Prakṛti-khaṇḍa · Chapter 4
Sourceनारद उवाच ।। श्रुतं सर्वमपूर्वं च त्वत्प्रसादात्सुधोपमम् ।। अधुना प्रकृतीनां च व्यासं वर्णय भो प्रभो ।। १ ।। कस्याः पूजा कृता केन कथं मर्त्ये प्रका शिता ।। केन वा पूजिता का वा केन का वा स्तुता मुने ।।२।। कवचं स्तोत्रकं ध्यानं प्रभावं चरितं शुभम् ।। काभिः काभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ।। ३ ।। नारायण उवाच ।। गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।। सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ।। ४ ।। आसीत्पूज्या प्रसिद्धा च प्रभावः परमाद्भुतः ।। सुधोपमं च चरितं सर्वमङ्गलकारणम् ।। ५ ।। प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् ।। सर्वं वक्ष्यामि ते ब्रह्मन्सावधानं निशामय ।। ६ ।। वाणी वसुन्धरा गङ्गा षष्ठी मङ्गलच ण्डिका ।। तुलसी मानसी निद्रा स्वधा स्वाहा च दक्षिणा ।। ७ ।। तेजसा मत्समास्ताश्च रूपेण च गुणेन च ।। ८ ।। संक्षेपमासां चरितं पुण्यदं अतिसुन्दरम् ।। जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ।। ९ ।। दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् ।। तच्च पश्चात्प्रवक्ष्यामि संक्षेपात्क्रमतः शृणु ।। 2.4.१० ।। आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता ।। यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ।। ११ ।। आविर्भूता यदा देवी वक्त्रतः कृष्णयोषितः ।। इयेष कृष्णं कामेन कामुकी कामरूपिणी ।। १२ ।। स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् ।। तामुवाच हितं सत्यं परिणामसुखावहम् ।। १३ ।। श्रीकृष्ण उवाच ।। भज नारायणं साध्वि मदंशं च चतुर्भुजम् ।। युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ।। १४ ।। कामदं कामिनीनां च तासां तं कामपूरकम् ।। कोटिकन्द र्पलावण्यं लीलान्यक्कृतमन्मथम् ।। १५ ।। कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि ।। त्वत्तो बलवती राधा न ते भद्रं भविष्यति ।। १६ ।। यो यस्माद्बलवान्वाऽपि ततोऽन्यं रक्षितुं क्षमः ।। कथं परान्साधयति यदि स्वयमनीश्वरः ।। १७ ।। सर्वेशस्सर्वशास्ताऽहं राधां राधितुमक्षमः ।। तेजसा मत्समा सा च रूपेण च गुणेन च ।। १८ ।। प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः ।। प्राणतोऽपि प्रियः कुत्र केषां वाऽस्ति च कश्चन ।। १९ ।। त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ।। पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ।। 2.4.२० ।। विवर्जिता लोभमोहकामकोपेन हिंसया ।। तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ।। २१ ।। तया सार्द्धं भव प्रीत्या सुखं कालं प्रयास्यति ।। गौरवं चापि तत्तुल्यं करिष्यति पतिर्द्वयोः ।। २२ ।। प्रतिविश्वेषु ते पूजां महतीं ते मुदाऽन्विताः ।। माघस्य शुक्लपञ्चम्यां विद्यारम्भेषु सुन्दरि ।। २३ ।। मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ।। सन्तश्च योगिनः सिद्धा नागगन्धर्वकिंनराः ।। २४ ।। मद्वरेण करिष्यन्ति कल्पे कल्पे यथाविधि ।। भक्तियुक्ताश्च दत्त्वा वै चोपचारांश्च षोडश ।।२५।। काण्वशाखोक्तविधिना ध्यानेन स्तवनेन च ।। जितेन्द्रियाः संयताश्च पुस्तकेषु घटेऽपि च ।। २६ ।। कृत्वा सुवर्णगुटिकां गन्धचन्दन चर्च्चिताम् ।। कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ।। २७ ।। पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ।। इत्युक्त्वा पूजयामास तां देवीं सर्वपूजितः ।। २८ ।। ततस्तत्पूजनं चक्रुर्ब्रह्मविष्णुमहेश्वराः ।। अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ।।२९।। सर्वे देवाश्च मनवो नृपा वा मानवादयः ।। बभूव पूजिता नित्या सर्वलोकैः सरस्वती ।। 2.4.३० ।। नारद उवाच ।। पूजाविधानं स्तवनं ध्यानं कवचमीप्सितम् ।। पूजोपयुक्तं नैवेद्यं पुष्पं वा चन्दनादिकम् ।। ३१ ।। वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम ।। वर्द्धते साम्प्रतं शश्वत्किमिदं श्रुतिसुन्दरम् ।। ३२ ।। नारायण उवाच ।। शृणु नारद वक्ष्यामि काण्वशाखोक्तपद्धतिम् ।। जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम्।।३३।। माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च।। पूर्वेऽह्नि संयमं कृत्वा तत्र स्यात्संयतः शुचिः ।।