṅkajagolakam || jalajantusamūhaiśca mṛtadehaiḥ samanvitam || 85 || brahmaviṣṇuśivānantadharmendrendudivākarāḥ || manavo mānavāḥ sarve devāḥ siddhāstapasvinaḥ || 86 || golokaṃ ca samājagmuḥ śuṣkakaṇṭhauṣṭhatālukāḥ || sarve praṇemurgovindaṃ sarveśaṃ prakṛteḥ param || 87 || varaṃ vareṇyaṃ varadaṃ variṣṭhaṃ varakāraṇam || vareśaṃ ca varārhaṃ ca sarveṣāṃ pravaraṃ prabhum || 88 || nirīhaṃ ca nirākāraṃ nirliptaṃ ca nirāśrayam || nirguṇaṃ ca nirutsāhaṃ nirvyūhaṃ ca nirañjanam || 89 || svecchāmayaṃ ca sākāraṃ bhaktānugrahavigraham || satyasvarūpaṃ satyeśaṃ sākṣirūpaṃ sanātanam || || 2.11.90 || paraṃ pareśaṃ paramaṃ paramātmānamīśvaram || praṇamya tuṣṭuvuḥ sarve bhaktinamrātmakandharāḥ || 91 || sagadgadā sāśrunetrāḥ pulakāṅkitavigrahāḥ || sarve saṃstūya sarveśaṃ bhagavantaṃ paraṃ harim ||92|| jyotirmayaṃ paraṃ brahma sarvakāraṇakāraṇam || amūlyaratnakhacitacitrasiṃhāsanasthitam || 93 || sevyamānaṃ ca gopālaiḥ śvetacāmaravāyunā || gopālikānṛtyagītaṃ paśyantaṃ sasmitaṃ mudā || 94 || valguveṣaiḥ parivṛtaṃ gopaiśca śatakoṭibhiḥ || candanokṣitasarvāṃgaṃ ratnabhūṣaṇabhūṣitam || 95 || navīnanīradaśyāmaṃ kiśoraṃ pītavāsasam || yathā dvādaśavarṣīyaṃ bālaṃ gopālarūpiṇam || 96 || koṭicandraprabhājuṣṭapuṣṭaśrīyuktavigraham || svatejasā parivṛtaṃ susādṛśyaṃ manoharam|| || 97 || koṭikandarpasaundaryyalīlālāvaṇyavigraham || dṛśyamānaṃ ca gopībhiḥ sasmitābhiśca santatam || 98 || bhūṣaṇairbhūṣitābhiśca mahāratnavinirmitaiḥ || pibantībhirlocanābhyāṃ mukhacandraṃ prabhormudā || 99 || prāṇādhikapriyatamārādhāvakṣaḥsthalasthitam || tayā pradattaṃ tāmbūlaṃ bhuktavantaṃ suvāsitam || paripūrṇatamaṃ rāse dadṛśuḥ sarvataḥ surāḥ || 2.11.100 || munayo mānavāḥ siddhāstapasā ca tapasvinaḥ || prahṛṣṭamānasāḥ sarve jagmuḥ paramavismayam || 101 || parasparaṃ samālocya te tamūcuścaturmukham || nivedituṃ jagannāthaṃ svābhiprāyamabhīpsitam || 102 || brahmā tadvacanaṃ śrutvā sthitaṃ viṣṇostu dakṣiṇe || vāmato vāmadevasya cāgamatkṛṣṇamuttamam || 103 || paramānandayuktaṃ ca paramānandarūpakam || sarvaṃ kṛṣṇamayaṃ dhātā cāpaśyadrāsamaṇḍale || 104 || sarvaṃ samānaveṣaṃ ca sabhānāsanasaṃsthitam || 105 || dvibhujaṃ muralīhastaṃ vanamālāvibhūṣitam || mayūrapucchacūḍaṃ ca kaustubhena virājitam || 106 || atīva kamanīyaṃ ca sundaraṃ śāntavigraham || guṇabhūṣaṇarūpeṇa tejasā vayasā tviṣā || 107|| vāsasā yaśasā''kṛtyā mūrtyā sundarayā samam || paripūrṇatamaṃ sarvaṃ sarvaiśvaryyasamanvitam || 108 || kaḥ sevyassevako veti dṛṣṭvā nirvaktumakṣamaḥ || kṣaṇaṃ tejaḥ svarūpaṃ ca rūparāśiyutaṃ kṣaṇam||109|| ekameva kṣaṇaṃ kṛṣṇaṃ rādhayā sahitaṃ param|| pratyekāsanasaṃsthaṃ ca tayā ca sahitaṃ kṣaṇam ||2.11.110|| rādhārūpadharaṃ kṛṣṇaṃ kṛṣṇarūpakalatrakam || kiṃ strīrūpaṃ ca puṃrūpaṃ vidhātā dhyātumakṣamaḥ||111|| hṛtpadmasthaṃ ca śrīkṛṣṇaṃ dhātā dhyānena cetasā || cakāra stavanaṃ bhaktyā praṇamyātha tvanekadhā || 112 || tataḥ sa cakṣurunmīlya punaśca tadanujñayā || apaśyatkṛṣṇamekaṃ ca rādhāvakṣasthalasthitam || 113 || svapārṣadaiḥ parivṛtaṃ gopīmaṇḍalamaṇḍitam || punaḥ praṇemustaṃ dṛṣṭvā