Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 104

Chapter 104

Unit 247 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 104Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 1041 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 104

Source

अथ चतुरधिकशततमोऽध्यायः नारायण उवाच एतस्मिन्नन्तरे ब्रह्मा भवान्या च भवः स्वयम् । अनन्तश्चापि धर्मश्च भास्करश्च हुताशनः ।। १ ।। कुबेरो वरुणश्चैव पवनश्च यमस्तथा । महेन्द्रश्चपि चन्द्रश्च रुद्राश्चैकादशैव ते ।। २ ।। अन्ये देवाश्च मुनयो वसवः सप्त एव च । आदित्याश्चापि दैत्याश्च गन्धर्वाः किन्नरास्तथा ।। ३ ।। आययुर्द्वारकां द्रष्टुं श्रीकृष्णं च बलं तथा । आगच्छन्तं च सहसा वटमूलं मनोहरम् ।। ४ ।। दृष्ट्वा च देवताः सर्वास्तुष्टुवुः पुरुषोत्तमम् । आकाशाच्च विमानैश्च संप्राप्य वटमूलकम् ।। ५ ।। ददृशुर्द्वारकां रम्यामतीव सुमनोहरम् । मुक्तामाणिक्यहीरेणा रत्नराजिविराजिताम् ।। ६ ।। परितश्चतुरस्रां च शतयोजनसंमिताम् । सप्तभिः परिखाभिश्च गम्भीराभिश्च वेष्टिताम् ।। ७ ।। प्राकारैर्नवभिर्युक्तां लक्षैः क्रीडासरोवरैः । मनोहरैः सपद्मैश्च सहितैश्च मधुव्रतैः ।। ८ ।। शोभितां सर्वतोभद्रैः पुष्पोद्यानत्रिलक्षकैः । प्रफुल्लपुष्पैः पवनैः सर्वत्र सुरभीकृताम् ।। ९ ।। आमोदितां च शीतेन मन्दचन्दनवायुना । तरुभिर्नारिकेलाणां शोभितां शतकोटिभिः ।। १० ।। गुवाकानां च वृक्षैश्च भूषितां तच्चतुर्गुणैः । चतुर्गुणैर्गुवाकानां युक्तामाम्रमहीरुहैः ।। ११ ।। परीतां पनसानां च वृक्षैराम्रसमैर्मुने । सुशोभितां च तालानां द्रुमैराम्रसमैर्मुने ।। १२ ।। अश्वत्थैर्बदरीभिश्च बिल्वैराम्रातकैर्वटैः । शाल्मलीभिश्च जम्बूभिः कदम्बैश्चापि शोभिताम् ।। १३ ।। वंशैश्च तिन्तिडीभिश्च चम्पकैर्बकुलैस्तथा । नागेश्वरैर्नागरङ्गैर्जम्बीरैर्दाडिमैर्युताम् ।। १४ ।। खर्जुरैरर्जुनैः पिष्टैरिक्षुभिः काञ्चनैरपि । हरीतकीभिर्धात्रीभिरिन्दुभिः परितः प्लुताम् ।। १५ ।। शालैः प्रियालैर्हिन्तालैः शिरीषैः सप्तपर्णकैः । अन्यैर्नानाद्रुमैरिष्टैरिष्टां युक्तां परिप्लुताम् ।। १६ ।। असंख्यैर्मन्दिरै रम्यैरत्युच्चैरपि संस्कृताम् । रत्नेन्द्रसारनिर्माणैर्मुक्तामाणिक्यभूषितैः ।। १७ ।। माणिक्यहीरकैश्चित्रैः सद्रत्नकलशान्वितैः । मणिभिर्निर्मितैरिष्टैः सोपाननिकरैर्वरैः ।। १८ ।। कपाटैः कठिनैर्दव्यैरर्गलाकीलकैर्युताम् । हरिन्मणीनां स्तम्भानां कदम्बैरपि संयुतैः ।। १९ ।। नानाचित्रैर्विचित्रैश्च सुचित्रैश्च परिष्कृतैः । दर्पणैः सूक्ष्मवस्त्रैश्च शोभितैः श्वेतचामरैः ।। २० ।। प्राङ्गणैः पद्मरागाद्यरिन्द्रनीलपरिष्कृताम् । वीथीभी रत्नखचितैराजमार्गैः समन्विताम् ।। २१ ।। ग्रीष्मध्याह्नसूर्याभां ज्वलितां रत्नतेजसा । गवाक्षलक्षैः संयुक्तां वाजिशालापरिष्कृताम् ।। २२ ।। दृष्ट्वा च द्वारकां रम्यां ते देवा विस्मयं ययुः । प्रसन्नवदनो देवो लाङ्गली भगवानजः ।। २३ ।। सस्मार यदुवंशानां समूहमुग्रसेनकम् । वसुदेवं देवकीं च पाण्डवांश्च समातृकान् ।। २४ ।। नन्दं यशोदां गोपालान्राजेन्द्रमुनिपुंगवाम् । गन्धर्वान्किन्नरांश्चैव सहितो यदुपुंगवैः ।। २५ ।। नन्दो यशोदा गोपाश्च जनन्या सह पाण्डवाः । गन्धर्वाः किन्नराश्चैव