Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 119

Chapter 119

Unit 262 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 119Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 1191 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 119

Source

अथैकोनविंशत्यधिकशततमोऽध्यायः नारायण उवाच पार्वतीवचनं श्रुत्वा गमेशश्च शिवः स्वयम् । कार्तिकेयश्च काली च तां प्रशंसां चकार ह ।। १ ।। उवाच भगवाञ्शंभुर्जगतां मातरं पराम् । ज्योतिः स्वरूपां परमां मूलप्रकृतिमीश्वरीम् ।। २ ।। महादेव उवाच त्वया यधक्तं देवेशि सर्व वेदोक्तमीप्सितम् । अयुक्तमुपहास्यं व समरं परमात्मना ।। ३ ।। बाणो ददातु कन्यां दां स्वर्णभूषणभूषिताम् । सामञ्जस्यं यशस्यं च शुभदं सर्वकर्मसु ।। ४ ।। न ददाति यदा बाणो हिरण्यकशिपोः प्रजा । युद्धे पराङ्मुखो भीतो भगवत्ययशस्करः ।। ५ ।। बाणो गच्छतु संनाही रणशास्रविशारदः । पश्चाच्चा ऽऽगमनं कुर्मो वयं सांनाहिकाः शिवे ।। ६ ।। उवाच बाणं तां दातुं स च न स्वीचकार ह । दुर्गा तं बोधयामास न बुबोध च सद्वचः ।। ७ ।। एतस्मिन्नन्तरे तां च सभामेव महोरमाम् । आजगाम महाधर्मो बलिश्च वैष्णवाग्रणीः ।। ८ ।। रथं लत्नेन्द्रनिर्माणं समारुह्य महाबलः । प्रतप्तैः सप्तभिर्दैत्यैः सेवितः श्वेतचामरैः ।। ९ ।। दैत्येन्द्राणां सप्तलक्षैरावृतः परमास्त्रवित् । अवरुह्य रथात्तूर्णं गणेशं च शिवां शिवाम् ।। १० ।। प्रणम्य कार्तिकेयं च स उवास च संसदि । उत्तस्थुरारात्तं दृष्ट्वा ते सर्वे शंकरं विना ।। ११ ।। तमुवाच महादेवः संभाष्य प्रियभाषणम् ।। ११ ।। महादेव उवाच भगवंश्चतुरस्त्वं च प्रदाता सर्वसंपदाम् । अयं हि परमो लाभो वैष्णवानां समागमः ।। १२ ।। तीर्थान्यपि च पूतानि वैष्णवस्पर्शमात्रतः । सर्वेषामाश्रमाणां च पूजितो ब्राह्मणः शुचिः ।। १३ ।। ततोऽधिकः पूजितोऽपि ब्राह्मणो यदि वैष्णवः । न हि पूतं च पश्यमि वैष्णवब्राह्मणात्परम् ।। १४ ।। स पूतः पवनादेव स पूतश्च हुताशानात् । तीर्थेम्योऽपि च सर्वेभ्यो बिभेति च ततः सुरः ।। १५ ।। न हि पापानि तद्देहे वह्नौ शुष्कतृणादिवत् ।। १६ ।। बलिरुवाच कथं स्तौषि जगन्नाथ भृत्यमस्तव्यमीश्वरः । प्रदत्तं परमेश्वर्य त्वया नाथ सुदुल्रभम् ।। १७ ।। अधुना स्थापितो दैवात्सर्वाधः सुतलेऽपि च । इन्द्राय दत्तमैश्वर्य मत्तो भक्तात्सुरेश्वर ।। १८ ।। त्वया वामनरूपेण सर्वरूपोऽसि सर्वतः । बाणं बोधय भद्रं च मम प्राणात्मजं परम् ।। १९ ।। आत्मना सह युद्धं च देवेष्वपि विगर्हितम् । इत्युक्त्वा च शिवं नत्वा शिरसा प्रणनाम तम् ।। २० ।। सामवेदोक्तस्तोत्रेण तुष्टाव परमेश्वरम् । पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रोऽतिविह्वलः ।। २१ ।। ध्यायमानश्च नित्यं यो हृत्पद्मे सुमनोहरे । शुक्रेण दत्तं मन्त्रं च जप्त्वा चैकादशाक्षरम् ।। २२ ।। बलिरुवाच अदित्याः प्रार्थनेनैव मातुर्देव्या व्रतेन च । पुरा वामनरूपेण त्वयाऽहं वञ्चितः