Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 120
Sourceविंशत्यधिकशततमोऽध्यायः नारायण उवाच अथ कृष्णश्च भगवानुद्धवेत बलेन च । दूतं प्रश्थापयामास विधाय मन्त्रणं शुभम् ।। १ ।। शिवो गणपतिर्यत्र दुर्गां दुर्गतिनाशिनी । कार्तिकेयो भद्रकाली चोग्रचण्डा च कोटरी ।। २ ।। आगत्य नत्वा दूतश्च गणेशं च शिवं शिवाम् । मानवांश्चापि पूच्यांश्च समुवाच यथोचितम् ।। ३ ।। दूत उवाच बाणमाह्वयते कृष्णः संग्रामार्थ महेश्वर । किं वाऽनिरुद्धमूषां च गृहीत्वा शरणं व्रज ।। ४ ।। रणे निमन्त्रितो यो हि न याति भयकातरः । परत्र नरकं याति सप्तभिः पितृभिः सह ।। ५ ।। दूतस्य वचनं श्रुत्वा सभामध्ये यथोचितम् । उवाच पार्वती देवी स्वयं शंकरसंनिधौ ।। ६ ।। पार्वत्युवाच गच्छ बाण महाभाग गृहीत्वा तव कन्यकाम् । सर्वस्वं यौतकं दत्त्वा श्रीकृष्णं शरणं व्रज ।। ७ ।। सर्वेषामीश्वरं बीजं दातारं सर्वसंपदम् । वरं वरेप्यं शरणं कृपालुं भक्तवत्सलम् ।। ८ ।। पार्वतीवचनं श्रुत्वा तमूचुस्ते सुरेश्वराः । प्रशसंसुःसभामध्ये धन्यधन्येति सर्वदा ।। ९ ।। कोपाविष्टश्च बाणोऽयमुत्तस्थौ सहसाऽसुरः । सांनाहिको धनुष्पाणिः प्रणम्य शंकरं ययौ ।। १० ।। सर्वैर्निषिध्यमानश्च कम्पितो रक्तलोचनः । सांनाहिकश्च दैत्यानां त्रिकोट्या च महाबलः ।। ११ ।। कुम्भाण्डः कूपकर्णश्च निकुम्भः कुम्भ एव च । सेनापतीश्वरश्चैते ययुः सांनाहिकास्तथा ।। १२ ।। उन्मत्तभैरवश्चैव संहारभैरवस्तथा । असिताङ्गो भैरवश्च रुरुभैरव एव च ।। १३ ।। महाभैरवसंज्ञश्च कालभैरव एव च । प्रचण्डभैरवश्चैव क्रोधभैरव एव च ।। १४ ।। प्रययुः शक्तिभिः सार्ध सर्वे सांनाहिकाश्च ते । कालाग्गिरुद्रो भगवान्रुद्रैः सांनाहिको ययौ ।। १५ ।। उग्रचण्डा प्रचण्डा च चण्डिका चण्डिनायिका । चण्डेश्वरी च चामुण्डा चण्डी चण्डकपालिका ।। १६ ।। अष्टौ च नायिकाः सर्वाः प्रययुः खर्पराविन्ताः । कोटरी रत्नयानस्था शोणितग्रामदेवता ।। १७ ।। प्रययौ सा प्रफुल्लास्या खड्गखर्परधारिणी । इन्द्राणी वैष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी ।। १८ ।। कौमारी नारसिंही च वाराही विकटाकृतिः । माहेश्वरी महामाया भैरवी भीमरूपिणी ।। १९ ।। अष्टौ च शक्तयः सर्वा रथस्थाः प्रययुर्मुदा । रत्नेन्द्रसारयानस्था प्रययौ भद्रकालिका ।। २० ।। रक्तवर्णा त्रिनयना जिह्वाललनभीषणा । शूलशक्तिगदाहस्ता खड्गखर्परधारिणी ।। २१ ।। प्रययौ शूलहस्तश्च वृषभस्थो महेश्वरः । स्कन्दश्च शिखियानस्थः शस्त्रपाणिर्धनुर्धरः ।। २२ ।। एवं च प्रययुः सर्वे गणेशं पार्वतीं विना । एभिर्युक्तं महादेवं दृष्ट्वा च भद्रकालिकाम् ।। २३ ।। प्रचक्रे चक्रपाणिश्च संभाषां च यथोचिताम् । बाणः शङ्कध्वनिं कृत्वा प्रणम्य पार्वतीश्वरम् ।। २४ ।। धनुर्दथार सगुणं दिव्यास्त्रेण नियोजितम् । बाणं समुद्यतं दृष्ट्वा सात्यकिः परवीरहा ।। २५ ।। निषिध्यमानस्तैः सर्वैः संनाही प्रययौ मुदा । बाणश्चिक्षेप दिव्यास्त्रमञ्जनं नाम नारद ।। २६ ।। अव्यर्थं ग्रीष्ममध्याहनमार्तण्डाभं सुतीक्ष्णकम् । दृष्टावाऽस्त्रं सात्यकिः साक्षात्किंचिन्नम्रो बभूव सः ।। २७ ।। किं वा न दग्धः प्रययौ नभोमध्यं सुदारुणम् । वह्निं चिक्षेप बाणश्च सात्यकिर्वारुणेन च ।। २८ ।। प्रज्वलन्तं तालमानं निर्वाणं च चकार सः । चिच्छेद वारुणं घोरं प्रजण्डं भीममुल्बणम् ।। २९ ।। चिच्छेद सात्यकिश्चैव पार्जन्येनावलीलया । चिक्षेप पवनं बाणः प्रचण्डं भीममुल्बणम् ।। ३० ।। चिच्छेद सात्यकिश्चैव पर्वताश्त्रेण लीलया । नारायणस्त्रं चिक्षेप बाणश्च रणमूर्धनि ।। ३१ ।। सात्यकिर्दण्डवद्भूमौ पपातार्जुनशिक्षया । माहेश्वरं प्रचिक्षेप बाणः शस्त्रविदां वरः ।। ३२ ।। सात्यकिर्वैष्णवास्त्रेण प्रविच्छेदावलीलया । ब्रह्मास्त्रं चापि चिक्षेप बाणश्च रणमूर्धनि ।। ३३ ।। क्षणं चकार निर्वाणं ब्रह्मास्त्रेण च सात्यकिः । नागास्त्रं चापि चिक्षेप बाणो रणविशारदः ।। ३४ ।। सात्यकिर्गारुडेनैव संजहार क्षणेन च । जग्राह शूलमव्यर्थं शंकरस्य सुदारुणम् ।। ३५ ।। तुष्टाव सात्यकिर्दुर्गा गले माल्यं बभूव ह । जग्राह धनुषा बाणो बाणं पाशुपतं तथा ।। ३६ ।। बाणं सबाणं जृम्भं च सात्यकिश्च चकार ह । बाणं तं जृम्भितं दृष्ट्वा कार्तिकेयो महाबलः ।। ३७ ।। अर्धचन्द्रं च चिक्षेप कामश्चिच्छेद लीलया । गदां चक्षेप च स्कन्दः प्रातः सूर्यसमप्रभाम् ।। ३८ ।। वैष्णवास्त्रेण कामश्च निर्वाणं च चकार सः । नारायणस्त्रं स्कन्दश्च प्राक्षिपच्च त्वरान्वितः ।। ३९ ।। पपात दण्डवद्भूमौ प्रद्युम्नः कृष्णशिक्षया । स्कन्दः शक्तिं च चिक्षेप प्रलयग्निसमप्रभाम् ।। ४० ।। कामो नारायणास्त्रेण निर्वाणं च चकार ताम् । ब्रह्मास्त्रं च प्रचिक्षेप कार्तिको रणमूर्धनि ।। ४१ ।। ब्रह्मास्त्रेणापि कामश्च निर्वाणं च चकार सः । जग्राह कार्तिकं कोपाद्दिव्यं पाशुपतं तदा ।। ४२ ।। निद्रास्त्रेणापि मदनो निद्रितं च चकार तम् । कार्तिकं निद्रितं दृष्ट्वा बाणं च जृम्भितं तथा ।। ४३ ।। कोपात्कामं च सरथं जग्राह भद्रकालिका । क्रोडे कृत्वा च बाणं च स्कन्दं च जगतां प्रसूः ।। ४४ ।। रणस्थलाच्च प्रययौ यत्रैव पार्वती सती । कार्तिकं बोधयामास बाणं सुस्थं चकार सा ।। ४५ ।। सहसासरथः कामो नासारन्ध्रेण वर्त्मना । बहिर्बभूव संत्रस्तः प्रययौ च रणस्थलम् ।। ४६ ।। दृष्ट्का कामं च सरथं जहसुर्यादवास्तदा । सर्वे शैवाश्च तत्रस्थाः शुष्ककण्ठा भयकुलाः ।। ४७ ।। अथ बाणः पुनः क्रुद्धो रथमारुह्य कोपतः । कार्तिकेयश्च भगवान्युद्धाय पुनरागतः ।। ४८ ।। बाणः पञ्च शरांश्चैव चिक्षेप रणमूर्धनि । अर्धचन्द्रेण चिच्छेद बलदेवो महाबलः ।। ४९ ।। रथं बभञ्ज बाणस्य लाङ्गलेन च लाङ्गली । जघन सूतमश्वांश्च मुसलेनावलीलया ।। ५० ।। कुर्वन्तमुद्यमं छेत्तुं हलिनं च महाबलः । कालाग्निरुद्रो भगवान्वारयामास लीलया ।। ५१ ।। रथं कालाग्निरुद्रस्य बभञ्ज लाङ्गली रुषा । हलेन सूतमश्वाश्च जधान रणमूर्धनि ।। ५२ ।। कालाग्निरुद्रः कोपेन चिक्षेप जवरमुल्वणम् । बभूवुर्यादवाः सर्वे ज्वराक्रान्ता हरिं विना ।। ५३ ।। तं दृष्ट्वा भगवान्कृष्णः ससर्ज वैष्णवं ज्वरम् । तं चिक्षेप ज्वरं हन्तुं माहेशं रणमूर्धनि ।। ५४ ।। बभूव ज्वरयोर्युद्धं मुहूर्तमतिदारुणम् । वैष्णवज्वरनिष्कान्तो रणमीर्ध्नि पपात सः ।। परं बभूव निश्चेष्टस्तुष्टाव माधवं पुनः ।। ५५ ।। ज्वर उवाच प्रणान्रक्ष जगन्नाथ भक्तानुग्रहविग्रह । त्वमात्मा पुरुषः पुर्णः सर्वत्र समता तव ।। ५६ ।। ज्वरस्य वचनं श्रुत्वा संजहार स्वकं ज्वरम् । माहेश्वरो ज्वरो भीतो रणादेव हि निर्ययौ ।। ५७ ।। बाणश्च पुनरागत्य बाणानां च सहस्रकम् । चिक्षेप मन्त्रपूतं च प्रलयाग्निशिखोपमम् ।। ५८ ।। फाल्गुनः शरजालेन वारयामास लीलया । चिक्षेप शक्तिं बाणश्च ग्रीष्मसूर्यसमप्रभाम् ।। ५९ ।। चिच्छेद लीलया तां च सव्यसाची महाबलः । स जग्राह पाशुपतं शतसूर्यसमप्रभम् ।। ६० ।। अत्यर्थमतिघोरं च विश्वसंहारकारकम् ।