Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 129
Sourceअथैकोनत्रिंशदधिकशततमोऽध्यायः नारायण उवाच श्रीकृष्णो भगवांस्तत्र परिपूर्णतमः प्रभुः । दृष्ट्वा सारोक्यमोक्षं च सद्यो गोकुलवासिनाम् ।। १ ।। उवास पञ्चभिर्गोपैर्भाण्डीरे वटमूलके । ददर्श गोकुलं सर्व गोकुलं व्याकुलं तथा ।। २ ।। अरक्षकं च व्यस्तं च शून्यं वृन्दावनं वनम् । योगेनामृतवृष्ट्या च कृपया च कृपानिधिः ।। ३ ।। गोपीभिश्च तथा गोपैः परिपूर्णं चकार सः । तथा वृन्दावनं चैव सुरम्यं च मनोहरम् ।। ४ ।। गोकुलस्थाश्च गोपाश्च समाश्वासं चकार सः । उवाच मधुरं वाक्यं हितं नीतं च दुर्लभम् ।। ५ ।। श्री भगवानुवाच हे गोपगण हे बन्धो सुखं तिष्ठ स्थिरो भव । रमणं प्रियया सार्धं सुरम्यं रासमण्डलम् ।। ६ ।। तावत्प्रभृति कृष्णस्य पुण्ये वृन्दावने वने । अधिष्ठानं च सततं यावच्चन्द्रदिवाकरौ ।। ७ ।। तथा जगाम भाण्डीरं विधाता जगतामपि । स्वयं शेषश्च धर्मश्च भवान्या च भवःस्वयम् ।। ८ ।। सूर्यश्चापि महेन्द्रश्च चन्द्रश्चापि हुनाशनः । कुबेरो वरुणश्चैव पवनश्च यमस्तथा ।। ९ ।। ईशानश्चापि देवाश्च वसवोऽष्टौ तथैव च । सर्वे ग्रहाश्च रुद्राश्च मुनयो मनवस्तथा ।। १० ।। त्वरिताश्चाऽऽययुः सर्वे यत्राऽऽस्ते भगवान्प्रभुः । प्रणम्य दण्डवद्भूभौ तमुवाच विधिः स्वयम् ।। ११ ।। ब्रह्मवाच परिबूर्णतम् ब्रह्मस्वरूप नित्यविग्रह । ज्योतिःस्वरूप परम नमोऽस्तु प्रकृतेः पर ।। १२ ।। सुनिर्लिप्त निराकार साकार ध्यानहेतुना । स्वेच्छामय परं धाम परमात्मन्नमोऽस्तु ते ।। १३ ।। सर्वकार्यस्वरूपेश कारणानां च कारण । ब्रह्मेशशेषदेवेश सर्वेश ते नo ।। १४ ।। सरस्वतीश पद्मेश पार्वतीश परात्पर । हे सावित्रीश राधेश रासेश्वर नo ।। १५ ।। सर्वेषामादिभूतर्स्त्वं सर्वः सर्वेश्वरस्तथा । सर्वपाता च संहर्ता सृष्टिरूप नo ।। १६ ।। त्वत्पादपद्मरजसा धन्या पूता वसुंधरा । शून्यरूपा त्वयि गते हे नाथ परमं पदम् ।। १७ ।। यत्पञ्चविंशत्यधिकं वर्षाणां शतकं गतम् । त्यक्त्वेमां स्वपदं यासि रुदतीं विरहातुराम् ।। १८ ।। महादेव उवाच ब्रह्मणा प्रार्थितस्त्वं च समागत्य वसुंधराम् । भूभारहरणं कृत्वा प्रयासि स्वपदं विभो ।। १९ ।। त्रैलोक्ये पृथिवी धन्या सद्यः पूता पदाङ्किता । वयं च मुनयो धन्याः साक्षाद्दृष्ट्वा पदाम्बुजम् ।। २० ।। ध्यानासाध्यो दुराराध्यो मुनीनामूर्ध्वरेतसाम् । अस्माकमपि यश्चेशः सोऽधुना चाक्षुषो भुवि ।। २१ ।। वासुः सर्वनिवासश्च विश्वनि यस्य लोमसु । देवस्तस्य महाविष्णुर्वासुदेवो महीतले ।। २२ । सुचिरं तपसा लब्धं सिद्धेन्द्राणां सुदुर्लभम् । यत्पादपद्ममतुलं चाक्षुषं सर्वजीविनाम् ।। २३ ।। अनन्त उवाच त्वमनन्तो हि भगवन्नाहमेव कलांशकः । विश्वैकस्थे क्षुद्रकूर्मे मशकोऽहं गजे यथा ।। २४ ।। असंख्यशेषाः कूर्माश्च ब्रह्मविषणुशिवात्मकाः । असंख्यानि च विश्वानि तेषामीशः स्वयं भवान् ।। २५ ।। अस्माकमीदृशं नाथ सुदिनं क्व भविष्यति । स्वप्नादृष्टश्चयश्चेशः स दृष्टः सर्वजीविनाम् ।। २६ ।। नाथ प्रयासि गोलोकं पूतां कृत्वा वसुंधराम् । तामनाथां रुदन्तीं च निमग्नां शोकसागरे ।। २७ ।। देवा ऊचुः वेदाःस्तोतुं न शक्ता यं ब्रह्मेशानादयस्तथा । तमेव स्तवनं किं वा वयं कुर्मो नमोऽस्तु ते ।। २८ ।। इत्येवमुक्त्वा देवास्ते प्रययुर्द्वारकां पुरीम् । तत्रस्थं भगवन्तं च द्रष्टुं शीघ्रं मुदाऽन्विताः ।। २९ ।। अथ तेषां च गोपाला ययुर्गोलोकमुत्तमम् । पृथिवी कम्पिता भीता चलन्तः सप्तसागराः ।। ३० ।। हतश्रियं द्वारकां च त्यक्त्वा च ब्रह्मशापतः । मूर्तिं कदम्बमूलस्थां विवेश राधिकेश्वरः ।। ३१ ।। ते सर्वे चैरकायुद्धे निपेतुर्यादवास्तथा । चितामारुह्य देव्यश्च प्रययुः स्वामिभिः सह ।। ३२ ।। अर्जुनः स्वपुरं गत्वा समुवाच युधिष्ठिरम् । स राजा भ्रातृभिः सार्धं ययौ स्वर्गं च भार्यया ।। ३३ ।। दृष्ट्वा कदम्बमूलस्थं तिष्ठन्तं परमेश्वरम् । देवा ब्रह्मादयस्ते च प्रणेमुर्भक्तिपूर्वकम् ।। ३४ ।। तुष्टुवुः परमात्मानं देवं नारायणं प्रभुम् । श्यामं किशोरवयसं भूषितं रत्नभूषणैः ।। ३५ ।। वह्निशुद्धांशुकाधानं शोभितं वनमालया । अतीव सुन्दरं शान्तं लक्ष्मीकान्तं मनोहरम् ।। ३६ ।। व्याधास्त्रसंयुतं पादपद्मं पद्मादिवन्दितम् । दृष्ट्वा ब्रह्मादिदेवांस्तानभयं सस्मितं ददौ ।। ३७ ।। पृथिवीं तां समाश्वास्य रुदतीं प्रेमविह्वलाम् । व्याधं प्रस्थापयामास परं स्वपदमुत्तमम् ।। ३८ ।। बलस्य तेजः शेषे च विवेश परमाद्भुतम् । प्रद्युम्नस्य