Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 126

Chapter 126

Unit 269 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 126Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 1261 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 126

Source

अथ षड्विंशत्यधिकशततमोऽध्यायः नारायण उवाच गणेशपूजनं कृत्वा माधवो यादवैः सह । देवैर्मुनिभिरन्यैश्च देवीभिः सह नारद ।। १ ।। अंशेन देवो देवीभी रुक्मिण्याद्याभिरेव च । प्रययौ द्वारकां रम्यां तस्थौ सिद्धाश्रमे स्वयम् ।। २ ।। कृत्वा सुप्रीतिसंभाषां सार्धगोलोकवासिभिः । गोपैः सुहृद्भिर्नन्देन मात्रा गोप्या यशोदया ।। ३ ।। उवाच मातरं तातं सुनीतं च चथोचितम् । गोपांश्च गोकुलस्थांश्च बन्धुवर्गाश्च सांप्रतम् ।। ४ ।। श्रीभगवानुवाच गच्छ नन्दव्रजं नन्द हे तात प्राणवल्ल्भ । मातर्यशोदे त्वमपि परमार्थे यशस्विनि ।। ५ ।। भुक्त्वा कालावशेषं च गच्छ गोलोकमुत्तमम् । सालोक्यमुक्तिं दास्यामि सार्थ गोकुलवासिभिः ।। ६ ।। इत्युक्त्वा भगवान्कृष्णः पित्रोरनुमतेन च । जगाम राधिकास्थानं नन्दश्च गोकुलं तथा ।। ७ ।। ददर्श राधा रुचिरां मुक्ताहारां च सस्मिताम् । यथा द्वादशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।। ८ ।। रत्नोच्चैरासनस्था च गोपीत्रिशतकोटिभिः । आवृता वेत्रहस्ताभिः सस्मिताभिश्च सांप्रतम् ।। ९ ।। दृष्ट्वा च दूरतो राधा श्रीकृष्णं प्राणवल्लभम् । शिशुवेषं सुवेषं च सुन्दरेशं च सस्मितम् ।। १० ।। नवींनजलदश्यामं पींतकौशेयवाससम् । चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ।। ११ ।। मयूरपिच्छचूडं च मालतीमाल्यशोभितम् । ईषद्धास्यप्रसन्नास्यं भक्तानुप्रहविग्रहम् ।। १२ ।। क्रीडाकमलमम्लानं धृतवन्तं मनोहरम् । मुरलीहस्तविन्यस्तं सुप्रशस्तं च दर्पणम् ।। १३ ।। जवेन च समुत्थाय गोपीभिः सह सादरम् । प्रणम्य परया भक्त्या तुष्टाव परमेश्वरम् ।। १४ ।। राधिकोवाच अद्य मे सफलं जन्मजीवितं च सुजीवितम् । यद्दृष्ट्वा मुखचन्द्रं ते सुस्निग्धं लोचनं मनः ।। १५ ।। पञ्च प्राणाश्च स्निग्धाश्च परमात्मा च सुप्रियः । उभयोर्हर्षबीजं च दुर्लभं बन्धुदर्शनम् ।। १६ ।। शोकार्णवे निमग्नाऽहं प्रदग्धा विरहानलैः । त्वद्दृष्ट्याऽमृतवृष्ट्या च सुसिक्ताऽद्य सुशीतला ।। १७ ।। शिवा शिवप्रदाऽहं च शिवबीजा त्वया सह । शि (श) व स्वरूपा निश्चेष्टाऽप्यदृश्या च त्वया विना ।। १८ ।। त्वयि तिष्ठति देहे च देही श्रीमाञ्छुचिः स्वयम् । सर्वशक्तिस्वरूपा च शिवरूपा गते त्वयि ।। १९ ।। स्त्रीपुंसो विंरहो नाथसामान्यश्च सुदारुणः । यान्त्येव शक्तिभिः प्राणा विच्छेदात्परमात्मनः ।। २० ।। इत्युक्त्वा राधिका वेवी परमात्मानमीश्वरम् । स्वासने वासयासास कृत्वा पादार्चनं मुदा ।। २१ ।। रत्नसिंहासने श्रीमानुवास राधया सह । गोपीभिः सप्तभिः शश्वत्सेवितः श्वेतचामरैः ।। २२ ।। चन्दना सा ददौ गात्रे सुगन्धि चन्दनं हरेः । सस्मिता रत्नमाला सा रत्नमालां गले ददौ ।। २३ ।। पद्मैः पद्मार्चिते पादपद्मे पद्मावती सती । अर्ध्या ददौ सा सजलं दूर्वा पुष्पं च चन्दनम् ।। २४ ।। मालतो मालतीमाल्यं चूडायां च हरेर्ददौ । चम्पापुष्पस्य पुटकं ददौ चम्पावती सती ।। २५ ।। पारिजाता च हरये पारिजातं ददौ मुदा । सकर्पूरं च ताम्बूलं वासितं शीतलं जलम् ।। २६ ।। ददौ कदम्बमाला सा कदम्बमालिकां शुभाम् । क्रीडाकमलमम्लानममूल्यं र्तनदर्पणम् ।। २७ ।। ददौ हस्ते हरेरेव कमला सा सुकोमला । वरुणेन पुरा दत्तं वस्त्रयुग्मं च सुन्दरम् ।। २८ ।। साक्षाद्गोरोचनाभं च सुन्दरी हरये ददौ । मधुपात्रं मधुस्तस्मै मधुरं मधुपूर्णकम् ।। २९ ।। सुधापूर्गं सुधापात्रं ददौ भक्त्या सुधामुखी । चकार पुष्पशय्यां च गोपी चन्दनचर्चिताम् ।। ३० ।। अम्लानमालतीपुष्पमालाजालविभूषिताम् । रत्नेन्द्रसारनिर्माणमन्दिरे सुमनोहरे ।। ३१ ।। मणीन्द्रमुक्तामाणिक्यहीरहारविभूषिते । कस्तूरीकुङ्कुमाक्तेन वायुना सुरभीकृते ।। ३२ ।। रत्नप्रदीपशतकैर्ज्वलद्भिश्च सुदीपिते । धूपिते सततं धूपैर्नानावस्तुसमन्वितैः ।। ३३ ।। कृत्वा शय्यां रतिकरीं ययुर्गोप्यश्च सस्मिताः । दृष्ट्वा रहसि तल्पं च सुरम्यं सुमनोहरम् ।। ३४ ।। माधवो राघया सार्ध विवेश रतिमन्दिरम् । नानाप्रकारहास्यं च परिहासं स्मरोचितम् ।। ३५ ।। द्वयोर्बभूव तल्पे च मदनातुरयोस्तथा । माल्यं ददौ च कृष्णाय ताम्बूलं च सुवासितम् ।। ३६ ।। कस्तूरीकुङ्कुमाक्तं च चन्दनं श्यामवक्षसि । चारुचम्पकपुष्पं च चूडायां प्रददौ सती ।। ३७ ।। सहस्रदलससंक्तक्रीडापद्मं करे ददौ । प्रक्षिप्य मुरलीं हस्तात्प्रददौ रत्नदर्पणम् ।। ३८ ।। पारिजातस्य कुसुममम्लानं पुरतो ददौ । उवाच मधुरं राधा रहस्ये मधुरं वचः सस्मिता सस्मितं शान्तं कान्तं कान्ता मनोहरम् ।। ३९ ।। राधिकोवाच निष्फलं मङ्गलप्रश्तं मङ्गले मङ्गलालये । सर्वमङ्गलबीजे च माङ्गल्ये मङ्गलप्रदे ।। ४० ।। तथाऽपि कुशलप्रश्ने सांप्रतं समयोचितम् । लौकिको व्यवहारोऽपि वेदेभ्यो बलवांस्तथा ।। ४१ ।। कुशलं रुक्मिणीकान्त सत्यभामेश सांप्रतम् । महन्द्रेण समं युद्धं लीलया च यदाज्ञया ।। ४२ ।। पारिजाततरुं स्वर्गादुत्पाट्य चामरावतीम् । गत्वा विजित्य देवांश्च तस्यै दसमिति श्रुतम् ।। ४३ ।। पुण्यकं च कृतं तेन पारिजातेन सुव्रतम् । त्वामेव साध्यं कान्तं च संपूर्णे दक्षिणां ददौ ।। ४४ ।। ब्रह्मेशशेषासाध्यस्त्वं तया साध्यः कृतः कथम् । सर्वभ्यः कामिनीभ्यश्च सत्यभामां बिभेषि च ।। ४५ ।। रुक्मिण्यां प्रेमसौभाग्यमतिरिक्तं च गौरवम् । भयं माल्यं च धन्यायां सत्यायां सततं श्रुतम् ।। ४६ ।। सत्यं जाम्बवतीकान्त वद मां च सुनिश्चितम् । तासु सर्वासु कान्तासु कस्यास्ते प्रेम चाधिकम् ।। ४७ ।। शृङ्गारे सर्वभावे वा तासु का रसिका परा । त्वयि स्निग्धा विदग्धा का तामु धन्याऽतिसुव्रता ।। ४८ ।। सा स्त्री भावानुरक्ता या भार्यां पाति पतिश्च सः । प्रेमातिरिक्तं स्त्रीपुंसोस्त्रैलोक्येषु सुदुर्लभम् ।। ४९ ।। रसिका स्त्री विजानाति सती गुणवती पतिम् । गुणज्ञं रसिकं शूरं सुशीलं सुरतौ सदा ।। ५० ।। दूराद्धावति पद्मार्थ मधुलोभान्मध्रुव्रतः । भेकस्तन्न हि जानाति तन्मूर्ध्नि पादमुत्सृजेत् ।। ५१ ।। यन्त्री जानाति संगीतरसं यन्त्रं च नैव च । दुग्धास्वादं विदग्धश्च न दर्वी नैव भाजनम् ।। ५२ ।। परिपक्वफलास्वादं जानन्ति भोगिनः सुखम् । एकत्रावस्थिताः शश्वन्नकिंचित्फलिनो यथा ।। ५३ ।। सुशीलजलास्वादं विजानन्ति तृषाल्वः । न च वापी न घटश्चैकत्रावस्थितो यथा ।। ५४ ।। भोकिनो हि विजानन्ति शालिस्वादुरसं परम् । एकत्रावस्थितं चेतु न क्षेत्रं भाजनं यथा ।। ५५ ।। बुबुधे चन्दनाघ्रणं चन्दनार्थी च भोगवित् । न गर्दभो भारवाही न तस्य पात्रिका यथा ।। ५६ ।। यं न यानन्ति वेदाश्च ब्रह्मेशानादयस्तथा । योगिनो मुनयः सिद्धास्तं किं जानन्ति योषितः ।। ५७ ।। सौभाग्यं गौरवं प्रेम दुर्लभं नित्यनूतम् । यौषितां च परं नैव चूर्णीभूतं क्षणेन च ।। ५८ ।। अत्युच्छ्रितो निपतनं प्राप्नोत्येव ध्रुवं प्रभो । आराद्विपत्तिबीजं च वैष्णवानां विहिंसनम् ।। ५९ ।। श्रीदामा च मया शप्तस्त्वद्भक्तो भक्तवत्सलः । एतादृशी विपत्तिर्मे पुत्रश्रीदामशापतः ।। ६० ।। ईश्वरः कस्य वा बन्धुः प्रियो वा विप्रियस्तथा । सततं भक्तिसाध्यश्च यो भक्तश्च तदीश्वरः ।। ६१ ।। वेदाश्च वैदिकाः सन्तः पुराणानि वदन्ति च । राधाया माधवः साध्यो भगवानिति निष्फलम् ।। ६२ ।। जित्वा च सगणं शंभुं बाणस्य भुजकृन्तनम् । कृत्वा च रुक्मिणीपौत्रः समानीतः सभार्यकः ।। ६३ ।। अहो त्वयि समायाते रुक्मिणी किमुवाच ह । प्रेम स्थितं समानं ते किं विवृद्धं च गौरवम् ।। ६४ ।। कुरुपाण्डवयुद्धेन कुरवो निहतास्त्वया । पाण्डवार्थे तथा भूपाः क्व साम्यं परमात्मनः ।। ६५ ।। साक्षान्महेन्द्रजातस्य कौन्तेयस्यार्जुनस्य च । राजमण्डलम्ध्यस्थो भवानेव हि सारथिः ।। ६६ ।। तेन भक्तेन शुद्धेन भीष्मेण च महात्मना । लज्जितेन किमुक्तं ते महतीषु मभासु च ।। ६७ ।। देवैरपि कथं दृष्टो ब्रह्मेशशेसंषज्ञकैः । भक्तसिहैर्भृत्तैः सर्वैर्न चोक्तं किंचिदेव सः ।। ६८ ।। यश्चानिर्वचनीयश्च वेदेषु च