Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 115

Chapter 115

Unit 258 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 115Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 1151 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 115

Source

अथ पञ्चदशाधिकशततमोऽध्यायः नारायण उवाच अथ भीता रक्षकास्ते समूतुर्बाणमीश्वरम् । स्कन्दं गणेशं दुर्गां च दण्डवत्प्रणिपत्य च ।। १ ।। रक्षका ऊचुः अहो दुष्टश्च कालोऽयमतीव दुरतिक्रमः । स्वतन्त्रा बालिका प्रौढा पतिमिच्छति सांप्रतम् ।। २ ।। असङ्गसंगमं नाथ साधूनां दुःखकारणम् । संसर्गजा गुणा दोषा भवन्ति सततं नृणाम् ।। ३ ।। चित्रलेखा स्वयं दूती समानीय परं वरम् । रणशूरं महावीरं नृपेन्द्रं च महारथम् ।। ४ ।। युवानं व्याधिहीनं च कन्दर्पादपि सुन्दरम् । संभोगं कारयामास बुबुधे न दिवानिशम् ।। ५ ।। सांप्रतं तव कन्या साऽप्यूषागर्भवती सती । कुलजा कुलयोश्चैव तप्ताङ्गारस्वरूपिणी ।। ६ ।। दौहित्रो वाऽपि दौहित्री बभुव सांप्रतं तव। कन्यां पश्य महाप्रौढां नगरीं नागरान्विताम् ।। ७ ।। नखविक्षतसर्वाङ्गीं वराधीनां च चञ्चलाम् । पुंसश्च सङ्गिरीं शश्वद्रहस्ये रतिसङ्गिनीम् ।। ८ ।। सस्मितां सकटाक्षां च च़ञ्चलेक्षणवीक्षताम् । एवं श्रुत्वा लज्जितश्च बाणस्तत्र चुकोप ह ।। ९ ।। युद्धाय च मतिं चक्रे वारितः शभुना भृशम् । वारितश्च गणेशेन स्कन्देन शिवया तथा ।। १० ।। भैरव्या भद्रकाल्या च योगिनीभिश्च संततम् । अष्टभिर्भैरवैश्चैव रुद्रैरेकादशात्मकैः ।। ११ ।। भूतैः प्रेतैश्च कूष्माण्डैर्वेतालैर्ब्रह्मराक्षसैः । योसीन्द्रैरपि सिद्धेन्द्रै रुद्रैश्चण्डादिभिस्तथा ।। १२ ।। कोटर्या प्रामदेव्या च यथा मात्रा हिताय च । उवाच शंकरो बाणं मूढं पण्डितमानिनम् हितं सत्यं नीतिशास्त्रं परिणामसुखावहम् ।। १३ ।। महादेव उवाच शृणु बाण प्रवक्ष्यामि कथामेतां पुरातनीम् । भुवो भारावतरणे भारते स्वयमीश्वरः ।। १४ ।। निहत्य सर्वान्राजेन्द्रान्द्वारकायां विराजते । यस्य लोमसु विश्वानि तस्य वासः सदीश्वरः ।। १५ ।। वासुदेव इति ख्यातः कथ्यते तेन कोविदैः । धातुर्विधाता भगवांश्चक्रपाणिः स्वयं भुवि ।। १६ ।। ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतेः परः । निर्गुणश्च निरीहश्च भक्तानुग्रहविग्रहः ।। १७ ।। परं ब्रह्म परं धाम परमात्मा च देहिनः । यस्मिन्गते शवो जीवो संग्रामस्तेन संभवेत् ।। १८ ।। शस्त्रविद्धो महाकाशो यथा मूढ दिशस्तथा । तथाऽऽत्मा च निराकारो देही च ध्यानहेतुना ।। १९ ।। तस्य पुत्रोऽनिरुद्धश्च महाबलपराक्रमः । त्रैलोक्यमपि संहर्तुं क्षणेन च क्षमः स्वयम् ।। २० ।। सर्वे वेवाश्च दैत्याश्च बलवन्तो महारथाः । ते सर्वे चानिरुद्धस्य कलां नार्हन्ति षोडशीम् ।। २१ ।। ययोरेव समं वित्तं ययोरेव समं बलम् । तयोर्विवाहो मैत्री च न तु पुष्टविपुष्टयोः ।। २२ ।। बलिः पिता ते दैत्यानां सारभूतो महारथः । क्षणेन येन नीतश्च सुतलं स हरेः कला ।। २३ ।। सर्वे चांशकलाः पुंसः परिपूर्णतमस्य च । वृन्दावनेश्वरस्यापि कृष्णस्य परमात्मनः ।। २४ ।। पार्वत्युवाच ध्यायते ध्याननिष्ठश्च हृत्पद्मे च दिवानिश्म् । ब्रह्मा महेशः मेषश्च भगवन्तं सनातनम् ।। २५ ।। दिनेशश्च गणेशश्च योगीन्द्राणां गुरोर्गुरुः । ध्यायते परमात्मानं भगवन्तं सनातनम् ।। २६ ।। सनत्कुमारः कपिलो नरो नारायणस्तथा । ध्यायते हृदयाम्भोजे भगवन्तं सo ।। २७ ।। मनवश्च मुनीन्द्राश्च सिद्धेन्द्रा योगिनां वराः । ध्यानासाध्यं च ध्यायन्ते भगवन्तं सo ।। २८ ।। सर्वादिं सर्वबीजं च सर्वेशं च परात्परम् । ध्यायन्ते ज्ञानिनः सर्वे भगवन्तं सo ।। २९ ।। गणेश उवाच अभाग्यं च बलेश्चापि वैष्णवस्य महात्मनः । मूढोऽयमीदृशः पुत्रः प्रह्लादस्य च धीमतः ।। ३० ।। स्कन्द उवाच अये भ्रातर्न श्रुता च हिरण्यकशिपोः कथा । हिरण्याक्षस्य च मधोः कैटभस्य महात्मनः ।। ३१ ।। पूर्वजास्तेऽपि ते दैत्या महाबलपराक्रमाः । क्रमेण विष्णुना नीता लीलया यमसादनम् ।। ३२ ।। भगवान्यस्य संहर्ता स्वयं नारायणः प्रभुः । तस्य को रक्षिता भ्रातर्निवर्तस्व शुभायच ।। ३३ ।। तेषां च वचनं श्रुत्वा तानुवाचासुरेश्वरः । कोपरक्तास्यनयनो धनुष्पाणिर्यथाऽन्तकः ।। ३४ ।। बाण उवाच शृणु मातः प्रवक्ष्यामि शृणु तात महेश्वर । शृणु भ्रातर्गणपते शृणु भ्रातश्च कार्तिक ।। ३५ ।। शुभशुभं प्राक्तनेन प्राणिनां कर्मिणां तथा । कृतकर्मातिरिक्तं च कार्य केषां च वर्तते ।। ३६ ।। नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ।। ३७ ।। यस्माच्च यस्य निर्वाणं विधात्रा लिखितं पुरा । तदेव नित्यं सत्यं च निषेकः केन वार्यते ।। ३८ ।। संग्रामे कातरो यो हि निष्फलं तस्य जीवनम् । जयी यशस्च लभते मृतः स्वर्गं च गच्छति ।। ३९ ।। प्रविश्य कन्यां गृह्णाति नगरं शिवरक्षितम् । पार्वत्या च गणेशेन युद्धेन बलिना तथा ।। ४० ।। को वा गृह्णाति कन्यां च कस्य वा जीवितस्य च । सगर्भा तव कन्येति सभायां रक्षको वदेत् ।। ४१ ।। इति मे वज्रतुल्यं च श्रुतिकौटं परं वचः । अतोऽनिरुद्वं हत्वा च घातयिष्यामि कन्यकाम् अन्यथा ज्वलदग्नौ च त्यक्ष्यामि च कलेवरम् ।। ४२ ।। कोटर्युवाच शृणु वत्स प्रवक्ष्यामि माताऽहं तेऽपि धर्मतः । तुरन्तेनापि पृत्रेण पित्रोर्दुःर्ख पदे पदे ।। ४३ ।। कन्या परगृहीता साऽप्यन्यस्मै दातुमक्षमा । श्रीकृष्णस्यापि पौत्राय प्रद्युम्नस्य सुताय च ।। ४४ ।। अनिरुद्धाय महते स्वेच्छया देहि कन्यकाम् । पूतोऽसि भारते वर्षे सप्तभिः पितृभिः सह ।। ४५ ।। यौतुकं देहि सर्वस्वं यशसे महसे भुवि । अन्यथा रणमध्ये च त्वां हनिष्यति माधवः ।। ४६ ।। सुदशंनेन चकेण को वा त्वां रक्षितुं क्षमः । कोटरीवचनं श्रुत्वा चुकोप दैत्यपुंगवः ।। ४७ ।। प्रययौ रथमारुह्य यत्र पौत्रो हरेर्मुने । स्कन्दः सेनापतिर्भूत्वा प्रययौ शंकराज्ञया ।। ४८ ।। बाणः स्वस्त्ययनं चक्रे गणेशश्च शिवः स्वयम् । बाणं शुभाशिषं चक्रे पार्वती कोटरी तथा ।। ४९ ।। अष्टौ च भैरवाश्चैव रुद्राश्चैकादशैव ते । सर्वे युद्धाय हन्तारो बभूवुः शस्त्रपाणयः ।। ५० ।। एतस्मिन्नन्तरे दूतोऽप्यनिरुद्धमुवाच ह । पार्वत्या प्रेरितश्चैव बाणपत्न्या च सत्वरम् ।। ५१ ।। दूत उवाच अनिरुद्धोत्तिष्ठ भद्रं पार्वतीवचनं शृणु । भव सांनाहिको वत्स कुरु युद्धं बहिर्भव ।। ५२ ।। भीतोषा रुदती त्रस्ता सस्मार पार्वतीं सतीम् । रक्ष रक्ष महामाये मत्प्रणेश्वरमीप्सितम् ।। ५३ ।। अभेयेऽप्यभयं देहि संग्रामे घोरदारुणे । त्वमेव जगतां माता स्नेहस्ते सर्वतः समः ।। ५४ ।। अथानिरुद्धः संनाही शस्त्रपाणिर्बभूव ह । ऊषादत्तं रथं प्राप्य चकाराऽऽरोहणं मुदा ।। ५५ ।। बहिः संभूय शिबिराद्ददर्श बाणमीश्वरः । सांनाहिकं शस्त्रपाणिं रक्तास्यलोचनं परम् ।। ५६ ।। दृष्ट्वाऽनिरुद्धं बाणश्च तमुवाच रुषाऽन्वितः । घोरसंग्राममध्ये च विषोक्तिं प्रज्वलन्निव ।। ५७ ।। बाण उवाच अये वीर महादुष्ट नीतिशास्त्रविवर्जित । चन्द्र वंशकुलाङ्गार पुण्यक्षेत्रेऽयशस्कर ।। ५८ ।। पिता ते शम्बरं हत्वा जग्राह तस्य कामिनीम् । ततो जातो भवनेव निरोधं स्वकुलक्षमम् ।। ५९ ।। पितामहो वासुदेवो मथुरायां च क्षत्रियः । गोकुले वैश्यपुत्रश्च नाम्ना च नन्दनन्दनः ।। ६० ।। वृन्दावने च गोपस्य नन्दस्य पशुरक्षकः । साक्षाज्जारश्च गोपीनां दुष्टः परमलम्पटः ।। ६१ ।। जघान पूतनां सद्यो नारीघाती ह्यधार्मिकः । आगत्य मथुरां कुब्जां जघान मैथुनेन च ।। ६२ ।। दुर्बलं नरकं हत्वा स्त्रीसमूहं मनोहरम् । जग्राह योनिलुब्धश्च स्वपुत्रमतिनिष्ठुरः ।। ६३ ।। भीष्मकं मानवं जित्वा तत्पुत्रं चापि दुर्बलम् । जग्राह कन्यकां तस्य देवयोग्यां च रुक्मिणीम् ।। ६४ ।। सत्राजितः सूर्यभृत्यो देवात्प्राप मणीश्वरम् । घातयित्वा ह्युपायेन जग्राह मणिकन्यकाम् ।। ६५ ।। कुरुपाण्डवयुद्धं च कारयित्वा च दारुणम् । युधिष्ठिरस्य यज्ञे च शिशुपालं जघान सः ।। ६६ ।। दन्तवक्त्रं च शाल्बं च जरासंधं च दारुणः । संजहार भुवो भूपसमूहमतिदारुणम् ।। ६७ ।। उपायान्नरकं हत्वा सर्वस्वं तज्जहार सः । दुर्बलो राजभीतश्चसमुद्रं शरणं गतः ।। ६८ ।। जित्वा च भ्रातरं शक्रं भार्याया वचनेन च । जग्राह पारिजातं च पुष्पं च स्वर्गदुर्लभम् ।। ६९ ।। कंसं निहत्याधर्मिष्ठो भ्रातरं मातुरेव च । जग्राह तस्य सर्वस्वं परं किं कथयामि ते ।। ७० ।। जत्वा च भल्लुकं युद्धे जग्राह तस्य कन्यकाम् । तत्पितुर्भगिनी कुन्ती चतुर्णां कामिनी भुवि ।। ७१ ।। द्रौपदी भ्रातृपत्नी च प़ञ्चानां कामिनी तथा । गोष्ठीनो योनिलुब्धश्च शश्वत्परमलम्पटः ।। ७२ ।। तज्ज्येष्ठो बरदेवश्च शश्वत्पिबति वारुणीम् । यमुनां भ्रातृपत्नीं च करोत्याह्वानमीप्सितम् ।। ७३ ।। जहार भगिनीं तस्य कौःतेयः शक्रनन्दनः । सुभद्रां मातुलसुतां संनिबोध कुलक्रमम् ।। ७४ ।। बाणस्य वचनं श्रुत्वा चुकोप कामनन्दनः । उवाच परमार्थं च योग्यं प्रत्युत्तरं मुने ।। ७५ ।। अनिरुद्ध उवाच पिता मे कामदेवश्च ब्रह्मपुत्रः पुरा शुचिः । यस्यास्त्रेण वशीभूतं त्रैलोक्यं सततं शृणु ।। ७६ ।। शिवकोपानलेनैव भस्मीभूतः स्वकर्मतः । कृष्णस्य पुत्रोऽप्यधुना सर्वेषां परमात्मनः ।। ७७ ।। पतिव्रता रतिर्माता पतिशोकेन सांप्रतम् । शम्बरस्य गृहे तस्थौ हृता तेन बलेन च ।। ७८ ।। छायां मायावतीं दत्त्वा मायया शयनेन च । रतिं स्वधर्म संरक्ष्य धर्मसाक्षी च तद्गृहे ।। ७९ ।। निहत्य शम्बरं शत्रुं गृहीत्वा स्वप्रियां सतीम् । आजगाम द्वारकां च चन्द्रसुर्यौ च साक्षिणौ ।। ८० ।। पितामहं वासुदेवं त्वं किं जानामि मूढवत् । यं च सन्तोन जानन्ति वेदाश्चत्वार एव च ।। ८१ ।। वासुः सर्वनिवासश्च विश्वानि यस्य लोमसु । तस्य देवः परं ब्रह्म वासुदेव इति स्मृतः ।। ८२ ।। शंकरं पृच्छ साक्षाच्च यस्य भृत्योऽधुना भवान् । कृष्णभृत्यस्य च बलेः पुत्रोऽसि किंकरात्मजः ।। ८३ ।। गोकुले वैश्यपुत्रत्वं ब्रूहि त्वं ज्ञानदुर्बल । भोजनं वेदविहितं शश्वत्क्षत्त्रियवैश्ययोः ।। ८४ ।। द्रोणः प्रजापतिः श्रेष्ठा धरा तस्य प्रिया सती । पुत्रं च तपसा लेभे परमात्मानमीश्वरम् ।। ८५ ।। द्रोणो नन्दो वैश्यराजो यशोदा सा धरा सती । वृषभानसुता राधा सुदाम्नः शापकारणात् ।। ८६ ।। त्रिंशत्कोटिं च गोपीनां गृहीत्वा भर्तुराज्ञया । पुण्यं च भारतं क्षेत्रं गोलोकादाजगामसा ।। ८७ ।। ताभिः सार्ध स रेमे च स्वपत्नीभिर्मुदाऽन्वितः । पाणिं जग्राह राधायाः स्वयं ब्रह्मा पुरोहितः ।। ८८ ।। गोपकोटिश्च गोलोकादाजगाम् मृदाऽन्विता । तेजसा हरितुल्यास्ते पार्षदप्रवरा हरेः ।। ८९ ।। गोरक्षणं हरेरेव गोपवेषस्य चाऽऽत्मनः । गोपानां शिशुरक्षार्थं मायेशस्यापि मायया ।। ९० ।। पूतना बलिकन्या च भगिनी च तवासुर । दृष्ट्वा च वामनं विन्ध्या चकार पुत्रमानसम् ।। ९१ ।। एवंभूतो यदि मम पुत्रो भवति सांप्रतम् । स्तनं ददामि तनयं कृत्वा वक्षसि सुन्दरम् ।। ९२ ।। तस्याःपूर्णं मानसं च चकार भगवान्प्रभुः । स्तनं दत्त्वा च गोलोकं ययौ सा रत्नयानतः ।। ९३ ।। कुब्जा सा भगिनी पूर्वं रावणस्य दुरात्मनः । श्रीरामं चकमे कामान्नाम्ना शूर्पणखा सती ।। ९४ ।। नासां चिच्छेद तस्याश्च लक्ष्मणो धार्मिकेश्वरः । तपसा च वरं लेभे ब्रह्मणः प्रियमीश्वरम् ।। ९५ ।। तेन पुण्येन तंलब्ध्वा गोलोकं सा जगाम ह । गोपी बभूव गोलोके कृष्णस्याऽऽलिङ्गनेन च ।। ९६ ।। नरको हरिवध्यश्च स्वपूर्वप्राक्तनेन च । पाणिं जग्राह कन्यानां साक्षिणौ शशिभास्करौ ।। ९७ ।। भीष्मकन्या महालक्ष्मीः शीकृष्णस्य प्रिया सती । वैकुण्ठादागता साध्वी ब्रह्मणोऽनृमतेन च ।। ९८ ।। सत्राजितस्य कन्या सा सत्यभामा वसुंधर । ददौ कृष्णाय राजा स तं मणिं यौतुकेन च ।। ९९ ।। भुवो भारावतरणहेतुना गमनं हरेः । संजहार भुवो भारं कुरुपाण्डवयुद्धतः ।। १०० ।। शिशुपालो दन्तवक्त्रो जयो विजय एव च । द्वारिणौ द्वारषट्के च वैकुण्ठे श्रीहरेरपि ।। १०१ ।। कुमारशापात्पतितौ प्राप्य जन्मत्रयं ध्रुवम् । हिरण्यकशिपुश्चैव तवैव पूर्वपूरुषः ।। १०२ ।। तस्य भ्राता हिरण्याक्षस्तेनैव वरुणो जितः । हरिर्नृसिंहरूपेण तं जघानावलीलया ।। १०३ ।। सूकरेण हतोऽन्यश्च पूर्वजन्मकथां शृणु । द्वितीये जन्मनि पुरा रावणः कुम्भकर्णकः ।। १०४ ।। श्रीरामेण हतौ तौ द्वौ शेषजन्म कलौ तयोः । श्रीकृष्णेन हतौ तौ द्वौ धर्मपुत्रावुभौ तथा ।। १०५ ।। जरासंधश्च शाल्वश्च दुरात्मा कंस एव च । प्राक्तनात्तस्य वध्यास्ते भुवो भारजिहीर्षया ।। १०६ ।। मांधातुः सुतमध्ये च यवनश्चापि प्राक्तनात् । लक्ष्मीश्वरस्य कृष्णस्य धनेन किं प्रयोजनमा ।। १०७ ।। प्रतिज्ञया च सत्यायाः पुण्यकव्रतकारणात् । पारिजातं समनीय चकार स्वात्मनो व्रतम् ।। १०८ ।। स्वयं जाम्बवती देवी दुर्गांशा भल्लुकात्मजा । पाणिं जग्राह तस्याश्च तपसा भारते हरिः ।। १०९ ।। कुन्त्याश्च क्षेत्रजाः पुत्राः केवलं भर्तुराज्ञया । कलौ निषिद्धं त्रियुगे प्रसिद्धं पलपैतृकम् ।। ११० ।। युधिष्ठिरो धर्मपुत्रो भीमश्च पवनात्मजः । महेन्द्रपुत्रो धर्मिष्ठः फाल्गुनो विजयी भुवि ।। १११ ।। यस्मै पाशुपतं शंभुः प्रददौ च स्वयं पुरा । अश्वमेधं गवालम्भं संन्यासं पलपैतृकम् ।। ११२ ।। देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्जयेत् । द्रौपद्याः पञ्च भर्तारः शंकरस्य वरेण च ।। ११३ ।। बलदेवः पुष्पमधु पूतं पिबति नित्यशः । चकार यमुनाह्वानं स्नानार्थं धार्मिकः शुचिः ।। ११४ ।। सुभद्रां च ददौ कृष्णः फाल्गुनाय महात्मने । कन्यकां मातुलानां च दाक्षिणात्यः परिग्रहः ।। ११५ ।। देशेष्वन्येषु दोषोऽयमित्याह कमलोद्भवः ।। ११६ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo वाणानिरुद्धसंo पञ्चदशाधिकशततमोऽध्यायः ।। ११५ ।।

