Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 124
Sourceअथ चतुर्विंशत्यधिकशततमोऽध्योयः नालायण उवाच राधा संपूज्य विधिना स्तुत्वा लम्बोदरं सती । अमूल्यरत्ननिर्माणं सर्वाङ्गभूषणं ददौ ।। १ ।। राधायाः स्तवनं श्रुत्वा पूजां दृष्ट्वा च वस्तु च । उवाच मधुरं शान्तः शान्तां त्रैलोक्यमातरम् ।। २ ।। गणेश उवाच तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे । ब्रह्मस्वरूपा भवती कृष्णवक्षः स्थलस्थिता ।। ३ ।। यत्पादपद्मतुलं ध्यायन्ते ते सुदुर्लभम् । सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ।। ४ ।। जीवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः । तस्य प्राणाधिदेवी त्वं प्रिया प्राणाधिका परा ।। ५ ।। वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः । महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ।। ६ ।। वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी । वेदानां जगतामेव मूल्प्रकृतिरीश्वरी ।। ७ ।। सर्वाः प्राकृतिका मातः सृष्ट्यां च त्वद्विभूतयः । विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी ।। ८ ।। प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि । आदौ राधां समुच्चार्य पश्चात्कृष्णं परात्परम् ।। ९ ।। स एव पण्डितो योगी गोलोकं याति लीलया । व्यतिक्रमे महापापी ब्रह्महत्यां लभेत्ध्रुवम्।। १० ।। जगतां भवती माता परमात्मा पिता हरिः । पितुरेव गुरुर्माता पूज्या वन्द्या परात्परा ।। ११ ।। भजते देवमन्यं वा कृष्णं वा सर्वकारणम् । पुण्यक्षेत्रे महामूढो यदि निन्दति राधिकाम् ।। १२ ।। वंशहानिर्भवेत्तस्य दुःखशोकमिहैव च । पच्यते निरये घोरे यावच्चन्द्रदिवाकरौ ।। १३ ।। गुरुश्चज्ञानोद्गिरणाज्ज्ञानं स्यान्मन्त्रतन्त्रयोः । स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद्ध्रुवयोर्यतः ।। १४ ।। निषेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि । भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे ।। १५ ।। निषेव्य मन्त्रे शंभोश्च जगतां कारणस्य च । तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम् ।। १६ ।। युक्योः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् । क्षणार्धं षोडशांशं च नहि मुञ्चति दैवतः ।। १७ ।। भक्त्या च युवचोर्मन्त्रं गृहीत्वा वैष्मपादपि । स्तवं वा कवचं वाऽपि कर्ममूलनिकृन्तनम् ।। १८ ।। योजयेत्परया भक्त्या पुण्यक्षेत्रे च भारते । पुरुषाणां सहस्रं च त्वात्मना सार्धमुद्धरेत् ।। १९ ।। गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः । कवचं धारयेद्यो हि विष्णुतुल्यो भवेद्ध्रुवम् ।। २० ।। यद्दत्तं वस्तु मे मातस्तत्सर्वं सार्थकं कुरु । देहि विप्राय मत्प्रीत्या तदा भोक्ष्यामि सांप्रतम् ।। २१ ।। देवे देयानि दानानि देवे देया च दक्षिणा । तत्सर्वं ब्राह्मणे दद्यात्तदानन्त्याय कल्पते ।। २२ ।। ब्राह्मणानां मुखं राधे देवानां मुखमुख्यकम् । विप्रभुक्तं च यद्द्रव्यं प्राप्नुवन्त्येव देवताः ।। २३ ।। विप्रांश्च भोजयामास तत्सर्व राधिका सती । बभूव तत्क्षणादेव प्रीतो लम्बोदरो मुने ।। २४ ।। एतस्मिन्नन्तरे देवा ब्रह्मेशशेषसंज्ञकाः । आययुर्वटमूलं च देवपूजार्थमेव च ।। २५ ।। तत्र गत्वा शिवचरो देवान्देवीरुवाच सः । श्रीकृष्णं शुष्ककण्ठश्च भयभीतश्च रक्षकः ।। २६ ।। रक्षक उवाच गणेशं पूजयामास सर्वादौ च शुभक्षणे । वृषभानसुता राधा प्रकृत्य स्वस्तिवाचनम् ।। २७ ।। सहिता सा बलवती गोपीत्रिशतकोटिभिः । वारितोऽहं वलिष्ठाभिर्युष्मांश्च कथयामि तत् ।। २८ ।। मर्वादौ पूजयेद्यो हि सोऽनन्तं फलमालभेत् । मध्ये मध्यविधं पुण्यं शेषे स्वल्पमिति स्मृतम् ।। २९ ।। देवेन्द्रेषु मुनीन्द्रेषु देवस्त्रीषु स्थितासु च । गोपीभिश्च सह तया राधया पूजितः परः ।। ३० ।। दूतवाक्यं समाकर्ण्य जहसुः सर्वदेवताः । मुनयो मनवश्चैव राजानो देवयोषितः ।। ३१ ।। रुक्मिण्याद्या रमण्यश्च या देव्यो विस्मयं ययुः । सरस्वती च सावित्री पार्वती परमेश्वरी ।। ३२ ।। रोहिणी च सती संज्ञा स्वाहाद्या देवयोषितः । मुदिताः प्रययुः सर्वा मुनिपत्न्यः पतिव्रताः ।। ३३ ।। मुनयो मनवः सर्वे देवाश्चापि नरास्तथा । श्रीकृष्णः स गणैः सार्धं ये चान्ये प्रययुर्मुदा ।। ३४ ।। ते सर्वे विविधैर्द्रव्यैः पूजां चक्रुः शुभक्षणे । बलिष्ठा दुर्बलाश्चैव क्रमेण च पृथक्पृथक् ।। ३५ ।। लड्डुकानां च राशीनां शतकोटिर्बभूव ह । शर्कराणां तदर्धं च स्वस्तिकानां तथैव च ।। ३६ ।। अन्नानां भव्यवस्तूनां शतकोटिर्बभूव ह । असंख्यानि फलान्येव स्वादूनि मधुराणि च ।। ३७ ।। मधुकुल्या दुग्धकुल्या दधिकुल्या घृतस्य च । बभूवुः शतसंख्याश्च त्रैलोक्यानां च पूजने ।। ३८ ।। पूजां कृत्वा तु ते सर्वे समूषुश्च सुखासने । पार्वती परमप्रीत्या राधास्थानं समाययौ ।। ३९ ।। सा राधा पार्वतीं दृष्ट्वा समुत्थाय जवेन च । यथायोग्यां च संभाषां चकार सादरं मुदा ।। ४० ।। आश्लेषणं चुम्बनं च बभूव च परस्परम् । उवाच मधुरं दुर्गा राधां कृत्वा स्ववक्षसि ।। ४१ ।। पार्वत्युवाच किंवा प्रश्नं करिष्यामि त्वां राधा मङ्गलालयाम् । गता ते विरहज्वाला श्रीदाम्नः शापमोक्षणे ।। ४२ ।। सततं मन्मनः प्राणास्त्वय्येव मयि ते तथा । न ह्येवमावयोर्भेदः शक्तिपूरुषयोस्तथा ।। ४३ ।। येत्वां निन्दन्ति मद्भक्तास्त्वद्भक्ताश्चापि मामपि । कुम्भीपाके च पज्यन्ते यावच्चन्द्र दिवाकरौ ।। ४४ ।। राधामाधवयोर्भेदं ये कुर्वन्ति नराधमाः । वंशहानिर्भवेत्तेषां पच्यन्ते नरके चिरम् ।। ४५ ।। यान्ति सूकरयोनिं च पितृभिः शतकैः सह । षष्टिवर्षसहस्राणि विष्ठायां कृमयस्तथा ।। ४६ ।। त्वयैव पूजितः पुत्रो न मया च गणेश्वरः । सर्वादौ सर्वपूज्योऽयं यथा तव तथा मम ।। ४७ ।। यावज्जीवनपर्यन्तं न विच्छेदो भविष्यति । राधामाधवयोर्देवि दुग्धधावल्ययोर्यथा ।। ४८ ।। सिद्धाश्रमे महातीर्थे पुण्यक्षेत्रे च भारते । निर्वघ्नं लभगोविन्दं संपूज्य विघ्नखण्डनम् ।। ४९ ।। रासेश्वरी त्वं रसिका श्रीकृष्णो रसिकेश्वरः । विदग्धाया विदग्धेन संगमो गुणवान्भदेत् ।। ५० ।। श्रीदाम्नः शापनिर्मुक्ता शतवर्षान्तरे सति । कुरुष्व मद्रेणाद्य कृष्णेन सह संगमम् ।। ५१ ।। ममाऽऽज्ञया दुर्लभया सुवेषं कुरु सुन्दरि । सुदुर्लभः कामिनीनां सत्पुंसा सह संगमः ।। ५२ ।। चक्रुः सुवेषं राधायाः प्रियाल्यश्च शिवाज्ञया । रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ।। ५३ ।। पुरतो रत्नमाला सा रत्नमालां गले ददौ । राधाया दक्षिणे हस्ते क्रीडापद्मं मनोहरम् ।। ५४ ।। ददौ पद्ममुखी पादपद्मयुग्मेऽप्यलक्तकम् । प्रददौ सुन्दरी गोपी सिन्दूरं सुन्दरं वरम् ।। ५५ ।। चन्दनेन समयुतं सीमन्ताधः स्थलोज्ज्वलम् । सुचारुकबरीं रम्यां चकार मालती सती ।। ५६ ।। मनोहरां मुनीनां च मालतीमाल्यभूषिताम् । कस्तूरीकुङ्कुमाक्तं च चारुचन्दनपत्रकम् ।। ५७ ।। स्तनयुग्मे सुकठिने चकार चन्दना सती । चारुचम्पकपुप्पाणां मालां गन्धमनोहराम् ।। ५८ ।। मालावती ददौ तस्यौ प्रफुल्लां नवमल्लिकाम् । रतीषु रसिका गोपी रत्नभूषणभूषिताम् ।। ५९ ।। तां चकारातिरसिकां वरां रतिरसोत्सुकाम् । शरत्पद्मदलाभं च लोजनं कज्जलोज्ज्वलम् ।। ६० ।। कृत्वा ददौ सुललितं वस्त्रं च ललिता सती । महेन्द्रेण प्रदत्तं च पारिजातप्रसूनकम् ।। ६१ ।। सुगन्धियुक्तं तस्याश्च पारिजातं करे ददौ । सुशीलं मधुरोक्तं च भर्तुः पार्श्वे यथोचितम् ।। ६२ ।। शिक्षां चकार नीतिं च सुशीला गोपिका सती । स्त्रीणां च षोडशकलां विपत्तौ विस्मृतांतयोः ।। ६३ ।। स्मरणं कारयामास राधामाता कलावती । श्रृङ्गारविषयोक्तं च वचनं च सुधोपमम् ।। ६४ ।। स्मरणं कारयामास भगिनी च सुधामुखी । कमलानां चम्पकानां दले चन्दनचर्चिते ।। ६५ ।। चकार रतितल्पं च कमला चाऽऽशु कोमलम् । चारुचम्पकपुष्पं च कृष्णार्थं पुटकस्थितम् ।। ६६ ।। चकार चन्दनाक्तं च स्वयं च पार्वती सती । पुष्पं केलिकदम्बानां स्तबकं च मनोहरम् ।। ६७ ।। कदम्बमालां कृष्णार्थ विद्यमानां चकार सा । ताम्बूलं च वरं सम्यं कर्पूरादिसुवासितम् ।। ६८ ।। कृष्णप्रिया च कृष्णार्थं चकार वासितं जलम् । एतस्मिन्नन्तरे सर्वमाश्रमं सजलस्थलम् ।। ६९ ।। साक्षाद्गोरोचनाभं च ददृशुर्मुनयः सुराः । ते सर्वे विस्मयं गत्वा पप्रच्छुः कृष्णमीश्वरम् ।। ७० ।। उवाच भगवांस्ताश्च सर्वज्ञः सर्वकाराणा ।। ७१ ।। श्रीभगवानुवाच अभिशप्ता च श्रीदाम्ना भ्रष्टशोभा राधिका । सर्वं ज्ञानं विसस्मार मद्विच्छेदज्वरातुरा ।। ७२ ।। विमुक्ते वर्षशतके ज्ञानं सस्मार सा सती । सिद्धाश्रमं च पीताभं रासेश्वर्याश्च तेजसा ।। ७३ ।। परमाह्लादकं तेजश्चन्द्रकोटिसमप्रभम् । सुखदृश्यं च सुखदं चक्षुधां प्राणिनामपि ।। ७४ ।। तच्छ्रुत्वा परमाश्चर्यं मुनयो मनवस्तथा । देव्यश्च सर्वदेवास्ते ब्रह्मेशानादयस्तथा ।। ७५ ।। जवेन गत्वा तत्स्थानं भक्तिनम्रात्मकंधरा । सर्वे जनास्ते ददृशुस्त्रैलोक्यस्थाश्च राधिकाम् ।। ७६ ।। श्वेतचम्पकवर्णाभामतुलां सुमनोहराम् । मोहिनीं मानसानां च मुनीनामूर्ध्वरेतसाम् ।। ७७ ।। सुकेशीं सुन्दरीं श्यामां न्यग्रोधपरिमण्डलाम् । नितम्बकठिनश्रोणीं स्तनयुग्मोन्नताननाम् ।। ७८ ।। कोटीन्दुनिन्दितास्यां तां सस्मितां सुदतीं सतीम् । कज्जलोज्ज्वलरूपां च शरत्कमललोजनाम् ।। ७९ ।। महालक्ष्मीं बीजरूपां परामाद्यां सनातीम् । परमात्मस्वरूपस्य प्राणाधिष्ठातृदेवताम् ।। ८० ।। स्तुतां च पूजितां चैव परां च परमात्मने । ब्रह्मस्वरूपां निर्लिप्तां नित्यरूपां च निर्गुणाम् ।। ८१ ।। विश्वानुरोधात्प्रकृतिं भक्तानुग्रहविग्रहाम् । मत्यस्वरूपां शुद्धां च पूतां पतितपावनीम् ।। ८२ ।। सुतीर्थपूतां सत्कीर्तिं विधात्रीं वेदसामपि । महत्प्रियां च महतीं महाविष्णोश्च मातरम् ।। ८३ ।। रासेश्वरेश्वरीं रम्यां रसिकां रसिकेश्वरीम् । वह्निशुद्धांशुकाधामां स्वेच्छारूपां शुभालयाम् ।। ८४ ।। गोपीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः । चतसृभिः प्रियालीभिः पादपद्मोपसेविताम् ।। ८५ ।। अमूल्यरत्ननिर्माणभूषणोच्चैर्विभूषिताम् । चारुकुण्डलयुग्मेन श्रुतिगण्डस्थलोज्ज्वलाम् ।। ८६ ।। सुनासां गजमुक्तार्हां खगेन्द्रचञ्चुनिन्दिताम् । कुङ्कुमालक्तकस्तूरीस्निग्धचन्दनचर्चिताम् ।। ८७ ।। दधानां सुकपोलं च कोमलाङ्गीं सुकामुकीम् । गचेन्द्रगामिनीं रामां कामनीयां सुकामिनीम् ।। ८८ ।। कामास्त्रजयरूपां च कामकाम्यालयां वराम् । क्रीडाकमलमम्लानं पारिजातप्रसूनकम् ।। ८९ ।। अमूल्यरत्ननिर्माणं दधानां दर्पणोज्ज्वलम् । नानारत्नविचित्राढ्यरतनसिंहासनस्थिताम् ।। ९० ।। पद्मैः पद्मार्चितं पादपद्मं च मङ्गलालयम् । हृत्पद्मे ध्यायमानं च कृणस्य परमात्मनः ।। ९१ ।। कर्मणा मनसा वाचा स्वप्ने जागरणेऽपि च । तत्प्रीतिं प्रेम सौभाग्यं स्मरन्तीं नित्यनूतनम् ।। ९२ ।। भावानुरक्तसंसक्तां शुद्धभक्तां पतिव्रताम् । धन्यां मान्यां गौरवर्णां शश्वद्वक्षः स्थलस्थिताम् ।। ९३ ।। प्रियासु प्रियभक्तेषु सुप्रियां प्रियवादिनीम् । कृष्णवामाङ्गसंभूतामभेदां गुणरूपयोः ।। ९४ ।। गोलोकवासिनीं देवदेवीं सर्वोपरिस्थितम् । वृषभानसुताख्यां तां पुण्यक्षेत्रे च भारते ।। ९५ ।। गोपीश्वरीं गुप्तरूपां सिद्धिदां सिद्धिरूपिणीम् । ध्यानासाध्यां दुराराध्यां वन्दे सद्भक्तवन्दिताम् ।। ९६ ।। ध्याने ध्यानेन राधाया व्यायन्ते ध्यानतत्पराः । इहैव जीवन्मुक्तास्ते परत्र कृष्णपार्षदाः ।। ९७ ।। दृष्ट्वा ब्रह्मा च सर्वादौ तुष्टाव परमेश्वरीम् । स्वयं विधाता जगतां मातरं वेधसामपि ।। ९८ ।। ब्राह्मोवाच षष्टिवर्षसहस्रणि दिव्यानि परमेश्वरि । पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते ।। ९९ ।। त्वत्पादपद्मधुरमधुलुब्धेन चेतसा । मधुव्रतेन लोलेन प्रेरितेन मया सति ।। १०० ।। तथाऽपि न मया लब्धं त्वत्पादपद्ममीप्सितम् । न दृष्टमपि स्वप्नेऽयि जाता वागशरीरिणी ।। १०१ ।। वाराहे भारते वर्षे पुण्ये वृन्दावने वने । सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि ।। १०२ ।। राधामाधवयोर्दास्यं कुतो विषयिणस्तव । निवर्तस्व महाभाग परमेतत्मुदुर्लभम् ।। १०३ ।। इति श्रुत्वा निवृत्तोऽहं तपसे भग्नमानसः । परिपुर्ण तदधुना वाञ्छितं तपसः फलम् ।। १०४ ।। महादेव उवाच पद्मैः पद्मार्चितं पादपदमं यस्य सुदुर्लभम् । ध्यायन्ते ध्याननिष्ठाश्च शाश्वद्रब्रह्मादयः सुराः ।। १०५ ।। मुनयो मनवश्चैव सिद्धाः सन्तश्च योगिनः । द्रष्टुं नैव क्षमाः स्वप्ने भवती तस्य वक्षसि ।। १०६ ।। अनन्त उवाच वेदाश्च वेदमाता च पुराणानि च सुव्रते । अहं सरस्वती सन्त स्तोतुं नालं च संततम् ।। १०७ ।। अस्माकं स्तवने यस्य भ्रूभङ्गं च सुदुर्लभम् । तवैव भत्सेने भीताश्चावयोरन्तरं हरेः ।। १०८ ।। एवं देवाश्च देव्यश्चाप्यन्ये ये च समागताः । प्रणतास्तुष्टुवुः सर्वे मुनिमन्वादयस्तथा ।। १०९ ।। लज्जया नम्रवक्त्राश्च रुक्मिण्यद्याश्च योषितः । मलीमसं च चक्रुस्ताः श्वासेन रत्नदर्पणम् ।। ११० ।। मृततुल्या सत्यभामा निराहारा कृशोदरी । मनसोऽप्यभिमानं च सर्व तत्याच नारद ।। १११ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo सिद्धाश्रमतीर्थयात्राप्रसङ्गेगणेशपूजनं ब्रह्मेशशेषादिकृतराधिकास्तोत्रं नाम चतुर्विंशत्यधिकशततमोऽध्यायः ।। १२४ ।।
atha caturviṃśatyadhikaśatatamo'dhyoyaḥ nālāyaṇa uvāca rādhā saṃpūjya vidhinā stutvā lambodaraṃ satī | amūlyaratnanirmāṇaṃ sarvāṅgabhūṣaṇaṃ dadau || 1 || rādhāyāḥ stavanaṃ śrutvā pūjāṃ dṛṣṭvā ca vastu ca | uvāca madhuraṃ śāntaḥ śāntāṃ trailokyamātaram || 2 || gaṇeśa uvāca tava pūjā jaganmātarlokaśikṣākarī śubhe | brahmasvarūpā bhavatī kṛṣṇavakṣaḥ sthalasthitā || 3 || yatpādapadmatulaṃ dhyāyante te sudurlabham | surā brahmeśaśeṣādyā munīndrāḥ sanakādayaḥ || 4 || jīvanmuktāśca bhaktāśca siddhendrāḥ kapilādayaḥ | tasya prāṇādhidevī tvaṃ priyā prāṇādhikā parā || 5 || vāmāṅganirmitā rādhā dakṣiṇāṅgaśca mādhavaḥ | mahālakṣmīrjaganmātā tava vāmāṅganirmitā || 6 || vasoḥ sarvanivāsasya prasūstvaṃ parameśvarī | vedānāṃ jagatāmeva mūlprakṛtirīśvarī || 7 || sarvāḥ prākṛtikā mātaḥ sṛṣṭyāṃ ca tvadvibhūtayaḥ | viśvāni kāryarūpāṇi tvaṃ ca kāraṇarūpiṇī || 8 || pralaye brahmaṇaḥ pāte tannimeṣo harerapi | ādau rādhāṃ samuccārya paścātkṛṣṇaṃ parātparam || 9 || sa eva paṇḍito yogī golokaṃ yāti līlayā | vyatikrame mahāpāpī brahmahatyāṃ labhetdhruvam|| 10 || jagatāṃ bhavatī mātā paramātmā pitā hariḥ | pitureva gururmātā pūjyā vandyā parātparā || 11 || bhajate devamanyaṃ vā kṛṣṇaṃ vā sarvakāraṇam | puṇyakṣetre mahāmūḍho yadi nindati rādhikām || 12 || vaṃśahānirbhavettasya duḥkhaśokamihaiva ca | pacyate niraye ghore yāvaccandradivākarau || 13 || guruścajñānodgiraṇājjñānaṃ syānmantratantrayoḥ | sa ca mantraśca tattantraṃ bhaktiḥ syāddhruvayoryataḥ || 14 || niṣevya mantraṃ devānāṃ jīvā janmani janmani | bhaktā bhavanti durgāyāḥ pādapadme sudurlabhe || 15 || niṣevya mantre śaṃbhośca jagatāṃ kāraṇasya ca | tadā prāpnoti yuvayoḥ pādapadmaṃ sudurlabham || 16 || yukyoḥ pādapadmaṃ ca durlabhaṃ prāpya puṇyavān | kṣaṇārdhaṃ ṣoḍaśāṃśaṃ ca nahi muñcati daivataḥ || 17 || bhaktyā ca yuvacormantraṃ gṛhītvā vaiṣmapādapi | stavaṃ vā kavacaṃ vā'pi karmamūlanikṛntanam || 18 || yojayetparayā bhaktyā puṇyakṣetre ca bhārate | puruṣāṇāṃ sahasraṃ ca tvātmanā sārdhamuddharet || 19 || gurumabhyarcya vidhivadvastrālaṃkāracandanaiḥ | kavacaṃ dhārayedyo hi viṣṇutulyo bhaveddhruvam || 20 || yaddattaṃ vastu me mātastatsarvaṃ sārthakaṃ kuru | dehi viprāya matprītyā tadā bhokṣyāmi sāṃpratam || 21 || deve deyāni dānāni deve deyā ca dakṣiṇā | tatsarvaṃ brāhmaṇe dadyāttadānantyāya kalpate || 22 || brāhmaṇānāṃ mukhaṃ rādhe devānāṃ mukhamukhyakam | viprabhuktaṃ ca yaddravyaṃ prāpnuvantyeva devatāḥ || 23 || viprāṃśca bhojayāmāsa tatsarva rādhikā satī | babhūva tatkṣaṇādeva prīto lambodaro mune || 24 || etasminnantare devā brahmeśaśeṣasaṃjñakāḥ | āyayurvaṭamūlaṃ ca devapūjārthameva ca || 25 || tatra gatvā śivacaro devāndevīruvāca saḥ | śrīkṛṣṇaṃ śuṣkakaṇṭhaśca bhayabhītaśca rakṣakaḥ || 26 || rakṣaka uvāca gaṇeśaṃ pūjayāmāsa sarvādau ca śubhakṣaṇe | vṛṣabhānasutā rādhā prakṛtya svastivācanam || 27 || sahitā sā balavatī gopītriśatakoṭibhiḥ | vārito'haṃ valiṣṭhābhiryuṣmāṃśca kathayāmi tat || 28 || marvādau pūjayedyo hi so'nantaṃ phalamālabhet | madhye madhyavidhaṃ puṇyaṃ śeṣe svalpamiti smṛtam || 29 || devendreṣu munīndreṣu devastrīṣu sthitāsu ca | gopībhiśca saha tayā rādhayā pūjitaḥ paraḥ || 30 || dūtavākyaṃ samākarṇya jahasuḥ sarvadevatāḥ | munayo manavaścaiva rājāno devayoṣitaḥ || 31 || rukmiṇyādyā ramaṇyaśca yā devyo vismayaṃ yayuḥ | sarasvatī ca sāvitrī pārvatī parameśvarī || 32 || rohiṇī ca satī saṃjñā svāhādyā devayoṣitaḥ | muditāḥ prayayuḥ sarvā munipatnyaḥ pativratāḥ || 33 || munayo manavaḥ sarve devāścāpi narāstathā | śrīkṛṣṇaḥ sa gaṇaiḥ sārdhaṃ ye cānye prayayurmudā || 34 || te sarve vividhairdravyaiḥ pūjāṃ cakruḥ śubhakṣaṇe | baliṣṭhā durbalāścaiva krameṇa ca pṛthakpṛthak || 35 || laḍḍukānāṃ ca rāśīnāṃ śatakoṭirbabhūva ha | śarkarāṇāṃ tadardhaṃ ca svastikānāṃ tathaiva ca || 36 || annānāṃ bhavyavastūnāṃ śatakoṭirbabhūva ha | asaṃkhyāni phalānyeva svādūni madhurāṇi ca || 37 || madhukulyā dugdhakulyā dadhikulyā ghṛtasya ca | babhūvuḥ śatasaṃkhyāśca trailokyānāṃ ca pūjane || 38 || pūjāṃ kṛtvā tu te sarve samūṣuśca sukhāsane | pārvatī paramaprītyā rādhāsthānaṃ samāyayau || 39 || sā rādhā pārvatīṃ dṛṣṭvā samutthāya javena ca | yathāyogyāṃ ca saṃbhāṣāṃ cakāra sādaraṃ mudā || 40 || āśleṣaṇaṃ cumbanaṃ ca babhūva ca parasparam | uvāca madhuraṃ durgā rādhāṃ kṛtvā svavakṣasi || 41 || pārvatyuvāca kiṃvā praśnaṃ kariṣyāmi tvāṃ rādhā maṅgalālayām | gatā te virahajvālā śrīdāmnaḥ śāpamokṣaṇe || 42 || satataṃ manmanaḥ prāṇāstvayyeva mayi te tathā | na hyevamāvayorbhedaḥ śaktipūruṣayostathā || 43 || yetvāṃ nindanti madbhaktāstvadbhaktāścāpi māmapi | kumbhīpāke ca pajyante yāvaccandra divākarau || 44 || rādhāmādhavayorbhedaṃ ye kurvanti narādhamāḥ | vaṃśahānirbhavetteṣāṃ pacyante narake ciram || 45 || yānti sūkarayoniṃ ca pitṛbhiḥ śatakaiḥ saha | ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ kṛmayastathā || 46 || tvayaiva pūjitaḥ putro na mayā ca gaṇeśvaraḥ | sarvādau sarvapūjyo'yaṃ yathā tava tathā mama || 47 || yāvajjīvanaparyantaṃ na vicchedo bhaviṣyati | rādhāmādhavayordevi dugdhadhāvalyayoryathā || 48 || siddhāśrame mahātīrthe puṇyakṣetre ca bhārate | nirvaghnaṃ labhagovindaṃ saṃpūjya vighnakhaṇḍanam || 49 || rāseśvarī tvaṃ rasikā śrīkṛṣṇo rasikeśvaraḥ | vidagdhāyā