Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 105

Chapter 105

Unit 248 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 105Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 1051 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 105

Source

अथ पञ्चाधिकशततमोऽध्यायः नारायण उवाच अथ वैदर्भराजेन्द्रो महाबलपराक्रम् । विदर्भदेशे पुण्याश्च सत्यशीलश्च भीष्मकः ।। १ ।। राजा नारायणांशश्च दाता च सर्वसंपदाम् । धर्मिष्ठस्च गरीयांश्च वरिष्ठश्टापि पूजितः ।। २ ।। तस्य कन्या महालक्ष्मी रुक्मिणी योषितां वरा । अतीव सुन्दरी रम्या रमा रामासु पूजिता ।। ३ ।। नवयौवनसंपन्ना रत्नाभरणभूषिता । तप्तकाञ्चनवर्णाभा तेजसोज्ज्वलिता सती ।। ४ ।। शुद्धसत्त्वस्वरूपा सा सत्यशीला पतिव्रता । शान्ता दान्ता नितान्ता चाप्यनन्तगुणशालिनी ।। ५ ।। इन्द्राणी वरुणानी च चन्द्रनारी च रोहिणी । कुबेरपत्नी सूर्यस्त्री स्वाहा शान्ता कलावती ।। ६ ।। अन्यासु रमणीयासु श्रेष्ठा च सुमनोहरा । रुक्मिण्या भीष्मकन्यायाः कलां नार्हति षोडशीम् ।। ७ ।। तां दृष्ट्वा राजराजेन्द्रो वालक्रीडारतां पराम् । बालां सुशोभां कुर्वन्तीं यथाऽभ्रेषु विधोः कलाम् ।। ८ ।। शरत्पूर्णेन्दुशोभाढ्यां शरत्कमललोचनाम् । विवाहयोग्यां युवतीं लज्जानम्राननां शुभम् ।। ९ ।। सहसा चिन्तितो धर्मो धर्मशीलश्च सुव्रतः । सुतां पप्रच्छ पुत्रांश्च ब्राह्मणांश्च पुरोहितान् ।। १० ।। कं वृणोमि सुतार्ध च वराहं प्रवरं वरम् । मुनिपुत्रं देवपुत्रं राजेन्द्रसुतमीप्सितम् ।। ११ ।। विवाहयोग्या कन्या मे वर्धमाना मनोहरा । शीघ्रं पश्य वरं याग्यं नवयौवनसंस्थितम् ।। १२ ।। धर्मशीलं सत्यसंधं नारायणपरायणम् । महाकुलप्रसूतं च सर्वत्रैव प्रतिष्ठितम् ।। १४ ।। करोषि राजपुत्रं चेद्रणशास्त्रविशारदम् । महारथं प्रतापार्हं रणमूर्ध्नि च सुस्थिरम् ।। १५ ।। करोषि देवपुत्रं चेद्देवं गुणयुतं तथा । करोषि मुनिपुत्रं चेच्चतुर्वेदविशारदम् ।। १६ ।। वावदूकं विचारज्ञं सिद्धान्तेषु नितान्तकम् । नृपेन्द्रवचनं श्रुत्वा तमुवाच मुनेः सुतः ।। १७ ।। गोतमस्य शतानन्दो वेदवेदाङ्गपारगः । आप्तः प्रवक्ता विज्ञश्च धर्मी कुलपुरोहितः ।। पृथिव्यां सर्वतत्त्वज्ञो निष्णातः सर्वकर्मसु ।। १८ ।। शतानन्द उवाच राजेन्द्र त्वं च धर्मज्ञो धर्मशास्त्रविशारदः । पृर्वाख्यानं च वेदोक्तं कथयामि निशामय ।। १९ ।। भुवो भारावतरणे स्वयं नारायणो भुवि । वसुदेवसुतः श्रीमान्परिबूर्णतमः प्रभुः ।। २० ।। विधातुश्च विधाता च ब्रह्मेशशेषवन्दितः । ज्योतिःस्वरूपः परमो भक्तानुग्रहविग्रहः ।। २१ ।। परमात्मा च सर्वेषां प्राणिनां प्रकृतेः परः । निर्लिप्तश्च निरीहप्तश्च साक्षी च सर्वकर्मणाम् ।। २२ ।। राजेन्द्र तस्मै कन्यां च परिपूर्णतमाय च । दत्त्वा यास्यसि गोलोकं पितॄणां शतकैः सह ।। २३ ।। लभ सारूप्यमुक्तिं च कन्या दत्त्वां परत्र च । इहैव सर्वपूज्यश्च भव विश्वगुरोर्गुरुः ।। २४ ।। सर्वस्वं दक्षिणां दत्त्वा महालक्ष्मीं च रुक्मिणीम् । समर्पणं कुरुविभो कुरुष्व जन्मखण्डनम् ।। २५ ।। विधाता निखितो राजन्संबन्धः सर्वसंमतः । द्वारकानगरे कृष्णं शीघ्रं प्रस्थापय