च कामे वै वाऽनिरुद्धस्य ब्रह्मणि ।। ३९ ।। अयोनिसंभवा देवी महालक्ष्मीश्च रुक्मिणी । वैकुण्ठं प्रययौ साक्षात्स्वशरीरेण नारद ।। ४० ।। सत्यभामा पृथिव्यां च विवेश कमलालया । स्वयं जाम्बवती देवी पार्वत्यां विश्वमातरि ।। ४१ ।। या या देव्यश्च यासां चाप्यंशरुपाश्च भूतले । तस्यां तस्यां प्रविविशुस्ता एव च पृथक्पृथक् ।। ४२ ।। साम्बस्य तेजः स्कन्दे च विवेश परमाद्भुतम् । कश्यपे वसुदेवश्चाप्यदिव्यां देवकी तथा ।। ४३ ।। रुक्मिणीमन्दिरं त्यकत्वा समस्तां द्वारकां पुरीम् । स जग्राह समुद्रश्च प्रफुल्लवदनेक्षणः ।। ४४ ।। लपणोदः समागत्य तुष्टाव पुरुषोत्तमम् । रुरोद तद्वियोगेन साश्रुनेत्रश्च विह्वलः ।। ४५ ।। गङ्गा सरस्वती पद्मावती च यमुना तथा । गोदावरी स्वर्णरेखा कावेरी नर्मदा मुने ।। ४६ ।। शरावती बाहृदा च कृतमाला च पुण्यदा । समाययुश्च ताः सर्वाः प्रणेमुः परमेश्वरम् ।। ४७ ।। उवाच जाह्नवी देवी रुदती परमेश्वरम् । साश्रुनेत्राऽतिदीना सा विरहज्वरकातरा ।। ४८ ।। भागीरथयुवाच हे नाथ रमणश्रेष्ठ यासि गोलोकमुत्तमम् । अस्माकं का गतिश्चात्र भविष्यति कलौ युगे ।। ४९ ।। श्रीभगवानुवाच कलेः पञ्चसहस्राणि वर्षाणि तिष्ठ भूतले । पापानि पापिनो यानि तुभ्यं दास्यन्ति स्नानत ।। ५० ।। मन्मन्त्रोपासकस्पर्शाद्भस्मीभूतानि तत्क्षणात् । भविष्यन्ति दर्शनाच्च स्नानादेव हि जाह्नवि ।। ५१ ।। हरेर्नामानि यत्रैव पुराणानि भवन्ति हि । तत्र गत्वा सावधानमाभिः सार्धं च श्रोष्यसि ।। ५२ ।। पुराणश्रवणाच्चैव हरेर्नामानुकीर्तनात् । भस्मीभूतानि पापानि ब्रह्महत्यादिकानि च ।। ५३ ।। भस्मीभूतानि तान्येव वैष्णवालिङ्गनेन च । तृणानि शुष्ककाष्ठानि दहन्ति पावका यथा ।। ५४ ।। तथाऽपि वैष्णवा लोके पापानि पापिनामपि । पृथिव्यां यानि तीर्थानि पुण्यान्यपि च जाह्नवि ।। ५५ ।। मद्भक्तानां शरीरेषु सन्ति पूतेषु संततम् । मद्भक्तपादरजसा सद्यः पूता वसुंधरा ।। ५६ ।। सद्यः पूतानि तीर्थानि सद्याः पूतं जगत्तथा । मन्मन्त्रोपासका विप्रा ये मदुच्छिष्टभोजिनः ।। ५७ ।। मामेव नित्यं ध्यायन्ते ते मत्प्राणाधिकाः प्रियाः । तदुपस्पर्शमात्रेण पूतो वायुश्च पावकः ।। ५८ ।। कलेर्दशसहस्राणि मद्भक्ताः सन्ति भूतले । एकवर्णा भविष्यन्ति मद्भक्तेषु गतेषु च ।। ५९ ।। मद्भक्तशून्या पृथिवी कलिग्रस्ता भविष्यति । एतस्मिन्नन्तरे तत्र कृष्णदेहाद्विनिर्गतः ।। ६० ।। चतुर्भुजश्च पुरुषः शतचन्द्रसमप्रभः । शङ्खचक्रगदापद्मधरः श्रीवत्सलाञ्छनः ।। ६१ ।। सुन्दरं रथमारुह्य श्रीरोदं स जगाम ह । सिन्धुकन्या च प्रययौ स्वयं मूर्तिमती सती ।। ६२ ।। श्रीकृष्णमनसा जाता मर्त्यलक्ष्मीर्मनोहरा । श्वेतद्वीपं गते विष्णौ जगत्पालनकर्तरि ।। ६३ ।। शुद्धसत्त्वस्वरूपे च द्विधारूपो बभूव सः । दक्षिणांशश्च द्विभुजो गोपबारकरूपकः ।। ६४ ।। नपीनजलदश्यामः शोभितः पीतवाससा । श्रीवंशवदनः श्रीमान्सस्मितः पद्मलोचनः ।। ६५ ।। शतकोटीन्दुसौन्दर्यं शतकोटिस्मरप्रभाम् । दधानः परमानन्दः परिबूर्णतमः प्रभुः ।। ६६ ।। परं धाम परं ब्रह्मस्वरूपो निर्गुणः स्वयम् । परमात्मा च सर्वेषां भक्तानुग्रहविग्रहः ।। ६७ ।। नित्यदेहश्च भगवानीश्वरः प्रकृतेः परः । योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम् ।। ६८ ।। ज्योतिरम्यन्तरे नित्यरूपं भक्ता विदन्ति यम् । वेदा वदन्ति सत्यं यं नित्यमाद्यं विचक्षणाः ।। ६९ ।। यं वदन्ति सुराः सर्वे परं स्वेच्छामयं प्रभूम् । सिद्धेन्द्रा मुनयः सर्वे सर्वरूपं वदन्ति यम् ।। ७० ।। यमनिर्वचनीयं च योगीन्द्रः शंकरो वदेत् । स्वयं विधाता प्रवदेत्कारणानां च कारणम् ।। ७१ ।। शेषो वदेदनन्तं यं नवधारूपमीश्वरम् । तर्काणामेव षण्णां च षड्विधं रूपमीप्सितम् ।। ७२ ।। वैष्णवानामेकरूपं वेदानामेकमेव च । पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् ।। ७३ ।। न्यायोऽनिर्वचनीयं च यं मतं शंकरो वदेत् । नित्यं वैशेषिकाश्चाऽऽद्यं तं वदन्ति विचक्षणाः ।। ७४ ।। सांख्य वदन्ति तं देवं ज्योतीरूपं सनातनम् । मीमांसा सर्वरूपं च वेदान्तः सर्वकारणम् ।। ७५ ।। पातञ्जलोऽप्यनन्तं च वेदाः सत्यस्वरूपकम् । स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम् ।। ७६ ।। सोऽयं गोलोकनाथश्च राधेशो नन्दनन्दनः । गोकुले गोपवेषश्च पुण्ये वृन्दावने वने ।। ७७ ।। चतुर्भुजश्च वैकुण्ठे महालक्ष्मीपतिः स्वयम् । नारायणश्च भगवान्यन्नाम मुक्तिकारणम् ।। ७८ ।। सकृन्नारायणेत्युक्त्वा पुमान्कल्पशतत्रयम् । गङ्गादिसर्वतीर्थेषु स्नातो भवति नारद ।। ७९ ।। सुनन्दनन्दकुमुदैः पार्षदैः परिवारितः । शङ्खचक्रगदापद्मधरः श्रीवत्सलाञ्छनः ।। ८० ।। कौस्तुभेन मणीन्द्रेण भूषितो वनमालया । देवैः स्तुतश्च यानेन वैकुण्ठं स्वपदं ययौ ।। ८१ ।। गते वैकुण्ठनाथे च राधेशश्च स्वयं प्रभुः । चकार वंशीशब्दं च त्रैलोक्यमोहनं परम् ।। ८२ ।। मूर्च्छांप्रापुर्देवगणा मुनयश्चापि नारद । अचेतना बभूवुश्च मायया पार्वतीं विना ।। ८३ ।। उवाच पार्वती देवी भगवन्तं सनातनम् । विष्णुमाया भगवती सर्वरूपा सनातनी ।। ८४ ।। परब्रह्मस्वरूपा या परमात्मस्वरूपिणी । सगुणा निर्गुणा सा च परा स्वेच्छामयी सती ।। ८५ ।। पार्वत्युवाच एकाऽहं राधिकारूपा गोलोके रासमण्डले । रासशून्यं च गोलोकं परिपूर्ण कुरु प्रभो ।। ८६ ।। गच्छ त्वं रथमारुह्य मुक्तामाणिक्यभूषितम् । परिबूर्णतमाऽहं च तव वङः स्थलस्थिता ।। ८७ ।। तवाऽऽज्ञया महालक्ष्मीरहं वैकुण्ठगामिनी । सरस्वती च तत्रैव वामे पार्श्वे हरेरपि ।। ८८ ।। तवाहं मनसा जाता सिन्धुकन्या तवाऽऽज्ञया । सावित्री वेदमाताऽहं कलया विधिसंनिधौ ।। ८९ ।। तैजःसु सर्वदेवानां पुरा सत्ये तवाऽऽज्ञया । अधिष्ठानं कृत तत्र धृतं देव्या शरीरकम् ।। ९० ।। शुम्भादयश्च दैत्याश्च निहताश्चावलीलया । दुर्ग निहत्य तुर्गाऽहं त्रिपुरा त्रिपुरे वधे ।। ९१ ।। निहत्य रक्तबीजं च रक्तबीजविनाशिनी । तवाऽऽज्ञया दक्षकन्या सती सत्यस्वरूपिणी ।। ९२ ।। योगेन त्यक्त्वा देहं च शैलजाऽहं तवाऽऽज्ञया । त्वया दत्तवा (त्ताः शंकराय गोलोके रासमण्डले ।। ९३ ।। विष्णुभक्तिरहं तेन विष्णुमाया च वैष्णवी । नारायणस्य मायाऽहं तेन नारायणी स्मृता ।। ९४ ।। कृष्णप्राणाधिकाऽहं च प्राणाधिष्ठातृदेवता । महाविष्णोश्च वासोश्च जननी राधिका स्वयम् ।। ९५ ।। तवाऽऽज्ञया पञ्चधाऽहं पञ्चप्रकृतिरूपिणी । कलाकलांशयाऽहं च देवपत्नयो गृहे गृहे ।। ९६ ।। शीघ्रं गच्छ महाभाग तत्राऽहं विरहातुरा । गोवीभिः सहिता रासं भ्रमन्ती परितः सदा ।। ९७ ।। पार्वतीवचनं श्रुत्वा प्रहस्य रसिकेश्वरः । रत्नयानं समारुह्य ययौ गोलोकमुत्तमम् ।। ९८ ।। पार्वती बोधयामास स्वयं देवगणं तथा । मायावंशीरवाच्छन्नं विष्णुमाया सनातनी ।। ९९ ।। कृत्वा ते हरिशब्दं च स्वगृहं विस्मयं ययुः । शिवेन सार्धं दुर्गा सा प्रहृष्टा स्वपुरं ययौ ।। १०० ।। अथ कृष्णं समायान्तं राधा गोपीगणैः सह । अनुव्रजं ययौ हृष्टा सर्वज्ञा प्राणवल्लभम् ।। १०१ ।। दृष्ट्वा समीपमायान्तमवरुह्य रथात्सती । प्रणनाम जगन्नाथं सिरसा सखिभिः सह ।। १०२ ।। गोपा गोप्यश्च मुदिताः प्रफुल्लवदनेक्षणाः । दुंदुभिं वादयामासुरीश्वरागमनोत्सुकाः ।। १०३ ।। विरजां च समुत्तीर्य दृष्ट्वा राधां जगत्पतिः । अवरुह्य रथात्तूर्णं गृहीत्वा राधिकाकरम् ।। १०४ ।। शतशृङ्गं च बभ्राम सुरम्यं रासमण्डलम् । दृष्ट्वाऽक्षयवटं पुण्यं पुण्यं वृन्दावनं ययौ ।। १०५ ।। तुलसीकाननं दृष्ट्वा प्रययौ मालतीवनम् । वामे कृत्वा कुन्दवनं माधवीकाननं तथा ।। १०६ ।। चकार दक्षिणे कृष्णश्चम्पकारण्यमीप्सिनम् । चकार पश्चात्तूर्णं च चारुचन्दनकाननम् ।। १०७ ।। ददर्श पुरतो रम्यं राधिकाभवनं परम् । उवास राधया सार्धं रत्नसिंहासने वरे ।। १०८ ।। सकर्पूरं च ताम्बूलं बुभुजे वासितं जलम् । सुष्वाप पुष्पतल्पे च सुगन्धिचन्दनार्चिते ।। १०९ ।। स रेमे रामया सार्धं निमग्नो रससागरे । इत्येवं कथितं सर्वं धर्मवक्त्राच्च यच्छ्रुतम् ।। ११० ।। गोलोकारोहणं रम्यं किं भूयः श्रोतुमिच्छसि ।। १११ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo गोलोकारोहणं नामैकोनत्रिंशदधिकशततमोऽध्यायः ।। १२९ ।।
athaikonatriṃśadadhikaśatatamo'dhyāyaḥ nārāyaṇa uvāca śrīkṛṣṇo bhagavāṃstatra paripūrṇatamaḥ prabhuḥ | dṛṣṭvā sārokyamokṣaṃ ca sadyo gokulavāsinām || 1 || uvāsa pañcabhirgopairbhāṇḍīre vaṭamūlake | dadarśa gokulaṃ sarva gokulaṃ vyākulaṃ tathā || 2 || arakṣakaṃ ca vyastaṃ ca śūnyaṃ vṛndāvanaṃ vanam | yogenāmṛtavṛṣṭyā ca kṛpayā ca kṛpānidhiḥ || 3 || gopībhiśca tathā gopaiḥ paripūrṇaṃ cakāra saḥ | tathā vṛndāvanaṃ caiva suramyaṃ ca manoharam || 4 || gokulasthāśca gopāśca samāśvāsaṃ cakāra saḥ | uvāca madhuraṃ vākyaṃ hitaṃ nītaṃ ca durlabham || 5 || śrī bhagavānuvāca he gopagaṇa he bandho sukhaṃ tiṣṭha sthiro bhava | ramaṇaṃ priyayā sārdhaṃ suramyaṃ rāsamaṇḍalam || 6 || tāvatprabhṛti kṛṣṇasya