atha pañcadaśādhikaśatatamo'dhyāyaḥ nārāyaṇa uvāca atha bhītā rakṣakāste samūturbāṇamīśvaram | skandaṃ gaṇeśaṃ durgāṃ ca daṇḍavatpraṇipatya ca || 1 || rakṣakā ūcuḥ aho duṣṭaśca kālo'yamatīva duratikramaḥ | svatantrā bālikā prauḍhā patimicchati sāṃpratam || 2 || asaṅgasaṃgamaṃ nātha sādhūnāṃ duḥkhakāraṇam | saṃsargajā guṇā doṣā bhavanti satataṃ nṛṇām || 3 || citralekhā svayaṃ dūtī samānīya paraṃ varam | raṇaśūraṃ mahāvīraṃ nṛpendraṃ ca mahāratham || 4 || yuvānaṃ vyādhihīnaṃ ca kandarpādapi sundaram | saṃbhogaṃ kārayāmāsa bubudhe na divāniśam || 5 || sāṃprataṃ tava kanyā sā'pyūṣāgarbhavatī satī | kulajā kulayoścaiva taptāṅgārasvarūpiṇī || 6 || dauhitro vā'pi dauhitrī babhuva sāṃprataṃ tava| kanyāṃ paśya mahāprauḍhāṃ nagarīṃ nāgarānvitām || 7 || nakhavikṣatasarvāṅgīṃ varādhīnāṃ ca cañcalām | puṃsaśca saṅgirīṃ śaśvadrahasye ratisaṅginīm || 8 || sasmitāṃ sakaṭākṣāṃ ca ca़ñcalekṣaṇavīkṣatām | evaṃ śrutvā lajjitaśca bāṇastatra cukopa ha || 9 || yuddhāya ca matiṃ cakre vāritaḥ śabhunā bhṛśam | vāritaśca gaṇeśena skandena śivayā tathā || 10 || bhairavyā bhadrakālyā ca yoginībhiśca saṃtatam | aṣṭabhirbhairavaiścaiva rudrairekādaśātmakaiḥ || 11 || bhūtaiḥ pretaiśca kūṣmāṇḍairvetālairbrahmarākṣasaiḥ | yosīndrairapi siddhendrai rudraiścaṇḍādibhistathā || 12 || koṭaryā prāmadevyā ca yathā mātrā hitāya ca | uvāca śaṃkaro bāṇaṃ mūḍhaṃ paṇḍitamāninam hitaṃ satyaṃ nītiśāstraṃ pariṇāmasukhāvaham || 13 || mahādeva uvāca śṛṇu bāṇa pravakṣyāmi kathāmetāṃ purātanīm | bhuvo bhārāvataraṇe bhārate svayamīśvaraḥ || 14 || nihatya sarvānrājendrāndvārakāyāṃ virājate | yasya lomasu viśvāni tasya vāsaḥ sadīśvaraḥ || 15 || vāsudeva iti khyātaḥ kathyate tena kovidaiḥ | dhāturvidhātā bhagavāṃścakrapāṇiḥ svayaṃ bhuvi || 16 || brahmaviṣṇuśivādīnāmīśvaraḥ prakṛteḥ paraḥ | nirguṇaśca nirīhaśca bhaktānugrahavigrahaḥ || 17 || paraṃ brahma paraṃ dhāma paramātmā ca dehinaḥ | yasmingate śavo jīvo saṃgrāmastena saṃbhavet || 18 || śastraviddho mahākāśo yathā mūḍha diśastathā | tathā''tmā ca nirākāro dehī ca dhyānahetunā || 19 || tasya putro'niruddhaśca mahābalaparākramaḥ | trailokyamapi saṃhartuṃ kṣaṇena ca kṣamaḥ svayam || 20 || sarve vevāśca daityāśca balavanto mahārathāḥ | te sarve cāniruddhasya kalāṃ nārhanti ṣoḍaśīm || 21 || yayoreva samaṃ vittaṃ yayoreva samaṃ balam | tayorvivāho maitrī ca na tu puṣṭavipuṣṭayoḥ || 22 || baliḥ pitā te daityānāṃ sārabhūto mahārathaḥ | kṣaṇena yena nītaśca sutalaṃ sa hareḥ kalā || 23 || sarve cāṃśakalāḥ puṃsaḥ paripūrṇatamasya ca | vṛndāvaneśvarasyāpi kṛṣṇasya paramātmanaḥ || 24 || pārvatyuvāca dhyāyate dhyānaniṣṭhaśca hṛtpadme ca divāniśm | brahmā maheśaḥ meṣaśca bhagavantaṃ sanātanam || 25 || dineśaśca gaṇeśaśca yogīndrāṇāṃ gurorguruḥ | dhyāyate paramātmānaṃ bhagavantaṃ sanātanam || 26 || sanatkumāraḥ kapilo naro nārāyaṇastathā | dhyāyate hṛdayāmbhoje bhagavantaṃ sao || 27 || manavaśca munīndrāśca siddhendrā yogināṃ varāḥ | dhyānāsādhyaṃ ca dhyāyante bhagavantaṃ sao || 28 || sarvādiṃ sarvabījaṃ ca sarveśaṃ ca parātparam | dhyāyante jñāninaḥ sarve bhagavantaṃ sao || 29 || gaṇeśa uvāca abhāgyaṃ ca baleścāpi vaiṣṇavasya mahātmanaḥ | mūḍho'yamīdṛśaḥ putraḥ prahlādasya ca dhīmataḥ || 30 || skanda uvāca aye bhrātarna śrutā ca hiraṇyakaśipoḥ kathā | hiraṇyākṣasya ca madhoḥ kaiṭabhasya mahātmanaḥ || 31 || pūrvajāste'pi te daityā mahābalaparākramāḥ | krameṇa viṣṇunā nītā līlayā yamasādanam || 32 || bhagavānyasya saṃhartā svayaṃ nārāyaṇaḥ prabhuḥ | tasya ko rakṣitā bhrātarnivartasva śubhāyaca || 33 || teṣāṃ ca vacanaṃ śrutvā tānuvācāsureśvaraḥ | koparaktāsyanayano dhanuṣpāṇiryathā'ntakaḥ || 34 || bāṇa uvāca śṛṇu mātaḥ pravakṣyāmi śṛṇu tāta maheśvara | śṛṇu bhrātargaṇapate śṛṇu bhrātaśca kārtika || 35 || śubhaśubhaṃ prāktanena prāṇināṃ karmiṇāṃ tathā | kṛtakarmātiriktaṃ ca kārya keṣāṃ ca vartate || 36 || nāprāptakālo mriyate viddhaḥ śaraśatairapi | tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati || 37 || yasmācca yasya nirvāṇaṃ vidhātrā likhitaṃ purā | tadeva nityaṃ satyaṃ ca niṣekaḥ kena vāryate || 38 || saṃgrāme kātaro yo hi niṣphalaṃ tasya jīvanam | jayī yaśasca labhate mṛtaḥ svargaṃ ca gacchati || 39 || praviśya kanyāṃ gṛhṇāti nagaraṃ śivarakṣitam | pārvatyā ca gaṇeśena yuddhena balinā tathā || 40 || ko vā gṛhṇāti kanyāṃ ca kasya vā jīvitasya ca | sagarbhā tava kanyeti sabhāyāṃ rakṣako vadet || 41 || iti me vajratulyaṃ ca śrutikauṭaṃ paraṃ vacaḥ | ato'nirudvaṃ hatvā ca ghātayiṣyāmi kanyakām anyathā jvaladagnau ca tyakṣyāmi ca kalevaram || 42 || koṭaryuvāca śṛṇu vatsa pravakṣyāmi mātā'haṃ te'pi dharmataḥ | turantenāpi pṛtreṇa pitrorduḥrkha pade pade || 43 || kanyā paragṛhītā sā'pyanyasmai dātumakṣamā | śrīkṛṣṇasyāpi pautrāya pradyumnasya sutāya ca || 44 || aniruddhāya mahate svecchayā dehi kanyakām | pūto'si bhārate varṣe saptabhiḥ pitṛbhiḥ saha || 45 || yautukaṃ dehi sarvasvaṃ yaśase mahase bhuvi | anyathā raṇamadhye ca tvāṃ haniṣyati mādhavaḥ || 46 || sudaśaṃnena cakeṇa ko vā tvāṃ rakṣituṃ kṣamaḥ | koṭarīvacanaṃ śrutvā cukopa daityapuṃgavaḥ || 47 || prayayau rathamāruhya yatra pautro harermune | skandaḥ senāpatirbhūtvā prayayau śaṃkarājñayā || 48 || bāṇaḥ svastyayanaṃ cakre gaṇeśaśca śivaḥ svayam | bāṇaṃ śubhāśiṣaṃ cakre pārvatī koṭarī tathā || 49 || aṣṭau ca bhairavāścaiva rudrāścaikādaśaiva te | sarve yuddhāya hantāro babhūvuḥ śastrapāṇayaḥ || 50 || etasminnantare dūto'pyaniruddhamuvāca ha | pārvatyā preritaścaiva bāṇapatnyā ca satvaram || 51 || dūta uvāca aniruddhottiṣṭha bhadraṃ pārvatīvacanaṃ śṛṇu | bhava sāṃnāhiko vatsa kuru yuddhaṃ bahirbhava || 52 || bhītoṣā rudatī trastā sasmāra pārvatīṃ satīm | rakṣa rakṣa mahāmāye matpraṇeśvaramīpsitam || 53 || abheye'pyabhayaṃ dehi saṃgrāme ghoradāruṇe | tvameva jagatāṃ mātā snehaste sarvataḥ samaḥ || 54 || athāniruddhaḥ saṃnāhī śastrapāṇirbabhūva ha | ūṣādattaṃ rathaṃ prāpya cakārā''rohaṇaṃ mudā || 55 || bahiḥ saṃbhūya śibirāddadarśa bāṇamīśvaraḥ | sāṃnāhikaṃ śastrapāṇiṃ raktāsyalocanaṃ param || 56 || dṛṣṭvā'niruddhaṃ bāṇaśca tamuvāca ruṣā'nvitaḥ | ghorasaṃgrāmamadhye ca viṣoktiṃ prajvalanniva || 57 || bāṇa uvāca aye vīra mahāduṣṭa nītiśāstravivarjita | candra vaṃśakulāṅgāra puṇyakṣetre'yaśaskara || 58 || pitā te śambaraṃ hatvā jagrāha tasya kāminīm | tato jāto bhavaneva nirodhaṃ svakulakṣamam || 59 || pitāmaho vāsudevo mathurāyāṃ ca kṣatriyaḥ | gokule vaiśyaputraśca nāmnā ca nandanandanaḥ || 60 || vṛndāvane ca gopasya nandasya paśurakṣakaḥ | sākṣājjāraśca gopīnāṃ duṣṭaḥ paramalampaṭaḥ || 61 || jaghāna pūtanāṃ sadyo nārīghātī hyadhārmikaḥ | āgatya mathurāṃ kubjāṃ jaghāna maithunena ca || 62 || durbalaṃ narakaṃ hatvā strīsamūhaṃ manoharam | jagrāha yonilubdhaśca svaputramatiniṣṭhuraḥ || 63 || bhīṣmakaṃ mānavaṃ jitvā tatputraṃ cāpi durbalam | jagrāha kanyakāṃ tasya devayogyāṃ ca rukmiṇīm || 64 || satrājitaḥ sūryabhṛtyo devātprāpa maṇīśvaram | ghātayitvā hyupāyena jagrāha maṇikanyakām || 65 || kurupāṇḍavayuddhaṃ ca kārayitvā ca dāruṇam | yudhiṣṭhirasya yajñe ca śiśupālaṃ jaghāna saḥ || 66 || dantavaktraṃ ca śālbaṃ ca jarāsaṃdhaṃ ca dāruṇaḥ | saṃjahāra bhuvo bhūpasamūhamatidāruṇam || 67 || upāyānnarakaṃ hatvā sarvasvaṃ tajjahāra saḥ | durbalo rājabhītaścasamudraṃ śaraṇaṃ gataḥ || 68 || jitvā ca bhrātaraṃ śakraṃ bhāryāyā vacanena ca | jagrāha pārijātaṃ ca puṣpaṃ ca svargadurlabham || 69 || kaṃsaṃ nihatyādharmiṣṭho bhrātaraṃ mātureva ca | jagrāha tasya sarvasvaṃ paraṃ kiṃ kathayāmi te || 70 || jatvā ca bhallukaṃ yuddhe jagrāha tasya kanyakām | tatpiturbhaginī kuntī caturṇāṃ kāminī bhuvi || 71 || draupadī bhrātṛpatnī ca pa़ñcānāṃ kāminī tathā | goṣṭhīno yonilubdhaśca śaśvatparamalampaṭaḥ || 72 || tajjyeṣṭho baradevaśca śaśvatpibati vāruṇīm | yamunāṃ bhrātṛpatnīṃ ca karotyāhvānamīpsitam || 73 || jahāra bhaginīṃ tasya kauḥteyaḥ śakranandanaḥ | subhadrāṃ mātulasutāṃ saṃnibodha kulakramam || 74 || bāṇasya vacanaṃ śrutvā cukopa kāmanandanaḥ | uvāca paramārthaṃ ca yogyaṃ pratyuttaraṃ mune || 75 || aniruddha uvāca pitā me kāmadevaśca brahmaputraḥ purā śuciḥ | yasyāstreṇa vaśībhūtaṃ trailokyaṃ satataṃ śṛṇu || 76 || śivakopānalenaiva bhasmībhūtaḥ svakarmataḥ | kṛṣṇasya putro'pyadhunā sarveṣāṃ paramātmanaḥ || 77 || pativratā