द्विजम् ।। २६ ।। कृत्वा शुभक्षणं तूर्ण सर्वेषामपि संमतम् । आनीय परमात्मानं भक्तानुग्रहविग्रहम् ।। २७ ।। ध्यानानुरोधहेतुं च नित्यदेहमनुत्तमम् । दृष्टिमात्रात्कुरु नृप स्वजन्मकर्मखण्डनम् ।। २८ ।। यं न जानन्ति चत्वारो वेदाः संतश्च देवताः । सिद्धेन्द्राश्च मुनीन्द्राश्च देवा ब्रह्मादयस्तथा ।। २९ ।। ध्यायन्ते ध्यानपूताश्च योगिनो न विदन्ति यम् । सरस्वती जडीभूता वेदाः शास्त्राणियानि च ।। ३० ।। सहस्रवक्त्रः शेषश्च पञ्चवक्त्रः सदाशिवः । चतुर्मुखो जगद्धाता कुमारः कार्तिकस्तथा ।। ३१ ।। ऋषयो मुनयश्चैव भक्ताः परमवैष्णवाः । अक्षमाः स्तवने यस्य ध्यानासाध्यश्च योगिनाम् ।। ३२ ।। बालकोऽहं महाराज तद्गुणं कथयामि किम् । शतानन्दवचः श्रुत्वा प्रफुल्लवदनो नृपः ।। ३३ ।। आनिङ्गनं ददौ तस्मै समुत्थाय जवेन च । नानारत्नं मुवर्ण च वस्त्रं च रत्नभूषणम् ।। ३४ ।। ददौ तस्मै प्रदानं च प्रसादसुमुखो नृपः । गजेन्द्र तुरगं श्रेष्ठं रथं च मणिनिर्मितम् ।। ३५ ।। रत्नसिहासनं रम्यं धनं च विपुलं तथा । भूमिं च सर्वसस्याढ्यां शश्वद्वृष्टिकरीं शुभाम् ।। ३६ ।। अकृष्टसाध्यां पूज्यां च ग्रामं सर्वप्रशंसितम् । एतस्मिन्नन्तरे रुक्मिश्चुकोप नृपनन्दनः ।। ३७ ।। कम्पितोऽधर्मयुक्तश्च रक्तास्यो रक्तलोचनः । उवाच पितरं व्रिप्रं सभायामस्थिरस्तदा ।। ३८ ।। उत्याय तिष्ठन्पुरतः सर्वेषां च सभासदाम् ।। ३९ ।। रुक्मिरुवाच श्रृणु राजेन्द्र वचनं हितं तथयं प्रशंसितम् । त्यज वाक्यं भिक्षुकाणां लोभिनां क्रोधिनामहो ।। ४० ।। नर्तकानां च वैश्यानां भट्टानामर्थिनामपि । कायस्थानां च भिक्षूणामसत्यं वचनं सदा ।। ४१ ।। घटकानां नाटकानां स्त्रीलुब्धाना च कामिनाम् । दरिद्राणां च मूर्खाणां स्तुतिपूर्व वचः सदा ।। ४२ ।। निहत्य कालयवनं राजेन्द्रं दूरतो भिया । उवायेन महाबाहो लब्धं कृष्णेन तद्धनम् ।। ४३ ।। द्वारकाया धनी कृष्णो यवनस्य धनेन च । जरासंधभयेनैव समुद्राभ्यन्तरे गृही ।। ४४ ।। जरासंधशतं चैव क्षणेनैव च लीलया । क्षमोऽहं हन्तुमेकाकी राज्ञश्चान्यस्य का कथा ।। ४५ ।। दुर्वाससश्च शिष्योऽहं रणशास्त्रविशारदः । ध्रुवं भीष्मक तेनैव विश्वं संहर्तुमीश्वरः ।। ४६ ।। मत्समः पर्शुरामश्च शिशुपालश्च मत्समः । सखा च बलवाञ्छूरः स्वर्गं जेतुं स च क्षमः ।। ४७ ।। महेन्द्रं सगणं जेतुमहमीशः क्षणेन च । जित्वा युद्धे जरासंधं दुर्बलं योगिनं नृप ।। ४८ ।। अहंकारयुतः कृष्णो पीरं स्वं मन्यते धिया । यद्यायास्यति मद्ग्रामं विवाहं कर्तुमीप्सितम् ।। ४९ ।। ध्रुवं प्रस्थापयिष्यामि क्षणेन यममन्दिरम् । अहो नन्दस्य वैश्यस्य तस्मै गोरक्षकाय च ।। ५० ।। साक्षाज्जाराय गोपीनां गोपालोच्छिष्टभोजिने । करोषि कन्यास्वीकारं देवयोग्यां च रुक्मिणीम् ।। ५१ ।। दातुमिच्छसि वाक्येन भिङुकस्य द्विजस्य च । राजेन्द्र बुद्धिहीनोऽसि वचनाद्वद्ग(दुर्ब) लस्य च ।। ५२ ।। मा राजपुत्रो माशूरो म कुलीनश्च मा शुचिः । मा दाता मा धनाढ्यश्च मा योग्यो मा जितेन्द्रियः ।। ५३ ।। कन्यां देहि सुपुत्राय शिशुपालाय भूमिप । बलेन रुद्रतुष्टाय राजेन्द्रतनयाय च ।। ५६ ।। निमन्त्रणं कुरु नृप नानादेशभवान्नृपान् । बान्धवांश्च मुनीन्द्रांश्च पत्रद्वारा