चतुर्षु च । पुराणेष्वितिहासेषु प्रकृतेः पर ईश्वरः ।। ६९ ।। निर्गुणच नीरीहश्च निर्लिप्तः सर्वकर्मणाम् । कर्मणां साक्षिरूपश्च भक्तानुग्रहविग्रहः ।। ७० ।। परं ब्रह्म परं ज्योतिः परमेशः परात्परः । परमात्मा च सर्वेषां सूतो नररथस्थितः ।। ७१ ।। त्वया कुब्जा च संभुक्ता वृद्धा क्षत्रियकामिनी । अपुत्रिणी चाधिकाङ्गी यूनाऽस्पृश्या च ।। प्रक्तनात् ।। ७२ ।। त्वया च निहतः कंसो मातुलः केन हेतुना । आयास्यतीति कृत्वा च गत्तं न पुनरागतम् ।। ७३ ।। निहत्य यादवान्सर्वान्विभज्य द्वारकां पुरीम् । त्वां निबध्य समानेतुमीश्वरी वारिता जनैः ।। ७४ ।। इत्युक्त्वा राधिका देवी भृशमुच्चै रुरोद सा । मूर्च्छां संप्राप सहसा निनिःश्वासा बभूव ह ।। ७५ ।। गोप्यो गवाक्षजालस्थाः शुश्रुवुर्ददृशुस्तथा । दृष्ट्वा तमाययुः सर्वा ऊचू राधा मृतेति च ।। ७६ ।। उच्चैस्ता रुरुदुः सर्वाः क्रोडे कृत्वा च राधिकाम् । ऊचुस्ता रक्षरक्षेति हरे नरहरे प्रभो ।। ७७ ।। गोप्य ऊचुः किं कृतं किं कृतं कृष्ण त्वया राधा मृता च नः । राधां जीवय भद्रं ते यास्यामः काननं वयम् ।। ७८ ।। अन्यथा स्त्रीवधं तुभ्यं दास्यामः सर्वयोषितः । गोपीनां वचनं श्रुत्वा राधिकायाश्च माधवः ।। ७९ ।। उवाच जीवयामास मुधादृष्ट्या च नारद । उत्तस्थौ राधिका देवी रुदती मानिनी सती ।। ८० ।। गोप्यस्तां बोधयामासुःक्रोडे कृत्वा पुनः पुनः ।। ८१ ।। श्रीकृष्ण उवाच श्रृणु राधे प्रवक्ष्यामि ज्ञानमाध्यात्मिकं परम् । यच्छ्रुत्वा हालिको मूर्खः सद्यो भवति पण्डितः ।। ८२ ।। जात्याऽहं चगतां स्वामी किं रुक्मिण्यादियोषिताम् । कार्यकारणरूपोऽहं व्यक्तो राधे पृथक् पृथक् ।। ८३ ।। एकात्माऽहं च विश्वेषां जात्या ज्योतिर्मयः स्वयम् । सर्वप्राणिषु व्यक्त्या चाप्याब्रह्मादितृणादिषु ।। ८४ ।। एकस्मिंश्च भुक्तवति न तुष्टोऽन्यो जनस्तथा । मय्यात्मनि गतेऽप्येको मृतोऽप्यन्यः सुजीवति ।। ८५ ।। जात्याऽहं कृष्णरूपश्च परिपूर्णतमः स्वयम् । गोलोके गोकुले पुण्ये क्षेत्रे वृन्दावने वने ।। ८६ ।। द्विभुजो गोपवेषश्च स्वयं राधापतिः शिशुः । गोपालैर्गोपिकाभिश्च सहितः कामधेनुभिः ।। ८७ ।। चतुर्भुजोऽहं वैकुण्ठे द्विधारूपः सनातनः । लक्ष्मीसरस्वतीकान्तः सततं शान्तविग्रहः ।। ८८ ।। यन्मानसी सिन्धुकन्या मर्त्यलक्ष्मीपतिर्भुवि । श्वेतद्वीपे च श्रीरीदे तत्रापि च चतुर्भुजः ।। ८९ ।। अहं नारायणर्षिश्च नरो धर्मः सनातनः । धर्मवक्ता च धर्मिष्ठो धर्मवर्त्मप्रवर्तकः ।। ९० ।। शान्तिर्लक्ष्मीस्वरूपा च धर्मिष्ठा च पतिव्रता । अत्र तस्याः पतिरहं पुण्यक्षेत्रे च भारते ।। ९१ ।। सिद्धेशः सिद्धिदः साक्षात्कपिलोऽहं सतीपतिः । नानारूपधरोऽहं च व्यक्तिभेदेन सुन्दरि ।। ९२ ।। अहं चतुर्भुजः शश्वद्द्वार्वत्यां रुक्मिणीवतिः । अहं क्षीरोदशायी च सत्यभामागृहे शुभे ।। ९३ ।। अन्यासां मन्दिरेऽहं च कायव्यूहात्पृथक्पृथक् । अहं नारायणर्षिश्च फाल्गुनस्यास्य सारथिः ।। ९४ ।। स नरर्षिर्धर्मपुत्रो मदंशो बलवान्भुवि । तपसाऽऽराधितस्तेन सारथ्येऽहं च पुष्करे ।। ९५ ।। यथा त्वं राधिका देवी गोलेके गोकुले तथा । वैकुण्ठे च महालक्ष्मीर्भवती च सरस्वती ।। ९६ ।। भवती मर्त्यलक्ष्मीश्च क्षीरोदशायिनः प्रिया । धर्मपुत्रवधूस्त्वं च शान्तिर्लक्ष्मीस्वरूपिणी ।। ९७ ।। कपिलस्य प्रिया कान्ताभारते भवती सती । त्वं सीता मिथिलायां च त्वच्छाया द्रौपदी सती ।। ९८ ।। द्वारवत्यां महाल्क्ष्मीर्भवती रुक्मिणी सती । पञ्चानां पाण्डवानां च भवती कलया प्रिया ।। ९९ ।। रावणेन हृता त्वं च स्वं च रामस्य कामिनी । नानारूपा यथा त्वं च च्छायया कलया सती ।। १०० ।। नानारूपस्तथाऽहं च श्वांशेन कलया तथा । परिपूर्णतमोऽहं च परमात्मा परात्परः ।। १०१ ।। इति ते कथितं सर्वमाध्यात्मिकमिदं सति । राधे कर्वापराधं मे क्षमस्व परमेश्वरी ।। १०२ ।। श्रीकृष्णवचनं श्रुत्वा परितुष्टा च राधिका । परितुष्टाश्च गोप्यश्च प्रणेमुः परमेश्वरम् ।। १०३ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo षड्विंशत्यधिकशततमोध्यायः ।। १२६ ।।