vidagdhena saṃgamo guṇavānbhadet || 50 || śrīdāmnaḥ śāpanirmuktā śatavarṣāntare sati | kuruṣva madreṇādya kṛṣṇena saha saṃgamam || 51 || mamā''jñayā durlabhayā suveṣaṃ kuru sundari | sudurlabhaḥ kāminīnāṃ satpuṃsā saha saṃgamaḥ || 52 || cakruḥ suveṣaṃ rādhāyāḥ priyālyaśca śivājñayā | ratnasiṃhāsane ramye vāsayāmāsurīśvarīm || 53 || purato ratnamālā sā ratnamālāṃ gale dadau | rādhāyā dakṣiṇe haste krīḍāpadmaṃ manoharam || 54 || dadau padmamukhī pādapadmayugme'pyalaktakam | pradadau sundarī gopī sindūraṃ sundaraṃ varam || 55 || candanena samayutaṃ sīmantādhaḥ sthalojjvalam | sucārukabarīṃ ramyāṃ cakāra mālatī satī || 56 || manoharāṃ munīnāṃ ca mālatīmālyabhūṣitām | kastūrīkuṅkumāktaṃ ca cārucandanapatrakam || 57 || stanayugme sukaṭhine cakāra candanā satī | cārucampakapuppāṇāṃ mālāṃ gandhamanoharām || 58 || mālāvatī dadau tasyau praphullāṃ navamallikām | ratīṣu rasikā gopī ratnabhūṣaṇabhūṣitām || 59 || tāṃ cakārātirasikāṃ varāṃ ratirasotsukām | śaratpadmadalābhaṃ ca lojanaṃ kajjalojjvalam || 60 || kṛtvā dadau sulalitaṃ vastraṃ ca lalitā satī | mahendreṇa pradattaṃ ca pārijātaprasūnakam || 61 || sugandhiyuktaṃ tasyāśca pārijātaṃ kare dadau | suśīlaṃ madhuroktaṃ ca bhartuḥ pārśve yathocitam || 62 || śikṣāṃ cakāra nītiṃ ca suśīlā gopikā satī | strīṇāṃ ca ṣoḍaśakalāṃ vipattau vismṛtāṃtayoḥ || 63 || smaraṇaṃ kārayāmāsa rādhāmātā kalāvatī | śrṛṅgāraviṣayoktaṃ ca vacanaṃ ca sudhopamam || 64 || smaraṇaṃ kārayāmāsa bhaginī ca sudhāmukhī | kamalānāṃ campakānāṃ dale candanacarcite || 65 || cakāra ratitalpaṃ ca kamalā cā''śu komalam | cārucampakapuṣpaṃ ca kṛṣṇārthaṃ puṭakasthitam || 66 || cakāra candanāktaṃ ca svayaṃ ca pārvatī satī | puṣpaṃ kelikadambānāṃ stabakaṃ ca manoharam || 67 || kadambamālāṃ kṛṣṇārtha vidyamānāṃ cakāra sā | tāmbūlaṃ ca varaṃ samyaṃ karpūrādisuvāsitam || 68 || kṛṣṇapriyā ca kṛṣṇārthaṃ cakāra vāsitaṃ jalam | etasminnantare sarvamāśramaṃ sajalasthalam || 69 || sākṣādgorocanābhaṃ ca dadṛśurmunayaḥ surāḥ | te sarve vismayaṃ gatvā papracchuḥ kṛṣṇamīśvaram || 70 || uvāca bhagavāṃstāśca sarvajñaḥ sarvakārāṇā || 71 || śrībhagavānuvāca abhiśaptā ca śrīdāmnā bhraṣṭaśobhā rādhikā | sarvaṃ jñānaṃ visasmāra madvicchedajvarāturā || 72 || vimukte varṣaśatake jñānaṃ sasmāra sā satī | siddhāśramaṃ ca pītābhaṃ rāseśvaryāśca tejasā || 73 || paramāhlādakaṃ tejaścandrakoṭisamaprabham | sukhadṛśyaṃ ca sukhadaṃ cakṣudhāṃ prāṇināmapi || 74 || tacchrutvā paramāścaryaṃ munayo manavastathā | devyaśca sarvadevāste brahmeśānādayastathā || 75 || javena gatvā tatsthānaṃ bhaktinamrātmakaṃdharā | sarve janāste dadṛśustrailokyasthāśca rādhikām || 76 || śvetacampakavarṇābhāmatulāṃ sumanoharām | mohinīṃ mānasānāṃ ca munīnāmūrdhvaretasām || 77 || sukeśīṃ sundarīṃ śyāmāṃ nyagrodhaparimaṇḍalām | nitambakaṭhinaśroṇīṃ stanayugmonnatānanām || 78 || koṭīnduninditāsyāṃ tāṃ sasmitāṃ sudatīṃ satīm | kajjalojjvalarūpāṃ ca śaratkamalalojanām || 79 || mahālakṣmīṃ bījarūpāṃ parāmādyāṃ sanātīm | paramātmasvarūpasya prāṇādhiṣṭhātṛdevatām || 80 || stutāṃ ca pūjitāṃ caiva parāṃ ca paramātmane | brahmasvarūpāṃ nirliptāṃ nityarūpāṃ ca nirguṇām || 81 || viśvānurodhātprakṛtiṃ bhaktānugrahavigrahām | matyasvarūpāṃ śuddhāṃ ca pūtāṃ patitapāvanīm || 82 || sutīrthapūtāṃ satkīrtiṃ vidhātrīṃ vedasāmapi | mahatpriyāṃ ca mahatīṃ mahāviṣṇośca mātaram || 83 || rāseśvareśvarīṃ ramyāṃ rasikāṃ rasikeśvarīm | vahniśuddhāṃśukādhāmāṃ svecchārūpāṃ śubhālayām || 84 || gopībhiḥ saptabhiḥ śaśvatsevitāṃ śvetacāmaraiḥ | catasṛbhiḥ priyālībhiḥ pādapadmopasevitām || 85 || amūlyaratnanirmāṇabhūṣaṇoccairvibhūṣitām | cārukuṇḍalayugmena śrutigaṇḍasthalojjvalām || 86 || sunāsāṃ gajamuktārhāṃ khagendracañcuninditām | kuṅkumālaktakastūrīsnigdhacandanacarcitām || 87 || dadhānāṃ sukapolaṃ ca komalāṅgīṃ sukāmukīm | gacendragāminīṃ rāmāṃ kāmanīyāṃ sukāminīm || 88 || kāmāstrajayarūpāṃ ca kāmakāmyālayāṃ varām | krīḍākamalamamlānaṃ pārijātaprasūnakam || 89 || amūlyaratnanirmāṇaṃ dadhānāṃ darpaṇojjvalam | nānāratnavicitrāḍhyaratanasiṃhāsanasthitām || 90 || padmaiḥ padmārcitaṃ pādapadmaṃ ca maṅgalālayam | hṛtpadme dhyāyamānaṃ ca kṛṇasya paramātmanaḥ || 91 || karmaṇā manasā vācā svapne jāgaraṇe'pi ca | tatprītiṃ prema saubhāgyaṃ smarantīṃ nityanūtanam || 92 || bhāvānuraktasaṃsaktāṃ śuddhabhaktāṃ pativratām | dhanyāṃ mānyāṃ gauravarṇāṃ śaśvadvakṣaḥ sthalasthitām || 93 || priyāsu priyabhakteṣu supriyāṃ priyavādinīm | kṛṣṇavāmāṅgasaṃbhūtāmabhedāṃ guṇarūpayoḥ || 94 || golokavāsinīṃ devadevīṃ sarvoparisthitam | vṛṣabhānasutākhyāṃ tāṃ puṇyakṣetre ca bhārate || 95 || gopīśvarīṃ guptarūpāṃ siddhidāṃ siddhirūpiṇīm | dhyānāsādhyāṃ durārādhyāṃ vande sadbhaktavanditām || 96 || dhyāne dhyānena rādhāyā vyāyante dhyānatatparāḥ | ihaiva jīvanmuktāste paratra kṛṣṇapārṣadāḥ || 97 || dṛṣṭvā brahmā ca sarvādau tuṣṭāva parameśvarīm | svayaṃ vidhātā jagatāṃ mātaraṃ vedhasāmapi || 98 || brāhmovāca ṣaṣṭivarṣasahasraṇi divyāni parameśvari | puṣkare ca tapastaptaṃ puṇyakṣetre ca bhārate || 99 || tvatpādapadmadhuramadhulubdhena cetasā | madhuvratena lolena preritena mayā sati || 100 || tathā'pi na mayā labdhaṃ tvatpādapadmamīpsitam | na dṛṣṭamapi svapne'yi jātā vāgaśarīriṇī || 101 || vārāhe bhārate varṣe puṇye vṛndāvane vane | siddhāśrame gaṇeśasya pādapadmaṃ ca drakṣyasi || 102 || rādhāmādhavayordāsyaṃ kuto viṣayiṇastava | nivartasva mahābhāga parametatmudurlabham || 103 || iti śrutvā nivṛtto'haṃ tapase bhagnamānasaḥ | paripurṇa tadadhunā vāñchitaṃ tapasaḥ phalam || 104 || mahādeva uvāca padmaiḥ padmārcitaṃ pādapadamaṃ yasya sudurlabham | dhyāyante dhyānaniṣṭhāśca śāśvadrabrahmādayaḥ surāḥ || 105 || munayo manavaścaiva siddhāḥ santaśca yoginaḥ | draṣṭuṃ naiva kṣamāḥ svapne bhavatī tasya vakṣasi || 106 || ananta uvāca vedāśca vedamātā ca purāṇāni ca suvrate | ahaṃ sarasvatī santa stotuṃ nālaṃ ca saṃtatam || 107 || asmākaṃ stavane yasya bhrūbhaṅgaṃ ca sudurlabham | tavaiva bhatsene bhītāścāvayorantaraṃ hareḥ || 108 || evaṃ devāśca devyaścāpyanye ye ca samāgatāḥ | praṇatāstuṣṭuvuḥ sarve munimanvādayastathā || 109 || lajjayā namravaktrāśca rukmiṇyadyāśca yoṣitaḥ | malīmasaṃ ca cakrustāḥ śvāsena ratnadarpaṇam || 110 || mṛtatulyā satyabhāmā nirāhārā kṛśodarī | manaso'pyabhimānaṃ ca sarva tatyāca nārada || 111 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo siddhāśramatīrthayātrāprasaṅgegaṇeśapūjanaṃ brahmeśaśeṣādikṛtarādhikāstotraṃ nāma caturviṃśatyadhikaśatatamo'dhyāyaḥ || 124 ||
English translation
Ganesa said- O mother of the universe, the adoration provided by you, is educative for others. O auspicious one, you are the fonn of Brahman and reside always in the heart of Krsna; he is the one whose lotus-like feet are meditated upon by Brahma, Siva, Sesa and other gods, Sanaka and sages, Kapila and others, devotees and siddhas, you happen to be the beloved of the same Krsna. Sri Krsna happens to be Madhava from the right side and Radha emerged from his left side. LaksmI the mother of the universe appeared from his left side.
You happen to be. the mother of Vasus, Paramesvarl, Mulapraktii and the mother of the Vedas. O mother, all the humans of the universe represent your form, the entire universe represent the deeds and you happen to be the cause of the | When Brahma falls at the time of the | dissolution of the universe, a moment of Visnu is counted. The one who recites the name of Radha I and then of Krsna he surely goes to the Goloka if i the order is reversed, one earns the sin of You are the mother of the universe and Hari happens to be the father but the one who is beyond everything is more adorable than the parents. Such of the people who in the land of Bharata recite the name of Krsna only and denounce Radha, their race gets destroyed and have to suffer mental agony for long. They are then fallen in the terrific hell and have to remain there till the sun and the moon, The one who bestows the knowledge is known
as the teacher besides the mantras and the tantras. The same mantras and tantras represent your devotion. By reciting the mantras of the gods, the people achieved the extremely inaccessible devotion of goddess Durga.