ratirmātā patiśokena sāṃpratam | śambarasya gṛhe tasthau hṛtā tena balena ca || 78 || chāyāṃ māyāvatīṃ dattvā māyayā śayanena ca | ratiṃ svadharma saṃrakṣya dharmasākṣī ca tadgṛhe || 79 || nihatya śambaraṃ śatruṃ gṛhītvā svapriyāṃ satīm | ājagāma dvārakāṃ ca candrasuryau ca sākṣiṇau || 80 || pitāmahaṃ vāsudevaṃ tvaṃ kiṃ jānāmi mūḍhavat | yaṃ ca santona jānanti vedāścatvāra eva ca || 81 || vāsuḥ sarvanivāsaśca viśvāni yasya lomasu | tasya devaḥ paraṃ brahma vāsudeva iti smṛtaḥ || 82 || śaṃkaraṃ pṛccha sākṣācca yasya bhṛtyo'dhunā bhavān | kṛṣṇabhṛtyasya ca baleḥ putro'si kiṃkarātmajaḥ || 83 || gokule vaiśyaputratvaṃ brūhi tvaṃ jñānadurbala | bhojanaṃ vedavihitaṃ śaśvatkṣattriyavaiśyayoḥ || 84 || droṇaḥ prajāpatiḥ śreṣṭhā dharā tasya priyā satī | putraṃ ca tapasā lebhe paramātmānamīśvaram || 85 || droṇo nando vaiśyarājo yaśodā sā dharā satī | vṛṣabhānasutā rādhā sudāmnaḥ śāpakāraṇāt || 86 || triṃśatkoṭiṃ ca gopīnāṃ gṛhītvā bharturājñayā | puṇyaṃ ca bhārataṃ kṣetraṃ golokādājagāmasā || 87 || tābhiḥ sārdha sa reme ca svapatnībhirmudā'nvitaḥ | pāṇiṃ jagrāha rādhāyāḥ svayaṃ brahmā purohitaḥ || 88 || gopakoṭiśca golokādājagām mṛdā'nvitā | tejasā haritulyāste pārṣadapravarā hareḥ || 89 || gorakṣaṇaṃ harereva gopaveṣasya cā''tmanaḥ | gopānāṃ śiśurakṣārthaṃ māyeśasyāpi māyayā || 90 || pūtanā balikanyā ca bhaginī ca tavāsura | dṛṣṭvā ca vāmanaṃ vindhyā cakāra putramānasam || 91 || evaṃbhūto yadi mama putro bhavati sāṃpratam | stanaṃ dadāmi tanayaṃ kṛtvā vakṣasi sundaram || 92 || tasyāḥpūrṇaṃ mānasaṃ ca cakāra bhagavānprabhuḥ | stanaṃ dattvā ca golokaṃ yayau sā ratnayānataḥ || 93 || kubjā sā bhaginī pūrvaṃ rāvaṇasya durātmanaḥ | śrīrāmaṃ cakame kāmānnāmnā śūrpaṇakhā satī || 94 || nāsāṃ ciccheda tasyāśca lakṣmaṇo dhārmikeśvaraḥ | tapasā ca varaṃ lebhe brahmaṇaḥ priyamīśvaram || 95 || tena puṇyena taṃlabdhvā golokaṃ sā jagāma ha | gopī babhūva goloke kṛṣṇasyā''liṅganena ca || 96 || narako harivadhyaśca svapūrvaprāktanena ca | pāṇiṃ jagrāha kanyānāṃ sākṣiṇau śaśibhāskarau || 97 || bhīṣmakanyā mahālakṣmīḥ śīkṛṣṇasya priyā satī | vaikuṇṭhādāgatā sādhvī brahmaṇo'nṛmatena ca || 98 || satrājitasya kanyā sā satyabhāmā vasuṃdhara | dadau kṛṣṇāya rājā sa taṃ maṇiṃ yautukena ca || 99 || bhuvo bhārāvataraṇahetunā gamanaṃ hareḥ | saṃjahāra bhuvo bhāraṃ kurupāṇḍavayuddhataḥ || 100 || śiśupālo dantavaktro jayo vijaya eva ca | dvāriṇau dvāraṣaṭke ca vaikuṇṭhe śrīharerapi || 101 || kumāraśāpātpatitau prāpya janmatrayaṃ dhruvam | hiraṇyakaśipuścaiva tavaiva pūrvapūruṣaḥ || 102 || tasya bhrātā hiraṇyākṣastenaiva varuṇo jitaḥ | harirnṛsiṃharūpeṇa taṃ jaghānāvalīlayā || 103 || sūkareṇa hato'nyaśca pūrvajanmakathāṃ śṛṇu | dvitīye janmani purā rāvaṇaḥ kumbhakarṇakaḥ || 104 || śrīrāmeṇa hatau tau dvau śeṣajanma kalau tayoḥ | śrīkṛṣṇena hatau tau dvau dharmaputrāvubhau tathā || 105 || jarāsaṃdhaśca śālvaśca durātmā kaṃsa eva ca | prāktanāttasya vadhyāste bhuvo bhārajihīrṣayā || 106 || māṃdhātuḥ sutamadhye ca yavanaścāpi prāktanāt | lakṣmīśvarasya kṛṣṇasya dhanena kiṃ prayojanamā || 107 || pratijñayā ca satyāyāḥ puṇyakavratakāraṇāt | pārijātaṃ samanīya cakāra svātmano vratam || 108 || svayaṃ jāmbavatī devī durgāṃśā bhallukātmajā | pāṇiṃ jagrāha tasyāśca tapasā bhārate hariḥ || 109 || kuntyāśca kṣetrajāḥ putrāḥ kevalaṃ bharturājñayā | kalau niṣiddhaṃ triyuge prasiddhaṃ palapaitṛkam || 110 || yudhiṣṭhiro dharmaputro bhīmaśca pavanātmajaḥ | mahendraputro dharmiṣṭhaḥ phālguno vijayī bhuvi || 111 || yasmai pāśupataṃ śaṃbhuḥ pradadau ca svayaṃ purā | aśvamedhaṃ gavālambhaṃ saṃnyāsaṃ palapaitṛkam || 112 || devareṇa sutotpattiṃ kalau pañca vivarjayet | draupadyāḥ pañca bhartāraḥ śaṃkarasya vareṇa ca || 113 || baladevaḥ puṣpamadhu pūtaṃ pibati nityaśaḥ | cakāra yamunāhvānaṃ snānārthaṃ dhārmikaḥ śuciḥ || 114 || subhadrāṃ ca dadau kṛṣṇaḥ phālgunāya mahātmane | kanyakāṃ mātulānāṃ ca dākṣiṇātyaḥ parigrahaḥ || 115 || deśeṣvanyeṣu doṣo'yamityāha kamalodbhavaḥ || 116 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo vāṇāniruddhasaṃo pañcadaśādhikaśatatamo'dhyāyaḥ || 115 ||