विद्याधर्यश्च नारद ।। २६ ।। किन्नर्यश्चापि नर्तक्यो गायका वाद्यभाण्डकाः । भिक्षुका भाण्डकाश्चैव भट्टाश्चगणकास्तथा ।। २७ ।। नानादेशो द्भवा भूपा वैद्याश्चान्ये च मानवाः । संन्यासिनश्च यतयोऽवधूता ब्रह्मचारिणः ।। २८ ।। आययुर्मुनयः सर्वे सशिष्याः सिद्धपुंगवाः । सनकश्च सनन्दश्च त्तीयश्च सनातनः ।। २९ ।। सनत्कुमारो भगवाञ्ज्ञानिनां च गुरोर्गुरुः । शिष्यैस्त्रिकोटिभिः सार्ध पञ्चवर्षा दिगम्बरः ।। ३० ।। शिष्यैस्त्रिलक्षैः सहितो दुर्वासा भगवानजः । लक्षशिष्यैः कश्यपश्च वाल्मीकिश्च त्रिलक्षकैः ।। ३१ ।। लक्षशिष्यैर्गौ तमश्च कौटिभिश्च बृहस्पतिः । शुक्रस्त्रिकोटिभिः सार्ध भरद्वाजश्च लक्षकैः ।। ३२ ।। शिष्यैस्त्रिकोटिभिः सार्धमङ्गिरा भगवानजः । वसिष्ठः कोटिभिः शिष्यैः प्रचेताः कोटिभिस्तथा ।। ३३ ।। त्रिलक्षैश्च पुलस्त्यश्चाप्यगस्त्यः कोटिभिः सह । पुलहो लक्षशिष्यैश्च क्रतुर्लक्षैस्थैव च ।। ३४ ।। अत्रिस्त्रिकोटिभिः शिष्यैर्भृगुश्च पञ्चकोटिभिः । त्रिकोटिभिर्मरीचिश्च शतानन्दः सहस्रकैः ।। ३५ ।। सार्ध त्रिकोटिभिः शिष्यैर्ऋष्यशृङ्गो विभाण्डकः । पापिनिः कोटिभिः शिष्यैर्लक्षैः कात्यायनस्तथा ।। ३६ ।। याज्ञवल्क्यः सहस्रैश्च व्यासः शिष्यत्रिकोटिभिः । शिष्यैर्लक्षैश्च सहितो गर्गः कुलपुलोहितः ।। ३७ ।। गालवश्च सहस्रैश्च सहसैः सौभरिस्तथा । त्रिकोटिभिर्लोमशश्च मार्कण्डेयस्त्रिकोटिभिः ।। ३८ ।। कोटिभिर्वामदेवश्च जैगीषव्यस्त्रिकोटिभिः । सांदीपनिर्देवलश्च सच्छिष्यैश्च त्रिकोटिभिः ।। ३९ ।। वोढुः शिष्यैः कोटिभिश्च लक्षैः पञ्चशिखस्तथा । अहं नारायणश्चैव नरो मम सहोदरः ।। ४० ।। शिष्यैस्त्रिकोटिभिः सार्धं विश्वामित्रश्च कोटिभिः । त्रिकोटिभिर्जरत्कारुरास्तीकश्च त्रिकोटिभिः ।। ४१ ।। त्रिकोटिभिः पर्शुरामो वत्सो लक्षैश्च शिष्यकैः । दक्षस्त्रिलक्षैः शिष्यैश्च कपिलः पञ्चकोटिभिः ।। ४२ ।। संवर्तश्च त्रिलक्षैश्चाप्युतथ्यश्च तथैव च । सहस्रैर्जैमिनिश्चैव पैलो लक्षैस्तथैव च ।। ४३ ।। सुवणंश्च सहस्रैश्च वैशम्पायन एव च । शिष्यैर्लक्षैः समेतश्च व्यासशिष्यः पुरोगमः ।। ४४ ।। लक्षैः शिष्यैस्तथा शृङ्गी चोपमन्युस्तथैव च । सहस्रैश्च गौरमुखः कचो लक्षैर्गुरोः सुतः ।। ४५ ।। अश्वत्थामा तथा द्रोणः कृपाचार्यः सशिष्यकः । भीष्मः कर्णश्च शकुनी राजा दुर्योधनस्तथा ।। नृपस्य भ्रातरः सर्वे चान्ये भूपा जगद्गुरुम् ।। ४६ ।। श्रीभगवानुवाच शुभकर्मणि निष्पन्ने यास्यन्ति ये समागताः । शिवब्रह्मादयो देवा मुनयश्च तथाऽपरे ।। ४७ ।। भवाश्च यादवैः सार्धं प्रविश द्वारकां पुरीम् । मत्पित्रा मातृभिः सार्ध माहेन्द्रे च क्षणे नृप ।। ४८ ।। अपरे यदवोऽन्ये च यास्यन्ति मथुरां पुरीम् । श्रुत्वेति विरसो राजा तमुवाच भयाकुलः ।। ४९ ।। उग्रसेन उवाच वासुदेव न यास्यामि भूमिं तां पैतृकीं पुनः । सर्वतीर्थपरां शुद्धां दैवे कर्मणि पैतृके ।। ५० ।। पावके भूमिदेशे च पितॄणां निर्वपेत्तु यः । तद्भूमिः स्वामिपितृभिः श्राद्धकर्मणि हन्यते ।। ५१ ।। पितॄणां निष्फलं श्राद्धं देवानामपि पूजनम् । किंचित्फलप्रदं चैव संपूर्णे पैतृके स्थले ।। ५२ ।। पुत्रपौत्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा । दुर्लभा पैदृकी भूमिः पितुर्मातुर्गरींयसी ।। ५३ ।। तत्सत्यं च पवित्रं च