tuṣṭuvuśca punaśca te ||114|| vijñāya tadabhiprāyaṃ tānuvāca sureśvaraḥ || sarvātmā sarvayajñeśaḥ sarveśaḥ sarvabhāvanaḥ || 115 || śrībhagavānuvāca || āgaccha kuśalaṃ brahmannāgaccha kamalāpate || ihāgaccha mahādeva śaśvatkuśalamastu vaḥ || 116 || āgatāḥ stha mahābhāgā gaṅgānayanakāraṇāt || gaṃgā maccaraṇatmbhoje bhayena śaraṇaṃ gatā || 117 || rādhemāṃ pātumicchantī dṛṣṭvā matsannidhānataḥ || dāsyāmīmāṃ bahiḥ kṛtvā yūyaṃ kuruta nirbhayām || 118 || śrīkṛṣṇasya vacaḥ śrutvā sasmitaḥ kamalodbhavaḥ || tuṣṭāva sarvārādhyāṃ tāṃ rādhāṃ śrīkṛṣṇapūjitām || 119 ||| vaktraiścaturbhiḥ saṃstūya bhaktinamrātmakandharaḥ || dhātā caturṇāṃ vedānāmuvāca caturānanaḥ || 2.11.120 || gaṅgā tvadaṅgasambhūtā prabhorvai rāsamaṇḍale|| dravarūpā ca sā jātā mugdhayā śaṅkarasvarāt||121|| kṛṣṇāṃśā ca tvadaṃśā ca tvatkanyāsadṛśī priyā|| tanmantragrahaṇaṃ kṛtvā karotu tava pūjanam||122|| bhaviṣyati patistasyā vaikuṇṭhe ca caturbhujaḥ|| bhūgatāyāḥ kalāyāśca lavaṇodaśca vāridhiḥ||123|| golokasthā ca yā rādhā sarvatrasthā tathātmikā || tadātmikā tvaṃ deveśi sarvadā ca tavātmajā || 124 || brahmaṇo vacanaṃ śrutvā svīcakāra ca sasmitā || bahirbabhūva sā kṛṣṇapādāṅguṣṭhanakhāgrataḥ ||125|| tatraiva saṃvṛtā śāntā tasthau teṣāṃ ca madhyataḥ || uvāsa toyādutthāya tadadhiṣṭhātṛdevatā || 126 || tattoyaṃ brahmaṇā kiñcitsthāpitaṃ ca kamaṇḍalau || kiṃciddadhāra śirasi candrārddhe candraśekharaḥ || 127 || gaṅgāyai rādhikāmantraṃ pradadau kamalodbhavaḥ || tatstotraṃ kavacaṃ pūjāvidhānaṃ dhyānameva ca || 128 || sarvaṃ tatsāmavedoktaṃ puraścaryyākramaṃ tathā || gaṅgā tāmeva saṃpūjya vaikuṇṭhaṃ prayayau satī || 129 || lakṣmīḥ sarasvatī gaṃgā tulasī viśvapāvanī || etā nārāyaṇasyaiva catasro yoṣito mune||2.11.130|| atha taṃ sasmitaḥ kṛṣṇo brahmāṇaṃ samuvāca ha|| sarvakālasya vṛttāntaṃ durbodhyamavipaścitām||131|| śrīkṛṣṇa uvāca || gṛhāṇa gaṃgāṃ he brahman he viṣṇo he maheśvara || śṛṇu kālasya vṛttāntaṃ yadatītaṃ niśāmaya || 132 || yūyaṃ ca ye'nyadevāśca munayo manavastathā || siddhāstapasvinaścaiva ye ye'traiva samāgatāḥ ||133|| te te jīvanti goloke kālacakra vivarjite || jalāplutaṃ sarvaviśvamāgataṃ prākṛte laye || 134 || brahmādyā ye'nyaviśvasthāste līnā adhunā mayi || vaikuṇṭhaṃ ca vinā sarvaṃ sajalaṃ paśya padmaja || 135 || gatvā sṛṣṭiṃ kuru punarbrahmalokādikaṃ param || sabrahmāṇḍaṃ viracaya paścādgaṅgā ca yāsyati || 136 || evamanyeṣu viśveṣu sṛṣṭvā brahmādikaṃ punaḥ || karomyahaṃ punaḥ sṛṣṭiṃ gaccha śīghraṃ suraiḥ saha || 137 || maccakṣuṣornimeṣeṇa brahmaṇaḥ patanaṃ bhavet || gatāḥ katividhāste ca bhaviṣyanti ca vedhasaḥ || 138 || ityuktvā rādhikānātho jagāmāntaḥpuraṃ mune || devā gatvā punaḥ sṛṣṭiṃ cakrureva prayatnataḥ ||139|| goloke ca sthitā gaṃgā vaikuṇṭhe śivalokake|| brahmaloke tathā'nyatra yatra tatra purā sthitā || 2.11.140 || tatraiva sā gatā gaṃgā cājñayā paramātmanaḥ || nirgatā viṣṇupādābjāttena viṣṇupadī smṛtā || 141 || ityevaṃ kathitaṃ sarvaṃ gaṃgopākhyānamuttamam || sukhadaṃ mokṣadaṃ sāraṃ kiṃ bhūyaḥ śrotumicchasi || 142 || iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvāde gaṃgopākhyāne ekādaśo'dhyāyaḥ || 11 ||