English translation

Bana gets ready for a war hearing the news about his Daughter NSrayana said- Thereafter, the guards feeling panicky prostrating before KSrttikeya, Gapesa and Durga spoke to the king Bana.

The gods said- The time is quite wicked and unsurpassable. Presently the adult daughter becoming independent is desirous of a husband.

TO ■Rlflt 5:t3cPRttpq;i O lord it is always painful if the noble people keep the company of the wicked, the good and bad are the products of the continues company of the people.

Citralekha, herself becoming a messenger, brought a competent groom for the girl who is quite strong, valorous, resembling India, a great charioteer, youthful, healthy and is more beautiful than the god of love. She made both of them to enjoy each other company through out the day and night. Now chaste Usa, your daughter has conceived. In spite of her having I been born in noble race, she has become like the burning fire for both the races. Now you have to, become a grandfather of a male of a female child. You meet an extremely youthful and clever person besides the clever daughter in whose body there are signs of enjoying conjugal pleasures and who is completely under the command of her husband, is quite unstable remaining in the company of a male, enjoying conjugal pleasures in seclusion, always smiling, looking with side-glances and unstable eyes. On hearing this, Bana was ashamed as well as

He resolved for waging a war but Siva stopped him from doing so. He spoke to Ganesa, Yogmdras, the SiddhaSy Canda and other Rudras, Kotarl the village deity, spoke to Siva the words which were considered to be beneficial for Bana.

These words truthful according to polity and were beneficial in the long run.

Tit W Tit entl Mimrm «I Siva said- I am narrating to you an ancient story you please listen to it. In order to rid the earth of her burden, the lord himself has incarnated on earth in the land of Bharata and has killed many kings; all the globes are enshrined in his hair-pits; his abode is the eternal Brahman that is why people call him with the name of Vasudeva. Lord Krsna happens to be on earth as Brahma for Brahma. He is beyond Prakrti, devoid of gums, unattracted, always graceful to his devotees and takes to human form for their sake, is eternal Brahman is the abode of the supreme soul. He is the one with the departure of whom, a human becomes a dead body. How can a war be possible with him.

As one is unable to visualise the sky having been covered with the weapons. Similarly a person is xmable to visualise the invisible soul even by meditation.

His son named Aniruddha can destroy the three worlds in no.time.

All the gods, the demons and all the valorous people do not compare to the one-sixteenth part of Aniruddha.

Such of the people who have comparable strength and the riches, the marriage should be performed only between them; it would not be proper to engage a weak person with a valorous i ^hai: xjftgnffnrw He is the one who drove Bali your father, who was immensely valorous and was bom out the ama of Hari to the neither world in a movement.

He is the one who is the lord of Vmdavana, the supreme soul and all other creatures are only his Parvatl said- Brahma, Siva, ^esa always meditate upon him in their hearts through out the day and night.

SQrya, Ganesa, ^iva the teacher of the yogis, always meditate upon the eternal lord.

Sanatkumtlra, Kapia, Nara and Narayana always meditate upon the eternal lord.

tiijNWisy it Kira^ nirraRt Manu, the sages, siddhas, the yogis always meditate upon the eternal lord.

All the intellectuals, who are the foremost of all, adore the lord of all, who is eternal.

Ganesa said- It is misfortune of Prahlada and Bali a great devotee of Visnu who has given birth to such a foolish son.

Karttikeya said- O brother, have you heard the stories of Hiranyakasipu, Hiranyaksa, Madhu and Kailabha. All of them were quite valorous demons and were your ancestors. All of them were dispatched to the abode of Yama playfully O brother, who can save the one who is to be killed by none else them Narayana himself.

Therefore keeping in view your own welfare, you leave the idea of a war.

On hearing his words, Bana was enraged. His face and eyes became red with anger. He held a bow in his hand and started thundering like the god of death.

Bana said- O mother, O father Siva, O brother Ganesa, O brother Karttikeya, listen to what I speak. The people performing deeds have to face the good or bad results according to the deeds performed by them. Who can get the reward of any type without performing a deed.

A person cannot die, ahead of times even when wormded with hundreds of arrows and when the time comes even with the touch of the blade of grass one cannot survive.

In which ever way the destiny has ordained the person has to meet with the death in the same way, who can avert the result of an action which one has to face definitely.

The one who becomes a coward in the battle¬ field, his life becomes useless, the person who is victories in the battle-field, he earns the glory and after the death he achieves the heaven.

He entered the eity which was protected by Siva, Parvatl and Ganesa and accepted the daughter, in the same way as a valorous person does in the battle-field. Who can abduct anyone's daughter like this, who is still, alike. In the court, the' guard has spoken that the girl has conceived.

These words entered my ears like vajra.

Therefore, after killing Aniruddha, I shall also kill the girl, otherwise I shall jump into the Kotari said- O son, you listen, since I happen to be your mother according to dharma. The parents have to suffer from, mental agony at every step, because of the conduct of the wicked son. Since Usa had been accepted by somebody, therefore she cannot be given by you to anyone else. You give away your daughter to Aniruddha, the grandson of Krsna and the son of Pradyumna.