३४।। स्नात्वा नित्यक्रियां कृत्वा घटं संस्थाप्य भक्तितः।। संपूज्य देवषट्कं च नैवेद्यादिभिरेव च।।३५।। गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्।। संपूज्य संयतोऽग्रे च ततोऽभीष्टं प्रपूजयेत् ।। ३६ ।। ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे बुधः ।। ध्यात्वा पुनः षोडशोपचारैस्तां पूजयेद्व्रती ।।३७।। पूजोपयुक्तं नैवेद्यं यद्यद्वेदे निरूपितम् ।। वक्ष्यामि साम्प्रतं किञ्चिद्यथाऽधीतं यथाऽऽगमम् ।। ३८ ।। नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकान् ।। इक्षुमिक्षुरसं शुक्लवर्णं पक्वगुडं मधु ।। ३९ ।। स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम्।। अस्विन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् ।। 2.4.४० ।। घृतसैन्धवसंस्कारैर्हविष्यैर्व्यञ्जनैस्तथा ।। यवगोधूमचूर्णानां पिष्टकं घृतसंस्कृ तम् ।। ४१ ।। पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ।। परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् ।। ४२ ।। नारिकेलं तदुदकं केशरं मूलमार्द्रकम् ।। पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् ।। कालदेशोद्भवं पक्वफलं शुक्लं सुसंस्कृतम् ।। ४३ ।। सुगन्धि शुक्लपुष्पं च गन्धाढ्यं शुक्लचन्दनम् ।। नवीनं शुक्लवस्त्रं च शङ्खं च सुमनोहरम् ।। माल्यं च शुक्लपुष्पाणां मुक्ताहीरादिभूषणम् ।।। ।। ४४ ।। यद्दृष्टं च श्रुतौ ध्यानं प्रशस्तं श्रुतिसुन्दरम् ।। तन्निबोध महाभाग भ्रमभञ्जनकारणम् ।। ४५ ।। सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ।। कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहाम् ।। ४६ ।। वह्निशुद्धांशुकाधानां सस्मितां सुमनोहराम् ।। रत्नसारेन्द्र खचितवरभूषणभूषिताम् ।। ४७ ।। सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ।। वन्दे भक्त्या वन्दिता तां मुनीन्द्रमनुमानवैः ।। ४८।। एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ।। संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि ।। ४९ ।। येषां स्यादिष्टदेवीयं तेषां नित्यं शुभं मुने ।। विद्यारम्भे च सर्वेषां वर्षान्ते पञ्चमीदिने ।। 2.4.५० ।। सर्वोपयुक्तमूलं च वैदिकाष्टाक्षरः परः ।। येषां यदुपदेशो वा तेषां तन्मूलमेव च ।। सरस्वती चतुर्थ्यन्तो वह्निजायान्त एव च ।। ५१ ।। श्रीं ह्रीं सरस्वत्यै स्वाहा ।। लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः ।। ५२ ।। पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ।। प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते ।। ५३ ।। भृगुर्ददौ च शुक्राय पुष्करे सूर्य्यपर्वणि ।। चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा ।। ५४ ।। भृगवे च ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ।। आस्तीकाय जरत्कारुर्ददौ क्षीरोदसन्निधौ ।। विभाण्डको ददौ मेरावृष्यशृङ्गाय धीमते ।। ५५ ।। शिवः कणादमुनये गौतमाय ददौ मुने ।। सूर्य्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ।। ५६ ।। शेषः पाणिनये चैव भरद्वाजाय धीमते ।। ददौ शाकटायनाय सुतले बलिसंसदि ।। ५७ ।। चतुर्लक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।। यदि स्यात्सिद्धमन्त्रो हि बृहस्पतिसमो भवेत् ।। ५८ ।। कवचं शृणु विप्रेन्द्र यद्दत्तं विधिना पुरा ।। विश्वश्रेष्ठं विश्वजयं भृगवे गन्धमादने ।। ५९ ।। भृगुरुवाच ।। ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्म ज्ञानविशारद ।। सर्वज्ञ सर्वजनक सर्वपूजकपूजित ।। 2.4.६० ।। सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।। अयातयाममन्त्राणां समूहो यत्र संयुतः ।। ६१ ।। ब्रह्मोवाच ।। शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।। श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ।। ६२ ।। उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।। रासेश्वरेण विभुना रासे वै रासमण्डले ।। ६३ ।। अतीव गोपनीयं च कल्पवृक्षसमं परम् ।। अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ।। ६४ ।। यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः ।। यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ।। ६५ ।। पठनाद्धारणाद्वाग्ग्मी कवीन्द्रो वाल्मिकी मुनिः ।। स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ।। ६६ ।। कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।। ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ।। ६७ ।। धृत्वा वेदविभागं च पुराणान्यखिलानि च ।। चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ।। ६८ ।। शातातपश्च संवर्त्तो वसिष्ठश्च पराशरः ।। यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ।। ६९ ।। ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा ।। जैगीषव्योऽथ जाबालि यद्धृत्वा सर्व पूजितः ।। 2.4.७० ।। कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः ।। स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः ।।७१।। सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने ।। कवितासु च सर्वासु विनियोगः प्रकीर्त्तितः ।। ७२ ।। ॐ ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।। श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु ।। ७३ ।। ॐ सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् ।। ॐ श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ।। ७४ ।। ॐ ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु ।। ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा श्रोत्रं सदाऽवतु ।। ।। ७५ ।। ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपंक्तीः सदाऽवतु ।। ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ।। ७६ ।। ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु ।। श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ।। ७७ ।। ॐ ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् ।। ॐ ह्रीं ह्रीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु ।। ७८ ।। ॐ सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु ।। ॐ रागाधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु।।७९।। ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदाऽवतु ।। ॐ ह्रीं जिह्वाप्रवासिन्यै स्वाहाऽग्नि दिशि रक्षतु ।। 2.4.८० ।। ॐ ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा ।। सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ।। ८१ ।। ॐ ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां मे सदाऽवतु ।। कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ।। ८२ ।। ॐ सदम्बिकायै स्वाहा वायव्ये मां सदाऽवतु ।। ॐ गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ।। ८३ ।। ॐ सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।। ॐ सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ।। ८४ ।। ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु ।। ॐ ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ।। ८५ ।। इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् ।। इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ।। ८६ ।। पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।। तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ।। ८७ ।। गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कार चन्दनैः ।। प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ।। ८८ ।। पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।। यदि स्यात्सिद्धकवचो बृह स्पतिसमो भवेत ।। ८९ ।। महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।। शक्नोति सर्वं जेतुं स कवचस्य प्रभावतः ।।2.4.९०।। इदं ते काण्वशाखोक्तं कथितं कवचं मुने।। स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा।।९१।। इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः ।। ४ ।।