प्रभो ।। २३ ।। संपद्रूपा महालक्ष्मीर्दत्ता भक्ताय भक्तितः । शक्राय मत्तो भक्ताय भ्रात्रे पुण्यवते ध्रुवम् ।। २४ ।। अधुना मम पुत्रोऽयं बाणः शंकरकिंकरः । आराच्च रक्षितः सोऽपि तेनैव भक्तबन्धुना ।। २५ ।। परिपुष्टश्च पार्वत्या यथा मात्रा सुतस्तथा । गृहीतवांश्च तत्कन्यां बलेन युवतीं सतीम् ।। २६ ।। समुद्यतश्च तं हन्तुं कार्तिकेनापि वारितः । आगतोऽसि पुनर्हन्तुं पौत्रस्य दमने क्षमः ।। २७ ।। सर्वात्मनश्च सर्वत्र समभावः श्रुतौ श्रुतः । करोषि जगतां नाथ कथमेवं व्यतिक्रमः ।। २८ ।। त्वया च निहतो यो हि तस्य को रक्षिता भुवि । सुदर्शनस्य तेजो हि सूर्यकोटिनिभं परम् ।। २९ ।। केषां सुराणामस्त्रेण तदेव च निवारितम् । यथा सुदर्शनं चैवमस्त्राणां प्रवरं वरम् ।। ३० ।। तथा भवांश्च देवानां सर्वेषामीश्वरः परः । यथा भवांस्तथा कृष्णो विधाता वेधसामपि ।। ३१ ।। विष्णुः सत्त्वगुणाधारः शिवः सत्त्वाश्रयस्तथा । स्वयं विधाता रजसः सृष्टिकर्ता पितामहः ।। ३२ ।। कालाग्निरुद्रो भगवान्विश्वचसंहारकारकः । तमसश्चाऽऽश्रयः सोऽपि रुद्राणां प्रवरो महान् ।। ३३ ।। स एव शंकरांशश्चाप्यन्ये रुद्राश्च तत्कलाः । भवांश्च निर्गुणस्तेषां प्रकृतेश्च परस्तथा ।। ३४ ।। सर्वेषां परमात्मा वै प्रणा विष्णुस्वरूपिणः । मानसं च स्वयं ब्रह्मा स्वयं ज्ञानात्मकः शिवः ।। ३५ ।। प्रवरा सर्वशक्तीनां बुद्धिः प्रकृतिरीश्वरी । स्वात्मनः प्रतिबिभ्बस्ते जीवः सर्वेषु देहिषु ।। ३६ ।। जीवः स्वकर्मणां भोगी स्वयं साक्षी भवांस्तथा । सर्वे यान्ति त्वयि गते नरदेवे यथाऽनुगाः ।। ३७ ।। सद्यः पतति देहश्च शवोऽस्पृश्यस्त्वया विना । बुद्धाः सन्तो न जानन्ति वञ्चितास्तव मायया ।। ३८ ।। त्वां भजन्त्येव ये सन्तो मायामेतां तरन्ति ते । त्रिगुणा प्रकृतिर्दुर्गा वैष्णवी च सनातनी ।। ३९ ।। परा नारायणीशानी तव माया दुरत्यया । त्वदंशाः प्रतिविश्वेषु ब्रह्मविष्णुशिवात्मकाः ।। ४० ।। सर्वेषामपि विश्वेषामाश्रयो यो महान्विराट् । स सेते च जले योगाद्विश्वेशो गोकुले यथा ।। ४१ ।। स एव वासुर्भगवांस्तस्य देवो भवान्परः । वासुदेव इति ख्यातः पुराविद्भिः प्रकीर्तितः ।। ४२ ।। त्वमेव कलया सूर्यस्त्वमेव कलया शशी । कलया च हुताशश्च कलया पवनः स्वयम् ।। ४३ ।। कलया वरुणश्चैव कुबेरश्च यमस्तथा । कलया त्वं महेन्द्रश्च कलया धर्म एव च ।। ४४ ।। त्वमेव कलया शेष ईशानो नैऋंतिस्तथा । मुनयो मनवश्चैव ग्रहाश्च फलदायकः ।। ४५ ।। कलाकलायाश्चांशेन सर्वे जीवाश्चराचराः । त्वं ब्रह्म परमं ज्योतिर्ध्यायन्ते योगिनः सदा ।। ४६ ।। तं त्चाऽऽद्रियन्ते भक्तास्ते ध्यायन्ते य तदन्तरे । नवीननीरदश्यामं पीतकौशेयवाससम् ।। ४७ ।। ईषद्धास्यप्रसन्नास्यं भक्तेशं भक्तवत्सलम् । चन्दनोक्षितसर्वाङ्गं द्विभुजं मुरलीधरम् ।। ४८ ।। मयूरपिच्छचूडं च मालतीमाल्यभूषितम् । अमूल्यरत्ननिर्माणकेयूरवलयाविन्तम् ।। ४९ ।। मणिकुण्डलयुग्मेन गण्डस्थलविराजितम् । रत्नसाराङ्गलीयं च क्वणन्मञ्जीररञ्जितम् ।। ५० ।। कोटिकन्दर्पलीलाभं शरत्कमललोचनम् । शरत्पूर्णैन्दुनिन्दास्यं चन्द्रकोटिसमप्रभम् ।। ५१ ।। वीक्षितं सस्मिताभिश्च गोपीनां कोटिकोटिभिः । वयस्यैः पार्षदैर्गोपैः सेवितं श्वेतचामरैः ।। ५२ ।। गोपबालकवेषं च राधावक्षः स्थलस्थितम् । ध्यानासाध्यं दुराराध्यं ब्रह्मेशशेषवन्दितम् ।। ५३ ।। सिन्द्धेन्द्रैश्च मुनीन्द्रैश्च योगीन्द्रैः प्रणतं स्तुतम् । वेदानिर्वचनीयं च परं स्वेच्छामयं विभुम् ।। ५४ ।। स्थूलस्थूलतमं रूपं सूक्ष्मात्सूक्ष्मतमं परम् । सत्यं नित्यं प्रशस्तं च प्रकृतेः परमीश्वरम् ।। ५५ ।। निर्लिप्तं च निरीहं च भगवन्तं सनातनम् । एवं ध्यात्वा च ते पूताः स्निग्धदूर्वाक्षता जलम् ।। ५६ ।। पद्मापद्मार्चिते पादपद्मे च दातुमुत्सुकाः । वेदाःस्तोतुमशक्तास्त्वामशक्ता सा सरस्वती ।। ५७ ।। शेषः स्तोतुमशक्तश्च स्वयंभूः शंभुरीश्वरः । गणेशश्च दिनेशश्च महेन्द्रश्चन्द्र एव च ।। ५८ ।। स्तोतुं नालं धनेशश्च किमन्ये जड्बुद्धयः । गुणातीतमनीहं च किं स्तौमि निर्गुणं परम् ।। ५९ ।। अपण्डितोऽयमसुरो न सुरः क्षन्तुमर्हसि । बलेस्तद्वचनं श्रुत्वा तमुवाच जगत्पतिः ।। परिपूर्णतमः श्रीमान्भक्तं च भक्तवत्सलः ।। ६० ।। श्रीभगवानुवाच मा भैर्वत्स गृहं गच्छ सुतलं रक्षितं मया । मद्वरेण प्रसादेन त्वत्पुत्रोऽप्यजरामरः ।। ६१ ।। दर्पहानिं करिष्यामि तस्य मूर्खस्य दर्पिणः । प्रह्लादाय वरो दत्तो भक्ताय च तपस्विने ।। ६२ ।। ममावध्यश्च त्वद्वंशश्चेति प्रीतेन चेतसा । तव पुत्राय दास्यामि ज्ञानं मृत्युंजयं परम् ।। ६३ ।। त्वया कृतिमिदं स्तोत्रं सामवेदोक्तमीप्सितम् । पुरा सनत्कुमाराराय प्रदत्तं ब्रह्मणा तथा ।। ६४ ।। सिद्धाश्रमे पुण्यतमे प्रशस्ते सूर्यपर्वणि । गौतमाय प्रदत्तं च गौर्या मन्दाकिनीतटे ।। ६५ ।। शंकरेण च शिष्याय भक्ताय च दयालुना । ब्रह्मणे च मया दत्तं शिवाय विरजातटे ।। ६६ ।। भृगवे च पुरा दत्तं कुमारेण च धीमता । त्वं च दास्यसि बाणाय बाणः स्तोष्यत्यनेन माम् ।। ६७ ।। इदं स्तोत्रं महापुण्यमुबदिश्य गुरोर्मुखात् । वृतस्य पूजितस्यापि वस्त्रभूषणचन्दनैः ।। ६८ ।। सुस्नातो यः पठेन्नित्यं पूजाकाले च भक्तितः । कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।। ६९ ।। विपदां खण्डनं स्तोत्रं कारणं सर्वसंपदाम् । वारणं दुःखशोकानां भवाब्धिधोरतारणम् ।। ७० ।। खण्डनं गर्भवासानां जरामृत्युहरं परम् ।बन्धनानां च रोगाणां खण्डनं भक्तमण्डनम् ।। ७१ ।। स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । व्रती व्रतेषु सर्वेषु तपस्वी च तपःसु च ।। ७२ ।। स स्तयं सर्वदानानां फलं च लभते ध्रुवम् । लक्षधा स्तोत्रपाठेन स्तोत्रसिद्धिर्भवेन्नृणाम् ।। ७३ ।। सर्वसिद्धिं च लभते सिद्धिस्तोत्रो भवेद्यदि । इहलोके देवतुल्योऽप्यन्ते याति हरेः पदम् ।। ७४ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धे बलिकृतश्रीकृष्णम्तोत्रं नामैकोनविंशत्यधिकशततमोऽध्यायः ।। ११९ ।।