atha ṣaḍviṃśatyadhikaśatatamo'dhyāyaḥ nārāyaṇa uvāca gaṇeśapūjanaṃ kṛtvā mādhavo yādavaiḥ saha | devairmunibhiranyaiśca devībhiḥ saha nārada || 1 || aṃśena devo devībhī rukmiṇyādyābhireva ca | prayayau dvārakāṃ ramyāṃ tasthau siddhāśrame svayam || 2 || kṛtvā suprītisaṃbhāṣāṃ sārdhagolokavāsibhiḥ | gopaiḥ suhṛdbhirnandena mātrā gopyā yaśodayā || 3 || uvāca mātaraṃ tātaṃ sunītaṃ ca cathocitam | gopāṃśca gokulasthāṃśca bandhuvargāśca sāṃpratam || 4 || śrībhagavānuvāca gaccha nandavrajaṃ nanda he tāta prāṇavallbha | mātaryaśode tvamapi paramārthe yaśasvini || 5 || bhuktvā kālāvaśeṣaṃ ca gaccha golokamuttamam | sālokyamuktiṃ dāsyāmi sārtha gokulavāsibhiḥ || 6 || ityuktvā bhagavānkṛṣṇaḥ pitroranumatena ca | jagāma rādhikāsthānaṃ nandaśca gokulaṃ tathā || 7 || dadarśa rādhā rucirāṃ muktāhārāṃ ca sasmitām | yathā dvādaśavarṣīyāṃ śaśvatsusthirayauvanām || 8 || ratnoccairāsanasthā ca gopītriśatakoṭibhiḥ | āvṛtā vetrahastābhiḥ sasmitābhiśca sāṃpratam || 9 || dṛṣṭvā ca dūrato rādhā śrīkṛṣṇaṃ prāṇavallabham | śiśuveṣaṃ suveṣaṃ ca sundareśaṃ ca sasmitam || 10 || navīṃnajaladaśyāmaṃ pīṃtakauśeyavāsasam | candanokṣitasarvāṅgaṃ ratnabhūṣaṇabhūṣitam || 11 || mayūrapicchacūḍaṃ ca mālatīmālyaśobhitam | īṣaddhāsyaprasannāsyaṃ bhaktānuprahavigraham || 12 || krīḍākamalamamlānaṃ dhṛtavantaṃ manoharam | muralīhastavinyastaṃ supraśastaṃ ca darpaṇam || 13 || javena ca samutthāya gopībhiḥ saha sādaram | praṇamya parayā bhaktyā tuṣṭāva parameśvaram || 14 || rādhikovāca adya me saphalaṃ janmajīvitaṃ ca sujīvitam | yaddṛṣṭvā mukhacandraṃ te susnigdhaṃ locanaṃ manaḥ || 15 || pañca prāṇāśca snigdhāśca paramātmā ca supriyaḥ | ubhayorharṣabījaṃ ca durlabhaṃ bandhudarśanam || 16 || śokārṇave nimagnā'haṃ pradagdhā virahānalaiḥ | tvaddṛṣṭyā'mṛtavṛṣṭyā ca susiktā'dya suśītalā || 17 || śivā śivapradā'haṃ ca śivabījā tvayā saha | śi (śa) va svarūpā niśceṣṭā'pyadṛśyā ca tvayā vinā || 18 || tvayi tiṣṭhati dehe ca dehī śrīmāñchuciḥ svayam | sarvaśaktisvarūpā ca śivarūpā gate tvayi || 19 || strīpuṃso viṃraho nāthasāmānyaśca sudāruṇaḥ | yāntyeva śaktibhiḥ prāṇā vicchedātparamātmanaḥ || 20 || ityuktvā rādhikā vevī paramātmānamīśvaram | svāsane vāsayāsāsa kṛtvā pādārcanaṃ mudā || 21 || ratnasiṃhāsane śrīmānuvāsa rādhayā saha | gopībhiḥ saptabhiḥ śaśvatsevitaḥ śvetacāmaraiḥ || 22 || candanā sā dadau gātre sugandhi candanaṃ hareḥ | sasmitā ratnamālā sā ratnamālāṃ gale dadau || 23 || padmaiḥ padmārcite pādapadme padmāvatī satī | ardhyā dadau sā sajalaṃ dūrvā puṣpaṃ ca candanam || 24 || mālato mālatīmālyaṃ cūḍāyāṃ ca harerdadau | campāpuṣpasya puṭakaṃ dadau campāvatī satī || 25 || pārijātā ca haraye pārijātaṃ dadau mudā | sakarpūraṃ ca tāmbūlaṃ vāsitaṃ śītalaṃ jalam || 26 || dadau kadambamālā sā kadambamālikāṃ śubhām | krīḍākamalamamlānamamūlyaṃ rtanadarpaṇam || 27 || dadau haste harereva kamalā sā sukomalā | varuṇena purā dattaṃ vastrayugmaṃ ca sundaram || 28 || sākṣādgorocanābhaṃ ca sundarī haraye dadau | madhupātraṃ madhustasmai madhuraṃ madhupūrṇakam || 29 || sudhāpūrgaṃ sudhāpātraṃ dadau bhaktyā sudhāmukhī | cakāra puṣpaśayyāṃ ca gopī candanacarcitām || 30 || amlānamālatīpuṣpamālājālavibhūṣitām | ratnendrasāranirmāṇamandire sumanohare || 31 || maṇīndramuktāmāṇikyahīrahāravibhūṣite | kastūrīkuṅkumāktena vāyunā surabhīkṛte || 32 || ratnapradīpaśatakairjvaladbhiśca sudīpite | dhūpite satataṃ dhūpairnānāvastusamanvitaiḥ || 33 || kṛtvā śayyāṃ ratikarīṃ yayurgopyaśca sasmitāḥ | dṛṣṭvā rahasi talpaṃ ca suramyaṃ sumanoharam || 34 || mādhavo rāghayā sārdha viveśa ratimandiram | nānāprakārahāsyaṃ ca parihāsaṃ smarocitam || 35 || dvayorbabhūva talpe ca madanāturayostathā | mālyaṃ dadau ca kṛṣṇāya tāmbūlaṃ ca suvāsitam || 36 || kastūrīkuṅkumāktaṃ ca candanaṃ śyāmavakṣasi | cārucampakapuṣpaṃ ca cūḍāyāṃ pradadau satī || 37 || sahasradalasasaṃktakrīḍāpadmaṃ kare dadau | prakṣipya muralīṃ hastātpradadau ratnadarpaṇam || 38 || pārijātasya kusumamamlānaṃ purato dadau | uvāca madhuraṃ rādhā rahasye madhuraṃ vacaḥ sasmitā sasmitaṃ śāntaṃ kāntaṃ kāntā manoharam || 39 || rādhikovāca niṣphalaṃ maṅgalapraśtaṃ maṅgale maṅgalālaye | sarvamaṅgalabīje ca māṅgalye maṅgalaprade || 40 || tathā'pi kuśalapraśne sāṃprataṃ samayocitam | laukiko vyavahāro'pi vedebhyo balavāṃstathā || 41 || kuśalaṃ rukmiṇīkānta satyabhāmeśa sāṃpratam | mahandreṇa samaṃ yuddhaṃ līlayā ca yadājñayā || 42 || pārijātataruṃ svargādutpāṭya cāmarāvatīm | gatvā vijitya devāṃśca tasyai dasamiti śrutam || 43 || puṇyakaṃ ca kṛtaṃ tena pārijātena suvratam | tvāmeva sādhyaṃ kāntaṃ ca saṃpūrṇe dakṣiṇāṃ dadau || 44 || brahmeśaśeṣāsādhyastvaṃ tayā sādhyaḥ kṛtaḥ katham | sarvabhyaḥ kāminībhyaśca satyabhāmāṃ bibheṣi ca || 45 || rukmiṇyāṃ premasaubhāgyamatiriktaṃ ca gauravam | bhayaṃ mālyaṃ ca dhanyāyāṃ satyāyāṃ satataṃ śrutam || 46 || satyaṃ jāmbavatīkānta vada māṃ ca suniścitam | tāsu sarvāsu kāntāsu kasyāste prema cādhikam || 47 || śṛṅgāre sarvabhāve vā tāsu kā rasikā parā | tvayi snigdhā vidagdhā kā tāmu dhanyā'tisuvratā || 48 || sā strī bhāvānuraktā yā bhāryāṃ pāti patiśca saḥ | premātiriktaṃ strīpuṃsostrailokyeṣu sudurlabham || 49 || rasikā strī vijānāti satī guṇavatī patim | guṇajñaṃ rasikaṃ śūraṃ suśīlaṃ suratau sadā || 50 || dūrāddhāvati padmārtha madhulobhānmadhruvrataḥ | bhekastanna hi jānāti tanmūrdhni pādamutsṛjet || 51 || yantrī jānāti saṃgītarasaṃ yantraṃ ca naiva ca | dugdhāsvādaṃ vidagdhaśca na darvī naiva bhājanam || 52 || paripakvaphalāsvādaṃ jānanti bhoginaḥ sukham | ekatrāvasthitāḥ śaśvannakiṃcitphalino yathā || 53 || suśīlajalāsvādaṃ vijānanti tṛṣālvaḥ | na ca vāpī na ghaṭaścaikatrāvasthito yathā || 54 || bhokino hi vijānanti śālisvādurasaṃ param | ekatrāvasthitaṃ cetu na kṣetraṃ bhājanaṃ yathā || 55 || bubudhe candanāghraṇaṃ candanārthī ca bhogavit | na gardabho bhāravāhī na tasya pātrikā yathā || 56 || yaṃ na yānanti vedāśca brahmeśānādayastathā | yogino munayaḥ siddhāstaṃ kiṃ jānanti yoṣitaḥ || 57 || saubhāgyaṃ gauravaṃ prema durlabhaṃ nityanūtam | yauṣitāṃ ca paraṃ naiva cūrṇībhūtaṃ kṣaṇena ca || 58 || atyucchrito nipatanaṃ prāpnotyeva dhruvaṃ prabho | ārādvipattibījaṃ ca vaiṣṇavānāṃ vihiṃsanam || 59 || śrīdāmā ca mayā śaptastvadbhakto bhaktavatsalaḥ | etādṛśī vipattirme putraśrīdāmaśāpataḥ || 60 || īśvaraḥ kasya vā bandhuḥ priyo vā vipriyastathā | satataṃ bhaktisādhyaśca yo bhaktaśca tadīśvaraḥ || 61 || vedāśca vaidikāḥ santaḥ purāṇāni vadanti ca | rādhāyā mādhavaḥ sādhyo bhagavāniti niṣphalam || 62 || jitvā ca sagaṇaṃ śaṃbhuṃ bāṇasya bhujakṛntanam | kṛtvā ca rukmiṇīpautraḥ samānītaḥ sabhāryakaḥ || 63 || aho tvayi samāyāte rukmiṇī kimuvāca ha | prema sthitaṃ samānaṃ te kiṃ vivṛddhaṃ ca gauravam || 64 || kurupāṇḍavayuddhena kuravo nihatāstvayā | pāṇḍavārthe tathā bhūpāḥ kva sāmyaṃ paramātmanaḥ || 65 || sākṣānmahendrajātasya kaunteyasyārjunasya ca | rājamaṇḍalamdhyastho bhavāneva hi sārathiḥ || 66 || tena bhaktena śuddhena bhīṣmeṇa ca mahātmanā | lajjitena kimuktaṃ te mahatīṣu mabhāsu ca || 67 || devairapi kathaṃ dṛṣṭo brahmeśaśesaṃṣajñakaiḥ | bhaktasihairbhṛttaiḥ sarvairna coktaṃ kiṃcideva saḥ || 68 || yaścānirvacanīyaśca vedeṣu ca caturṣu ca | purāṇeṣvitihāseṣu prakṛteḥ para īśvaraḥ || 