English translation
The story of Ganga Narada said—Where shall the Gaiiga proceed after the lapse of live thousand years in the age of Kali; you please tell me.
Narayana said—The Gahga descended on earth because of the curse of Sarasvatl and after the completion of her time she would go back again to Vaikuntha. After the end of the curse of Gahga, Sarasvatl, Padmavatl and LaksmI too will disown the earth and revert to the abode of Vis nil. Thus lord Visnu has three spouses named Gahga, Sarasvatl and LaksmI. TulasI happens to be the fourth one.
Narada said—Why did Gahga emerge from the feet of lord Visnu? How did she reach the Kamandalu of Brahma and Siva. O best of the sages you tell me, how did Gahga become the beloved of Visnu.
Narayana said—In the earlier times Gahga was present in Goloka in the form of water, this Gahga had emerged from the bodies of Radha and Krsna.
The Gahga happens to be the goddess of water and she took to different forms on earth and was adorned with different types of gems studded Her face was like the lotus flower of winter season and she was very beautiful. She was youthfiil and adorned with gem-studded ornaments. Her complexion resembled the molten gold and the moon of winter season was of no consequence before her lustre.- She had a thick glow over her body and this was her pure Sdttvika form, his body was fleshy and thick. Both the breasts were quite beautiful to look at the regions were also stiff and round; both the eyes looked charming with curly eye¬ brows. She had the curly locks of hair and wore a garland of jasmine flowers. She had a spot of red vermilion over the forehead surrounded by spots of Sandal-paste. Her cheeks were decorated with paintings with kasturi, the lower lip resembled the beauty of the blossomed flowers of lotus at
the noon. The teeth were quite beautiful and were shinning like the seeds of pomegranate. She was clad in beautiful divine garments.
Thus wearing a feeling of shyness in her mind she went to lord Krsna. Her face was filled with delight and a great desire in mind therefore keeping a piece of clothe over her face, she started staring at the lord without winking for a moment and looked like extracting the nectar of his face delightfully.
She was so much engrossed in enjoying the beauty of the face of the lord that she seemed as having been fainted. Her body was filled with ecstasy. At the same time Radhika also appeared there with thirty crores of cowherdesses and wore the lustre of crores of moons, over her face.
Her face became red in anger and the eyes were turned like the red lotuses.
The complexion of her body resembled that of the jasmine flower and her walking resembled that of the intoxicated elephant, she was adorned with the ornaments studded with gems and invaluable garment studded with jewels. She was clad in two costumes sanctified by Agni together with waist-band.