By reciting the mantra of Siva who is the cause of the universe, one achieves the inaccessible lotus-like feet of the lord, By achieving the inaccessible lotus-like feet of the lord, the virtuous person never disowns them even for the fraction of a moment in future.
In the sacred land of Bharata, such of the Vais nava person who recites your mantra with devotion or received the kavaca which shatter the base of the deeds and recites it with great devotion, he redeems with himself, thousands of his generations.
Such of the persons who adore her daily appropriately and wears the kavaca offering the costumes, ornaments, sandal-paste to the teacher, he surely becomes equal to Visnu, O mother whatever has been given by you to me, make them purposeful. Presently for my pleasure you distribute all these things to the Brahmana. Only than I shall take my food. The things which are fit for giving away in charity besides the daksina should be given to the Brahmanas which best-owed the merit beyond The valorous Radha is accompanied by three crores of cowherdesses. The strong cowherdesses had driven me out. I also advise all of you to adore Ganesa first of all, because he bestows the merit beyond measure. In case the adoration is performed in the middle, one gets the medium type of merit and when his adoration is performed last of all, one gets very little merit.
O Radha, the mouth of the Brahmaiias, is equal to the mouth of god. Therefore whatever is eaten by the Brahmanas, it surely reaches the O sage, thereafter all those articles were distributed by Radha to the Brahmanas which pleased the Ganesa immensely.
In the meantime Brahma, Siva, Sesa and other gods also arrived under the banyan tree for At that point of time a messenger of Siva whose throat has been dried up spoke to the gods, goddess and Sr! Krsna.
The messenger said- Radha the daughter of Vrsabhana reciting Svastivdeana adored Ganesa first of all.
Radha adored Ganesa in the presence of the gods, the sages and the goddesses.
On hearing the words of the messenger all the men the sages, Manu, kings, gods and goddesses Rukminl and other damsels beside the goddess however felt surprised at the same time Sarasyatl, Savitrl, Parvatl, the great goddess, Satl, RohinI, Sahjna, Svaha and other goddesses delightfully arrived here. All the chaste wives of the sages also arrived the. The ascetics. Manu, all the gods, the humans, also arrived there together with Krsna.
All of them performed the adoration in the auspicious time. All the strong as well as the weak people adored separately.
A hundred crores of heaps of the sweets balls were heaped up, the number such heaps was half of those comprising of the balls of sugar and There were hundred crores of heaps of the cereals and other delicious items. The delicious and sweet fruits were available in large number.
The adoration could be performed with honey, milk, curd and ghee which were flowing in hundreds of canals and could be used for performing puja in all the three worlds.
After performing ptijd, all of them took their seats. Thereafter Parvatl getting filled with affection went to Radh5.
Finding Parvatl with her, Radha got up at once and started tailing to her in a sweet manner. Both of them embraced each other, kissing each other at the same time, thereafter, Parvatl embracing Radha spoke to her the sweet words.
Parvatl said- O Radha, you are the abode of welfare and as such what should I ask you.
Getting freed from the curse of Sridama, the agony of your flames of separation has been I had always been thinking about you, similarly your mind also remains devoted to me.
Therefore there is no difference between the two of US- In the same way as there is no difference between Purusa Sixid sakti.
Such of my devotees who denounce you and your devotees denounce me, all of them fall into the kumbhipdka hell where they have to remain till the life of the sun and the moon.