तद्दृष्टा चक्रपाणिश्च चक्रं चिक्षेप दारुणम् ।। ६१ ।। हस्तानां च सहस्रं च सपाशुपतमुल्बणम् । चिच्छेद रणमध्ये च पपाताचलसिंहवत् ।। ६२ ।। शस्त्रं पाशुपतं चैव ययौ पशुपतेः करम् । अव्यर्थ दारुणं लोके प्रलयाग्निशिखोपमम् ।। ६३ ।। बाणरक्तसमूहेन बभूव च महानदः । बाणः पपात निश्चेष्टी व्यथितो हतचेतनः ।। ६४ ।। तत्राऽऽजगाम भगवान्महदेवो जगद्गुरुः । रुरोदाऽऽगत्य मोहेन बाणं कृत्वा स्ववक्षसि ।। ६५ ।। शिवाश्रुपतनेनैव संबभूव सरोवरम् । चेतनं कारयामास करुमासागरः प्रभुः ।। ६६ ।। बाणां गृहीत्वा प्रययौ यत्र देवो जनार्दनः । चक्रे पद्मार्चिते पादपद्मे बाणसमर्पणम् ।। ६७ ।। तुष्टाव जगतां नाथं भक्तेशं चन्द्रशेखलः । बलिना च स्ततं येन वेदोक्तेन च तेन च ।। ६८ ।। हरिर्मृत्युंजयं ज्ञानं ददौ बाणाय धीमते । करपद्मं ददौ गात्रे तं चकाराजरामरम् ।। ६९ ।। बाणः स्तोत्रेण तुष्टाव भक्त्या बलिकृतेन च । वरां कन्यां समानीय रत्नभूषणभूषिताम् ।। ७० ।। ब्रददौ हरये भक्त्या तत्रैव देवसंसदि । गजेन्द्राणां पञ्चलक्ष्मश्वानां तच्चतुर्गुणम् ।। ७१ ।। दासीनां च सहस्रं च रत्नभूषणभूषितम् । सहस्रं कामधेनूनां वत्सयुक्तं च सर्वदम् ।। ७२ ।। माणिक्यानां च मुक्तानां रत्नानां शतलक्षकम् । मणीन्द्राणां हीरकाणां शतलक्षं मनोहरम् ।। ७३ ।। जलभाजनपात्राणि सुवर्णनिर्मितानि च । महस्राणि ददौ तस्मै भक्तिनम्रात्मकंधरः ।। ७४ ।। वराणि सूक्ष्मवस्त्राणि वह्निशुद्धांशुकानि च । ददौ बाणश्च मर्वाणि स्वभक्त्या शंकराज्ञया ।। ७५ ।। ताम्बूलानां मधनां च पूर्णपात्राणि नारद । सहस्राणि ददौ भक्त्या वराणि विविधानि च ।। ७६ ।। कन्यां समर्पयामास पादपद्मे हरेरपि । रुरोदोच्चैः स्वभक्त्या च परिहारं चकार सः ।। ७७ ।। कृष्णस्तस्मै वरं दत्त्वा वेदोक्तं च शुभाशिष्म् । शंकरानुमतेनैव प्रययौ द्वारकां पुरीम् ।। ७८ ।। गत्वा कन्यां नवोढां तां बाणस्यापि महात्मनः । रुक्मिण्यै प्रददौ शीघ्रं देवक्यै च हरिः स्वयम् ।। ७९ ।। महोत्सवं मङ्गलं च कारयामास यत्नतः । ब्राह्मणान्भोजयामास ब्राह्मणेभ्यो धनं ददौ ।। ८० ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धं नाम विंशत्यधिकशततमोऽध्यायः ।। १२० ।।
viṃśatyadhikaśatatamo'dhyāyaḥ nārāyaṇa uvāca atha kṛṣṇaśca bhagavānuddhaveta balena ca | dūtaṃ praśthāpayāmāsa vidhāya mantraṇaṃ śubham || 1 || śivo gaṇapatiryatra durgāṃ durgatināśinī | kārtikeyo bhadrakālī cogracaṇḍā ca koṭarī || 2 || āgatya natvā dūtaśca gaṇeśaṃ ca śivaṃ śivām | mānavāṃścāpi pūcyāṃśca samuvāca yathocitam || 3 || dūta uvāca bāṇamāhvayate kṛṣṇaḥ saṃgrāmārtha maheśvara | kiṃ vā'niruddhamūṣāṃ ca gṛhītvā śaraṇaṃ vraja || 4 || raṇe nimantrito yo hi na yāti bhayakātaraḥ | paratra narakaṃ yāti saptabhiḥ pitṛbhiḥ saha || 5 || dūtasya vacanaṃ śrutvā sabhāmadhye yathocitam | uvāca pārvatī devī svayaṃ śaṃkarasaṃnidhau || 6 || pārvatyuvāca gaccha bāṇa mahābhāga gṛhītvā tava kanyakām | sarvasvaṃ yautakaṃ dattvā śrīkṛṣṇaṃ śaraṇaṃ vraja || 7 || sarveṣāmīśvaraṃ bījaṃ dātāraṃ sarvasaṃpadam | varaṃ varepyaṃ śaraṇaṃ kṛpāluṃ bhaktavatsalam || 8 || pārvatīvacanaṃ śrutvā tamūcuste sureśvarāḥ | praśasaṃsuḥsabhāmadhye dhanyadhanyeti sarvadā || 9 || kopāviṣṭaśca bāṇo'yamuttasthau sahasā'suraḥ | sāṃnāhiko dhanuṣpāṇiḥ praṇamya śaṃkaraṃ yayau || 10 || sarvairniṣidhyamānaśca kampito raktalocanaḥ | sāṃnāhikaśca daityānāṃ trikoṭyā ca mahābalaḥ || 11 || kumbhāṇḍaḥ kūpakarṇaśca nikumbhaḥ kumbha eva ca | senāpatīśvaraścaite yayuḥ sāṃnāhikāstathā || 12 || unmattabhairavaścaiva saṃhārabhairavastathā | asitāṅgo bhairavaśca rurubhairava eva ca || 13 || mahābhairavasaṃjñaśca kālabhairava eva ca | pracaṇḍabhairavaścaiva krodhabhairava eva ca || 14 || prayayuḥ śaktibhiḥ sārdha sarve sāṃnāhikāśca te | kālāggirudro bhagavānrudraiḥ sāṃnāhiko yayau || 15 || ugracaṇḍā pracaṇḍā ca caṇḍikā caṇḍināyikā | caṇḍeśvarī ca cāmuṇḍā caṇḍī caṇḍakapālikā || 16 || aṣṭau ca nāyikāḥ sarvāḥ prayayuḥ kharparāvintāḥ | koṭarī ratnayānasthā śoṇitagrāmadevatā || 17 || prayayau sā praphullāsyā khaḍgakharparadhāriṇī | indrāṇī vaiṣṇavī śāntā brahmāṇī brahmavādinī || 18 || kaumārī nārasiṃhī ca vārāhī vikaṭākṛtiḥ | māheśvarī mahāmāyā bhairavī bhīmarūpiṇī || 19 || aṣṭau ca śaktayaḥ sarvā rathasthāḥ prayayurmudā | ratnendrasārayānasthā prayayau bhadrakālikā || 20 || raktavarṇā trinayanā jihvālalanabhīṣaṇā | śūlaśaktigadāhastā khaḍgakharparadhāriṇī || 21 || prayayau śūlahastaśca vṛṣabhastho maheśvaraḥ | skandaśca śikhiyānasthaḥ śastrapāṇirdhanurdharaḥ || 22 || evaṃ ca prayayuḥ sarve gaṇeśaṃ pārvatīṃ vinā | ebhiryuktaṃ mahādevaṃ dṛṣṭvā ca bhadrakālikām || 23 || pracakre cakrapāṇiśca saṃbhāṣāṃ ca yathocitām | bāṇaḥ śaṅkadhvaniṃ kṛtvā praṇamya pārvatīśvaram || 24 || dhanurdathāra saguṇaṃ divyāstreṇa niyojitam | bāṇaṃ samudyataṃ dṛṣṭvā sātyakiḥ paravīrahā || 25 || niṣidhyamānastaiḥ sarvaiḥ saṃnāhī prayayau mudā | bāṇaścikṣepa divyāstramañjanaṃ nāma nārada || 26 || avyarthaṃ grīṣmamadhyāhanamārtaṇḍābhaṃ sutīkṣṇakam | dṛṣṭāvā'straṃ sātyakiḥ sākṣātkiṃcinnamro babhūva saḥ || 27 || kiṃ vā na dagdhaḥ prayayau nabhomadhyaṃ sudāruṇam | vahniṃ cikṣepa bāṇaśca sātyakirvāruṇena ca || 28 || prajvalantaṃ tālamānaṃ nirvāṇaṃ ca cakāra saḥ | ciccheda vāruṇaṃ ghoraṃ prajaṇḍaṃ bhīmamulbaṇam || 29 || ciccheda sātyakiścaiva pārjanyenāvalīlayā | cikṣepa pavanaṃ bāṇaḥ pracaṇḍaṃ bhīmamulbaṇam || 30 || ciccheda sātyakiścaiva parvatāśtreṇa līlayā | nārāyaṇastraṃ cikṣepa bāṇaśca raṇamūrdhani || 31 || sātyakirdaṇḍavadbhūmau papātārjunaśikṣayā | māheśvaraṃ pracikṣepa bāṇaḥ śastravidāṃ varaḥ || 32 || sātyakirvaiṣṇavāstreṇa pravicchedāvalīlayā | brahmāstraṃ cāpi cikṣepa bāṇaśca raṇamūrdhani || 33 || kṣaṇaṃ cakāra nirvāṇaṃ brahmāstreṇa ca sātyakiḥ | nāgāstraṃ cāpi cikṣepa bāṇo raṇaviśāradaḥ || 34 || sātyakirgāruḍenaiva saṃjahāra kṣaṇena ca | jagrāha śūlamavyarthaṃ śaṃkarasya sudāruṇam || 35 || tuṣṭāva sātyakirdurgā gale mālyaṃ babhūva ha | jagrāha dhanuṣā bāṇo bāṇaṃ pāśupataṃ tathā || 36 || bāṇaṃ sabāṇaṃ jṛmbhaṃ ca sātyakiśca cakāra ha | bāṇaṃ taṃ jṛmbhitaṃ dṛṣṭvā kārtikeyo mahābalaḥ || 37 || ardhacandraṃ ca cikṣepa kāmaściccheda līlayā | gadāṃ cakṣepa ca skandaḥ prātaḥ sūryasamaprabhām || 38 || vaiṣṇavāstreṇa kāmaśca nirvāṇaṃ ca cakāra saḥ | nārāyaṇastraṃ skandaśca prākṣipacca tvarānvitaḥ || 39 || papāta daṇḍavadbhūmau pradyumnaḥ kṛṣṇaśikṣayā | skandaḥ śaktiṃ ca cikṣepa pralayagnisamaprabhām || 40 || kāmo nārāyaṇāstreṇa nirvāṇaṃ ca cakāra tām | brahmāstraṃ ca pracikṣepa kārtiko raṇamūrdhani || 41 || brahmāstreṇāpi kāmaśca nirvāṇaṃ ca cakāra saḥ | jagrāha kārtikaṃ kopāddivyaṃ pāśupataṃ tadā || 42 || nidrāstreṇāpi madano nidritaṃ ca cakāra tam | kārtikaṃ nidritaṃ dṛṣṭvā bāṇaṃ ca jṛmbhitaṃ tathā || 43 || kopātkāmaṃ ca sarathaṃ jagrāha bhadrakālikā | kroḍe kṛtvā ca bāṇaṃ ca skandaṃ ca jagatāṃ prasūḥ || 44 || raṇasthalācca prayayau yatraiva pārvatī satī | kārtikaṃ bodhayāmāsa bāṇaṃ susthaṃ cakāra sā || 45 || sahasāsarathaḥ kāmo nāsārandhreṇa vartmanā | bahirbabhūva saṃtrastaḥ prayayau ca raṇasthalam || 46 || dṛṣṭkā kāmaṃ ca sarathaṃ jahasuryādavāstadā | sarve śaivāśca tatrasthāḥ śuṣkakaṇṭhā bhayakulāḥ || 47 || atha bāṇaḥ punaḥ kruddho rathamāruhya kopataḥ | kārtikeyaśca bhagavānyuddhāya punarāgataḥ || 48 || bāṇaḥ pañca śarāṃścaiva cikṣepa raṇamūrdhani | ardhacandreṇa ciccheda baladevo mahābalaḥ || 49 || rathaṃ babhañja bāṇasya lāṅgalena ca lāṅgalī | jaghana sūtamaśvāṃśca musalenāvalīlayā || 50 || kurvantamudyamaṃ chettuṃ halinaṃ ca mahābalaḥ | kālāgnirudro bhagavānvārayāmāsa līlayā || 51 || rathaṃ kālāgnirudrasya babhañja lāṅgalī ruṣā | halena sūtamaśvāśca jadhāna raṇamūrdhani || 52 || kālāgnirudraḥ kopena cikṣepa javaramulvaṇam | babhūvuryādavāḥ sarve jvarākrāntā hariṃ vinā || 53 || taṃ dṛṣṭvā bhagavānkṛṣṇaḥ sasarja vaiṣṇavaṃ jvaram | taṃ cikṣepa jvaraṃ hantuṃ māheśaṃ raṇamūrdhani || 54 || babhūva jvarayoryuddhaṃ muhūrtamatidāruṇam | vaiṣṇavajvaraniṣkānto raṇamīrdhni papāta saḥ || paraṃ babhūva niśceṣṭastuṣṭāva mādhavaṃ punaḥ || 55 || jvara uvāca praṇānrakṣa jagannātha bhaktānugrahavigraha | tvamātmā puruṣaḥ purṇaḥ sarvatra samatā tava || 56 || jvarasya vacanaṃ śrutvā saṃjahāra svakaṃ jvaram | māheśvaro jvaro bhīto raṇādeva hi niryayau || 57 || bāṇaśca punarāgatya bāṇānāṃ ca sahasrakam | cikṣepa mantrapūtaṃ ca pralayāgniśikhopamam || 58 || phālgunaḥ śarajālena vārayāmāsa līlayā | cikṣepa śaktiṃ bāṇaśca grīṣmasūryasamaprabhām || 59 || ciccheda līlayā tāṃ ca savyasācī mahābalaḥ | sa jagrāha pāśupataṃ śatasūryasamaprabham || 60 || atyarthamatighoraṃ ca viśvasaṃhārakārakam |taddṛṣṭā cakrapāṇiśca cakraṃ cikṣepa dāruṇam || 61 || hastānāṃ ca sahasraṃ ca sapāśupatamulbaṇam | ciccheda raṇamadhye ca papātācalasiṃhavat || 62 || śastraṃ pāśupataṃ caiva yayau paśupateḥ karam | avyartha dāruṇaṃ loke pralayāgniśikhopamam || 63 || bāṇaraktasamūhena babhūva ca mahānadaḥ | bāṇaḥ papāta niśceṣṭī vyathito hatacetanaḥ || 64 || tatrā''jagāma bhagavānmahadevo jagadguruḥ | rurodā''gatya mohena bāṇaṃ kṛtvā svavakṣasi || 65 || śivāśrupatanenaiva saṃbabhūva sarovaram | cetanaṃ kārayāmāsa karumāsāgaraḥ prabhuḥ || 66 || bāṇāṃ gṛhītvā prayayau yatra devo janārdanaḥ | cakre padmārcite pādapadme bāṇasamarpaṇam || 67 || tuṣṭāva jagatāṃ nāthaṃ bhakteśaṃ candraśekhalaḥ | balinā ca stataṃ yena vedoktena ca tena ca || 68 || harirmṛtyuṃjayaṃ jñānaṃ dadau bāṇāya dhīmate | karapadmaṃ dadau gātre taṃ cakārājarāmaram || 69 || bāṇaḥ stotreṇa tuṣṭāva bhaktyā balikṛtena ca | varāṃ kanyāṃ samānīya ratnabhūṣaṇabhūṣitām || 70 || bradadau haraye bhaktyā tatraiva devasaṃsadi | gajendrāṇāṃ pañcalakṣmaśvānāṃ taccaturguṇam || 71 || dāsīnāṃ ca sahasraṃ ca ratnabhūṣaṇabhūṣitam | sahasraṃ kāmadhenūnāṃ vatsayuktaṃ ca sarvadam || 72 || māṇikyānāṃ ca muktānāṃ ratnānāṃ śatalakṣakam | maṇīndrāṇāṃ hīrakāṇāṃ śatalakṣaṃ manoharam || 73 || jalabhājanapātrāṇi suvarṇanirmitāni ca | mahasrāṇi dadau tasmai bhaktinamrātmakaṃdharaḥ || 74 || varāṇi sūkṣmavastrāṇi vahniśuddhāṃśukāni ca | dadau bāṇaśca marvāṇi svabhaktyā śaṃkarājñayā || 75 || tāmbūlānāṃ madhanāṃ ca pūrṇapātrāṇi nārada | sahasrāṇi dadau bhaktyā varāṇi vividhāni ca || 76 || kanyāṃ samarpayāmāsa pādapadme harerapi | rurodoccaiḥ svabhaktyā ca parihāraṃ cakāra saḥ || 77 || kṛṣṇastasmai varaṃ dattvā vedoktaṃ ca śubhāśiṣm | śaṃkarānumatenaiva prayayau dvārakāṃ purīm || 78 || gatvā kanyāṃ navoḍhāṃ tāṃ bāṇasyāpi mahātmanaḥ | rukmiṇyai pradadau śīghraṃ devakyai ca hariḥ svayam || 79 || mahotsavaṃ maṅgalaṃ ca kārayāmāsa yatnataḥ | brāhmaṇānbhojayāmāsa brāhmaṇebhyo dhanaṃ dadau || 80 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo bāṇayuddhaṃ nāma viṃśatyadhikaśatatamo'dhyāyaḥ || 120 ||
English translation
Bana presents his daughter to Aniruddha Narayana said» Sn Krsna after consulting Balarama and Uddhava dispatched a messenger to Bana.