nārada uvāca || śrutaṃ sarvamapūrvaṃ ca tvatprasādātsudhopamam || adhunā prakṛtīnāṃ ca vyāsaṃ varṇaya bho prabho || 1 || kasyāḥ pūjā kṛtā kena kathaṃ martye prakā śitā || kena vā pūjitā kā vā kena kā vā stutā mune ||2|| kavacaṃ stotrakaṃ dhyānaṃ prabhāvaṃ caritaṃ śubham || kābhiḥ kābhyo varo dattastanme vyākhyātumarhasi || 3 || nārāyaṇa uvāca || gaṇeśajananī durgā rādhā lakṣmīḥ sarasvatī || sāvitrī vai sṛṣṭividhau prakṛtiḥ pañcadhā smṛtā || 4 || āsītpūjyā prasiddhā ca prabhāvaḥ paramādbhutaḥ || sudhopamaṃ ca caritaṃ sarvamaṅgalakāraṇam || 5 || prakṛtyaṃśāḥ kalā yāśca tāsāṃ ca caritaṃ śubham || sarvaṃ vakṣyāmi te brahmansāvadhānaṃ niśāmaya || 6 || vāṇī vasundharā gaṅgā ṣaṣṭhī maṅgalaca ṇḍikā || tulasī mānasī nidrā svadhā svāhā ca dakṣiṇā || 7 || tejasā matsamāstāśca rūpeṇa ca guṇena ca || 8 || saṃkṣepamāsāṃ caritaṃ puṇyadaṃ atisundaram || jīvakarmavipākaṃ ca tacca vakṣyāmi sundaram || 9 || durgāyāścaiva rādhāyā vistīrṇaṃ caritaṃ mahat || tacca paścātpravakṣyāmi saṃkṣepātkramataḥ śṛṇu || 2.4.10 || ādau sarasvatīpūjā śrīkṛṣṇena vinirmitā || yatprasādānmuniśreṣṭha mūrkho bhavati paṇḍitaḥ || 11 || āvirbhūtā yadā devī vaktrataḥ kṛṣṇayoṣitaḥ || iyeṣa kṛṣṇaṃ kāmena kāmukī kāmarūpiṇī || 12 || sa ca vijñāya tadbhāvaṃ sarvajñaḥ sarvamātaram || tāmuvāca hitaṃ satyaṃ pariṇāmasukhāvaham || 13 || śrīkṛṣṇa uvāca || bhaja nārāyaṇaṃ sādhvi madaṃśaṃ ca caturbhujam || yuvānaṃ sundaraṃ sarvaguṇayuktaṃ ca matsamam || 14 || kāmadaṃ kāminīnāṃ ca tāsāṃ taṃ kāmapūrakam || koṭikanda rpalāvaṇyaṃ līlānyakkṛtamanmatham || 15 || kānte kāntaṃ ca māṃ kṛtvā yadi sthātumihecchasi || tvatto balavatī rādhā na te bhadraṃ bhaviṣyati || 16 || yo yasmādbalavānvā'pi tato'nyaṃ rakṣituṃ kṣamaḥ || kathaṃ parānsādhayati yadi svayamanīśvaraḥ || 17 || sarveśassarvaśāstā'haṃ rādhāṃ rādhitumakṣamaḥ || tejasā matsamā sā ca rūpeṇa ca guṇena ca || 18 || prāṇādhiṣṭhātṛdevī sā prāṇāṃstyaktuṃ ca kaḥ kṣamaḥ || prāṇato'pi priyaḥ kutra keṣāṃ vā'sti ca kaścana || 19 || tvaṃ bhadre gaccha vaikuṇṭhaṃ tava bhadraṃ bhaviṣyati || patiṃ tamīśvaraṃ kṛtvā modasva suciraṃ sukham || 2.4.20 || vivarjitā lobhamohakāmakopena hiṃsayā || tejasā tvatsamā lakṣmī rūpeṇa ca guṇena ca || 21 || tayā sārddhaṃ bhava prītyā sukhaṃ kālaṃ prayāsyati || gauravaṃ cāpi tattulyaṃ kariṣyati patirdvayoḥ || 22 || prativiśveṣu te pūjāṃ mahatīṃ te mudā'nvitāḥ || māghasya śuklapañcamyāṃ vidyārambheṣu sundari || 23 || mānavā manavo devā munīndrāśca mumukṣavaḥ || santaśca yoginaḥ siddhā nāgagandharvakiṃnarāḥ || 24 || madvareṇa kariṣyanti kalpe kalpe yathāvidhi || bhaktiyuktāśca dattvā vai copacārāṃśca ṣoḍaśa ||25|| kāṇvaśākhoktavidhinā dhyānena stavanena ca || jitendriyāḥ saṃyatāśca pustakeṣu ghaṭe'pi ca || 26 || kṛtvā suvarṇaguṭikāṃ gandhacandana carccitām || kavacaṃ te grahīṣyanti kaṇṭhe vā dakṣiṇe bhuje || 27 || paṭhiṣyanti ca vidvāṃsaḥ pūjākāle ca pūjite || ityuktvā pūjayāmāsa tāṃ devīṃ sarvapūjitaḥ || 28 || tatastatpūjanaṃ cakrurbrahmaviṣṇumaheśvarāḥ || anantaścāpi dharmaśca munīndrāḥ sanakādayaḥ ||29|| sarve devāśca manavo nṛpā vā mānavādayaḥ || babhūva pūjitā nityā sarvalokaiḥ sarasvatī || 2.4.30 || nārada uvāca || pūjāvidhānaṃ stavanaṃ dhyānaṃ kavacamīpsitam || pūjopayuktaṃ naivedyaṃ puṣpaṃ vā candanādikam || 31 || vada vedavidāṃ śreṣṭha śrotuṃ kautūhalaṃ mama || varddhate sāmprataṃ śaśvatkimidaṃ śrutisundaram || 32 || nārāyaṇa uvāca || śṛṇu nārada vakṣyāmi kāṇvaśākhoktapaddhatim || jaganmātuḥ sarasvatyāḥ pūjāvidhisamanvitām||33|| māghasya śuklapañcamyāṃ vidyārambhadine'pi ca|| pūrve'hni saṃyamaṃ kṛtvā tatra syātsaṃyataḥ śuciḥ ||34|| snātvā nityakriyāṃ kṛtvā ghaṭaṃ saṃsthāpya bhaktitaḥ|| saṃpūjya devaṣaṭkaṃ ca naivedyādibhireva ca||35|| gaṇeśaṃ ca dineśaṃ ca vahniṃ viṣṇuṃ śivaṃ śivām|| saṃpūjya saṃyato'gre ca tato'bhīṣṭaṃ prapūjayet || 36 || dhyānena vakṣyamāṇena dhyātvā bāhyaghaṭe budhaḥ || dhyātvā punaḥ ṣoḍaśopacāraistāṃ pūjayedvratī ||37|| pūjopayuktaṃ naivedyaṃ yadyadvede nirūpitam || vakṣyāmi sāmprataṃ kiñcidyathā'dhītaṃ yathā''gamam || 38 || navanītaṃ dadhi kṣīraṃ lājāṃśca tilalaḍḍukān || ikṣumikṣurasaṃ śuklavarṇaṃ pakvaguḍaṃ madhu || 39 || svastikaṃ śarkarāṃ śukladhānyasyākṣatamakṣatam|| asvinnaśukladhānyasya pṛthukaṃ śuklamodakam || 2.4.40 || ghṛtasaindhavasaṃskārairhaviṣyairvyañjanaistathā || yavagodhūmacūrṇānāṃ piṣṭakaṃ ghṛtasaṃskṛ tam || 41 || piṣṭakaṃ svastikasyāpi pakvarambhāphalasya ca || paramānnaṃ ca saghṛtaṃ miṣṭānnaṃ ca sudhopamam || 42 || nārikelaṃ tadudakaṃ keśaraṃ mūlamārdrakam || pakvarambhāphalaṃ cāru śrīphalaṃ badarīphalam || kāladeśodbhavaṃ pakvaphalaṃ śuklaṃ susaṃskṛtam || 43 || sugandhi śuklapuṣpaṃ ca gandhāḍhyaṃ śuklacandanam || navīnaṃ śuklavastraṃ ca śaṅkhaṃ ca sumanoharam || mālyaṃ ca śuklapuṣpāṇāṃ muktāhīrādibhūṣaṇam ||| || 44 || yaddṛṣṭaṃ ca śrutau dhyānaṃ praśastaṃ śrutisundaram || tannibodha mahābhāga bhramabhañjanakāraṇam || 45 || sarasvatīṃ śuklavarṇāṃ sasmitāṃ sumanoharām || koṭicandraprabhājuṣṭapuṣṭaśrīyuktavigrahām || 46 || vahniśuddhāṃśukādhānāṃ sasmitāṃ sumanoharām || ratnasārendra khacitavarabhūṣaṇabhūṣitām || 47 || supūjitāṃ suragaṇairbrahmaviṣṇuśivādibhiḥ || vande bhaktyā vanditā tāṃ munīndramanumānavaiḥ || 48|| evaṃ dhyātvā ca mūlena sarvaṃ dattvā vicakṣaṇaḥ || saṃstūya kavacaṃ dhṛtvā praṇameddaṇḍavadbhuvi || 49 || yeṣāṃ syādiṣṭadevīyaṃ teṣāṃ nityaṃ śubhaṃ mune || vidyārambhe ca sarveṣāṃ varṣānte pañcamīdine || 2.4.50 || sarvopayuktamūlaṃ ca vaidikāṣṭākṣaraḥ paraḥ || yeṣāṃ yadupadeśo vā teṣāṃ tanmūlameva ca || sarasvatī caturthyanto vahnijāyānta eva ca || 51 || śrīṃ hrīṃ sarasvatyai svāhā || lakṣmīmāyādikaṃ caiva mantro'yaṃ kalpapādapaḥ || 52 || purā nārāyaṇaścemaṃ vālmīkāya kṛpānidhiḥ || pradadau jāhnavītīre puṇyakṣetre ca bhārate || 53 || bhṛgurdadau ca śukrāya puṣkare sūryyaparvaṇi || candraparvaṇi mārīco dadau vākpataye mudā || 54 || bhṛgave ca dadau tuṣṭo brahmā badarikāśrame || āstīkāya jaratkārurdadau kṣīrodasannidhau || vibhāṇḍako dadau merāvṛṣyaśṛṅgāya dhīmate || 55 || śivaḥ kaṇādamunaye gautamāya dadau mune || sūryyaśca yājñavalkyāya tathā kātyāyanāya ca || 56 || śeṣaḥ pāṇinaye caiva bharadvājāya dhīmate || dadau śākaṭāyanāya sutale balisaṃsadi || 57 || caturlakṣajapenaiva mantrasiddhirbhavennṛṇām || yadi syātsiddhamantro hi bṛhaspatisamo bhavet || 58 || kavacaṃ śṛṇu viprendra yaddattaṃ vidhinā purā || viśvaśreṣṭhaṃ viśvajayaṃ bhṛgave gandhamādane || 59 || bhṛguruvāca || brahmanbrahmavidāṃ śreṣṭha brahma jñānaviśārada || sarvajña sarvajanaka sarvapūjakapūjita || 2.4.60 || sarasvatyāśca kavacaṃ brūhi viśvajayaṃ prabho || ayātayāmamantrāṇāṃ samūho yatra saṃyutaḥ || 61 || brahmovāca || śṛṇu vatsa pravakṣyāmi kavacaṃ sarvakāmadam || śrutisāraṃ śrutisukhaṃ śrutyuktaṃ śrutipūjitam || 62 || uktaṃ kṛṣṇena goloke mahyaṃ vṛndāvane vane || rāseśvareṇa vibhunā rāse vai rāsamaṇḍale || 63 || atīva gopanīyaṃ ca kalpavṛkṣasamaṃ param || aśrutādbhutamantrāṇāṃ samūhaiśca samanvitam || 64 || yaddhṛtvā paṭhanādbrahmanbuddhimāṃśca bṛhaspatiḥ || yaddhṛtvā bhagavāñchukraḥ sarvadaityeṣu pūjitaḥ || 65 || paṭhanāddhāraṇādvāggmī kavīndro vālmikī muniḥ || svāyambhuvo manuścaiva yaddhṛtvā sarvapūjitaḥ || 66 || kaṇādo gautamaḥ kaṇvaḥ pāṇiniḥ śākaṭāyanaḥ || granthaṃ cakāra yaddhṛtvā dakṣaḥ kātyāyanaḥ svayam || 67 || dhṛtvā vedavibhāgaṃ ca purāṇānyakhilāni ca || cakāra līlāmātreṇa kṛṣṇadvaipāyanaḥ svayam || 68 || śātātapaśca saṃvartto vasiṣṭhaśca parāśaraḥ || yaddhṛtvā paṭhanādgranthaṃ yājñavalkyaścakāra saḥ || 69 || ṛṣyaśṛṅgo bharadvājaścāstīko devalastathā || jaigīṣavyo'tha jābāli yaddhṛtvā sarva pūjitaḥ || 2.4.70 || kavacasyāsya viprendra ṛṣireṣa prajāpatiḥ || svayaṃ bṛhaspatiśchando devo rāseśvaraḥ prabhuḥ ||71|| sarvatattvaparijñāne sarvārthe'pi ca sādhane || kavitāsu