Such of the degraded people who consider Radha and Madhava to be different, their race is uprooted and they fall into the hell remaining there for a long time, Thereafter they have to be bom as pigs for hundred generations spreading over sixty thousand years and are then bom as the inserts of the refuse.
It is you who have adored my son Ganesa and not myself. He is adorable by all at all the times.
As he is to you, he is same to me.
O goddess, there would be no separation between Radha and Madhava through out the life in the same way as the whiteness cannot be separated from the milk. In the sacred land of Bharata by adoring lord Ganesa who is the remover of the obstruction, you would surely You are the goddess of the divine dance and Krsira happens to be the lord. It is always auspicious to have the union of a clever damsel with a clever person.
O chaste lady after the lapse of hundred years of separation, due to the curse of Sridama, you have achieved salutation. You enjoy the company of Sri Krsna today with my blessing.
O beautiful one, with my unprecendeted command you clad yourself in beautiful gannents, like a damsel who always unites with a At the command of Parvatl the female friend^ of Radha started decorating her beautifully. They made Radha to sit on the beautiful lion-throne.
A garland of gem was placed around her neck; she was made the hold a beautiful lotus flower in her eight hand.
Then the beautiful cowherdesses applied red paint on the feet of Radha; the cowherdesses named Sundarl applied vennilion over her head.
fiwifjrar rT fjajTpf tOTi grftig ^3 Ivih,i The sandal-paste on the place of parting here was brightened, the chaste Malatl made the beautiful hair-do, which was adorned with the garland of jasmine flowers. Her breasts were adorned with the sandal-paste as well as kasturl which could attract the mind of even the sages, Malavatl on the other hand offered her a garland of white and fragrant campaka flower. A cowherdesses who was well-versed in the love- sports adorned the body of Radha with the gem- studded ornaments and made Radha more passionate, who was already filled with passion.
The chaste Lalita applied the collyrium in the eyes of Radha which were like the lotus petals of The lustre of her body resembled the white campaka flower which was quite pleasing and channing and could attract the minds of the sages. She had beautiful hair, her body was beautiful and she appeared like a damsel of sixteen years, having hard breasts, the developed pelvic region, slander waist and developed nipples. Her face could put to shame crores of the moons. She always remained smiling and had the beautiful teeth. Her eyes resembled the lotus flower of the winter season. She was the form of MahalaksmI, the form of seed, primeval, eternal and the fonn of eternal Brahman, besides being the goddess of the life of lord Krsna. She is the * one who is adored for achieving the supreme ^ soul; she is beyond everything, the form ofi Brahman, uninvolved, everlasting devoid of | qualities, Prakrti, the one who bestows grace on i
her devotees, the form of truth, spotless, j auspicious, purifier of the down-trodden, the one j who sanctifies even the auspicious holy places, | possessing the divine glory, the creative instinct of Brahma, the beloved of lord, the great goddess, the mother of Mahavisnu the goddess of the divine dance, adorable, passionate, goddess of the divine dance, clad in the garment sanctified by fire, the one who moves at her own will, the abode of welfare, the one who is served by the seven cowherdesses moving white fly- whisks over her, the one who is adored by the four female friends at her feet, the one who is adorned with the gem-studded ornaments, the one whose temples are shining with the ear ornament worn by her, the one who wears an elephant gem in her nose which keeps on hanging, the one who had the nose like the curved beak of Garuda, the one whose body is plastered with saffron, kasturi end sandal-paste,
the one who is quite passionate and walks like the elephant, she is quite attractive having a beautiful nose, to becomes victorious with the god of love she is always passionate and the best, she is the one having a blossomed flower in her hand, she is the one holding Pdrijdta flower and the gem-studded mirror in her hand, she is the one who is seated on the lion-throne Studded with various types of gems, she is the one who always adored the lotus-like feet of Krsna; adored by padma which are the form of welfare and those lotus-like feet are always placed by her in her heart, she is immensely emotional a spotless devotee, a chaste woman, a graceful one, quite proud, having fair-complexion, the one who always resides in he heart of Krsna, the one who is dearer to Krsna than all his beloved, the one who is sweet-spoken, the one who emerged from the left side of Krsna, the one who is unprecedented in the qualities and the beauty.
The one who resides in Goloka, the one who is the goddess of all the goddesses, the supreme goddess, the mistress of the cowherdesses, quite secretive, the one who provides all the success is the form of success could be achieved by deep devotion, the one who is difficult to be achieved the one who is adored by her devotees and the one who appeared in the land of Bharata as the daughter of Vrsabhana. I adore such a type of If a person performing meditation adores Radha, he is freed from the cycle of birth and death in this world and then become attendant of Krsna after death. Thereafter Brahma the creator of the universes started eulogising Radha, who happens to be the mother of several Brahmas.
Brahma said- O great goddess, my mind gets devoted at your lotus-like feet. Therefore with the inspiration, I adored you for sixty thousand divine years in the land of Bharata at Puskara-ks etra. But still I could not have a look at your lotus-like feet. So much so that I could not have a look at them even in dream. At that point of time a divine voice was heard from the sky, 'Tn the Varaha-kalpa, in the sacred land of Bhtota, in Siddhasrama you will see the lotus-like feet of How can you have the devotion of Radha Madhava being involved in various types of worldly pleasures. O virtuous one, you detach yourself from everything; it is difficult to be achieves by all.
On hearing this, I felt unconcerned getting disappointed with my tapas but the fruit of my tapas has been well rewarded today.
ftlgj: 7P(T7?r Mahadeva said- The one whose lotus-like feet which are adored by LaksmI are difficult to be achieved. The gods like Brahma, the sages, Manus, siddhas, the noble people, yogis always adore him. But still they are unable to achieve her who resides in his heart.
Ananta said- You are the one who performed the best of the vrata, are the mother of the Vedas and Puranas. Myself, Sarasvati and the sages are unable to recite your prayer.
By reciting the prayers by us lorci Hari starts frowning but he gets frightened with your denouncement. This is the difference between the two.
Thus all the gods, the goddesses, Manu and all other people who had arrived here, offered prayer to her with reverence.
Realising this the face of all the damsels including RukminI fell in shame; they took deep O Narada, Satyabhama who was without food and was slander waisted, discarded her pride like a dead person.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 415827 (2026-05-09T07:22:44Z); Shanti Lal Nagar English scan pages n1655–n1662: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1655/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.