He went to the place where Siva, Ganesa, Parvatl, the destroyer of misfortunes, Karttikeya, BhadrakalT, Ugracan# and Kotarl were seated.
The messenger bowed in reverence to Ganesa, Siva, Parvatl and all other respectable people The messengers said- ”0 Siva, Krsna is inviting Bana for a battle-field or otherwise he should go and take refuge with Krsna together with Aniruddha and Usa. The one who does not face the war when he is invited for the same, he drives his seven generations after death to the On hearing the words of messengers, Parvatl who was seated beside Siva spoke the Parvatl said- O virtuous Bana, you give away everything in dowry and take refuge with Sri Krs na together with your son. He happens to be the lord of all, bestower of all the riches, the best of all the protector of all, is all merciful and is graceful on the devotees, On hearing the words of Parvatl, all the gods and the sages present in the assembly termed her words graceful and praised her. They also advised Bana to act accordingly but Bana started
burning in anger and he was trembling with his eyes burning red. The demon then suddenly got up and in spite of the objection by all, he adorned himself, with the kavaca, holding a bow in his hand and bowing in reverence to $iva, the valorous demon moved on with three crores of soldiers of the army. He was followed by and the commander Isvara wearing the kavacas.
Thereafter Unmattabhairava, Sarhhara- and Krodhabhairava also followed him carrying all the weapons, the lord Kalagnirudra also followed him with all the Rudras.
Candesvarl, Camunda, Candl, Candakapalika, all the eight of them marched forward holding the skull-cups in their hands. The village deity of Sonitpura named Kotarl also moved on mounted on the gem-studded chariot. She had a smiling face and held and skull-cup and a sword in her hand; all the eight goddesses named IndranI, Narasiinhl, Varahl, of terrible form, Mahamaya, Mahesvarl and Bhairavl of terrific form also followed the army mounted over a chariot delightfully. Bhadrakalika was mounted over a gem-studded chariot, offered her salutation to the lord. She had a red complexion, three eyes and looked terrific because of her protruding tongue.
All of them carried the trident, sakti, gadd, sword and the skull-cup in their hands.
fy i ftgt n -ret: Thereafter Mahadeva holding a trident in his hand was mounted on Nandi and marched on.
Karttikeya holding a terrific weapon in his hand moved on mounted on the peacock. Thus all the gods and goddesses except Ganesa and Parvatl marched on to the battle-field. Finding Mahadeva and Bhadrakali there, Krsna spoke to them. Bana then blew the conch and bowing at the feet of Siva, strung his bow and aimed the divine arrow from the bow. Finding Bana getting ready for the war, Satyaki the killer of the enemy moved forward in spite of being dissuaded by other people. O Narada, Bana shot a divine weapon named Anjana on him. The weapon was infallible, issued the lustre like the mid-day sun of the Summer season and was quite sharp.
Finding the weapon Satyaki himself became quite humble, As a result of this, he could not be burnt and was flown to the sky. Thereafter Bana shot a fire arrow which was neutralised by Satyaki with Varundstra, extinguishing the flames of the fire which, were rising to the height of a tala tree.
Thereafter Bana shot the terrific arrow of the But Satyaki neutralised the same with the shooting of a Parvatdstra. Bana then used Ndrdyandstra in the battle-field.
But Satyaki because of the training he received for Arjuna prostrated before it on the ground. Thereafter Bana who was well-known in the warfare shot the Mahesvara anow.
Satyaki destroyed it with the use of Vaisnava- astra. Thereafter Bana shot Brahmdstra.
ftgfot w 4iirnRb:i Satyaki on the other hand destroyed the same with the use of Brahmdstra. Bana, who was well-versed in the warfare shot the Ndgdstra.
But Satyaki destroyed the same with the shooting of Garudastra in a moment. Thereafter Bana took up the infallible trident of Siva.
Satyaki than offered prayer to Durga. as a result of this, the trident was turned into the garland of flowers adorning his neck. Bana then placed the Pdsupata on the bow.
But Satyaki shot an arrow which plunged Bana into a swoon. Finding Bana getting into sleep, the valorous Karttikeya shot the crescent arrow. But Kamadeva destroyed it playfuHy.
After this, Karttikeya shot a gadd having the lustre of the rising sun.