By doing so your seven generations in the land of Bharata would be purified, In order to achieve the glory and lustre on the land of Bharata, you give away everything in dowry otherwise lord Hari would surely kill you with the use of the Sudarsana-cakra in the battle¬ field. "Who would be able to save you?" On hearing the words of Kotarl the demon was further enraged. O sage, mounted on chariot he went to the place where the grandson of Krsna was lodged. Thereafter with the permission of Karttikeya took the command of army and marched on. Bana then performed the welfare ceremony. Ganesa, Siva, Parvatl and Kotarl blessed Bapa variously. All the eight Bhairavas, eleven Rudras, holding the weapons in their hands started for a war. In the meantime under the influence of Parvatl and the wife of Bana, messenger carried the words, to Aniruddha and spoke to him.

The messenger said- O Aniruddha, get up and listen to the welfare words of Parvatl. O son, you wear the kavaca and coming out you start the The terrified Osa remembered the chaste goddess Parvatl saying, "O Mahamaya, you protect the one who is the lord of my life; you extend him all protection in the terrific battle¬ field. You are the mother of the universe and your love extends to all equally".

Thereafter, Aniruddha wearing the coat of arms and holding the weapons in his hand, mounted the chariot, given to him by Osa.

Getting out of the camp he spotted Bana who was wearing the coat of arms and holding weapons in his hands. His eyes were burning in At the sight of Aniruddha, Bana was enraged and in the terrific battle-field he started emitting Bana said- O valorous one, you are extremely wicked, devoid of the knowledge of polity; you are the- form of fire flame for the solar race, you are acting disgracefully in the auspicious land, your father owned the wife of Sambrasura after killing him. You were bom out of her. You are a blot on your race.

Your grandfather known as Kfspa is the K.

atriya of Mathura. He is the son of a Vaisya in Gokula known by the name of Nanda.

In Vmdavana he happens to be a cowherds of Nanda who grazed the cows; he is the lover of the cowherdesses and is an extremely wicked He killed during his childhood, PtStana and is therefore the killer of the woman. Reaching Mathura he killed Kubja after enjoying conjugal pleasures with her.

named Rati is quite a chaste lady. She had to stay in the house of Sambara because of the desire for her husband, who had abducted her forcibly. She gave away her shadow to the demon and saved her chastity. Dharma stands witness to the same.

My father killing the demon Sambara took his chaste wife with him and went to Dvaraka. Both the sun and moon are witness to the same; how can you like a fool understand my grandfather Vasudeva who is unknown even to the Vedas.

Vasu is the place which happens to be the abode of all, one in whose hair-pits, the globe are lodged, he lord came to be known as Vasudeva.

You better ask about him from Siva to whom you are serving. You happen to be the son of Bali who is the servant of Krsna and as such you happen to be his slave.

You are devoid of wisdom and as such you call him as the son of Vaisya of Gokula. The Vedas permit the taking of food with Ksatriyas and the Vaisyas.

Drona was Prajapati and his wife Dhara was quite chaste; both of them performed tapas and achieved the lord as their son.

The same Drona was bom as Nanda and the chaste Dhara was bom as Yasoda. Radha on the other hand was bom as the daughter of Vrs abhana due to the curse of SudamS; she at the command of her lord accompanied with thirty crores of cowherdesses arrived in the land of Bharata from the Goloka Because of this, the lord kept the company of those damsels. He married Radha and Brahma performed himself as the priest of the marriage.

A crore of cowherd boys arrived from the Goloka on earth. All of them were the best of the attendants of Hari and were illustrious like him.

The lord with his illusion turning to the form of the cowherds is protecting the cows with his clcOfiT cm I? 11 O demon, Ptitana was the daughter of Bali and your sister; she was childless in earlier birth and looking at the lord as the incarnation of Vamana had desired to achieve a son like him and could feed the child with her breasts.

vnitmar i11 The lord fulfilled her desire; after feeding the child with her breasts she left the earth mounted over a gem-studded plane to Goloka. Kubja on the other hand was the sister of Ravana known as Surpanakha in her earlier birth, who passionately desired Rama as her husband but the extremely religious Laksmana severed her nose. Thereafter she performed tapas and achieved a boon from Brahma, as a result of which he achieved the lord as her husband and then proceeded to Goloka as a result of her embrace by lord Krsna, she went to Goloka as a cowherdesses.

Narakasura was killed because of his earlier misdeeds and Hari married the damsels. The sun and the moon stand witness to the same.

MahalaksmI the daughter of Bhisma became the chaste wife of Krsna who arrived on earth at the command of Brahma from Vaikuntha. She was bom as Satyabhama the wife of Satrajita; the king gave away the daughter in marriage to Krs na together with and auspicious gem. Lord Hari incarnated on earth in order to rid her from the burden. That is why engaging the Kauravas and the Pandavas in the battle-field, he relieved the earth of her burden.

Sisupala and Dantavakra happened to be the two guards of the lord in Vaikuntha, known by the name of Jaya and Vijaya. Both of them had fallen from Vaikuntha because of the curse from Sanaka and were bom on earth thrice; in one birth they were bom as Hiranyakasipu and Hiranyaksa, he had conquered Varuna. Lord Vis nu taking to the form of Nrsiihha killed him qft' qnit:i The other one Hirany^sa was killed by the lord incarnating himself as Varaha; now you listen to the story of his second births, In the second birth they were bom as Ravana and Kumbhakarna who were killed by RSma; thereafter both of them were bom as the sons of Dharma and were killed by Krsna. Jarasandha, Salva and the wicked Kaihsa had also to reap the results of their misdeeds and had to be killed at the hands of Krsna. Yavana who was among the sons of Mandhata was also killed because of his earlier misdeeds. How is Krsna lord of Laksmi

concerned with the riches.

Because of the Puriyaka-vrata performed by Satya the lord had to bring the Pdrijdta tree for her. Jambavatl the daughter of Bhalluka was herself bom as arhsa of Durga. Lord Hari accepted her as his spouse because of the tapas performed by her.

The ksetraja sons were bom to KuntI at the command of her lord. This practise is prohibited in the Kaliyuga but was well-known in all the other three yugas.

Yudhisthira had been the son of Dharma, Bhima was the son of the wind god, Aijuna was the son of Indra who achieved victory on the earth and in earlier times Siva bestowed him the Pdsupata weapon. In Kaliyuga the practice of five things are prohibited which include, samnyasa, conception through artificial insemination and conception from Devara.

DraupadI was bestowed with five spouses because of the boon of Siva.

BalarSma always consumed the auspicious nectar of the flowers which is always religious and pious. He had summoned Yamuna for taking Kfsna had given away his sister Subhadra to Arjuna, the marriage with the daughter of maternal uncle is not prohibited in the south. But in other countries it is considered to be sinful

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 362982 (2022-12-08T13:04:47Z); Shanti Lal Nagar English scan pages n1611–n1620: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1611/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.