Her lotus-like feet were quite tender and had the lustre of the blossoming flower. They were painted with red paint over which lord Krsna had offered with arghya. Thus displaying her beautiful feet by walking she was adorned with the best of the gem. Thereafter she got down from the throne. Her friends were moving the Her face was adorned with a red spot surrounded by tilakam of a sandal-paste. She was having the lustre of the burning flames and was having the complexion of vermilion.
The lower half of her body was looking quite beautiful and she was wearing the long garland of lowers surround the neck. Her eyes were wavering and she herself was trembling. Her beautiful lips were fluttering in anger.
She arrived and occupied the seat besides the gems studded lion-throne of lord Krsna. The entire assembly of lord Krsna was filled with the associates of Radha.
Finding her there lord Krsna got up from his seat and welcomed her in Sweet voice and started talking to her.
yulHifd'HxijisrTTiniT dyirMci,si<i:i Thereafter the cowherds getting nervous bowed in reverence to him thereafter they started offering prayer with devotion. They started praising lord Krsna.
Suddenly she got up and adored the lord and feeling panicky, she enquired about his welfare quite humbly.
In panic the throat, the lips and the tongue of Gahga dried up, she stood there meekly and she mentally took refuge under the feet of lord.
Lord Krsna then mentally entered her heart and delighting her protected her. She felt satisfied with the blessing of the lord.
Thereafter the Gahga looked at Radhika who was occupying the throne with glow appearing on her body. She was quite pleasant to look at and was possessing her divine lustre.
She happened to be the mother of innumerable Brahmas, the primeval creator. The eternal Radha appeared quite youthful like a girl of There was no other lady comparable to her in beauty and virtues in the universe. She was quite peaceful, attractive beyond measure, free from beginning or end, chaste, image of welfare, possessing divine beauty, charming, possessing the fortune of having a husband, the queen of beauty and the best of beautifies in the universe.
She was the better-half of lord Krsna and no one could compare with her in lustre age, glory and the one who is adored by the husband of MahalaksmI. Her influence and her beauty were pervading the entire assembly of the lord. She accepting the betel otfered by her friends.
She herself was beyond birth, though she happened to be the mother of all She was the fortunate one, arrogant, proud, the lady of the life of lord Krsna and was the form of his beloved The mind of the Gaiiga never felt satisfied even after looking at Radhika again and again.
She continued to stare at her without winking her O sage, in the meantime the modest and polite Radhika smilingly spoke the sweet words to lord Radhika said—O lord of my life who is this image of welfare seated besides you and looking at me with a smile. Her eyes are getting red having been influenced with passion. She is almost getting fainted, while looking at you. Her body is getting emotional and she is looking at you covering her face with a cloth. You always become passionate while looking at me but when inspite of my presence in the Goloka such an undesirable things are happening, You had been misbehaving with me again and again. 1 had been forgiving you because of my love for you and that the ladies in the universe always have a tender mind. ■ O lord of the gods, if you behave like this, you leave the Goloka with her. Otherwise you will be in trouble.
Because earlier also I had found you in the sandal-wood grove together with Viraja but I forgave you at the instance of my friends.
At the uttering of my words you had discarded her. Thereafter the same Viraja looking at an end of her life was turned into a stream.
That ihe stream is now a crore of yojanas in width and four time more in length and is flowing displaying your glory.
Tj? trftr wrat ^ dc;PichH,i When I left for home, you again went to her abode and started crying in grief reciting her name as Viraja. Thereafter the Yogini reappeared from the yogic waters and adorned with beautiful ornaments she give her adoration.
Thereafter you embraced her tightly and in planted your semen in her. Thereafter the seven oceans emerged out of her. The second time you were caught in compromising pose with a cowherds named Gopl. Here also you left her hearing my voice.
Thereafter Sobha ending her life entered into the lunar region and her body was turned into a great splendour. Thereafter expressing your heart-felt grief, you distributed the lustre of her body to the gems, gold, the wise people, faces of damsels, the kings, best of clothes, silver, sandal milk, the well-cultured royal families and the temples of gods.
Then I found you in the company of a cowherds Prabha in Vrndavana. On hearing my words you concealed her. But Prabha ended her life and entered into the solar region and her body was turned into a terrific lustre.
While crying you distributed licr lustre and with shyness and getting panicky from me, you gave it over the fire, kings, group of people, fortunate ladies and glorious people. Thus distributing the lustre, you again started crying.
Again during performing of Rasamandala at the time of spring season, you fainted your body with the paste and wearing the auspicious garland, you enjoyed the company of the O lord, both of you were lodged in the gem- studded palace which was illuminated with the lamps of gems. You were serving fragrant betel to each other.