The god of love neutralised it also, Skanda then shot Ndrdyandstra but Pradyumna because of the training he had received from Krsna, prostrated on the ground like a rod. Skanda then shot an another arrow named s'akti, having the lustre of the fire of dissolution. Kamadeva on his part neutralised the same by issuing the Ndrdyandstra; then Karttikeya took up in anger the Pdsupata weapon.
gimt HKiguii^ui fefnr g ganr gBi;i ggjR 7T;i But Kamadeva with the use of Nidrastra made him unconscious who went to sleep. Finding Karttikeya having been over-powered by sleep and yawning, Banasura and Bhadrakall in anger caught hold of Kamadeva. She then carried Kamadeva and Bana in her lap and went to the place where the chaste Parvati was seated. She woke up Karttikeya and Bana also regained In the meantime kdma left the place from the hole of the nose suddenly and somehow terrorising all, reached the battle-field.
At that point of time all the Yadavas finding Kamadeva there, started laughing. The throat of all the ganas of Siva dried up and they ware upset with fear.
Thereafter Bana again mounted on the chariot and started fighting with KMtikeya.
Bana used five arrows in the battle-field which were neutralised by Baladeva with the use of Haladhara BalarSma then broke the chariot with the use of the plough and with the use of the mortar, he killed the chariot as well as charioteer.
At the time when Bana was about to be killed by Balabhadra, Kalagnirudra prevented him from doing so.
Thereafter Balabhadra broke into pieces the chariot of Kalagnirudra and killed with the use of the plough the horses and broke the chariot.!
Kalagnirudra then issued the terrific fever, as a result of which all the Yadavas were over¬ powered with fever except Krsna.
At that point of time Sri Krsna created the Vaisnava fever and made it spread on the army and neutralised the fever of Kalagnirudra. Both the fevers were engaged in the battle-filed for sometime. Ultimately the fever of Rudra was over-powered by Vaisnava fever restless. At regaining consciousness he prayed to Sri Krsna.
The fever said- O lord of the universe you are the one who takes to the human form to grace your devotees, you are a soul of all and are the complete Purusa, you are adored everywhere.
On hearing the words of the fever, Sri Krsna wound up his fever; thereafter the Mahesvara fever getting terrified fled away from the battle¬ Bana than again shot thousands of arrows issuing the lustre of the fire of dissolution and were sanctified with the reciting of the mantras.
Arjuna on the other hand stopped the flow of all the arrows with his own arrow. Bana then shot the terrific sakti having the lustre of the mid-day sun of the summer season, which was neutralised by Arjuna quite playfully.
Bana then shot a hundred Pasupata arrow having the lustre of hundred of suns and was quite terrific. It could destroy the entire universe.
Finding him so doing Sri Krsna lifted up the The Sudarsana-cakra cut off thousand of heads of Bana who he fell down on the ground like a wild lion.
Thereafter the Pdsupata weapon which was infallible and quite terrific like the fire of dissolution, reverted in the hands of Siva.
A great river was created with the flow of the blood of Bana. He became unconscious and fell on the ground and he lost his senses because of the pain.
gRiT TPi\Nui'iifMfnH,i I's o 11 In the meantime Siva, the teacher of the universe arrived there and holding Bana in his arms, he was infested with illusion. He than With the fall of the tears from the eyes of ^iva a lake was created. The all merciful lord then brought him to senses. He then carried Bana in his arm and went to the place of Krsna. He than placed Bana at the lotus-like feet of Krsna, which were always adored by LaksmI.
Thereafter, Bana adored the lord with the stotra recited by Ball with devotion and offered his daughter adorned with all the ornaments to Sri Krsna with devotion. Thereafter, he, bowing in reverence gave away five lakhs of elephants, twenty lakh horses, a thousand slave-girls adorned with all the gem-studded ornaments, a thousand lakh of emeralds, sapphire, gems and the best of diamonds beside thousand of water vases made of gold.
At the command of Siva, Bana presented to Krsna the fine costumes which were sanctified by fire.
grrftiT 'tTiivs^i Siva then started praising Krsna who happens to be the lord of the universe according to the Vedic hymns, in the same way as he was adored by Bali.
SrI Krsna then bestowed on intelligent Be, the sacred knowledge of over-coming the death and placing his hand on his body made him eternal and indestructible.
O Narada, he also gave away to Krsna thousands of vases filled with betels and honey.
Placing his daughter at the lotus-like feet of Hari, he started crying in land voice. Lord Kari consoled him.
Thereafter bestowing his blessing according to the Vedas and taking permission from Siva, he left for Dvaraka.
gRiT tir qiui^iiM i Reaching Dvaraka lord Krsna presented the newly wedded daughter of Bana to RukminI and After that, the welfare festivities were performed with great enthusiasm and the Brahman as were served with- food and given riches in charity.
Srgala said- I am Vaikuntha and the god of gods having four arms, lord of LaksmI, maintain the universe and preserve the same being Brahma and Vasudeva.
Brahma had prayed to me to incarnate in order to rid the earth of her burden. That is why I arrived in the land of Bharata.
The son of Vasudeva is a Vaisya and is quite arrogant and Ksatriya as well. He is filled with illusion and is a cheat.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 76581 (2016-08-26T01:31:40Z); Shanti Lal Nagar English scan pages n1636–n1642: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1636/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.