athaikonaviṃśatyadhikaśatatamo'dhyāyaḥ nārāyaṇa uvāca pārvatīvacanaṃ śrutvā gameśaśca śivaḥ svayam | kārtikeyaśca kālī ca tāṃ praśaṃsāṃ cakāra ha || 1 || uvāca bhagavāñśaṃbhurjagatāṃ mātaraṃ parām | jyotiḥ svarūpāṃ paramāṃ mūlaprakṛtimīśvarīm || 2 || mahādeva uvāca tvayā yadhaktaṃ deveśi sarva vedoktamīpsitam | ayuktamupahāsyaṃ va samaraṃ paramātmanā || 3 || bāṇo dadātu kanyāṃ dāṃ svarṇabhūṣaṇabhūṣitām | sāmañjasyaṃ yaśasyaṃ ca śubhadaṃ sarvakarmasu || 4 || na dadāti yadā bāṇo hiraṇyakaśipoḥ prajā | yuddhe parāṅmukho bhīto bhagavatyayaśaskaraḥ || 5 || bāṇo gacchatu saṃnāhī raṇaśāsraviśāradaḥ | paścāccā ''gamanaṃ kurmo vayaṃ sāṃnāhikāḥ śive || 6 || uvāca bāṇaṃ tāṃ dātuṃ sa ca na svīcakāra ha | durgā taṃ bodhayāmāsa na bubodha ca sadvacaḥ || 7 || etasminnantare tāṃ ca sabhāmeva mahoramām | ājagāma mahādharmo baliśca vaiṣṇavāgraṇīḥ || 8 || rathaṃ latnendranirmāṇaṃ samāruhya mahābalaḥ | prataptaiḥ saptabhirdaityaiḥ sevitaḥ śvetacāmaraiḥ || 9 || daityendrāṇāṃ saptalakṣairāvṛtaḥ paramāstravit | avaruhya rathāttūrṇaṃ gaṇeśaṃ ca śivāṃ śivām || 10 || praṇamya kārtikeyaṃ ca sa uvāsa ca saṃsadi | uttasthurārāttaṃ dṛṣṭvā te sarve śaṃkaraṃ vinā || 11 || tamuvāca mahādevaḥ saṃbhāṣya priyabhāṣaṇam || 11 || mahādeva uvāca bhagavaṃścaturastvaṃ ca pradātā sarvasaṃpadām | ayaṃ hi paramo lābho vaiṣṇavānāṃ samāgamaḥ || 12 || tīrthānyapi ca pūtāni vaiṣṇavasparśamātrataḥ | sarveṣāmāśramāṇāṃ ca pūjito brāhmaṇaḥ śuciḥ || 13 || tato'dhikaḥ pūjito'pi brāhmaṇo yadi vaiṣṇavaḥ | na hi pūtaṃ ca paśyami vaiṣṇavabrāhmaṇātparam || 14 || sa pūtaḥ pavanādeva sa pūtaśca hutāśānāt | tīrthemyo'pi ca sarvebhyo bibheti ca tataḥ suraḥ || 15 || na hi pāpāni taddehe vahnau śuṣkatṛṇādivat || 16 || baliruvāca kathaṃ stauṣi jagannātha bhṛtyamastavyamīśvaraḥ | pradattaṃ parameśvarya tvayā nātha sudulrabham || 17 || adhunā sthāpito daivātsarvādhaḥ sutale'pi ca | indrāya dattamaiśvarya matto bhaktātsureśvara || 18 || tvayā vāmanarūpeṇa sarvarūpo'si sarvataḥ | bāṇaṃ bodhaya bhadraṃ ca mama prāṇātmajaṃ param || 19 || ātmanā saha yuddhaṃ ca deveṣvapi vigarhitam | ityuktvā ca śivaṃ natvā śirasā praṇanāma tam || 20 || sāmavedoktastotreṇa tuṣṭāva parameśvaram | pulakāñcitasarvāṅgaḥ sāśrunetro'tivihvalaḥ || 21 || dhyāyamānaśca nityaṃ yo hṛtpadme sumanohare | śukreṇa dattaṃ mantraṃ ca japtvā caikādaśākṣaram || 22 || baliruvāca adityāḥ prārthanenaiva māturdevyā vratena ca | purā vāmanarūpeṇa tvayā'haṃ vañcitaḥ prabho || 23 || saṃpadrūpā mahālakṣmīrdattā bhaktāya bhaktitaḥ | śakrāya matto bhaktāya bhrātre puṇyavate dhruvam || 24 || adhunā mama putro'yaṃ bāṇaḥ śaṃkarakiṃkaraḥ | ārācca rakṣitaḥ so'pi