69 || nirguṇaca nīrīhaśca nirliptaḥ sarvakarmaṇām | karmaṇāṃ sākṣirūpaśca bhaktānugrahavigrahaḥ || 70 || paraṃ brahma paraṃ jyotiḥ parameśaḥ parātparaḥ | paramātmā ca sarveṣāṃ sūto nararathasthitaḥ || 71 || tvayā kubjā ca saṃbhuktā vṛddhā kṣatriyakāminī | aputriṇī cādhikāṅgī yūnā'spṛśyā ca || praktanāt || 72 || tvayā ca nihataḥ kaṃso mātulaḥ kena hetunā | āyāsyatīti kṛtvā ca gattaṃ na punarāgatam || 73 || nihatya yādavānsarvānvibhajya dvārakāṃ purīm | tvāṃ nibadhya samānetumīśvarī vāritā janaiḥ || 74 || ityuktvā rādhikā devī bhṛśamuccai ruroda sā | mūrcchāṃ saṃprāpa sahasā niniḥśvāsā babhūva ha || 75 || gopyo gavākṣajālasthāḥ śuśruvurdadṛśustathā | dṛṣṭvā tamāyayuḥ sarvā ūcū rādhā mṛteti ca || 76 || uccaistā ruruduḥ sarvāḥ kroḍe kṛtvā ca rādhikām | ūcustā rakṣarakṣeti hare narahare prabho || 77 || gopya ūcuḥ kiṃ kṛtaṃ kiṃ kṛtaṃ kṛṣṇa tvayā rādhā mṛtā ca naḥ | rādhāṃ jīvaya bhadraṃ te yāsyāmaḥ kānanaṃ vayam || 78 || anyathā strīvadhaṃ tubhyaṃ dāsyāmaḥ sarvayoṣitaḥ | gopīnāṃ vacanaṃ śrutvā rādhikāyāśca mādhavaḥ || 79 || uvāca jīvayāmāsa mudhādṛṣṭyā ca nārada | uttasthau rādhikā devī rudatī māninī satī || 80 || gopyastāṃ bodhayāmāsuḥkroḍe kṛtvā punaḥ punaḥ || 81 || śrīkṛṣṇa uvāca śrṛṇu rādhe pravakṣyāmi jñānamādhyātmikaṃ param | yacchrutvā hāliko mūrkhaḥ sadyo bhavati paṇḍitaḥ || 82 || jātyā'haṃ cagatāṃ svāmī kiṃ rukmiṇyādiyoṣitām | kāryakāraṇarūpo'haṃ vyakto rādhe pṛthak pṛthak || 83 || ekātmā'haṃ ca viśveṣāṃ jātyā jyotirmayaḥ svayam | sarvaprāṇiṣu vyaktyā cāpyābrahmāditṛṇādiṣu || 84 || ekasmiṃśca bhuktavati na tuṣṭo'nyo janastathā | mayyātmani gate'pyeko mṛto'pyanyaḥ sujīvati || 85 || jātyā'haṃ kṛṣṇarūpaśca paripūrṇatamaḥ svayam | goloke gokule puṇye kṣetre vṛndāvane vane || 86 || dvibhujo gopaveṣaśca svayaṃ rādhāpatiḥ śiśuḥ | gopālairgopikābhiśca sahitaḥ kāmadhenubhiḥ || 87 || caturbhujo'haṃ vaikuṇṭhe dvidhārūpaḥ sanātanaḥ | lakṣmīsarasvatīkāntaḥ satataṃ śāntavigrahaḥ || 88 || yanmānasī sindhukanyā martyalakṣmīpatirbhuvi | śvetadvīpe ca śrīrīde tatrāpi ca caturbhujaḥ || 89 || ahaṃ nārāyaṇarṣiśca naro dharmaḥ sanātanaḥ | dharmavaktā ca dharmiṣṭho dharmavartmapravartakaḥ || 90 || śāntirlakṣmīsvarūpā ca dharmiṣṭhā ca pativratā | atra tasyāḥ patirahaṃ puṇyakṣetre ca bhārate || 91 || siddheśaḥ siddhidaḥ sākṣātkapilo'haṃ satīpatiḥ | nānārūpadharo'haṃ ca vyaktibhedena sundari || 92 || ahaṃ caturbhujaḥ śaśvaddvārvatyāṃ rukmiṇīvatiḥ | ahaṃ kṣīrodaśāyī ca satyabhāmāgṛhe śubhe || 93 || anyāsāṃ mandire'haṃ ca kāyavyūhātpṛthakpṛthak | ahaṃ nārāyaṇarṣiśca phālgunasyāsya sārathiḥ || 94 || sa nararṣirdharmaputro madaṃśo balavānbhuvi | tapasā''rādhitastena sārathye'haṃ ca puṣkare || 95 || yathā tvaṃ rādhikā devī goleke gokule tathā | vaikuṇṭhe ca mahālakṣmīrbhavatī ca sarasvatī || 96 || bhavatī martyalakṣmīśca kṣīrodaśāyinaḥ priyā | dharmaputravadhūstvaṃ ca śāntirlakṣmīsvarūpiṇī || 97 || kapilasya priyā kāntābhārate bhavatī satī | tvaṃ sītā mithilāyāṃ ca tvacchāyā draupadī satī || 98 || dvāravatyāṃ mahālkṣmīrbhavatī rukmiṇī satī | pañcānāṃ pāṇḍavānāṃ ca bhavatī kalayā priyā || 99 || rāvaṇena hṛtā tvaṃ ca svaṃ ca rāmasya kāminī | nānārūpā yathā tvaṃ ca cchāyayā kalayā satī || 100 || nānārūpastathā'haṃ ca śvāṃśena kalayā tathā | paripūrṇatamo'haṃ ca paramātmā parātparaḥ || 101 || iti te kathitaṃ sarvamādhyātmikamidaṃ sati | rādhe karvāparādhaṃ me kṣamasva parameśvarī || 102 || śrīkṛṣṇavacanaṃ śrutvā parituṣṭā ca rādhikā | parituṣṭāśca gopyaśca praṇemuḥ parameśvaram || 103 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo ṣaḍviṃśatyadhikaśatatamodhyāyaḥ || 126 ||