ca sarvāsu viniyogaḥ prakīrttitaḥ || 72 || oṃ hrīṃ sarasvatyai svāhā śiro me pātu sarvataḥ || śrīṃ vāgdevatāyai svāhā bhālaṃ me sarvadā'vatu || 73 || oṃ sarasvatyai svāheti śrotraṃ pātu nirantaram || oṃ śrīṃ hrīṃ bhāratyai svāhā netrayugmaṃ sadā'vatu || 74 || oṃ hrīṃ vāgvādinyai svāhā nāsāṃ me sarvato'vatu || hrīṃ vidyādhiṣṭhātṛdevyai svāhā śrotraṃ sadā'vatu || || 75 || oṃ śrīṃ hrīṃ brāhmyai svāheti dantapaṃktīḥ sadā'vatu || aimityekākṣaro mantro mama kaṇṭhaṃ sadā'vatu || 76 || oṃ śrīṃ hrīṃ pātu me grīvāṃ skandhaṃ me śrīṃ sadā'vatu || śrīṃ vidyādhiṣṭhātṛdevyai svāhā vakṣaḥ sadā'vatu || 77 || oṃ hrīṃ vidyāsvarūpāyai svāhā me pātu nābhikām || oṃ hrīṃ hrīṃ vāṇyai svāheti mama pṛṣṭhaṃ sadā'vatu || 78 || oṃ sarvavarṇātmikāyai pādayugmaṃ sadā'vatu || oṃ rāgādhiṣṭhātṛdevyai sarvāṅgaṃ me sadā'vatu||79|| oṃ sarvakaṇṭhavāsinyai svāhā prācyāṃ sadā'vatu || oṃ hrīṃ jihvāpravāsinyai svāhā'gni diśi rakṣatu || 2.4.80 || oṃ aiṃ hrīṃ śrīṃ sarasvatyai budhajananyai svāhā || satataṃ mantrarājo'yaṃ dakṣiṇe māṃ sadā'vatu || 81 || oṃ hrīṃ śrīṃ tryakṣaro mantro nairṛtyāṃ me sadā'vatu || kavijihvāgravāsinyai svāhā māṃ vāruṇe'vatu || 82 || oṃ sadambikāyai svāhā vāyavye māṃ sadā'vatu || oṃ gadyapadyavāsinyai svāhā māmuttare'vatu || 83 || oṃ sarvaśāstravāsinyai svāhaiśānyāṃ sadā'vatu || oṃ sarvapūjitāyai svāhā cordhvaṃ sadā'vatu || 84 || aiṃ hrīṃ pustakavāsinyai svāhā'dho māṃ sadā'vatu || oṃ granthabījarūpāyai svāhā māṃ sarvato'vatu || 85 || iti te kathitaṃ vipra sarvamantraughavigraham || idaṃ viśvajayaṃ nāma kavacaṃ brahmarūpakam || 86 || purā śrutaṃ dharmavaktrātparvate gandhamādane || tava snehānmayā''khyātaṃ pravaktavyaṃ na kasyacit || 87 || gurumabhyarcya vidhivadvastrālaṅkāra candanaiḥ || praṇamya daṇḍavadbhūmau kavacaṃ dhārayetsudhīḥ || 88 || pañcalakṣajapenaiva siddhaṃ tu kavacaṃ bhavet || yadi syātsiddhakavaco bṛha spatisamo bhaveta || 89 || mahāvāgmī kavīndraśca trailokyavijayī bhavet || śaknoti sarvaṃ jetuṃ sa kavacasya prabhāvataḥ ||2.4.90|| idaṃ te kāṇvaśākhoktaṃ kathitaṃ kavacaṃ mune|| stotraṃ pūjāvidhānaṃ ca dhyānaṃ vai vandanaṃ tathā||91|| iti śrībrahmavaivartte mahāpurāṇe dvitīye prakṛtikhaṇḍe nāradanārāyaṇasaṃvāde sarasvatīkavacaṃ nāma caturtho'dhyāyaḥ || 4 ||
English translation
Adoration of Sarasvatl and her kavaca Narada said—O lord, by your grace I have been able to listen to the nectar-like story of the lord; now you enlighten me about the Prakrtis.
sage, which one of the gods has adored which one of the goddess first of all and how was it made known on earth. Who adored whom earlier offering the prayers.
You enlighten me about the kavacas, Stotras, dhydna, their influence and the story of each one of them including the boons granted by each one of them.
Narayana said—Durga is the mother of Ganes'a, besides Radha, LaksmI, Sarasvatl and Savitri are the five goddesses who emerged at the time of the creation of the universe.
fiTT wiw srftrts: wn^:i The influence of their adoration is astonishing and quite will known. Their life stories are like nectar and bestow all the welfare.
O Brahman, such of the goddesses who form part of Prakfti and those who have the form of Kali, I shall tell you all the stories about them you listen to me attentively.
The goddesses like Van! (Sarasvati), Vasundhara (earth), Gahga, SasthI, Svaha and dalisina are the goddesses who are like in lustre, qualities and merits. I shall narrated to you the stories about them which will relieve the people of all the sins.
The great stories about Durga and Radhika will be narrated by me subsequently. You please listen to me.