tenaiva bhaktabandhunā || 25 || paripuṣṭaśca pārvatyā yathā mātrā sutastathā | gṛhītavāṃśca tatkanyāṃ balena yuvatīṃ satīm || 26 || samudyataśca taṃ hantuṃ kārtikenāpi vāritaḥ | āgato'si punarhantuṃ pautrasya damane kṣamaḥ || 27 || sarvātmanaśca sarvatra samabhāvaḥ śrutau śrutaḥ | karoṣi jagatāṃ nātha kathamevaṃ vyatikramaḥ || 28 || tvayā ca nihato yo hi tasya ko rakṣitā bhuvi | sudarśanasya tejo hi sūryakoṭinibhaṃ param || 29 || keṣāṃ surāṇāmastreṇa tadeva ca nivāritam | yathā sudarśanaṃ caivamastrāṇāṃ pravaraṃ varam || 30 || tathā bhavāṃśca devānāṃ sarveṣāmīśvaraḥ paraḥ | yathā bhavāṃstathā kṛṣṇo vidhātā vedhasāmapi || 31 || viṣṇuḥ sattvaguṇādhāraḥ śivaḥ sattvāśrayastathā | svayaṃ vidhātā rajasaḥ sṛṣṭikartā pitāmahaḥ || 32 || kālāgnirudro bhagavānviśvacasaṃhārakārakaḥ | tamasaścā''śrayaḥ so'pi rudrāṇāṃ pravaro mahān || 33 || sa eva śaṃkarāṃśaścāpyanye rudrāśca tatkalāḥ | bhavāṃśca nirguṇasteṣāṃ prakṛteśca parastathā || 34 || sarveṣāṃ paramātmā vai praṇā viṣṇusvarūpiṇaḥ | mānasaṃ ca svayaṃ brahmā svayaṃ jñānātmakaḥ śivaḥ || 35 || pravarā sarvaśaktīnāṃ buddhiḥ prakṛtirīśvarī | svātmanaḥ pratibibhbaste jīvaḥ sarveṣu dehiṣu || 36 || jīvaḥ svakarmaṇāṃ bhogī svayaṃ sākṣī bhavāṃstathā | sarve yānti tvayi gate naradeve yathā'nugāḥ || 37 || sadyaḥ patati dehaśca śavo'spṛśyastvayā vinā | buddhāḥ santo na jānanti vañcitāstava māyayā || 38 || tvāṃ bhajantyeva ye santo māyāmetāṃ taranti te | triguṇā prakṛtirdurgā vaiṣṇavī ca sanātanī || 39 || parā nārāyaṇīśānī tava māyā duratyayā | tvadaṃśāḥ prativiśveṣu brahmaviṣṇuśivātmakāḥ || 40 || sarveṣāmapi viśveṣāmāśrayo yo mahānvirāṭ | sa sete ca jale yogādviśveśo gokule yathā || 41 || sa eva vāsurbhagavāṃstasya devo bhavānparaḥ | vāsudeva iti khyātaḥ purāvidbhiḥ prakīrtitaḥ || 42 || tvameva kalayā sūryastvameva kalayā śaśī | kalayā ca hutāśaśca kalayā pavanaḥ svayam || 43 || kalayā varuṇaścaiva kuberaśca yamastathā | kalayā tvaṃ mahendraśca kalayā dharma eva ca || 44 || tvameva kalayā śeṣa īśāno naiṛṃtistathā | munayo manavaścaiva grahāśca phaladāyakaḥ || 45 || kalākalāyāścāṃśena sarve jīvāścarācarāḥ | tvaṃ brahma paramaṃ jyotirdhyāyante yoginaḥ sadā || 46 || taṃ tcā''driyante bhaktāste dhyāyante ya tadantare | navīnanīradaśyāmaṃ pītakauśeyavāsasam || 47 || īṣaddhāsyaprasannāsyaṃ bhakteśaṃ bhaktavatsalam | candanokṣitasarvāṅgaṃ dvibhujaṃ muralīdharam || 48 || mayūrapicchacūḍaṃ ca mālatīmālyabhūṣitam | amūlyaratnanirmāṇakeyūravalayāvintam || 49 || maṇikuṇḍalayugmena gaṇḍasthalavirājitam | ratnasārāṅgalīyaṃ ca kvaṇanmañjīrarañjitam || 50 || koṭikandarpalīlābhaṃ śaratkamalalocanam | śaratpūrṇaindunindāsyaṃ candrakoṭisamaprabham || 51 || vīkṣitaṃ sasmitābhiśca gopīnāṃ koṭikoṭibhiḥ | vayasyaiḥ pārṣadairgopaiḥ sevitaṃ śvetacāmaraiḥ || 52 || gopabālakaveṣaṃ ca rādhāvakṣaḥ sthalasthitam | dhyānāsādhyaṃ durārādhyaṃ brahmeśaśeṣavanditam || 53 || sinddhendraiśca munīndraiśca yogīndraiḥ praṇataṃ stutam | vedānirvacanīyaṃ ca paraṃ svecchāmayaṃ vibhum || 54 || sthūlasthūlatamaṃ rūpaṃ sūkṣmātsūkṣmatamaṃ param | satyaṃ nityaṃ praśastaṃ ca prakṛteḥ paramīśvaram || 55 || nirliptaṃ ca nirīhaṃ ca bhagavantaṃ sanātanam | evaṃ dhyātvā ca te pūtāḥ snigdhadūrvākṣatā jalam || 56 || padmāpadmārcite pādapadme ca dātumutsukāḥ | vedāḥstotumaśaktāstvāmaśaktā sā sarasvatī || 57 || śeṣaḥ stotumaśaktaśca svayaṃbhūḥ śaṃbhurīśvaraḥ | gaṇeśaśca dineśaśca mahendraścandra eva ca || 58 || stotuṃ nālaṃ dhaneśaśca kimanye jaḍbuddhayaḥ | guṇātītamanīhaṃ ca kiṃ staumi nirguṇaṃ param || 59 || apaṇḍito'yamasuro na suraḥ kṣantumarhasi | balestadvacanaṃ śrutvā tamuvāca jagatpatiḥ || paripūrṇatamaḥ śrīmānbhaktaṃ ca bhaktavatsalaḥ || 60 || śrībhagavānuvāca mā bhairvatsa gṛhaṃ gaccha sutalaṃ rakṣitaṃ mayā | madvareṇa prasādena tvatputro'pyajarāmaraḥ || 61 || darpahāniṃ kariṣyāmi tasya mūrkhasya darpiṇaḥ | prahlādāya varo datto bhaktāya ca tapasvine || 62 || mamāvadhyaśca tvadvaṃśaśceti prītena cetasā | tava putrāya dāsyāmi jñānaṃ mṛtyuṃjayaṃ param || 63 || tvayā kṛtimidaṃ stotraṃ sāmavedoktamīpsitam | purā sanatkumārārāya pradattaṃ brahmaṇā tathā || 64 || siddhāśrame puṇyatame praśaste sūryaparvaṇi | gautamāya pradattaṃ ca gauryā mandākinītaṭe || 65 || śaṃkareṇa ca śiṣyāya bhaktāya ca dayālunā | brahmaṇe ca mayā dattaṃ śivāya virajātaṭe || 66 || bhṛgave ca purā dattaṃ kumāreṇa ca dhīmatā | tvaṃ ca dāsyasi bāṇāya bāṇaḥ stoṣyatyanena mām || 67 || idaṃ stotraṃ mahāpuṇyamubadiśya gurormukhāt | vṛtasya pūjitasyāpi vastrabhūṣaṇacandanaiḥ || 68 || susnāto yaḥ paṭhennityaṃ pūjākāle ca bhaktitaḥ | koṭijanmārjitātpāpānmucyate nātra saṃśayaḥ || 69 || vipadāṃ khaṇḍanaṃ stotraṃ kāraṇaṃ sarvasaṃpadām | vāraṇaṃ duḥkhaśokānāṃ bhavābdhidhoratāraṇam || 70 || khaṇḍanaṃ garbhavāsānāṃ jarāmṛtyuharaṃ param |bandhanānāṃ ca rogāṇāṃ khaṇḍanaṃ bhaktamaṇḍanam || 71 || sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ | vratī vrateṣu sarveṣu tapasvī ca tapaḥsu ca || 72 || sa stayaṃ sarvadānānāṃ phalaṃ ca labhate dhruvam | lakṣadhā stotrapāṭhena stotrasiddhirbhavennṛṇām || 73 || sarvasiddhiṃ ca labhate siddhistotro bhavedyadi | ihaloke devatulyo'pyante yāti hareḥ padam || 74 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo bāṇayuddhe balikṛtaśrīkṛṣṇamtotraṃ nāmaikonaviṃśatyadhikaśatatamo'dhyāyaḥ || 119 ||