English translation

Meeting of Radhi and K^na NSrayana said-0 Narada, Krsria thus heard the adoration of Ganesa in the company of Yadavas, the gods, the sages, the goddesses and other Thereafter from his arhs'a, he proceeded to Dvaraka in the company of Rukmin! and other goddesses and in one form he stayed in From there, he keeping the company of cowherds and cowherdesses, Nanda, mother Yasoda and cowherdesses continued conversation with them. Thereafter, he spoke to his parents, the cowherds and cowherdesses of the Goloka.

Sri Krsiia said- ”0 mother, O Nanda, you are dear to me then my life now you return to Vraja.

O glorious and the best mother Yasoda, you also return to Gokula and spend the rest of the life there. Enjoying all the pleasures in Gokula, you would achieve the salvation together with the people of Gokula”.

Thus speaking with the permission of his parents, he went to his place of Radhika and Reaching there, he met Radha who was adorned with the garland of gems and was smiling, she was ever youthful and looked like a damsel of twelve years.

She was seated on the gem-studded seats, she was smiling and was surrounded by innumerable cowherdesses, each holding a staff in her hand.

Radha looked at Krsna who was dearer to her | than her life and was coming towards her; he was ] clad in beautiful costumes like a boy and he was wearing a serene smile on his face. He had a lustre of the new cloud and had a dark complexion. He was clad in beautiful silken yellow lower garment and the entire body was plastered with the sandal-paste. His body was adorned with the best of gem-studded ornaments and a peacock feather was adorning his head. He was wearing garland of jasmine flowers, his delightful face wore a smile. He was holding the lotus flowers. He was carrying a flute in his one hand and in the other he carried a mirror. Finding him there, Radha got up at once from her seat and started praying him with jy HtxR -iR: 11 I Radha said- My life has met with success today by looking at your moon like face; my eyes and my mind are now delighted.

All the five prdnas of mine have been filled with delight; the sight of a dear relative is cause of delight always.

I had been drowned in the ocean of grief and was burning with the fire of separation but today the same has been completely subsided.

With you, I am always the from of welfare, bestower of welfare and the cause of welfare.

But without you I am like a dead body, getting motionless and become invisible.

When you stay in this body the soul become a beautiful and pure. I feel myself all powerful, but without you I look like a dead body. O lord, the separation between the man and woman is always painful but with the separation of the lord, all the s'aktis and the five pranas also Thus speaking the goddess Radha made Sri Krsna to sit on the seat and the herself adored his Thereafter, Sri Krsna occupied the gem- studded lion-throne together with Radha, seven cowherdesses served them by moving white fly- Tirlr'ERjT I The cowherdesses named Candana applied the fragrant sandal-paste on the body of the lord, the smiling Ratnamala placed the garland of gems around his neck.

The chaste Padmavatl adored the lotus-like feet of the lord with lotus flowers, she also offered the arghya together with Z)urva-grass, flowers and sandal-paste.

Malati on the other hand placed the garland of jasmine flower around the neck of Malati, the chaste Campavatl offered him the bunch of Pdrijdta on her part, offered the lord, the Pdrijdta flowers, betel with camphor, besides the Kadambamala presented the garland of kadamba flowers, the fresh lotus flowers and valuable mirrors of gems. The tender limbed Kamala gave the two costumes given by Vanina The beautiful Madhu presented to the lord the sweet honey having the colour of gorocana in a SudhamukhI presented to the lord, a vase of nectar with devotion, a cowherdesses prepared a bed of flowers.

The bed was decorated with the garland of jasmine flowers. It was placed in such a charming place which was built with the best of It was decorated with the best of gems, jewels, emeralds and other precious gems and had the fragrance of kasturt, the saffron and several It was illumined with hundreds of the gem- studded lamps. It bore the fragrance of several of the scented incense and other materials.

By making a bed for comfortable sleeps, the cowherdesses left the place smilingly. Thereafter, finding the bed in a lonely place which attracted the mind, Madhava entered the place of pleasure.

Both of them were engaged in conjugal pleasures. The chaste Radha then adorned the neck of Madhava with the garland of fragrant flowers and also gave him the fragrant betel.

After that she pasted the kasturl and saffron paste on his body and adorned his hair with the beautiful jasmine flower. She handed over a fully blossomed lotus flower with thousand petals, in his hand and snatching away the flute from his hand she gave him the mirror of gems; thereafter she placed the blossomed flower of Parijdta before him. Thereafter Radha in a peaceful form spoke quite sweet words to her beloved.

Radhika said- O lord, the one who is the store of the welfare, the cause of welfare, the form of welfare and the bestower of prosperity. To ask the question about your welfare is of no consequence. In spite of that, it is proper to enquire about the welfare because the traditions are more forceful than the Vedic hymns, O lord of Rukmini, 0 lord of Satyabhtoa, are you all right. At the instance of Satyabhama, you playfully engage yourself in conflict with Indra and uprooting the Pdrijdta tree from Amaravatl in the heaven, conquered the gods and handed it over to Satyabhama. This is what has been heard by me. With the use of the Pdrijdta flower, she performed the Punyaka-vrata. After completing it, She gave yourself as daksina to the priest.

You are beyond the reach of Brahma, Siva and Sesa then how could she over-power you? You are afraid of Satyabhama in comparison to all other damsels.

Your love for Rukmini is the matter of great glory of her it is heard that you are afraid of Satyabhama and you offer her the flower O beloved of Jambavatl, you tell me truthfully which one of the damsels is more attached to Which one of them is more lovable to you?

Which one of them, performing the best of vratas is loved by you the most?

Only that damsel could be called virtuous who conducts herself according the desires of the husband. The complete harmony in the conducting of love between the man and a woman is difficult to get in the three worlds.

The passionate, chaste and virtuous damsel is fiilly attracted towards the one who possesses all the qualities is quite passionate, valorous and The black-wasps feeling greedy for the nectar, rush toward the lotus flower but the frog is completely unaware about it and therefore places its feet over its head.