त्वरान्वितः ५५ ।। अङ्गं कलिङ्गं मगधं सौराष्ट्रं वल्कलं वरम् । राटं वरेन्द्रं वङ्गं च गुर्जरटिं च पठेरम् ।। ५६ ।। महाराष्ट्रं विराटं च मुद्गलं च मुरङ्गकम् । भल्लकं गल्लकं खर्व दुर्गं प्रस्थापय द्विजम् ।। ५७ ।। घृतकुल्यासहस्रं च मधुकुल्यासहस्रकम् । दधिकुल्यासहस्रं च दुग्धकुल्यासहस्रकम् ।। ५८ ।। तैलकुल्यापञ्चशतं गुडकुल्याद्विलक्षकम् । शर्कराणां राशिशतं मिष्टान्नानां चतुर्गुणम् ।। ५९ ।। यवगोधूमचूर्णानां पिष्टराशिशतं शतम् । पृथुकानां राशिलक्षमन्नानां च चतुर्गुणम् ।। ६० ।। अथ श्रुत्वा च तद्वाक्यं राजेन्द्रः सपुरोहितः । चकार मन्त्रणां तूर्ण निर्जने मन्त्रिणा सह ।। ६१ ।। द्विजं प्रस्थापयामास द्वारकां योग्यमीप्सितम् । कृत्वा च शुभलग्नं च सर्वेषामभिवाञ्छितम् ।। ६२ ।। राजा संभृतसंभारो बभूव सत्वरं मृदा । निमन्त्रणं च सर्वत्र चकार च सुताज्ञया ।। ६३ ।। विप्रः सुधर्मां संप्राप्य नृपैर्देवैश्च वेष्टिताम् । प्रददी पत्रिकां भद्रामुग्रसेनाय भूभृते ।। ६४ ।। प्रफुल्लवदनो राजा श्रुत्वा पत्रं सुमङ्गलम् । सुवर्णानां सहस्रं च ब्राह्मणेभ्यो ददौ मुदा ।। ६५ ।। दुंदुभिं वादयामास द्वारकायां च सर्वतः । देवान्मुनीन्नृपांश्चैव ज्ञातिवर्गाश्च बान्धवान् ।। ६६ ।। भट्टांश्च भिक्षुकांश्चैव भोजयामास सादरम् । श्रीकृष्णस्य सृवेषं च कारयामास भूपतिः ।। ६७ ।। अतीव रम्यमतुलं त्रेषु लोकेषु दुल्रभम् । यात्रां च कारयामास जगतां प्रवरं वरम् ।। ६८ ।। वेदमन्त्रेण रम्येण माहेन्द्रे सुमनोहरे । आदौ ब्रह्मा रथस्थश्च सावित्र्या सहितो ययौ ।। ६९ ।। रथस्यश्च महाहृष्टो भवान्या च भवः स्वयम् । शेषश्चापि दिनेशश्च गणेशश्चापि कार्तिकः ।। ७० ।। महेन्द्रश्चतथा चन्द्रो वरुणः पवनस्तथा । कुबेरश्च यमो वह्निरीशानोऽपि ययौ मुदा ।। ७१ ।। देवानां च त्रिकोट्यश्च मुनीनां षष्टिकोटयः । राजेन्द्राणां त्रिलक्षं च श्वेतच्छत्रं त्रिलक्षकम् ।। ७२ ।। उग्रसेनो बभौ राजा नक्षत्रेषु यथा शशी । ययौ प्रसन्नवदनः कुण्डिनाभिमुखो बली ।। ७३ ।। रत्ननिर्माणयानेन बलदेवो महाबलः । वसुदेवश्चोद्धवश्च नन्दोऽक्रूरश्च सात्यकिः ।। ७४ ।। गोपाला यादवेन्द्राश्च चन्द्रवंश्याश्च ते ययुः । धृतराष्ट्रसुताः सर्वे दुर्योधनपुलोगमाः ।। ७५ ।। युधिष्ठिरस्तथा भीमः फाल्गुनो नकुलस्तथा । सहदेवश्च यानैश्च प्रययुः पञ्च पाण्डवाः ।। ७६ ।। भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा महाबलः । कृपाचार्यश्च शकुनिः शल्यश्चप्रययौ मुदा ।। ७७ ।। भटानां च त्रिकोट्यश्च विप्राणां शतकोटयः । संन्यासिनां सहस्रं च यतीनां ब्रह्मचारिणाम् ।। ७८ ।। द्विसहस्रं जितक्रोधाश्चावधूतास्तथैव च । उत्पलानां सहस्रं च सहस्रं पुष्पकारिणाम् ।। ७९ ।। नानाशिर्पकराश्चैव विचित्रं चित्रमेव च । लक्षं च वाद्यभाण्डानां नर्तकानां च लक्षकम् ।। ८० ।। गन्धर्वाणां गायकानां लक्षमेव तु नारद । तत्र कल्पे भक्त्येव गन्धर्वश्चोपबर्हणः ।। ८१ ।। पञ्चाशत्कामिनीभिश्च त्वमेव तेषु मध्यगः । विद्याधरीणां लक्षं च लक्षमप्सरसां तथा ।। ८२ ।। किन्नराणां त्रिलक्षं चगन्धर्वाणां त्रिलक्षकम् ।। ८३ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।