English translation

said- On hearing the words of Parvatl, Siva, Karttikeya and Kali started praising her.. Lord Siva addressed to the mother of the universe, who is beyond everything, the form of eternal flame and happens to be MUlaprahii besides being Isvarl.

Mahadeva said- O great goddess, whatever has been spoken by you is strictly according to the Vedeis and is desirable. It is quite improper and laughable to fight with the eternal soul. Bana should adorn is daughter with all the ornaments and hand her over to the lord. This is the most appropriate action besides being glorious and O goddess, if Bapa does not do so being the descendants of Hiranyakas'ipu and feels that getting panicky, to run away firom the battle¬ field, would be disgraceful and in that case Bana is well-versed in the warfare, should proceed to the battle filed wearing the kavaca. O ^iva, we shall also follow him, wearing the kavacas.

Bana was advised to give away his daughter but he refused to do so. Durga tried to convince him but he did not agree to her words. In the meantime Bali, the foremost of the Vai§navas and was the immensely religious person, arrived there in the assembly.

Tn yyi ngr •q?Tafgr;i The great warrior had arrived mounted on the chariot inlaid with the best of gems. At that point of time the seven Daityas were moving the white fly-whisks serving him and he was surrounded by seven lakhs of demons. He was a great archer and descending from the chariot, he bowed in reverence to Ganesa, Parvatl, ^iva and Karttikeya and than took his seat in the assembly. Finding him arriving there, fi'om a distance, all the people except, ^iva got up to welcome him. Thereafter $iva enquired of him about his welfare.

Mahadeva said- O great king, yon are qnite clever and always give away riches in charity, it is a matter of great pride for the Vaisnavas to assemble at a place.

With the very touch of the Vaisnavas, all the holy places get sanctified. The Brahmanas are considered to be most adorable of all the castes.

In case the Brahmanas is a Vaisnava, he becomes more adorable. No god is more auspicious than the Vaisnava Brahmana. He is pure than the wind, the fire and all the holy places. Even the gods are afraid of him, the sins cannot remain in his body in the same way as the hay cannot remain in the fire.

Bali said- O lord of the universe, why are you praising a slave who is not suitable for the place.

O lord you have bestowed upon me. The O lord of the gods, though you pervade everywhere, still taking to the dwarfish form because of the destiny you have established me in the nether-world, taking away all my riches from me. You bestowed them upon Indra. you kindly make Bana my dearest son to understand the situation. It is not proper to fight with the soul even by the gods. Thus speaking, he bowed his head saluting Siva. Thereafter, he praised lord Siva with the stotra prescribed in the Samaveda. At that point of time he was overwhelmed with devotion and tears started flowing from his eyes. Getting extremely emotional, he started reciting the mantra given to him by Sukra.

Bali said- O lord, in the earlier times because of the vrata and the prayer of Aditi you took to the dwarfish fi-om and cheated me. Snatching away all my riches, you gave them to your devotee. The same devotee is non else than the Presently my son Bma happens to be the slave of Siva. He has been protected by Siva who is always graceful to his devotees.

Parvatl brought him up like a mother, brings up his son. Your grandson has forcibly taken away his daughter who was about to kill him but was prevented by Karttikeya. Though you are competent enough to control your grandson still you have arrived here to kill Bana.

The great soul treats all equally. This has been ordained in the Vedas. O lord of the universe, why are you moving in the opposite direction.

In case, you intend to kill someone, who can save him on earth. The lustre of Siidarsana-cakra is like the ctotgs of suns.

Which of the weapons of the gods could stand before the same? Sudarsana-cakra is the best of | all the gods. As are you so is Krsna who happens to be the creator of the creators.

Visnu happens to be the base of sattvika elements, Siva happens to be the base of tamas while Brahma is the base of rajas, iTtsfr irafr? i The one who is the base of tamas, foremost of the eleven Rudras and the destroyer of the universe, the same lord happens to be the Goloka of Siva, known as Kalagni-Rudra. Besides him all the Rudras are merely the rays of Siva. Out of all of them you happen to be devoid of gunas and beyond Prakrti. You happen to be the supreme soul and also the form of Visnu, who is the life of all the creatures. Brahma himself is the form of meanwhile Siva is the form of Intelligent is the best of all the s'aktis. The life elements in all the creatures of the world is only the reflection of your soul.