puṇye vṛndāvane vane | adhiṣṭhānaṃ ca satataṃ yāvaccandradivākarau || 7 || tathā jagāma bhāṇḍīraṃ vidhātā jagatāmapi | svayaṃ śeṣaśca dharmaśca bhavānyā ca bhavaḥsvayam || 8 || sūryaścāpi mahendraśca candraścāpi hunāśanaḥ | kubero varuṇaścaiva pavanaśca yamastathā || 9 || īśānaścāpi devāśca vasavo'ṣṭau tathaiva ca | sarve grahāśca rudrāśca munayo manavastathā || 10 || tvaritāścā''yayuḥ sarve yatrā''ste bhagavānprabhuḥ | praṇamya daṇḍavadbhūbhau tamuvāca vidhiḥ svayam || 11 || brahmavāca paribūrṇatam brahmasvarūpa nityavigraha | jyotiḥsvarūpa parama namo'stu prakṛteḥ para || 12 || sunirlipta nirākāra sākāra dhyānahetunā | svecchāmaya paraṃ dhāma paramātmannamo'stu te || 13 || sarvakāryasvarūpeśa kāraṇānāṃ ca kāraṇa | brahmeśaśeṣadeveśa sarveśa te nao || 14 || sarasvatīśa padmeśa pārvatīśa parātpara | he sāvitrīśa rādheśa rāseśvara nao || 15 || sarveṣāmādibhūtarstvaṃ sarvaḥ sarveśvarastathā | sarvapātā ca saṃhartā sṛṣṭirūpa nao || 16 || tvatpādapadmarajasā dhanyā pūtā vasuṃdharā | śūnyarūpā tvayi gate he nātha paramaṃ padam || 17 || yatpañcaviṃśatyadhikaṃ varṣāṇāṃ śatakaṃ gatam | tyaktvemāṃ svapadaṃ yāsi rudatīṃ virahāturām || 18 || mahādeva uvāca brahmaṇā prārthitastvaṃ ca samāgatya vasuṃdharām | bhūbhāraharaṇaṃ kṛtvā prayāsi svapadaṃ vibho || 19 || trailokye pṛthivī dhanyā sadyaḥ pūtā padāṅkitā | vayaṃ ca munayo dhanyāḥ sākṣāddṛṣṭvā padāmbujam || 20 || dhyānāsādhyo durārādhyo munīnāmūrdhvaretasām | asmākamapi yaśceśaḥ so'dhunā cākṣuṣo bhuvi || 21 || vāsuḥ sarvanivāsaśca viśvani yasya lomasu | devastasya mahāviṣṇurvāsudevo mahītale || 22 | suciraṃ tapasā labdhaṃ siddhendrāṇāṃ sudurlabham | yatpādapadmamatulaṃ cākṣuṣaṃ sarvajīvinām || 23 || ananta uvāca tvamananto hi bhagavannāhameva kalāṃśakaḥ | viśvaikasthe kṣudrakūrme maśako'haṃ gaje yathā || 24 || asaṃkhyaśeṣāḥ kūrmāśca brahmaviṣaṇuśivātmakāḥ | asaṃkhyāni ca viśvāni teṣāmīśaḥ svayaṃ bhavān || 25 || asmākamīdṛśaṃ nātha sudinaṃ kva bhaviṣyati | svapnādṛṣṭaścayaśceśaḥ sa dṛṣṭaḥ sarvajīvinām || 26 || nātha prayāsi golokaṃ pūtāṃ kṛtvā vasuṃdharām | tāmanāthāṃ rudantīṃ ca nimagnāṃ śokasāgare || 27 || devā ūcuḥ vedāḥstotuṃ na śaktā yaṃ brahmeśānādayastathā | tameva stavanaṃ kiṃ vā vayaṃ kurmo namo'stu te || 28 || ityevamuktvā devāste prayayurdvārakāṃ purīm | tatrasthaṃ bhagavantaṃ ca draṣṭuṃ śīghraṃ mudā'nvitāḥ || 29 || atha teṣāṃ ca gopālā yayurgolokamuttamam | pṛthivī kampitā bhītā calantaḥ saptasāgarāḥ || 30 || hataśriyaṃ dvārakāṃ ca tyaktvā ca brahmaśāpataḥ | mūrtiṃ kadambamūlasthāṃ viveśa rādhikeśvaraḥ || 31 || te sarve cairakāyuddhe nipeturyādavāstathā | citāmāruhya devyaśca prayayuḥ svāmibhiḥ saha || 32 || arjunaḥ svapuraṃ gatvā samuvāca yudhiṣṭhiram | sa rājā bhrātṛbhiḥ sārdhaṃ yayau svargaṃ ca bhāryayā || 33 || dṛṣṭvā kadambamūlasthaṃ tiṣṭhantaṃ parameśvaram | devā brahmādayaste ca praṇemurbhaktipūrvakam || 34 || tuṣṭuvuḥ paramātmānaṃ devaṃ nārāyaṇaṃ prabhum | śyāmaṃ kiśoravayasaṃ bhūṣitaṃ ratnabhūṣaṇaiḥ || 35 || vahniśuddhāṃśukādhānaṃ śobhitaṃ vanamālayā | atīva sundaraṃ śāntaṃ lakṣmīkāntaṃ manoharam || 36 || vyādhāstrasaṃyutaṃ pādapadmaṃ padmādivanditam | dṛṣṭvā brahmādidevāṃstānabhayaṃ sasmitaṃ dadau || 37 || pṛthivīṃ tāṃ samāśvāsya rudatīṃ premavihvalām | vyādhaṃ prasthāpayāmāsa paraṃ svapadamuttamam || 38 || balasya tejaḥ śeṣe ca viveśa paramādbhutam | pradyumnasya ca kāme vai vā'niruddhasya brahmaṇi || 39 || ayonisaṃbhavā devī mahālakṣmīśca rukmiṇī | vaikuṇṭhaṃ prayayau sākṣātsvaśarīreṇa nārada || 40 || satyabhāmā pṛthivyāṃ ca viveśa kamalālayā | svayaṃ jāmbavatī devī pārvatyāṃ viśvamātari || 41 || yā yā devyaśca yāsāṃ cāpyaṃśarupāśca bhūtale | tasyāṃ tasyāṃ praviviśustā eva ca pṛthakpṛthak || 42 || sāmbasya tejaḥ skande ca viveśa