दैवे कर्मणि पैतृके । क्रीडां च दत्ते दानं च परदत्तमशुद्धकम् ।। ५४ ।। म्रियते पैतृकीभूम्यं तीर्थतुल्यफलं लभेत् । गङ्गाजलसमं पूतं पतृखातोदकं हरे ।। ५५ ।। तत्र स्नात्वा जले पूते गङ्गास्नानफलं लभेत् । पितणां तर्पणां तत्र पवित्रं देवपूजनम् ।। ५६ ।। पैतृकी जन्मभूमिश्चेद्द्विगुणं तत्फलं लभेत् । पैतृकीभूमितुल्याच दानभूमिः सतामपि ।। ५७ ।। वासुदेव उवाच भोगास्ते वचनं किं वा निषेकः केन वार्यंते । पैतृकी तीर्थतुल्या सा किं तीर्थं द्वारकापरम् ।। ५८ ।। सर्वतीर्थपरा श्रेष्ठा द्वारका बहपुण्यदा । यस्याः प्रवेशमात्रेण नराणां जन्मखण्डनम् ।। ५९ ।। दानं च द्वारकायां च श्राद्धं च देवपूजनम् । चतुर्गुणं च तीर्थानां गङ्गादीनां च भूमिप ।। ६० ।। गच्छ ब्रह्मदिभिः सार्ध मुनिभिर्यादवैः सह । राजेन्द्रभवनं तत्र गृहाणां सादरं पुनः ।। ६१ ।। करोति शश्वन्न्यक्कारं महेन्द्रस्यामरावतीम् । निवस त्वं सुधर्मायां माहेन्द्रे च क्षणे नृप ।। ६२ ।। जम्बुद्वीपस्थिता भूपा राजेन्द्रमण्डलेश्वराः । करं दास्यन्ति तुभयं च महेन्द्राय सुरा यथा ।। ६३ ।। भूयाज्जितः कुबेरश्च धनेन धनसंपदा । तेजसा भास्करश्चापि महेन्द्रः संपदः तथा ।। ६४ ।। देवा जिता रणेनैव पुण्येन मुनयो जिताः । तपस्विनश्य तपसा व्रतीनश्च व्रतेन च ।। ६५ ।। उग्रसेनसमो राजा न भूतो न भविष्यति । सभायां यस्य भगवान्बलदेवो महाबलः ।। ६६ ।। विश्वं च यस्य शिरसां सहस्राणं नरेश्वर । एकस्मिञ्शिरसि न्यस्तं शूर्पे च सर्षपो यथा ।। ६७ ।। न ह्यनन्तसमो देवो बलेन बलवत्तरः । यद्गुणानां च नास्त्यन्तस्तेनानन्तं जगुर्बुधाः ।। ६८ ।। वसवोऽष्टौ महाभागा रुद्राश्च शंकरं विना । बलिनो द्वादशादित्या महेन्द्रश्च सुरैः समः ।। ६९ ।। न समर्था ध्रुवं जेतुमुग्रसेनं नृपेश्वरम् । कृष्णस्य वचनं श्रुत्वा प्रसन्नवदनो नृपः ।। ७० ।। प्रययौ यादवैः सार्ध महेन्द्रभवनात्परम् । स्वालयं द्वारकामध्ये ज्वलन्तं मणितेजसा ।। ७१ ।। सहस्रैद्वरिपालैश्च शूलिभिर्दण्डहस्तकैः । नियुक्तै रक्षितं द्वारं ददर्श मानवेश्वरः ।। ७२ ।। अभ्यन्तरे च शिबिरं द्वारेभ्यः षड्भ्य एव च । मन्दिराणां च शतकै रत्नानां परिभूषणम् ।। ७३ ।। कोटिं मत्तगजेन्द्राणां ददर्श गजमन्दिरे । चतुर्युगं गजौघं गजानां षड्गुणं तथा ।। ७४ ।। महाबलांश्च तुरगान्सूर्याश्वं च हसन्ति ये । गजेन्द्रराजं सर्वेषां वाहनानामपीश्वरम् ।। ७५ ।। हसत्यैरावतं शश्वन्महेन्द्रस्य च नारद । अत्युच्चैरुच्चैःश्रवमां ददर्श कोटिमीप्सितम् ।। ७६ ।। खराणां दशकोटिं च पादातं षड्गुणं तथा । निर्माणं रत्नसाराणां तथानां पञ्चलक्षकम् ।। ७७ ।। पञ्चलक्षं सारथीनां तत्राश्वं षड्गुणं तथा । अश्ववाटं तत्समं च सुधर्मां च सभामपि ।। ७८ ।। ददर्शाम्यन्तरे रम्ये देवौघमुनिसंयुताम् । वह्निशुद्धाशुकै रम्यैर्भूषितां रक्तकम्बलैः ।। ७९ ।। रत्नसिंहासनै रम्यैर्भूषितां रक्तपिङ्गलैः । अमूल्यरत्ननिर्माणवीथीनां तेजसोज्ज्वलाम् ।। ८० ।। वेष्टितां च महाभीतैः किंकरैः शतकोटिभिः । प्रविवेश सभां रम्यां श्रुत्वा शङ्खध्वनिं शुभम् ।। ८१ ।। वाद्यं च दुंदुभीनां च मुनीनां वेदमन्त्रकम् । दृष्ट्वा नृपं समुत्तस्थौ वेगेन सबलो हरिः ।। ८२ ।। ब्रह्मा महेश्वरश्चैव शेषश्च देवपुंगवाः । समुत्तस्थुः सुराः सर्वे मुनयश्च महाव्रताः ।। ८३ ।। राजेन्द्राश्चापि सिद्धेन्द्रा वसुदेवपुरोगमाः । रत्नसिंहासने रम्ये चोग्रसेनो महाबलः ।। ८४ ।। समुवास महेन्द्रस्य मुनीनामाज्ञया हरेः । देवानां च गुरूणां च गर्गस्यापि तथैव च ।। ८५ ।। सप्ततीर्थोदकेनैव पूर्णकुम्भेन नारद । जकार वेदमन्त्रैश्च नृपस्याप्यभिषेचनम् ।। ८६ ।। तस्मै वस्त्रयुगं दत्तं वह्निशुद्धं मनोहरम् । वरुणेन पुरा दत्तं कृष्णाय परमात्मने ।। ८७ ।। माल्यं च पारिजातानां चन्दनं रत्नभूषणम् । रत्नच्छत्रं ददौ तस्मै बलदेवो महाबलः ।। ८८ ।। ब्रह्मा कमण्डलुं चैव शूलं चापि महेश्वरः । पार्वती रत्नमाल्यं च हारं च मालती सती ।। ८९ ।। अन्ये देवाश्च मुनयो राजेन्द्राः सिद्धपुंगवाः । यौतकं च ददौ तस्मै क्रमेण च पृथक्पृथक् ।। ९० ।। वसुदेवो ददौ तस्मै शुभदं श्वेतचामरम् । पवनेन पुरा दत्तं कृष्णाय परमात्मने ।। ९१ ।। नन्दो ददौ च सुरभिं कामधेनुं च पूजिताम् । यशोदा देवकी तस्मै रत्नश्रेष्ठं ददौ मुदा ।। ९२ ।। सप्तभिः किंकरैश्चापि सैवितः श्वेतचामरैः । दधार च्छत्रमक्रूरो भक्त्या चैवाऽऽज्ञया हरेः ।। ९३ ।। रत्नसिहासने रम्ये ददर्श रत्नदर्पणम् । अतीव पुण्यावाप्यं च हरिणां च पुरस्कृतः ।। ९४ ।। चक्रुः स्तुतिं च भट्टाश्च भिङुका ब्राह्मणास्तथा । ददुः शुभाशिषं तस्मै देवाश्च मुनयस्तथा ।। ९५ ।। ब्रह्मणेम्यो ददौ राजा रत्नकोटिं च भक्ततः । भट्टभ्यो रत्नशतकं भिक्षुकेम्यस्तथैव च ।। ९६ ।। अभिषिच्य नृपेन्द्रं च देवांश्च मुनिपुंगवान् । संपूज्य ब्राह्मणांश्चापि भट्टान्भिक्षुं द्विजं गुरुम् ।। ९७ ।। स्वालयं च ययुः सर्वे यादवाश्च मुदाऽन्विताः । ये ये हरेः पार्षदाश्च ते सर्वे स्वालयं ययुः ।। ९८ ।। प्रभाते चाऽऽययुः सर्वे सुधर्मा च सभां हरेः । नमस्कृत्य नृपेन्द्रं च चोषुः सर्वे च संसदि ।। ९९ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo द्वारकाप्रवेश उग्रसेनाभिषेको नाम चतुरधिकशततमोऽध्यायः ।। १०४ ।।

atha caturadhikaśatatamo'dhyāyaḥ nārāyaṇa uvāca etasminnantare brahmā bhavānyā ca bhavaḥ svayam | anantaścāpi dharmaśca bhāskaraśca hutāśanaḥ || 1 || kubero varuṇaścaiva pavanaśca yamastathā | mahendraścapi candraśca rudrāścaikādaśaiva te || 2 || anye devāśca munayo vasavaḥ sapta eva ca | ādityāścāpi daityāśca gandharvāḥ kinnarāstathā || 3 || āyayurdvārakāṃ draṣṭuṃ śrīkṛṣṇaṃ ca balaṃ tathā | āgacchantaṃ ca sahasā vaṭamūlaṃ manoharam || 4 || dṛṣṭvā ca devatāḥ sarvāstuṣṭuvuḥ puruṣottamam | ākāśācca vimānaiśca saṃprāpya vaṭamūlakam || 5 || dadṛśurdvārakāṃ ramyāmatīva sumanoharam | muktāmāṇikyahīreṇā ratnarājivirājitām || 6 || paritaścaturasrāṃ ca śatayojanasaṃmitām | saptabhiḥ parikhābhiśca gambhīrābhiśca veṣṭitām || 7 || prākārairnavabhiryuktāṃ lakṣaiḥ krīḍāsarovaraiḥ | manoharaiḥ sapadmaiśca sahitaiśca madhuvrataiḥ || 8 || śobhitāṃ sarvatobhadraiḥ puṣpodyānatrilakṣakaiḥ | praphullapuṣpaiḥ pavanaiḥ sarvatra surabhīkṛtām || 9 || āmoditāṃ ca śītena mandacandanavāyunā | tarubhirnārikelāṇāṃ śobhitāṃ śatakoṭibhiḥ || 10 || guvākānāṃ ca vṛkṣaiśca bhūṣitāṃ taccaturguṇaiḥ | caturguṇairguvākānāṃ yuktāmāmramahīruhaiḥ || 11 || parītāṃ panasānāṃ ca vṛkṣairāmrasamairmune | suśobhitāṃ ca tālānāṃ drumairāmrasamairmune || 12 || aśvatthairbadarībhiśca bilvairāmrātakairvaṭaiḥ | śālmalībhiśca jambūbhiḥ kadambaiścāpi śobhitām || 13 || vaṃśaiśca tintiḍībhiśca campakairbakulaistathā | nāgeśvarairnāgaraṅgairjambīrairdāḍimairyutām || 14 || kharjurairarjunaiḥ piṣṭairikṣubhiḥ kāñcanairapi | harītakībhirdhātrībhirindubhiḥ paritaḥ plutām || 15 || śālaiḥ priyālairhintālaiḥ śirīṣaiḥ saptaparṇakaiḥ | anyairnānādrumairiṣṭairiṣṭāṃ yuktāṃ pariplutām || 16 || asaṃkhyairmandirai ramyairatyuccairapi saṃskṛtām | ratnendrasāranirmāṇairmuktāmāṇikyabhūṣitaiḥ || 17 || māṇikyahīrakaiścitraiḥ sadratnakalaśānvitaiḥ | maṇibhirnirmitairiṣṭaiḥ sopānanikarairvaraiḥ || 18 || kapāṭaiḥ kaṭhinairdavyairargalākīlakairyutām | harinmaṇīnāṃ stambhānāṃ kadambairapi saṃyutaiḥ || 19 || nānācitrairvicitraiśca sucitraiśca pariṣkṛtaiḥ | darpaṇaiḥ sūkṣmavastraiśca śobhitaiḥ śvetacāmaraiḥ || 20 || prāṅgaṇaiḥ padmarāgādyarindranīlapariṣkṛtām | vīthībhī ratnakhacitairājamārgaiḥ samanvitām || 21 || grīṣmadhyāhnasūryābhāṃ jvalitāṃ ratnatejasā | gavākṣalakṣaiḥ saṃyuktāṃ vājiśālāpariṣkṛtām || 22 || dṛṣṭvā ca dvārakāṃ ramyāṃ te devā vismayaṃ yayuḥ | prasannavadano devo lāṅgalī bhagavānajaḥ || 23 || sasmāra yaduvaṃśānāṃ samūhamugrasenakam | vasudevaṃ devakīṃ ca pāṇḍavāṃśca samātṛkān || 24 || nandaṃ yaśodāṃ gopālānrājendramunipuṃgavām | gandharvānkinnarāṃścaiva sahito yadupuṃgavaiḥ || 25 || nando yaśodā gopāśca jananyā saha pāṇḍavāḥ | gandharvāḥ kinnarāścaiva vidyādharyaśca nārada || 26 || kinnaryaścāpi nartakyo gāyakā vādyabhāṇḍakāḥ | bhikṣukā bhāṇḍakāścaiva bhaṭṭāścagaṇakāstathā || 27 || nānādeśo dbhavā bhūpā vaidyāścānye ca mānavāḥ | saṃnyāsinaśca yatayo'vadhūtā brahmacāriṇaḥ || 28 || āyayurmunayaḥ sarve saśiṣyāḥ siddhapuṃgavāḥ | sanakaśca sanandaśca ttīyaśca sanātanaḥ || 29 || sanatkumāro bhagavāñjñānināṃ ca gurorguruḥ | śiṣyaistrikoṭibhiḥ sārdha pañcavarṣā digambaraḥ || 30 || śiṣyaistrilakṣaiḥ sahito durvāsā bhagavānajaḥ | lakṣaśiṣyaiḥ kaśyapaśca vālmīkiśca trilakṣakaiḥ || 31 || lakṣaśiṣyairgau tamaśca kauṭibhiśca bṛhaspatiḥ | śukrastrikoṭibhiḥ sārdha bharadvājaśca lakṣakaiḥ || 32 || śiṣyaistrikoṭibhiḥ sārdhamaṅgirā bhagavānajaḥ | vasiṣṭhaḥ koṭibhiḥ śiṣyaiḥ pracetāḥ koṭibhistathā || 33 || trilakṣaiśca pulastyaścāpyagastyaḥ koṭibhiḥ saha | pulaho lakṣaśiṣyaiśca kraturlakṣaisthaiva ca || 34 || atristrikoṭibhiḥ śiṣyairbhṛguśca pañcakoṭibhiḥ | trikoṭibhirmarīciśca śatānandaḥ sahasrakaiḥ || 35 || sārdha trikoṭibhiḥ śiṣyairṛṣyaśṛṅgo vibhāṇḍakaḥ | pāpiniḥ koṭibhiḥ śiṣyairlakṣaiḥ kātyāyanastathā || 36 || yājñavalkyaḥ sahasraiśca vyāsaḥ śiṣyatrikoṭibhiḥ | śiṣyairlakṣaiśca sahito gargaḥ kulapulohitaḥ || 37 || gālavaśca