atha pañcādhikaśatatamo'dhyāyaḥ nārāyaṇa uvāca atha vaidarbharājendro mahābalaparākram | vidarbhadeśe puṇyāśca satyaśīlaśca bhīṣmakaḥ || 1 || rājā nārāyaṇāṃśaśca dātā ca sarvasaṃpadām | dharmiṣṭhasca garīyāṃśca variṣṭhaśṭāpi pūjitaḥ || 2 || tasya kanyā mahālakṣmī rukmiṇī yoṣitāṃ varā | atīva sundarī ramyā ramā rāmāsu pūjitā || 3 || navayauvanasaṃpannā ratnābharaṇabhūṣitā | taptakāñcanavarṇābhā tejasojjvalitā satī || 4 || śuddhasattvasvarūpā sā satyaśīlā pativratā | śāntā dāntā nitāntā cāpyanantaguṇaśālinī || 5 || indrāṇī varuṇānī ca candranārī ca rohiṇī | kuberapatnī sūryastrī svāhā śāntā kalāvatī || 6 || anyāsu ramaṇīyāsu śreṣṭhā ca sumanoharā | rukmiṇyā bhīṣmakanyāyāḥ kalāṃ nārhati ṣoḍaśīm || 7 || tāṃ dṛṣṭvā rājarājendro vālakrīḍāratāṃ parām | bālāṃ suśobhāṃ kurvantīṃ yathā'bhreṣu vidhoḥ kalām || 8 || śaratpūrṇenduśobhāḍhyāṃ śaratkamalalocanām | vivāhayogyāṃ yuvatīṃ lajjānamrānanāṃ śubham || 9 || sahasā cintito dharmo dharmaśīlaśca suvrataḥ | sutāṃ papraccha putrāṃśca brāhmaṇāṃśca purohitān || 10 || kaṃ vṛṇomi sutārdha ca varāhaṃ pravaraṃ varam | muniputraṃ devaputraṃ rājendrasutamīpsitam || 11 || vivāhayogyā kanyā me vardhamānā manoharā | śīghraṃ paśya varaṃ yāgyaṃ navayauvanasaṃsthitam || 12 || dharmaśīlaṃ satyasaṃdhaṃ nārāyaṇaparāyaṇam | mahākulaprasūtaṃ ca sarvatraiva pratiṣṭhitam || 14 || karoṣi rājaputraṃ cedraṇaśāstraviśāradam | mahārathaṃ pratāpārhaṃ raṇamūrdhni ca susthiram || 15 || karoṣi devaputraṃ ceddevaṃ guṇayutaṃ tathā | karoṣi muniputraṃ ceccaturvedaviśāradam || 16 || vāvadūkaṃ vicārajñaṃ siddhānteṣu nitāntakam | nṛpendravacanaṃ śrutvā tamuvāca muneḥ sutaḥ || 17 || gotamasya śatānando vedavedāṅgapāragaḥ | āptaḥ pravaktā vijñaśca dharmī kulapurohitaḥ || pṛthivyāṃ sarvatattvajño niṣṇātaḥ sarvakarmasu || 18 || śatānanda uvāca rājendra tvaṃ ca dharmajño dharmaśāstraviśāradaḥ | pṛrvākhyānaṃ ca vedoktaṃ kathayāmi niśāmaya || 19 || bhuvo bhārāvataraṇe svayaṃ nārāyaṇo bhuvi | vasudevasutaḥ śrīmānparibūrṇatamaḥ prabhuḥ || 20 || vidhātuśca vidhātā ca brahmeśaśeṣavanditaḥ | jyotiḥsvarūpaḥ paramo bhaktānugrahavigrahaḥ || 21 || paramātmā ca sarveṣāṃ prāṇināṃ prakṛteḥ paraḥ | nirliptaśca nirīhaptaśca sākṣī ca sarvakarmaṇām || 22 || rājendra tasmai kanyāṃ ca paripūrṇatamāya ca | dattvā yāsyasi golokaṃ pitṝṇāṃ śatakaiḥ saha || 23 || labha sārūpyamuktiṃ ca kanyā dattvāṃ paratra ca | ihaiva sarvapūjyaśca bhava viśvagurorguruḥ || 24 || sarvasvaṃ dakṣiṇāṃ dattvā mahālakṣmīṃ ca rukmiṇīm | samarpaṇaṃ kuruvibho kuruṣva janmakhaṇḍanam || 25 || vidhātā nikhito rājansaṃbandhaḥ sarvasaṃmataḥ | dvārakānagare kṛṣṇaṃ śīghraṃ prasthāpaya dvijam || 26 || kṛtvā śubhakṣaṇaṃ tūrṇa sarveṣāmapi saṃmatam | ānīya paramātmānaṃ bhaktānugrahavigraham || 27 || dhyānānurodhahetuṃ ca nityadehamanuttamam | dṛṣṭimātrātkuru nṛpa svajanmakarmakhaṇḍanam || 28 || yaṃ na