O lord, at that point of time, on hearing my words, you concealed her but in panic Santi ended her life and entered into your body.
And her body was converted into the best of virtues. Thereafter crying in pain of separation, you also divided her and dislribiUed her to lord Visnu, Laksmi, your devotees, your Vai^snavas, ascetics besides Dhanna and the people following d/iarma. Thereafter I found you in the company of a cowherdesses named Ksama; at that point of time you were attired in the best of the eostumes and were wearing a long garland of flowers and painted with the fragrant paste of TOT TOnrol TO ^ TOtS TOTOt You were enjoying the company of the damsels on the flower beds which were scented with the sandal-paste and were adorned with all the ornaments studded with gems. Thereafter both of you went to sleep because of the new union. At that point of time 1 myself woke you up. You just remember this, At that time I took away your PTtambara, the charming fluid, long garland of forest flowers, kaiistuhha gems and the most valuable ear-rings.
But at the instance of my friends I returned to you all the things. O lord, because of that shyness you were turned black and you also look the same today.
Ksama felt ashamed and ended her life entering the earth; her body was turned into the best of virtues, Thereafter shedding tears of love, you distributed it among Visnu, Vaisnavas, those devoted to clhanna, the weak people, the ascetics, the gods and the men of letters.
O lord, 1 have narrated all this to you. Now what more do you want listen to from me? 1 am quite well aware of all your virtues.
Thus speaking Radha having the eyes like the red lotus spoke to Gahga, who in shyness was standing there casting her head downwards.
At that point of time Gahga the Siddhayoginl realising the truth of the matter, converted herself into the form of water and entered the river.
Thereafter Radhika the Siddhayogim realised the situation and started sipping the water with folded hands from the river Gahga.
The Siddhayogim Gahga came to know all the secret by her yogic powers and she took refuge under the feet of lord Krsna.
Thereafter Radhika searched for Gahga in the Goloka, Vaikuntha, Brahmaloka and all other continents of the globe but she could not find her Every place was devoid of water and the lotuses of the Goloka were dried up and the aquatic animals met with their death.
Thereafter the necks, lips and the tongues of all the gods like Brahma, Visnii, Siva besides the gods, the siddhas and the sages were dried up. All of them arrived in Goloka to take refuge and bowed in reverence to lord Govinda. He happened to be the best of all, most/adorable, the giver of boons, the greatest of all because of boons, the lord of boons, one who is competent to bestow boons, the lord of all, unattached, formless, having no refuge, invisible, devoid of enthusiasm, having no fear, the one who moves at will, having definite form and the one who appears on earth for the welfare of his devotees, taithful, lord of truth, witness of all, eternal, the best, lord of all the best people and the supreme soul. All of them bowed in reverence to him and started pleasing him; they were bowing down having their hearts filled with devotion. Their voices were choked and tears were flowing from
their eyes. The hair of their bodies were standing on end. All of them offered their prayers to lord At that moment Parabrahman who also appears in the form of a flame and is the cause of nil the causes, was seated on the gem-studded lion throne with his body adorned with ornaments studded with best of gems.
The Gopas were fanning with the lly-whisks of white colour. The lord was busy with wilnessijig the divine dajice and music of the the lady of his life and was resting her head against his chest. He was chewing the betels offered by them. Such type of lord Krsna who happens to be the lord of all the gods, was present in the Rasamandala. All the gods, the sages, the humans, the siddhas, the ascetics arrived there to meet the lord. They were totally Then after making mutual consultation, they requested lord Brahma to place their difficulties before the lord.
Clad in the best of clothes, a hundred crores of cowherds, surrounded the lord from all sides.
The body of lord Krsna was plastered with the paste of sandal-wood and was adorned with the ornaments studded with gems. His complexion resembled the fresh clouds. He appeared of tender age, wearing a yellow lower garment. He appeared in the form of a cowherd of twelve years. The pleasant form of lord Krsna was worth observing. He was having the beauty of crores of gods of love and the cowherdesses were continuously staring at him.
MKMuIdu TRT 'u4d;;I Adorned with the ornaments made of the best of gems, the cowherdessess were looking at the beautiful face of lord Krsna and Radha, who was Brahma on listening to the words of the gods flanked by Visnu on the right side and lord Mahadeva to the left, reached before lord Krsna enjoying the pleasure of the Rasamandala, All of them were clad in similar types of garments, while lord Krsna was seated on the lion-throne holding the flute in his hand while his neck was adorned with a long garland of forest flowers.