sahasraiśca sahasaiḥ saubharistathā | trikoṭibhirlomaśaśca mārkaṇḍeyastrikoṭibhiḥ || 38 || koṭibhirvāmadevaśca jaigīṣavyastrikoṭibhiḥ | sāṃdīpanirdevalaśca sacchiṣyaiśca trikoṭibhiḥ || 39 || voḍhuḥ śiṣyaiḥ koṭibhiśca lakṣaiḥ pañcaśikhastathā | ahaṃ nārāyaṇaścaiva naro mama sahodaraḥ || 40 || śiṣyaistrikoṭibhiḥ sārdhaṃ viśvāmitraśca koṭibhiḥ | trikoṭibhirjaratkārurāstīkaśca trikoṭibhiḥ || 41 || trikoṭibhiḥ parśurāmo vatso lakṣaiśca śiṣyakaiḥ | dakṣastrilakṣaiḥ śiṣyaiśca kapilaḥ pañcakoṭibhiḥ || 42 || saṃvartaśca trilakṣaiścāpyutathyaśca tathaiva ca | sahasrairjaiminiścaiva pailo lakṣaistathaiva ca || 43 || suvaṇaṃśca sahasraiśca vaiśampāyana eva ca | śiṣyairlakṣaiḥ sametaśca vyāsaśiṣyaḥ purogamaḥ || 44 || lakṣaiḥ śiṣyaistathā śṛṅgī copamanyustathaiva ca | sahasraiśca gauramukhaḥ kaco lakṣairguroḥ sutaḥ || 45 || aśvatthāmā tathā droṇaḥ kṛpācāryaḥ saśiṣyakaḥ | bhīṣmaḥ karṇaśca śakunī rājā duryodhanastathā || nṛpasya bhrātaraḥ sarve cānye bhūpā jagadgurum || 46 || śrībhagavānuvāca śubhakarmaṇi niṣpanne yāsyanti ye samāgatāḥ | śivabrahmādayo devā munayaśca tathā'pare || 47 || bhavāśca yādavaiḥ sārdhaṃ praviśa dvārakāṃ purīm | matpitrā mātṛbhiḥ sārdha māhendre ca kṣaṇe nṛpa || 48 || apare yadavo'nye ca yāsyanti mathurāṃ purīm | śrutveti viraso rājā tamuvāca bhayākulaḥ || 49 || ugrasena uvāca vāsudeva na yāsyāmi bhūmiṃ tāṃ paitṛkīṃ punaḥ | sarvatīrthaparāṃ śuddhāṃ daive karmaṇi paitṛke || 50 || pāvake bhūmideśe ca pitṝṇāṃ nirvapettu yaḥ | tadbhūmiḥ svāmipitṛbhiḥ śrāddhakarmaṇi hanyate || 51 || pitṝṇāṃ niṣphalaṃ śrāddhaṃ devānāmapi pūjanam | kiṃcitphalapradaṃ caiva saṃpūrṇe paitṛke sthale || 52 || putrapautrakalatrebhyaḥ prāṇebhyaḥ preyasī sadā | durlabhā paidṛkī bhūmiḥ piturmāturgarīṃyasī || 53 || tatsatyaṃ ca pavitraṃ ca daive karmaṇi paitṛke | krīḍāṃ ca datte dānaṃ ca paradattamaśuddhakam || 54 || mriyate paitṛkībhūmyaṃ tīrthatulyaphalaṃ labhet | gaṅgājalasamaṃ pūtaṃ patṛkhātodakaṃ hare || 55 || tatra snātvā jale pūte gaṅgāsnānaphalaṃ labhet | pitaṇāṃ tarpaṇāṃ tatra pavitraṃ devapūjanam || 56 || paitṛkī janmabhūmiśceddviguṇaṃ tatphalaṃ labhet | paitṛkībhūmitulyāca dānabhūmiḥ satāmapi || 57 || vāsudeva uvāca bhogāste vacanaṃ kiṃ vā niṣekaḥ kena vāryaṃte | paitṛkī tīrthatulyā sā kiṃ tīrthaṃ dvārakāparam || 58 || sarvatīrthaparā śreṣṭhā dvārakā bahapuṇyadā | yasyāḥ praveśamātreṇa narāṇāṃ janmakhaṇḍanam || 59 || dānaṃ ca dvārakāyāṃ ca śrāddhaṃ ca devapūjanam | caturguṇaṃ ca tīrthānāṃ gaṅgādīnāṃ ca bhūmipa || 60 || gaccha brahmadibhiḥ sārdha munibhiryādavaiḥ saha | rājendrabhavanaṃ tatra gṛhāṇāṃ sādaraṃ punaḥ || 61 || karoti śaśvannyakkāraṃ mahendrasyāmarāvatīm | nivasa tvaṃ sudharmāyāṃ māhendre ca kṣaṇe nṛpa || 62 || jambudvīpasthitā bhūpā