jānanti catvāro vedāḥ saṃtaśca devatāḥ | siddhendrāśca munīndrāśca devā brahmādayastathā || 29 || dhyāyante dhyānapūtāśca yogino na vidanti yam | sarasvatī jaḍībhūtā vedāḥ śāstrāṇiyāni ca || 30 || sahasravaktraḥ śeṣaśca pañcavaktraḥ sadāśivaḥ | caturmukho jagaddhātā kumāraḥ kārtikastathā || 31 || ṛṣayo munayaścaiva bhaktāḥ paramavaiṣṇavāḥ | akṣamāḥ stavane yasya dhyānāsādhyaśca yoginām || 32 || bālako'haṃ mahārāja tadguṇaṃ kathayāmi kim | śatānandavacaḥ śrutvā praphullavadano nṛpaḥ || 33 || āniṅganaṃ dadau tasmai samutthāya javena ca | nānāratnaṃ muvarṇa ca vastraṃ ca ratnabhūṣaṇam || 34 || dadau tasmai pradānaṃ ca prasādasumukho nṛpaḥ | gajendra turagaṃ śreṣṭhaṃ rathaṃ ca maṇinirmitam || 35 || ratnasihāsanaṃ ramyaṃ dhanaṃ ca vipulaṃ tathā | bhūmiṃ ca sarvasasyāḍhyāṃ śaśvadvṛṣṭikarīṃ śubhām || 36 || akṛṣṭasādhyāṃ pūjyāṃ ca grāmaṃ sarvapraśaṃsitam | etasminnantare rukmiścukopa nṛpanandanaḥ || 37 || kampito'dharmayuktaśca raktāsyo raktalocanaḥ | uvāca pitaraṃ vripraṃ sabhāyāmasthirastadā || 38 || utyāya tiṣṭhanpurataḥ sarveṣāṃ ca sabhāsadām || 39 || rukmiruvāca śrṛṇu rājendra vacanaṃ hitaṃ tathayaṃ praśaṃsitam | tyaja vākyaṃ bhikṣukāṇāṃ lobhināṃ krodhināmaho || 40 || nartakānāṃ ca vaiśyānāṃ bhaṭṭānāmarthināmapi | kāyasthānāṃ ca bhikṣūṇāmasatyaṃ vacanaṃ sadā || 41 || ghaṭakānāṃ nāṭakānāṃ strīlubdhānā ca kāminām | daridrāṇāṃ ca mūrkhāṇāṃ stutipūrva vacaḥ sadā || 42 || nihatya kālayavanaṃ rājendraṃ dūrato bhiyā | uvāyena mahābāho labdhaṃ kṛṣṇena taddhanam || 43 || dvārakāyā dhanī kṛṣṇo yavanasya dhanena ca | jarāsaṃdhabhayenaiva samudrābhyantare gṛhī || 44 || jarāsaṃdhaśataṃ caiva kṣaṇenaiva ca līlayā | kṣamo'haṃ hantumekākī rājñaścānyasya kā kathā || 45 || durvāsasaśca śiṣyo'haṃ raṇaśāstraviśāradaḥ | dhruvaṃ bhīṣmaka tenaiva viśvaṃ saṃhartumīśvaraḥ || 46 || matsamaḥ parśurāmaśca śiśupālaśca matsamaḥ | sakhā ca balavāñchūraḥ svargaṃ jetuṃ sa ca kṣamaḥ || 47 || mahendraṃ sagaṇaṃ jetumahamīśaḥ kṣaṇena ca | jitvā yuddhe jarāsaṃdhaṃ durbalaṃ yoginaṃ nṛpa || 48 || ahaṃkārayutaḥ kṛṣṇo pīraṃ svaṃ manyate dhiyā | yadyāyāsyati madgrāmaṃ vivāhaṃ kartumīpsitam || 49 || dhruvaṃ prasthāpayiṣyāmi kṣaṇena yamamandiram | aho nandasya vaiśyasya tasmai gorakṣakāya ca || 50 || sākṣājjārāya gopīnāṃ gopālocchiṣṭabhojine | karoṣi kanyāsvīkāraṃ devayogyāṃ ca rukmiṇīm || 51 || dātumicchasi vākyena bhiṅukasya dvijasya ca | rājendra buddhihīno'si vacanādvadga(durba) lasya ca || 52 || mā rājaputro māśūro ma kulīnaśca mā śuciḥ | mā dātā mā dhanāḍhyaśca mā yogyo mā jitendriyaḥ || 53 || kanyāṃ dehi suputrāya śiśupālāya bhūmipa | balena rudratuṣṭāya rājendratanayāya ca || 56 || nimantraṇaṃ kuru nṛpa nānādeśabhavānnṛpān | bāndhavāṃśca munīndrāṃśca patradvārā tvarānvitaḥ 55 || aṅgaṃ kaliṅgaṃ magadhaṃ saurāṣṭraṃ valkalaṃ varam | rāṭaṃ varendraṃ vaṅgaṃ ca gurjaraṭiṃ ca paṭheram || 56 || mahārāṣṭraṃ virāṭaṃ ca mudgalaṃ ca muraṅgakam | bhallakaṃ gallakaṃ kharva durgaṃ prasthāpaya dvijam || 57 || ghṛtakulyāsahasraṃ ca madhukulyāsahasrakam | dadhikulyāsahasraṃ ca dugdhakulyāsahasrakam || 58 || tailakulyāpañcaśataṃ guḍakulyādvilakṣakam | śarkarāṇāṃ rāśiśataṃ miṣṭānnānāṃ caturguṇam || 59 || yavagodhūmacūrṇānāṃ piṣṭarāśiśataṃ śatam | pṛthukānāṃ rāśilakṣamannānāṃ ca caturguṇam || 60 || atha śrutvā ca tadvākyaṃ rājendraḥ sapurohitaḥ | cakāra mantraṇāṃ tūrṇa nirjane mantriṇā saha || 61 || dvijaṃ prasthāpayāmāsa dvārakāṃ yogyamīpsitam | kṛtvā ca śubhalagnaṃ ca sarveṣāmabhivāñchitam || 62 || rājā saṃbhṛtasaṃbhāro babhūva satvaraṃ mṛdā | nimantraṇaṃ ca sarvatra cakāra ca sutājñayā || 63 || vipraḥ sudharmāṃ saṃprāpya nṛpairdevaiśca veṣṭitām | pradadī patrikāṃ bhadrāmugrasenāya bhūbhṛte || 64 || praphullavadano rājā śrutvā patraṃ sumaṅgalam | suvarṇānāṃ sahasraṃ ca brāhmaṇebhyo dadau mudā || 65 || duṃdubhiṃ vādayāmāsa dvārakāyāṃ ca sarvataḥ | devānmunīnnṛpāṃścaiva jñātivargāśca bāndhavān || 66 || bhaṭṭāṃśca bhikṣukāṃścaiva bhojayāmāsa sādaram | śrīkṛṣṇasya sṛveṣaṃ ca kārayāmāsa bhūpatiḥ || 67 || atīva ramyamatulaṃ treṣu lokeṣu dulrabham | yātrāṃ ca kārayāmāsa jagatāṃ pravaraṃ varam || 68 || vedamantreṇa ramyeṇa māhendre sumanohare | ādau brahmā rathasthaśca sāvitryā sahito yayau || 69 || rathasyaśca mahāhṛṣṭo bhavānyā ca bhavaḥ svayam | śeṣaścāpi dineśaśca gaṇeśaścāpi kārtikaḥ || 70 || mahendraścatathā candro varuṇaḥ pavanastathā | kuberaśca yamo vahnirīśāno'pi yayau mudā || 71 || devānāṃ ca trikoṭyaśca munīnāṃ ṣaṣṭikoṭayaḥ | rājendrāṇāṃ trilakṣaṃ ca śvetacchatraṃ trilakṣakam || 72 || ugraseno babhau rājā nakṣatreṣu yathā śaśī | yayau prasannavadanaḥ kuṇḍinābhimukho balī || 73 || ratnanirmāṇayānena baladevo mahābalaḥ | vasudevaścoddhavaśca nando'krūraśca sātyakiḥ || 74 || gopālā yādavendrāśca candravaṃśyāśca te yayuḥ | dhṛtarāṣṭrasutāḥ sarve duryodhanapulogamāḥ || 75 || yudhiṣṭhirastathā bhīmaḥ phālguno nakulastathā | sahadevaśca yānaiśca prayayuḥ pañca pāṇḍavāḥ || 76 || bhīṣmo droṇaśca karṇaścāpyaśvatthāmā mahābalaḥ | kṛpācāryaśca śakuniḥ śalyaścaprayayau mudā || 77 || bhaṭānāṃ ca trikoṭyaśca viprāṇāṃ śatakoṭayaḥ | saṃnyāsināṃ sahasraṃ ca yatīnāṃ brahmacāriṇām || 78 || dvisahasraṃ jitakrodhāścāvadhūtāstathaiva ca | utpalānāṃ sahasraṃ ca sahasraṃ puṣpakāriṇām || 79 || nānāśirpakarāścaiva vicitraṃ citrameva ca | lakṣaṃ ca vādyabhāṇḍānāṃ nartakānāṃ ca lakṣakam || 80 || gandharvāṇāṃ gāyakānāṃ lakṣameva tu nārada | tatra kalpe bhaktyeva gandharvaścopabarhaṇaḥ || 81 || pañcāśatkāminībhiśca tvameva teṣu madhyagaḥ | vidyādharīṇāṃ lakṣaṃ ca lakṣamapsarasāṃ tathā || 82 || kinnarāṇāṃ trilakṣaṃ cagandharvāṇāṃ trilakṣakam || 83 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo rukmiṇyudvāhe pañcādhikaśatatamo'dhyāyaḥ || 105 ||

English translation

Arrangement for the Marriage of Rukmini Narayana said- The king Bhismaka was possessing immense prowess and was quite noble and truthful king of Vidarbha country. He was bom of the arhsa of Visnu and was the bestower of all riches, quite religious, the best and was quite adorable.

He had a daughter named Rukmin! who had the form of MahalaksmL She was the best of the damsels, extremely beautiful, charming, quite passionate, adored by the damsels, quite youthful, adorned with all the gem-studded ornaments, having the complexion of molten gold, illumining, chaste, the form of auspicious tattva truthful, pious, peaceful, well disciplined and possessed all the qualities.

The goddesses like IndranI, Vamnani, the spouse of moon Rohinl, the spouse of Kubera, Svaha the spouse of Stirya, Santa, Kalavatl and all other beautiful woman did not compare to even one-sixteenth part of Rukminl the daughter of Bhismaka.

The king Bhismaka witnessed his daughter engaged in sport like the ray of the moon with the other girls, she possessed the lustre of the full moon of the winter season, her eyes were like the lotus flower of the winter season. She became youthful and fit for marriage. She was filled with shyness, humility and was quite chaste. Having a look at her the religious king who performed all the best of the vratas felt worried. He then consulted his daughter, the sons and the family Bhismaka said-1 would like to have a suitable groom for my daughter. Whom should I select, whether, he should be a prince or the son of great My growing daughter has achieved the age of puberty, therefore a groom for her should be searched immediately. Such a groom should be quite young, the religious minded, truthful, devoted to Visnu, well-versed in the Vedas and post-Vedic literature, an, intelligent one, beautiful, pious, peaceful, large hearted should

believe in forgiveness, all virtuous, having long life and the one having been bom in the high race and well-known everywhere.

nHFnt 'et i i In case a prince is selected then he should be well-versed in the treatises on welfare, a great charioteer, glorious and the one who should be able to face the war courageously.

In case the son of the god is selected then he should be all virtuous. In case the son of an ascetic is selected then he should be well-versed in all the four Vedas, the best orator, a deep thinker and should be the one following all the principles. On listening to the words of the king, Satananda, the son of Gautama who was well- versed in the Vedas and never spoke anything otherwise, the best of orators, well-read, quite a religious one, the family priest and the one who know all the tattvas on earth and was quite efficient in performing all the deeds, spoke to the Satananda said- O king, you are well-versed in all the religious practices and the religious scriptures, I am going to narrate to you and old story of the Vedas which you kindly listen.

Narayana himself has incarnated on earth in order to relieve her of the burden. O lord, the son of Vasudeva complete in all respect, is the creator of Brahma, adored by Siva, Ananta and others, the form of eternal flame, the best of all, the one who takes to human form for the sake of his devotees, the soul of all the creatures, beyond Prakrti, unattached, uninvolved and the witness of all the deeds.

O best of the kings, by offering your daughter to him you would go to Goloka together with hundreds of your ancestors. By giving away the daughter to him, you would achieve moksa after death, enjoying all the pleasures on earth.

You give away RukminI, the form of MahalaksmI to him with the best of offering. O virtuous one, by doing so you will never have to be reborn on earth.

O king, this relationship has already been ordained by Brahma, therefore, you send a Brahmana to Dvaraka to meet Krsna in this connection quite expeditiously. After consulting all, settling, about the auspicious time, you call for Krsna the supreme soul, who has taken to human form in order to grace his devotees. O king, at the mere sight of Krsna, the deeds of the human being performed during the past birth get xT HFT ll^SRTlwq;i WltER: I The supreme soul who is adored by all the Vedas, the sages, the gods, the siddhas, the mendicant and Brahma do not know him truly, the one who is adored by the great yogis with deep meditation but are unable to achieve him.

By reciting whose glory even Sarasvatl becomes dumb. Even the Vedas, scriptures, Sesa with hundred hoods, Siva with five face, Brahma with four faces, Karttikeya with six faces, the sages, devotees and the Vaisnavas are unable to recite his glory and are unable to achieve him. He is beyond the yogis and the siddhas, O king, what can 1 speak about his qualities, being merely a boy? On hearing the words of Satananda, the face of the king became delightful, he stood up with force and embraced the Brahmana. The king then with the delightful mind presented him with elephants, horses, the best of chariot studded with gems, the charming lion throne, enough of riches and the land which produced several types of cereals remained wet with the rain water and producer enough of cereals when ploughed. He therefore gave away in charities several villages with cultivative lands. In the meantime, Rukml the son of the king felt

enraged since he was quite irreligious, he started trembling, his face and eyes became red.

Becoming unstable, he stood before all the members present there and spoke to his father as well as the Brahmana.