HivS crown was decorated with the feathers of the peacock and the kaustubha gem. He looked quite charming and was seated in a peaceful mood. All the Gopas were wearing ornaments of similar nature and had similar lustre, age, glory, clothes, form, figure and beauty. All of them were filled with all riches and were complete in all respects.
It was difficult to judge by looking at them as to who was the lord and who was the servant.
Eveji Brahma felt difficult to Judge them because in a moment everyone had his face filled with glory, while at another moment it disappeared.
Somewhere ICrsna alone could be seen, while sometimes he was seen with Radha and sometimes without her.
Finding Radha in the form of Krsna and Kpsna in the form of Radha, no one could distinguish between the males and females. Even Brahma failed to do so. Thereafter Brahma meditated upon Krsna in his mind with devotion and started olTcring prayers to him. Thereafter at the command of the lord, Brahma opened his eyes.
He could find only lord Krsna resting his head on the breast of Radha.
fie was surrounded by his attendants. The gods looking at him, bowed in reverence again and again, offering their prayers.
Realising his intentions the lord who happens lo be the chief of the souls, the lord of ail llie yajiias said lo Brahma.
The lord said—“0 Brahma the lord of Kamala, come here, O lord Mahadeva, you come; let all of you meet with welfare.
O virtuous one, you have arrived here to take back Gahga with you, but Gahga getting terrified has taken refuge under my feet.
TraRT ^ TTrRftgRrT: I Radhika intends to drink her up coming closer to me therefore I am handing over Gahga to you.
All of you should take Gahga out of this place and be relieved of all the fears.
Hearing the words of Lord Krsna, Brahma started praising Radhika who is adorable by all creatures and the beloved of Sri Krsna.
Brahma, the reciter of ail the four Vedas from his four heads, started praising Radha with devotion from all the four mouths.
Brahma said—O goddess, Gahga was born from the limbs of lord Krsna and also of yours.
Both of you had arrived in the Rasamandala.
With the music of lord Siva you felt impressed and thereafter she appeared as water from both of you. Therefore being the part of your body as well as of lord Krsna she happens to be your daughter. She will receive your mantra and adore you. She will be the spouse of lord Visnu who-is four-armed and shall move on earth only in the form of day. Where the saltish ocean is, there will be her husband.
O goddess, Radha who is in Goloka pervades | everywhere and you happen to be her mother.
This surely is your daughter.
On hearing the words of Brahma, Radha gave ' her consent with a smile. Thereafter Gahga re-!
appeared from the feet of lord Krsna and drawing' a veil over her head, she stood there before the gods in shyness. Thereafter Gaiiga, the goddess j of waters, emerged from the body of the goddess.'
A small pot of that water was stored by Brahma in Kamandalu.
Thereafter Brahma initiated Gahga into the mantra of Radha highlighting the stotra, kavaca, the form of adoration, dhycinam and the rites prescribed in the Samaveda. The chaste Gahga adored Radha by the same method.
O sage thus LaksmI, Sarasvatl, Gahga and TulasI are all the goddesses and they purify the entire universe.
Thereafter lord Krsna narrated to Brahma the entire story of Kala which is difficult of access to the unwise people.
I HFl: I t Lord Krsna said: O Brahma, Visnu and Siva, you accept Gahga and I am going to tell you the ancient story about Kala.
All of you including the gods, the sages, the ascetics, siddhas and mendicants will remain here in the Goloka unattracted by the cycle of birth and death because the entire universe has been plunged into water because of dissolution.
O Brahma, all the chief gods residing in the universe have merged into my body because except the Vaikuntha everything else has been submerged in water.
All of you should go to Brahmbloka and engage yourself in the task of new creation.
Thereafter Gahga will also depart from this place. I am also starting creation in other globes together with Brahma. Therefore, you should all proceed at once in the twinkling of my eye. The age of Brahma has come to an end. Therefore many of the Brahmas have completed their age and their numbers cannot be counted.
Thus speaking Krsna the lord of Radhika, retired to the inner apartments and all the gods left the place and engaged themselves in the work of creation. Thereafter Gaiiga too proceeded on to the globes besides Goloka, Vaikiintha, Sivaloka, Brahmaloka and all other places where lord Krsna had desired her to proceed. Because of the emergence of the Gahga from the feet of the lord Visnu, she was known as VisniipadL Thus, I have narrated the entire story of Gahga which bestows welfare, salvation and is the form of the lord. What else do you want to listen to?
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 117386 (2017-08-04T02:33:19Z); Shanti Lal Nagar English scan pages n237–n248: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n237/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.