rājendramaṇḍaleśvarāḥ | karaṃ dāsyanti tubhayaṃ ca mahendrāya surā yathā || 63 || bhūyājjitaḥ kuberaśca dhanena dhanasaṃpadā | tejasā bhāskaraścāpi mahendraḥ saṃpadaḥ tathā || 64 || devā jitā raṇenaiva puṇyena munayo jitāḥ | tapasvinaśya tapasā vratīnaśca vratena ca || 65 || ugrasenasamo rājā na bhūto na bhaviṣyati | sabhāyāṃ yasya bhagavānbaladevo mahābalaḥ || 66 || viśvaṃ ca yasya śirasāṃ sahasrāṇaṃ nareśvara | ekasmiñśirasi nyastaṃ śūrpe ca sarṣapo yathā || 67 || na hyanantasamo devo balena balavattaraḥ | yadguṇānāṃ ca nāstyantastenānantaṃ jagurbudhāḥ || 68 || vasavo'ṣṭau mahābhāgā rudrāśca śaṃkaraṃ vinā | balino dvādaśādityā mahendraśca suraiḥ samaḥ || 69 || na samarthā dhruvaṃ jetumugrasenaṃ nṛpeśvaram | kṛṣṇasya vacanaṃ śrutvā prasannavadano nṛpaḥ || 70 || prayayau yādavaiḥ sārdha mahendrabhavanātparam | svālayaṃ dvārakāmadhye jvalantaṃ maṇitejasā || 71 || sahasraidvaripālaiśca śūlibhirdaṇḍahastakaiḥ | niyuktai rakṣitaṃ dvāraṃ dadarśa mānaveśvaraḥ || 72 || abhyantare ca śibiraṃ dvārebhyaḥ ṣaḍbhya eva ca | mandirāṇāṃ ca śatakai ratnānāṃ paribhūṣaṇam || 73 || koṭiṃ mattagajendrāṇāṃ dadarśa gajamandire | caturyugaṃ gajaughaṃ gajānāṃ ṣaḍguṇaṃ tathā || 74 || mahābalāṃśca turagānsūryāśvaṃ ca hasanti ye | gajendrarājaṃ sarveṣāṃ vāhanānāmapīśvaram || 75 || hasatyairāvataṃ śaśvanmahendrasya ca nārada | atyuccairuccaiḥśravamāṃ dadarśa koṭimīpsitam || 76 || kharāṇāṃ daśakoṭiṃ ca pādātaṃ ṣaḍguṇaṃ tathā | nirmāṇaṃ ratnasārāṇāṃ tathānāṃ pañcalakṣakam || 77 || pañcalakṣaṃ sārathīnāṃ tatrāśvaṃ ṣaḍguṇaṃ tathā | aśvavāṭaṃ tatsamaṃ ca sudharmāṃ ca sabhāmapi || 78 || dadarśāmyantare ramye devaughamunisaṃyutām | vahniśuddhāśukai ramyairbhūṣitāṃ raktakambalaiḥ || 79 || ratnasiṃhāsanai ramyairbhūṣitāṃ raktapiṅgalaiḥ | amūlyaratnanirmāṇavīthīnāṃ tejasojjvalām || 80 || veṣṭitāṃ ca mahābhītaiḥ kiṃkaraiḥ śatakoṭibhiḥ | praviveśa sabhāṃ ramyāṃ śrutvā śaṅkhadhvaniṃ śubham || 81 || vādyaṃ ca duṃdubhīnāṃ ca munīnāṃ vedamantrakam | dṛṣṭvā nṛpaṃ samuttasthau vegena sabalo hariḥ || 82 || brahmā maheśvaraścaiva śeṣaśca devapuṃgavāḥ | samuttasthuḥ surāḥ sarve munayaśca mahāvratāḥ || 83 || rājendrāścāpi siddhendrā vasudevapurogamāḥ | ratnasiṃhāsane ramye cograseno mahābalaḥ || 84 || samuvāsa mahendrasya munīnāmājñayā hareḥ | devānāṃ ca gurūṇāṃ ca gargasyāpi tathaiva ca || 85 || saptatīrthodakenaiva pūrṇakumbhena nārada | jakāra vedamantraiśca nṛpasyāpyabhiṣecanam || 86 || tasmai vastrayugaṃ dattaṃ vahniśuddhaṃ manoharam | varuṇena purā dattaṃ kṛṣṇāya paramātmane || 87 || mālyaṃ ca pārijātānāṃ candanaṃ ratnabhūṣaṇam | ratnacchatraṃ dadau tasmai baladevo mahābalaḥ || 88 || brahmā kamaṇḍaluṃ caiva śūlaṃ cāpi maheśvaraḥ | pārvatī ratnamālyaṃ ca hāraṃ ca mālatī satī || 89 || anye devāśca munayo