O best of the sages, lord Krsna first of all started by the grace of whom even the foolish Goddess Sarasvati was born out of the tongue of lord Krsna and when becoming passionate intentions and he then spoke of Sarasvati the mother of all the beneficial words which were truthful and bestowed welfare at the end.
Lord Krsna said O chaste lady, lord Narayana emerged out of my body and is youthful like me, he is beautiful and possesses all the qualities.
You should, therefore, serve him as a wife. He is the one who fulfils the desires of all the ladies and is beautiful like the crores of gods of love. In the divine play, he excels even the god of love.
O lady, if you want to remain here as my wife, it would not be beneficial for you since Radha happens to be more powerful than you. O Sarasvati, one who is quite powerful can protect others but the one who himself his weak cannot protect himself. I am the lord of everyone and the ruler but I am unable to rule over the Radha because she possesses the same type of splendour, beauty and qualities as I do.
She is the presiding deity of my life and who is so competent as to abandon his life. Only a life is the dearest a men then all other objects.
Therefore, O lady, you go to Vaikiintha and you will meet with your welfare there. You accept lord Visnu as your husband and enjoy all the pleasures with him.
Laksml is of course free from grief, attachment, lust, agony, violence and she is as equal as you in beauty, virtues and splendours.
If you remain lovingly with her, your life will meet all the pleasures. And your husband will also love both of you equally.
O beautiful one, with the influence of my boon all the people of the universe get pleased besides the Manus, the gods, the truth seekers, the ascetics, yoglsj, siddhas, ndgas and Kinnaras will adore you ev(iry year on the bright fifth day in the month of Magha or at the time of sharing of learnings and celebrating great festivity at that time, they will perfonn sixteen type of puja for you. You will be adored appropriately according to the rites prescribed in the kavaca branch by the self disciplined people. They will invoke you in a kalas'a or a book. Your flowers will be decorated by them with the flowers and kept gracefully in gold amulet and shall adore it with offering the sandal-wood paste and tie it around the right arm as armlets.
During the time of pujd as well as after that, the wise people will recite your stotras. Thus speaking, lord Krsna adored the goddess.
Thereafter the gods like Brahma, Visnu, Siva, Ananla, Dharma and sages like Sanaka and others also adored her.
Thus all the gods, the Manus, the kings and the humans adored the goddess since then.
Narada said—O best of the gods, you tell us the method of adoration of goddess Sarasvatl, her stotra, dhydnam and the kavaca besides Naivedya, flowers and the application of sandal¬ wood paste. I am feeling quite anxious to listen to the same which will be quite pleasant to hear.
ggRif: ^ttgcg i: 3yTTfarfinTOf^gni;ii??ii Narayana said—O Narada, I will now spell out the method prescribed in the Kdnva-s'dkhd for the adoration of goddess of Sarasvatl has been detailed.
The bright fifth day of month of Magha is the date for initiating a child. Observing self- discipline and getting purified after bath, one should perform the daily routine besides consecrating the pitcher filled with water. Then presenting Naivedya and other offering to Ganesa, Surya, Agni, Visnu, Siva and Parvatl, the family god should be adore.
The wise Vratl should recite the dhyana- mantra and should adore the sacred pitcher observing the sixteen types of formalities.
Whatever Naivedyas are prescribed in the Vedas and in the sclstra are now being spelt out They include butter, curd, milk, paddy, sea- same balls, white sugar cane and its juice, sugar balls (guda), honey, sweet dish, sugar, white paddy, unbroken rice, unboiled rice, white sweet balls, ghee, saltish preparation, the cereals required for performing homa, the stuffs made of barley and wheat and fried m ghee, ripe banana fruit, the sweet prepared ripe banana, beautiful fruit, fragrant white flowers, fragrant sandal¬ wood, new white clothes, beautiful conch, the garland of white flowers and pearls, gems and other ornaments should be offered to goddess The dhydnam which has been prescribed in the Vedas for the goddess is pleasant to here and remove the illusion. I am going to tell you the The body of SarasvatT has fair complexion, she wears a serene smile over her face and his full of the lustre of crores of moon rays and quite
She is clad in the costumes purified by Agni, has a smiling face and is adorned with all the beautiful ornaments studded with gems. The gods like Brahma, Visnu, Siva and others besides the best of the sages, the Manus and the humans adores her with great devotion.
Thus meditating upon the goddess she should be adored reciting the basic mantra with suitable offerings. Thereafter the kavaca should be recited and the wise devotee should prostrate before her.
O sage, such of the people who are devoted to her and recite her name regularly she bestows all her grace on them. On the day of the starting of the education, at the end of the year, of should adore Sarasvati, on the bright fifth day of the month of Magha ff is the basic mantra of the goddess prescribed in the Vedas and is beneficial to all. Those who recite other mantras of Sarasvati, the said mantras are the basic mantras for them. The word Sarasvati should be added to the fourth division adding the word Svdhd to the same, before that the seed of LaksmI (#) and illusory seed should be added. Thus the formation ^ 'ft would be made which.would be like the wish fulfilling tree for the devotee. This mantra was first of all given by Narayana to Valmiki at the bank of the Gahga in the country of Bharata at the lime of solar eclipse. Thereafter the same mantra was repeated by Bhrgu to Sukra at Pus
kara ksetra. thereafter the same was given by Kasyapa the son of Marici to Brhaspati at the time of the lunar eclipse.