A person has to face the reward of his deeds and you yourself remain the witness to him.

After your departure all the people follow you as the followers follow the king. After you leave the bodies, a person becomes dead and the body becomes untouchable but influence, with you illusion, even the people with intelligence become aware of the same.

Such of the people who adore you can only be freed from this illusion; the three fold Prakrti and Isanl which represent your fonn, which is difficult to over-comes Brahma, Visnu and Siva who are present in all the globes, represent your ams'as only as Sri Krsna resides in Gokula, similarly the great Virat who is the base of all dwells in the water.

He happens to be the lord Vasu and you happen to be his lord. The name Vasudeva has been derived from the same. This has been told by those who are well-versed in the ancient You happen to be the sun from one of your rays and also the moon. You also happen to be the fire from your race and also Vayu from you rays besides being Varuna, Kubera, Yama, Indra, Dharma, Sesa, Tsana, Naipriti, Manu and the beneficial planets. All the moveable and immovable creatures are bom out of your rays.

You are the eternal, illustrious Brahman. The yogis always meditate upon you.

TraraEjT: wifetcn^i rr gggrggjT:i The devotees respect you and meditate upon you in their heart. The one whose body has the complexion of new clouds, is clad in pitambara wears smile on his delightful face, the one who is graceful to the devotees, the one on whose body the sandal-paste is plastered the one who is having two arms, he holds a flute in his hand, the one whose head is adorned with peacock feather, the one who wears the garland of jasmine flowers, invaluable armlets and wristlets, the ear ornament made of gems decorate the temples, the one who wears the rings studded with gems and I whose waist-band issued dangling sound, whose lustre jeers at crores of the gods of love, whose eyes defeat the glory of the lotus flowers of the winter season, the lustre of whose face resembles the lustre of the full moon of the winter season, who is stared by crores of cowherdesses smilingly, who is served by the cowherds

moving the white-fly whisks who appears in the form of a boy, the one who always remains in the heart of Radha and is difficult to be achieved by deep meditation and is inaccessible, the one who is adored by Brahma, Siva and Sesa, the one who is praised by the siddhas, the ascetics and the yogis the one who is inexplicable in the Vedas, the one who moves at will and is all-pervading who is the smaller than the smallest and greater than the greatest, the one who is eternal, truthful and the lord beyond Prakrti, uninvolved and unattached, the people get purified by devoting their minds at the eternal lord and always get anxious to offer at his lotus-like feet, the tender Dfirvd-grass, unbroken rice and the water, the one whose glory cannot recited by the Vedas, the moon and Kubera, that to speak of the people having little wisdom. It is beyond me to praise him. This Bana is a foolish demon and is not a

god. Therefore, you kindly forgive him. On hearing the words of Bali, Srf Krsna who happen to be the lord of the universe and the one who is graceful to his devotees spoke.

Sri Krsna said- O son, don't be afraid, you are completely saved and you go back to your abode, your son is eternal because of my boon or grace, I shall rid him of the arrogance who is just foolish. I have granted a boon delightfully to Prahlada that his descendants would not be killed. I shall bestow your son, the knowledge of over-powering the death.

The stotra with which you had adored me and is included in Samaveda, was bestowed by me to Brahma in earlier times at the time of solar eclipse, in the siddhasrama who bestowed the same to Sanatkumara. The knowledge of the same was bestowed by Gauri at the bank of MandakinI to Gautama. The merciful Siva bestowed is knowledge to his devoted people, Brahma and I bestowed it knowledge to Siva on the bank of the.Viraja river. In earlier times Sanatkumara imparted the knowledge of the same to Bhrgu. Currently I will bestow this knowledge to Bana who would recite the same.

This is an immensely meritorious stotra when heard from the mouth of the teacher, having been served with the ornaments, costumes and sandal- paste and while so listening whosoever would recite the same with devotion daily, he would be relieved of the sins committed by him during crores of his births.

This stotra relieves one of all the misfortunes and bestows all the riches. It removes all the ailments and grief and serves as a boat to cross the terrific ocean of the universe. It removes the cycle of birth, death and old age and shatters all the bondages. This happens to be the ornament of the devotees.

Whosoever recites the same, he earns the merit of taking bath at all the holy places, performing all the yajnas, vratas and tapas. a person surely meets with the success by reciting this stotra.

Thereafter he leads the life like a god on the earth and ultimately reaches the abode of Visnu.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 76579 (2016-08-26T01:31:04Z); Shanti Lal Nagar English scan pages n1631–n1636: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1631/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.