The one who plays upon the musical instruments enjoys the sweet news of the tune but instruments itself unaware of it. A clever person very well knows the taste of the milk but not the vase in which the milk is contained.

The consumers are well-aware of the taste of the ripe fruit but the tree over which the fruits is ripened remains unaware of the same.

The thirsty person knows the taste of the cold water but the tank or the pitchers in which the water is contained remains unaware of the same.

The consumer enjoys the tasteful the rice but the paddy field or the vase in which the rice is cooked remains unaware of the same.

The user of the sandal-paste remains quite well-aware of its fragrance but the donkey who carries the sandal-wood remains unaware of the The one who in beyond the reach of the Vedas, Brahma, ^iva, Yogis, ascetics and siddhas, how could he be known by the woman.

Even the fortune, glory and love are difficult to achiever but the ladies snatch them in a O lord, after reaching the extreme height, one has to fall. The violence of the Vaisnavas results in misfortune.

wtsrmr ^ w sTTfigRiR: i Your devotee named ^rldama was cursed by me and because of the same I had to face the misfortune as a result of the curse of Sridama.

To whom the lord is dearer; he is always achieved with devotion and for him the devotee is the lord.

The Vedas, the Vedic literature, the ascetic and the Puranas pronounce repeatedly that lord Krsna is over-powered by Radha. This is useless.

Over-powering Siva together with his gaifos, cutting of the arms of BSna you brought back Aniruddha, the grandson of RukminI together with his wife.

ISfwfIr f*g3[T5f l?l What did RukminI speak after your return?

You love all equally, was there any increase from prestige with the same.

In the battle between the Kauravas and the Pandavas, you made the kings of the Kaurava side to be killed. You tell me where is your vision for equality to all?

You became the charioteer of Arjuna, the son of Indra. What did noble Bhisma speak to you getting ashamed in the assembly?.

What did Brahma, Siva, Sesa and other gods speak to you? All your devotees kept quiet and spoke nothing. You are the same who is inexplicable in the Vedas, Puranas and the historical treatises, beyond Prakrti, the great lord, devoid of gums, unattached, uninvolved, the witness of all the deeds, the one who takes to human form for the sake of the devotees, the eternal Brahman* the divine light, beyond everything and became the charioteer of a human being in spite of your being the supreme soul.

Initially you kept company of the old Kubja who was untouchable by the youth.

What for did you kill Kamsa your maternal uncle? You said that 'you will come' but after departure you did not come again?

Killing Yadavas, dividing the city of Dvaraka, the people had prevented the goddess, who ordained to capture you.

Thus speaking Radhika started crying aloud and fainted stopping breathing.

The cowherdesses who were peeping through the windows witnessed the sight. All of them rushed towards her and all of them declared that Radha was dead.

All of them lifted up Radha and started crying.

O lord, O Hari, "Save us ”.

The cowherdesses said- O Krsna what have you done? Our Radha is dead. You bring her back to life. You will be prosperous. All of us shall retired to the forest.

iiRichi ggi'ii^on Otherwise all of us shall give you the blemish of killing a woman. O Narada, on hearing the words of the cowherdesses, the lord of Radhika, MMhava spoke the words which were like nectar and with his lovable glance at her brought her back to life. The proud Radha got up while sobbing. Thereafter all the cowherdesses took Radha in their lap and started talking to her.

SrI Kfsna said- O Radha, I shall impart the divine knowledge to you hearing which even a ploughman becomes immensely intelligent.

I am the lord of the universe since birth then what to speak of the woman like RukminI and others, I possess the personality because of my being the cause of the deeds as well as the deeds I myself represent divine lustre, I happen to be the soul of the entire universe and pervade all the creatures right from the blade of grass to Since, with the taking of food by one, others are not satisfied, similarly with my departure from the body one dies but the others remain I am complete in all respect in the form of Krsna. Since my birth I remain present with two arms in Goloka, Gokula and Vmdavana being the lord of Radha and also play as a child with Yasoda in the form of a cowherd; all the cowherds, the cowherdesses, are associated with I remain in Vaikuntha with four arms and appear as the beloved of Laksmi and Sarasvatl there in peaceful form.

I also appear over the earth in Sveta-dvipa in the ocean of milk as the husband of ManasI, SindhukanyS and Martyalaksml. There also I appear in four armed form.

I happen to be the sage NSrSyana, the profounder of Dharma. I am devoted to Dharma and those who follow the path of Dharma are attached to me.

The extremely religious and chaste Laksmi happens to be my spouse and I happen to be her lord in the sacred land of Bharata.

I am the lord of siddhas and bestower of siddhis and also appear in the form of Kapila. O beautiful one, thus I take to several forms according to the exigencies of the situation.

In the two-armed form, I always remain in Dvaraka as the, lord of Rukmini. I sleep in the ocean of milk and also dwell in the abode of Satyabhama and other queens taking to different forms. I functioned as the charioteer of Arjuna.

Arjuna happens to be a human sage, the son of Dharma, is quite valorous and was bom on the earth from my amsa. He had performed great tapas in the Puskara-ksetra for myself performing as his charioteer O dear, you are Radhika in the Goloka, you are the same in Gokula. You happen to be Mahalaksml and Sarasvatl of the Vaikuntha. You happen to be the Martyalaksmi in the ocean of milk. You are the daughter-in-law of Dharma and appear in the form of LaksmI with peaceful You happen to be the chaste Bharatl, the dearest wife of the sage Kapila in the land of Bharata. You are the one known as Sita in Mithila. you happen to be shadow of the chaste DraupadI, you also appear in the fonn of MahalaksmI in Dvaraka and Rukmini as well.

DraupadI who was bom of your ray became the spouse of the Pandavas You are Slta of Rama and was abducted by Ravana. O chaste one, you appear in different forms in the universe and similarly I also appear in different forms in the universe. I happen to be the complete supreme soul and beyond O chaste one, I have therefore imparted to you the entire divine knowledge. O Radha, supreme goddess, you forgive me for all the sins. ' On hearing the words of Krsna, Radha as well as the cowherdesses felt satisfied and started offering their salutation to. Krsna.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 76593 (2016-08-26T01:34:09Z); Shanti Lal Nagar English scan pages n1666–n1674: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1666/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.