Thereafter Brahma gave it to Bhrgu quite delightfully in Badrikasrama. Then Jaratkaru gave it to Astika at the shore of the ocean of milk and Vibhandaka gave it to Rsyasniga at Meru O sage Siva gave it to sage Gautama besides Kanada. Siirya gave it to Yajnavalkya and Katyayana, to tlVe serpent Ananta. Sesa gave it in the nether world to the king Bali and also to Panini, the intelligent Bharadvaja and Sakat One meets with success by reciting it four lakhs of times. After achieving success in the mantra one becomes as intelligent as Brhaspati.
O best of the Brahmanas, now I am going to speak to you about the kavaca which was given over by Brahma to Bhrgu in the earlier times for being victorious in the universe.
Bhrgu said—O Brahman, you are the best of those who have the knowledge of Brahman and well-versed in the divine knowledge, you are all knowledgeable, the creator of all and are adorable by all.
O lord, you kindly enlighten me about the kavaca which provides victory to the devotee in the universe besides the mantra by which one achieves great success.
Brahma said: “O son, I shall now speak to you about the kavaca which fulfils all the desires.
This kavaca is the tattva of the Vedas, pleasant to listen, established in the Vedas and is supported by them.
Lord Krsna, who is the lord of rasa and eternal Jord, had revealed this kavaca to one at the time of the performing of the divine dance in the Goloka. It is extremely, secret and is like the kalpavrksa. It comprises of unheard and astonishing combination of mantras.
O' Brahmana! by reciting it or holding it, Bdiaspati acquired intelligence and Sukra was announced as the a preceptor of the demons.
By virtue of reciting and holding this kavacQy the sage ValmTki became a poet laurate and the wraw ^rfwsr TOW: I Sakatayana, Daksa and Katyayana composed and various texts, by reciting it. Svayambhuva Manu was adored by all by bearing it. Krsna- Dvaipayana Vyasa, easily distributed the Vedas created all the Puranas. By bearing it, Satatapa, Samvartta, Vasistha, Parasara and Yajhavalkya created many scriptures. The sages like Rs and.Tabali, were adored by all.
O best of the Brahmanas, Prajapati is the Rsl for this kavaca, Brhat! is the meter and Rasesvara is the god. It enshrines knowledge of all the tattvas, gives success for all, is involved at the time of the creation of the poetry as one takes the resolve for all this.
For Sarasvati of the form of ^ the offering of faith or belief is made. She should the offering of Sraddha is made. She should protect my forehead.
For 3Tf ^ the offering of Sraddha is made. She should always protect my ears. For srf the offering of Sraddha is given. She should always protect my both the eyes. For ^ I the offering of Sraddha is made, she should protect my nose from all the sides. For ^rf the goddess of knowledge, we offering of Sraddha is made; She should always protect my For the offering of Sraddha is made, She should protect the lines of teeth. ^ is single letter mantra which should always protect my Om Srim Hrim should protect my neck and Sri should protect the shoulders. She goddess Srividyd is made the offering of Sraddha, She should protect my chart.
Offering is made to the goddess ^ who should protect my naval. For 3if goddess of speech offering of Sraddha is made. She should protect my back.
For jlT goddess, the offering of Sradclhct is made. She should protect both the feet. For the supreme goddess of learning the offering of Sraddha is made. Let her protect all my limbs.
to RcS'chuacfiRt'^ 'snw I make the offering to the goddess residing over the tip of the tongues. Let her protect the should protect the southern direction.
She three letter mantra 3Tf ff should protect the south-western direction. She goddess who resides over the tip of the tongue of the poets is given the offering of Sraddheh let her protect the to WIT m Offering of Sraddha is made to the goddess residing in prose and poetry. Let her protect the For the goddess of all the scriptures offering of Sraddha is made; let her always protect the nortli-eastem direction. Offering is made to the goddess who is adored by all. Let her always protect the upper regions.
to the goddess bearing the form of the seed of all.
Let her protect me from all the sides.
O' Brahmana, this is the kavaca which overpower the universe. It happens to be the true form of all the mantras and represents the Brahmana, which has been revealed by me to you. Initially this was revealed to me by Dharma, at the Gandhamadana mountain. I have revealed the same to you because of my attachment for you. Therefore, you don't disclose it to any me.
One should adore his teacher prostrating before him, offering clothes, ornaments and the sandal-paste and this kavaca should be borne She kavaca meets with success after reciting it for five lakhs of times. She are who does so shines bleu Brhaspati on earth.
He becomes a great orator and becomes violations in the three worlds. With the influence of this kavaca he gets Victorians everywhere.
O sage, I have thus revealed to you the kavaca as prescribed in the Kanva-s'akha, including stotra, method of adoration and dhydnam etc.
For goddess dwelling in the scriptures, offering of Sraddha is made. Let her protect the lower regions. She offering of Sraddha is made
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 117136 (2017-07-31T02:43:57Z); Shanti Lal Nagar English scan pages n185–n192: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n185/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.