paramādbhutam | kaśyape vasudevaścāpyadivyāṃ devakī tathā || 43 || rukmiṇīmandiraṃ tyakatvā samastāṃ dvārakāṃ purīm | sa jagrāha samudraśca praphullavadanekṣaṇaḥ || 44 || lapaṇodaḥ samāgatya tuṣṭāva puruṣottamam | ruroda tadviyogena sāśrunetraśca vihvalaḥ || 45 || gaṅgā sarasvatī padmāvatī ca yamunā tathā | godāvarī svarṇarekhā kāverī narmadā mune || 46 || śarāvatī bāhṛdā ca kṛtamālā ca puṇyadā | samāyayuśca tāḥ sarvāḥ praṇemuḥ parameśvaram || 47 || uvāca jāhnavī devī rudatī parameśvaram | sāśrunetrā'tidīnā sā virahajvarakātarā || 48 || bhāgīrathayuvāca he nātha ramaṇaśreṣṭha yāsi golokamuttamam | asmākaṃ kā gatiścātra bhaviṣyati kalau yuge || 49 || śrībhagavānuvāca kaleḥ pañcasahasrāṇi varṣāṇi tiṣṭha bhūtale | pāpāni pāpino yāni tubhyaṃ dāsyanti snānata || 50 || manmantropāsakasparśādbhasmībhūtāni tatkṣaṇāt | bhaviṣyanti darśanācca snānādeva hi jāhnavi || 51 || harernāmāni yatraiva purāṇāni bhavanti hi | tatra gatvā sāvadhānamābhiḥ sārdhaṃ ca śroṣyasi || 52 || purāṇaśravaṇāccaiva harernāmānukīrtanāt | bhasmībhūtāni pāpāni brahmahatyādikāni ca || 53 || bhasmībhūtāni tānyeva vaiṣṇavāliṅganena ca | tṛṇāni śuṣkakāṣṭhāni dahanti pāvakā yathā || 54 || tathā'pi vaiṣṇavā loke pāpāni pāpināmapi | pṛthivyāṃ yāni tīrthāni puṇyānyapi ca jāhnavi || 55 || madbhaktānāṃ śarīreṣu santi pūteṣu saṃtatam | madbhaktapādarajasā sadyaḥ pūtā vasuṃdharā || 56 || sadyaḥ pūtāni tīrthāni sadyāḥ pūtaṃ jagattathā | manmantropāsakā viprā ye maducchiṣṭabhojinaḥ || 57 || māmeva nityaṃ dhyāyante te matprāṇādhikāḥ priyāḥ | tadupasparśamātreṇa pūto vāyuśca pāvakaḥ || 58 || kalerdaśasahasrāṇi madbhaktāḥ santi bhūtale | ekavarṇā bhaviṣyanti madbhakteṣu gateṣu ca || 59 || madbhaktaśūnyā pṛthivī kaligrastā bhaviṣyati | etasminnantare tatra kṛṣṇadehādvinirgataḥ || 60 || caturbhujaśca puruṣaḥ śatacandrasamaprabhaḥ | śaṅkhacakragadāpadmadharaḥ śrīvatsalāñchanaḥ || 61 || sundaraṃ rathamāruhya śrīrodaṃ sa jagāma ha | sindhukanyā ca prayayau svayaṃ mūrtimatī satī || 62 || śrīkṛṣṇamanasā jātā martyalakṣmīrmanoharā | śvetadvīpaṃ gate viṣṇau jagatpālanakartari || 63 || śuddhasattvasvarūpe ca dvidhārūpo babhūva saḥ | dakṣiṇāṃśaśca dvibhujo gopabārakarūpakaḥ || 64 || napīnajaladaśyāmaḥ śobhitaḥ pītavāsasā | śrīvaṃśavadanaḥ śrīmānsasmitaḥ padmalocanaḥ || 65 || śatakoṭīndusaundaryaṃ śatakoṭismaraprabhām | dadhānaḥ paramānandaḥ paribūrṇatamaḥ prabhuḥ || 66 || paraṃ dhāma paraṃ brahmasvarūpo nirguṇaḥ svayam | paramātmā ca sarveṣāṃ bhaktānugrahavigrahaḥ || 67 || nityadehaśca bhagavānīśvaraḥ prakṛteḥ paraḥ | yogino yaṃ vadantyevaṃ jyotīrūpaṃ sanātanam || 68 || jyotiramyantare nityarūpaṃ bhaktā vidanti yam | vedā vadanti satyaṃ yaṃ nityamādyaṃ vicakṣaṇāḥ || 69 || yaṃ vadanti surāḥ sarve paraṃ svecchāmayaṃ prabhūm | siddhendrā munayaḥ sarve sarvarūpaṃ vadanti yam || 70 || yamanirvacanīyaṃ ca yogīndraḥ śaṃkaro vadet | svayaṃ vidhātā pravadetkāraṇānāṃ ca kāraṇam || 71 || śeṣo vadedanantaṃ yaṃ navadhārūpamīśvaram | tarkāṇāmeva ṣaṇṇāṃ ca ṣaḍvidhaṃ rūpamīpsitam || 72 || vaiṣṇavānāmekarūpaṃ vedānāmekameva ca | purāṇānāmekarūpaṃ tasmānnavavidhaṃ smṛtam || 73 || nyāyo'nirvacanīyaṃ ca yaṃ mataṃ śaṃkaro vadet | nityaṃ vaiśeṣikāścā''dyaṃ taṃ vadanti vicakṣaṇāḥ || 74 || sāṃkhya vadanti taṃ devaṃ jyotīrūpaṃ sanātanam | mīmāṃsā sarvarūpaṃ ca vedāntaḥ sarvakāraṇam || 75 || pātañjalo'pyanantaṃ ca vedāḥ satyasvarūpakam | svecchāmayaṃ purāṇaṃ ca bhaktāśca nityavigraham || 76 || so'yaṃ golokanāthaśca rādheśo nandanandanaḥ | gokule gopaveṣaśca puṇye vṛndāvane vane || 77 || caturbhujaśca vaikuṇṭhe mahālakṣmīpatiḥ svayam | nārāyaṇaśca bhagavānyannāma muktikāraṇam || 78 || sakṛnnārāyaṇetyuktvā pumānkalpaśatatrayam | gaṅgādisarvatīrtheṣu snāto bhavati nārada || 79 || sunandanandakumudaiḥ pārṣadaiḥ parivāritaḥ | śaṅkhacakragadāpadmadharaḥ śrīvatsalāñchanaḥ || 80 || kaustubhena maṇīndreṇa bhūṣito vanamālayā | devaiḥ stutaśca yānena vaikuṇṭhaṃ svapadaṃ yayau || 81 || gate vaikuṇṭhanāthe ca rādheśaśca svayaṃ prabhuḥ | cakāra vaṃśīśabdaṃ ca trailokyamohanaṃ param || 82 || mūrcchāṃprāpurdevagaṇā munayaścāpi nārada | acetanā babhūvuśca māyayā pārvatīṃ vinā || 83 || uvāca pārvatī devī bhagavantaṃ sanātanam | viṣṇumāyā bhagavatī sarvarūpā sanātanī || 84 || parabrahmasvarūpā yā paramātmasvarūpiṇī | saguṇā nirguṇā sā ca parā svecchāmayī satī || 85 || pārvatyuvāca ekā'haṃ rādhikārūpā goloke rāsamaṇḍale | rāsaśūnyaṃ ca golokaṃ paripūrṇa kuru prabho || 86 || gaccha tvaṃ rathamāruhya muktāmāṇikyabhūṣitam | paribūrṇatamā'haṃ ca tava vaṅaḥ sthalasthitā || 87 || tavā''jñayā mahālakṣmīrahaṃ vaikuṇṭhagāminī | sarasvatī ca tatraiva vāme pārśve harerapi || 88 || tavāhaṃ manasā jātā sindhukanyā tavā''jñayā | sāvitrī vedamātā'haṃ kalayā vidhisaṃnidhau || 89 || taijaḥsu sarvadevānāṃ purā satye tavā''jñayā | adhiṣṭhānaṃ kṛta tatra dhṛtaṃ devyā śarīrakam || 90 || śumbhādayaśca daityāśca nihatāścāvalīlayā | durga nihatya turgā'haṃ tripurā tripure vadhe || 91 || nihatya raktabījaṃ ca raktabījavināśinī | tavā''jñayā dakṣakanyā satī satyasvarūpiṇī || 92 || yogena tyaktvā dehaṃ ca śailajā'haṃ tavā''jñayā | tvayā dattavā (ttāḥ śaṃkarāya goloke rāsamaṇḍale || 93 || viṣṇubhaktirahaṃ tena viṣṇumāyā ca vaiṣṇavī | nārāyaṇasya māyā'haṃ tena nārāyaṇī smṛtā || 94 || kṛṣṇaprāṇādhikā'haṃ ca prāṇādhiṣṭhātṛdevatā | mahāviṣṇośca vāsośca jananī rādhikā svayam || 95 || tavā''jñayā pañcadhā'haṃ pañcaprakṛtirūpiṇī | kalākalāṃśayā'haṃ ca devapatnayo gṛhe gṛhe || 96 || śīghraṃ gaccha mahābhāga tatrā'haṃ virahāturā | govībhiḥ sahitā rāsaṃ bhramantī paritaḥ sadā || 97 || pārvatīvacanaṃ śrutvā prahasya rasikeśvaraḥ | ratnayānaṃ samāruhya yayau golokamuttamam || 98 || pārvatī bodhayāmāsa svayaṃ devagaṇaṃ tathā | māyāvaṃśīravācchannaṃ viṣṇumāyā sanātanī || 99 || kṛtvā te hariśabdaṃ ca svagṛhaṃ vismayaṃ yayuḥ | śivena sārdhaṃ durgā sā prahṛṣṭā svapuraṃ yayau || 100 || atha kṛṣṇaṃ samāyāntaṃ rādhā gopīgaṇaiḥ saha | anuvrajaṃ yayau hṛṣṭā sarvajñā prāṇavallabham || 101 || dṛṣṭvā samīpamāyāntamavaruhya rathātsatī | praṇanāma jagannāthaṃ sirasā sakhibhiḥ saha || 102 || gopā gopyaśca muditāḥ praphullavadanekṣaṇāḥ | duṃdubhiṃ vādayāmāsurīśvarāgamanotsukāḥ || 103 || virajāṃ ca samuttīrya dṛṣṭvā rādhāṃ jagatpatiḥ | avaruhya rathāttūrṇaṃ gṛhītvā rādhikākaram || 104 || śataśṛṅgaṃ ca babhrāma suramyaṃ rāsamaṇḍalam | dṛṣṭvā'kṣayavaṭaṃ puṇyaṃ puṇyaṃ vṛndāvanaṃ yayau || 105 || tulasīkānanaṃ dṛṣṭvā prayayau mālatīvanam | vāme kṛtvā kundavanaṃ mādhavīkānanaṃ tathā || 106 || cakāra dakṣiṇe kṛṣṇaścampakāraṇyamīpsinam | cakāra paścāttūrṇaṃ ca cārucandanakānanam || 107 || dadarśa purato ramyaṃ rādhikābhavanaṃ param | uvāsa rādhayā sārdhaṃ ratnasiṃhāsane vare || 108 || sakarpūraṃ ca tāmbūlaṃ bubhuje vāsitaṃ jalam | suṣvāpa puṣpatalpe ca sugandhicandanārcite || 109 || sa reme rāmayā sārdhaṃ nimagno rasasāgare | ityevaṃ kathitaṃ sarvaṃ dharmavaktrācca yacchrutam || 110 || golokārohaṇaṃ ramyaṃ kiṃ bhūyaḥ śrotumicchasi || 111 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo golokārohaṇaṃ nāmaikonatriṃśadadhikaśatatamo'dhyāyaḥ || 129 ||
English translation
Submerging of DvarakS and departure of Kniia for the eternal Abode Narayana said^ The complete lord Krsna, together with the people of Gokula finding the Sdlokya type of salvation there, sat under the banyan tree in the BhandTra-vana accompanied by five cowherds. He had a glance on the entire Gokula. At that point of time, Gokula seemed upset, without a protector and extremely busy.