Rukml said- O great king, you listen to my beneficial, taithful and praise-worthy words, you should not care for the words of the beggar, the greedy and the people filled with anger.

iizchHt cFifxRW^i Because the words of the dancers, the Vaisyas, bards, the beggars, kayasthas and the beggars are always full of falsehood. The words of messengers, a actors, lustful, passionate, pauper and the foolish are always filled with O valorous one, the terrified Krsna deceitfully took away the riches of Kalayavana and than killed him.

Krsna is known as the wealthy person in Dvaraka. He has built his house in the sea-bed, getting terrified from Jarasandha.

I am myself competent enough to kill hundreds of Jarasandhas playfully in a moment, what to speak of others kings.

I am the pupil of Durvasa and am well-versed in the welfare. O Bhismaka, I am therefore quite competent enough to kill the entire universe in a Only Parasurama and my friend Sisupala could be equated with my prowess. Both of them are competent enough to conquer the heaven.

I am competent enough to over-power Indra in a movement with his entire army. O king, by conquering Jarasandha in the battle-fields Krsna has become arrogant and considers himself quite valorous by means of his own intelligence. In case he passes through my village for the purpose of marriage then I will surely dispatch him to the abode of Yama. You intend to give away RukminI in marriage at the instance of the beggar Brahmana, to Krsna the son of Nanda the cowherd, who got his cows grazed by him, he is the one who is the lover of the cowherdesses and used to eat the left-over of the cowherds. O great king, you are devoid of wisdom because you want to act on the advise of a weal person. Krsna is neither a prince nor a valorous one or bom in a spotless family. He is neither auspicious nor the giver of charity, nor a rich person or well O king, you give your daughter to ^isupala who is bom of good family who had satisfied

Siva with his prowess and is the son of great You immediately send imitation letters to all the kings in several countries besides the relatives and the sages.

You despatched the letters of invitation to Valkala, Ratadesa, the best of Varigadesa, Virat, Kharvadesa and Durgadesa, by sending Brahmana there. You should arrange for a thousand canals of ghee, a thousand canals of honey, a thousand of curd and a thousand of milk besides five hundred canals of oil, two lake canals of GUI, five hundred heaps of sugar, two thousand heaps of sweet and hundred heaps of the wheat-flour, four lakes heaps of boiled paddy, the four lake heaps of cereals, a lake of mbies and an equal number of tortoise, ten lakes of he-goats and four times the number of sheep, the sacrifice should be offered to the village goddess with devotion, the cooked meat of the animal should be got ready. The vegetables should also be collected in large number.

M WRRmra IJW #iRRifWRR;i After listening to the words of Rukml, the king consulted in secrecy the family priest, he than sent a competent Br^hmana to Dvaraka and keeping in view the auspicious time, the king arranged for the festivities, as desired by his son the king despatched invitation letters to several places. The Brahmana presented the welfare letter to the king who was seated in the assembly of the kings and gods, named Sudharma. Coming to know about the welfare letter, the face of the king was delighted. He delightfully gave away to the Brahmanas a thousand gold coins.

The big dmms were beaten in the whole of Dvaraka, the gods, the sages, the kings, the relatives, the bards, the beggars were served with food with devotion. Sri Krsna was clad in the best of garments which were quite channing and incomparable in the three worlds. Thereafter the marriage procession was taken but to be the best is the three worlds. During the marriage procession the hymns from the Vedas were recited, starting in the Mahendra-yoga. Brahma together with Savitri were mounted on a chariots cind moved ahead of all. The delightful Siva with Parvatl also moved on the chariot, followed by the Moon, Vanina, Va3m, Kubera, Yama, Agni and Isana, The three crores of gods, six crores of the sages, six lakhs of king and three lakhs of white chatras were carried in the procession.

In the meantime the king appeared glorious like the moon among the constellations. The valorous king delightfully moved towards The valorous Baladeva was mounted on a gem-studded vehicle. Then Vasudeva, Uddhava, Nanda, Akrura, Satyaki, the cowherds, the king Yadavas, the king of the lunar race, Duryodhana and others besides Dhrtarastra also moved on.

Then Yudhisthira, Bhima, Arjuna, Nakula and Sahadeva moved on delightfully in a vehicle.

Kipacarya, Sakuni and Salya moved on delightfully, three crores of warriors, hundreds crores of Brahmanas, a thousand ascetics, yogis and Brahmacdrls also moved on with the Two thousand sages who had controlled their anger, the Avadhittas also moved on together with a thousand carriers of the lotus flowers and a thousand carriers of the other flowers also moved on. Many of the artisans who could create beautiful paintings also moved on. The processions had a lakh of musical instruments as lakh of Gandharva and the singers. O Narada, during that of the time you were bom as Gandharva named Upabarhana moving with fifty damsels. The procession also included a lakh of VidyadharTs, a lakh of apsaras, a lakh of Kiniiaras and three lakh of Gandharvas

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 405266 (2024-12-12T16:10:05Z); Shanti Lal Nagar English scan pages n1561–n1568: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1561/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.