Vnidavana too looked deserted. At that point of time the merciful lord Krsna filled Gokula with cowherds and cowherdesses sprinkling the nectar there. He made Vmdavana quite charming and The people of Gokula were assured by Krspa, who spoke to them the sweet and beneficial Krsna said- "O cowherd, O brothers, you remain happy and be stable, you enjoy your spouses in the beautiful Rdsamandala, Krsna would remain present in Vrndavana till the time of sun and moon".
fe iTfT??r TpraTcrarn^o 11 Thus speaking, the lord of the universe went to the Bhan(jlra-vana. Thereafter ^e§a, Dharma, Gaurl and Siva, SQrya, Indra, moon, Agni, Kubera, Vanina, the wind god, Yama, IsSna the gods, eight Vasus, all the planets, the sages and Manus reached the place where lord Kr?na was seated. Brahma reaching there prostrated before the lord and said-.
Brahma said- O eternal form of Brahman and complete lord, the form of flame, eternal, beyond Prakrti, I bow in, reverence to you.
You are completely unattached, invisible and visible only to the devotees, you are the one who moves at will, the eternal abode, the supreme soul, I offer my salutation to you.
You are the lord and the form of all the deeds, cause of all the causes, you are Brahma, Siva and Sesa, the lord of the gods, the lord of all, I offer my salutation to you.
Of all the three worlds, earth is quite graceful over which you have placed your feet purifying the same by witnessing your lotus-like feet, all the gods and the sages, have been feeling The one who is beyond the comprehension of the great sages who is difficult to be adored the same lord has appeared before us.
You are the lord of Sarasvatl, Laksmi, Parvati and are the lord of SavitrT, Radha and divine dance, I offer my salutation to you.
You are the beginning of all, the lord of all, the protector of all, destroyer of all and creator of all, I offer my salutation to you.
I RIW tRTT 11 With the touch of the dust from your lotus-like feet, the earth has been purified, becoming graceful, but O lord, with your departure for your eternal abode, it will get deserted.
A hundred and twenty five years have passed and now you are proceeding to your divine abode deserting the earth.
Mahadeva said- 0 virtues one, you had incarnated on earth at the request of Brahma and relieved the earth of her burden; now you are going back to your abode.
Visnu happens to be the abode of all, in the hair-pits of whom innumerable globes reside.
The same lord Mahavisnu incarnated on earth in the form of Krsna.
Whose lotus-like feet are beyond the reach of the siddhas and would be achieved only by performing tapas for prolonged periods, the same lord has become visible to us.
Ananta said- You are the lord without limitations and I happen to be and amsa of your ray. Lodged in a secluded place in the universe remain on the head of the tortoise like a small mosquito on the elephant head. There are innumerable Brahma, Visnu, Siva and the serpents Sesa beside tortoise. There are innumerable globe's but you happen to be the lord of all, O lord when shall the auspicious day arrive?
The lord who is. invisible even in dream, the same lord appeared before all the creatures. O lord, you are leaving for Goloka purifying the earth and the same earth who has been plunged in grief is now crying.
The gods said- The one who is beyond the comprehension of the Vedas, Brahma, Siva and all the gods, who are unable to offer prayer to him, what type of prayer can be offered to him.
We offer our salutation to you.
Thus speaking all the gods getting filled with delight, huiTiedly left the place and reached the city of Dvaraka to have an audience with the Thereafter Gopala left for the blissful Goloka.
The earth started shaking together with the seven Dvaraka was deserted because of the curse of Brahma and SrT Krsna the lord of Radha left the city and entered the image that was lying under the foot of kadamba tree.
Thereafter all the Yadavas were destroyed fighting among themselves, using the red-grass as the weapon. Their spouses also met with their end jumping in the burning flames together with their husbands, Thereafter, Arjuna went to Hastinapur and communicated the news to Yudhisthira who also together with his wife and brothers went to the Finding lord Kr?na lodged in the form of an image in the root of the kadamba tree, all the gods including Brahma went there and bowed to him with devotion.
He was having the dark complexion, of the tender age of a boy and his body was adorned with all the gem-studded ornaments. He was clad in the divine garments, having the lustre of the fire. He was wearing the long garland of forest flowers, was extremely beautiful, peaceful, lord of LaksmI, holding divine weapon in the hand, served by LaksmI and other goddesses at his feet.
All the gods then offered their prayer to Narayana the supreme soul and pervading god.
Lord Krsna also looking at the gods provided protection to them smilingly.
The lord assured the earth who was upset and was crying and gave the hunter his eternal abode.
O Narada, the illumining lustre of Balarama enter Sesanaga, the lustre of Pradyumna entered Kamadeva and that of Aniruddha in Brahma.
The eternal goddess RukminI in the form of MahalaksmI proceeded on to Vaikuntha with her human body.
Satyabhama who happened to be the arhsa of Laksmi, entered into the earth. Thereafter Jambavati entered the body of Parvati, the mother of the universe.
All the goddesses who happened to be the amsas of whichever goddess entered their bodies The unique tejas of Samba entered the body of I Skanda, The tejas of Vasudeva entered Kasyapa while that of Devaki entered Aditi.
The ocean having a delightful face and the eyes submerged the entire city of Dvaraka under water leaving aside the abode of Rukminl.
Thereafter the ocean of saline water arrived and offered prayer to Puru§ottama and started crying, filling his eyes with tears, as a result of the separation from the lord.
O sage, all the rivers like Gahga, Sarasvatl, Narmada, Sarasvati, Bahuda and the auspicious Krtamala arrived there and started offering their salutation to the lord.
Getting upset with the fever of separation her eyes filled with tears, the Gahga spoke to lord Krsna while crying.
BhagIrathI said- O lovable lord, you are now proceeding to Goloka. What shall be our position during the age of Kali?.
Sri Krsna said- O Gahga, You remain on earth I for five thousand years during Kaliyuga. All the I sins that are washed in your water would disappear with the reciting of the mantras by the devotees and by the people who earn merit by having a look at you.
TOT yrayiTOl^T: w You. would also listen to the reciting of the name of Hari and the reciting of the Puranas.
With the reciting of the Puranas and the name of Hari, the sins like Brahmahatyd get destroyed in no time.
These sins are reduced to ashes with the touch of a Vaisnavas in the same way as the strew is bum it out in the fire flames or the dry-wood is also burnt out in fire. O Gahga, all the holy places which are located on earth, are all enshrined in the bodies of my devotees. The earth gets purified with the dust from the feet of my devotees.
fcTT trragj; I m 411 All the holy places get purified at once with the fall of the dust from the feet of my devotee.
A Brahmana who is devoted to me and recites my mantras also consumes the naivedya and always remains devoted to me, he becomes dearer to me than my life. With the very touch of his body, the wind as well as the fire get purified.
During Kaliyuga my devotees would remain on earth for ten thousand years. In the meantime the four-armed from, having the lustre of hundred of moons, illumining all the directions, holding samkha, cab^a, gada and padma, with Srtvatsa mark on his chest, emerged from the body ofKfsna.
He at once mounted on the beautiful chariot and proceeded towards the ocean of milk. Laks ml, the daughter of the ocean also transformed herself into a goddess and left the place.
With the departure of lord Visnu, the preserver of the universe, to Sveta-dvipa, MartyalaksmI was born from the mind of Sri Krsna. In his pure and spotless form, Sri Krsna was divided into two forms, his right hand side was having two arms and appeared in the form of a cowherd boy.
That form had the dark-complexioned of a new cloud, wore pitdmbara, placing a flute on his mouth, filled with glory, having smiling face, the eyes like the lotus flowers and possessed the lustre of a hundred crores of the moons. He was blissful, having the glory of crores of gods of love, complete lord, like the eternal abode, eternal Brahman, devoid of gums, the supreme soul, the one who was always graceful to his devotees and takes to human form for their benefit only, having eternal body and was beyond Prakrti. The yogis always adored him as the everlasting flame.
The devotees consider him to be the eternal flame of their minds and the Vedas described him as the eternal truth. The great intellectuals conceived him as eternal and everlasting. All the gods describe him as the lord who moved at will.
The siddhas and the ascetics conceived him to be Siva, the lord of yogis describes him as inexplicable. The creator of the universe describes him to be the cause of all the causes.
The serpent Sesa conceives him to be the lord who could be achieved by nine types of devotion and beyond measure, the divine six types of philosophies project him in six different form.
He has been described to possess the nine fonns including one of the Vaisnavas, one of tlie Vedas, one of the Puranas.
The jurisprudence define him as the one who is beyond conception and this theory is also I accepted by Sankara. The Vaisesika doctrine: describes him as eternal and primeval, The Sdmkhya people, the Sdmkhya ivsilosophers described him as the fonn of V crlasting flame. The Mimdnsd philosophers call him as the form of everything and the Widmta philosophy describes him to be the cause of all.
The Yogasastra of Patanjali described him to be beyond measure and the Vedas take him to be the form of truth. The Puranas described him as the one who moves at will and the devotees always take him to be the one having the eternal The same supreme soul happens to be the lord of Goioka and the beloved of Radha besides being the son of Nanda. He remains in Gokula and Vrndavana in the form of a cowherd.
In Vaikuptha he appears as the four armed lord of MahalaksmI. He happens to be the form of NSrSyana, the reciting of whose name bestows O Narada, by reciting the name of NarSyana once, a person earns the merit of having a bath in the Gahga for a hundred kalpas.
Thereafter lord Visnu went to Vaikuntha surrounded by Sunanda, Nanda and Kumuda, holding samkha, gadd, cakra and padma in the hands beside displaying the Srivatsa mark on the chest, adorned with the kaustubha gem wearing the long garland of forest flowers, mounted on a plane and adored by the gods, After the departure of the lord of Vaikuntha, Sri Krsna the lord gf RadhS played on the flute which attracted the three worlds.
O NSrada, on hearing the voice of the flute, all the gods and the sages fainted or all those present there were fainted with the illusion of the lord, Thereafter, Parvati who happened to be the illusion of Visnu, the form of all, eternal Brahman, the form of the supreme soul, possessing qualities as well as without them, the one who moved at will and was the chaste goddess, spoke to the lord.
Parvatl said- O lord, I was always in the form of Radhika in the Rdsamandala of Goloka, You fill the void in the Goloka by performing the divine dance.
You proceed mounted on the gem-studded chariot. By residing in your heart I felt myself At your command I became Mahalaksmi the dweller of Vaikuntha. I also functioned there as Sarasvati appearing to the left of lord Hari. I have been bom out of your mind and appeared as the daughter of the ocean at your command. I had appeared as Savitrl the mother of the Vedas and stayed with Brahma with my amsa, Earlier, during the time of Satyayuga, I appeared from the tejas of all the gods at your command and took to the form of a goddess.
I then killed playfully the demons named Sumbha and Nisumbha beside Durga after which I was given the name of Tripura.
By killing the demon named Raktabrja, I came to be known as the destroyer of Raktablja. At your command I became Satl, the daughter of Daksa in the truthful form.
At you command I discarded that body and then came to be known as the daughter of Himalaya. You had handed me over to Siva in I had been the devotion of Visnu and as such I came to be known as Visnumaya or VaisnavT, I was the illusion of lord Narayana and as such I came to be known as Narayani. I was the beloved of Krsna and was the mother of Mahavis nu also known as Radha.
At your command I took to five forms and was known as Pancaprakrii. With my rays or the amsa of my rays, I became the spouses of the O virtuous one, you move on at once because I am suffering badly from your separation there, I always roam about in the Rdsamandala together with the cowherdesses.
Listening to the words of Parvatl, Krsna the lord of the divine dance, smiled and mounted on the chariot studded with gems then proceeded to Thereafter Parvatl who happened, to be the eternal Visnumaya, brought the gods back to senses who had been fainted because of the sound of the flute of lord Kfsna. Reciting the name of Hari, all the gods then retied astonishingly to their respective abodes, Durga also delightfully want along with Siva to her Radha then finding Krsna arriving in Vraja, left the place and followed the lord together with all the cowherdesses.
Reaching close to him, the chaste Radha bowed in reverence to the lord after his descending from the chariot.
All the cowherds and cowherdesses having the delightful face and eyes welcomed the lord and played upon the big drums, Krsna finding, Radha standing on the river Viraja, at once got down from the chariot and held her hand taking her to the mountain of hundred peaks in the Rasamaridala, where he started roaming about with her. Thereafter they went to the auspicious banyan tree and having a sight of it, they went to Vnidavana.
There he found the Tulasi-vana, Kunda-vana and Madhavl-vana, leaving them to the left they moved towards the Mdlathvana.
The catnpaka-vana was to the right and a forest of sandal-wood was at the back. Then he found the place of Radhika who was lodged in her abode occupying a gem-studded lion throne.
He consumed there the fragrant water, the betel with camphor and slept on the bed of flowers over which the sandal-paste had been He was filled with ocean of pleasure and started enjoying the company of his beloved.
Thus I have narrated everything to you, whatever I had heard from the mouth of Dharma.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 76599 (2016-08-26T01:35:22Z); Shanti Lal Nagar English scan pages n1683–n1691: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1683/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.