rājendrāḥ siddhapuṃgavāḥ | yautakaṃ ca dadau tasmai krameṇa ca pṛthakpṛthak || 90 || vasudevo dadau tasmai śubhadaṃ śvetacāmaram | pavanena purā dattaṃ kṛṣṇāya paramātmane || 91 || nando dadau ca surabhiṃ kāmadhenuṃ ca pūjitām | yaśodā devakī tasmai ratnaśreṣṭhaṃ dadau mudā || 92 || saptabhiḥ kiṃkaraiścāpi saivitaḥ śvetacāmaraiḥ | dadhāra cchatramakrūro bhaktyā caivā''jñayā hareḥ || 93 || ratnasihāsane ramye dadarśa ratnadarpaṇam | atīva puṇyāvāpyaṃ ca hariṇāṃ ca puraskṛtaḥ || 94 || cakruḥ stutiṃ ca bhaṭṭāśca bhiṅukā brāhmaṇāstathā | daduḥ śubhāśiṣaṃ tasmai devāśca munayastathā || 95 || brahmaṇemyo dadau rājā ratnakoṭiṃ ca bhaktataḥ | bhaṭṭabhyo ratnaśatakaṃ bhikṣukemyastathaiva ca || 96 || abhiṣicya nṛpendraṃ ca devāṃśca munipuṃgavān | saṃpūjya brāhmaṇāṃścāpi bhaṭṭānbhikṣuṃ dvijaṃ gurum || 97 || svālayaṃ ca yayuḥ sarve yādavāśca mudā'nvitāḥ | ye ye hareḥ pārṣadāśca te sarve svālayaṃ yayuḥ || 98 || prabhāte cā''yayuḥ sarve sudharmā ca sabhāṃ hareḥ | namaskṛtya nṛpendraṃ ca coṣuḥ sarve ca saṃsadi || 99 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nārādanāo dvārakāpraveśa ugrasenābhiṣeko nāma caturadhikaśatatamo'dhyāyaḥ || 104 ||

English translation

Entry into Dvaraka and Crowning of Narayana said- In the meantime Brahma, Siva with BhavanI, Ananta, Dharma Stlrya, Agni, The city of Dvaraka had innumerable high palaces. All these were built with the best of gems in which the jewels, diamonds and other precious stones were studded. It had several vases made of gems. The steps also were made of gems, they had very strong doors with shutters. There were several pillars of rubies. The court-yards were decorated with sapphire and emeralds, the street were decorated with gems.

The roads were quite white, the entire city of Dvaraka was shining like the mid-day sun of the summer season. There were lakhs of window and horse stables, all the gods felt surprised while looking at the city of Dvaraka. Sri Krsna with a delightful mind together with Balarama and other respectable persons of the race of Yadu including Ugrasena, Vasudeva, Devaki, mothers of Pandavas, Nanda, Yasoda, cowherds besides the kings and the sages, Gandharvas and Kinnaras entered the city.

O Narada, at that point of time several people arrived before Sri Krsna including Nanda, Yasoda, cowherds, Pandavas with mothers, the dancers, the singers, the players of musical instruments the beggars, the bards, astrologers kings of several countries, the physician, human the sages with their pupils, siddhas in groups, Sanaka, Sananda Sanatana and Sanatkumara the teacher of the intellectuals, who always remained five year old and naked also arrived with three crores of his pupils.

fRRTtiSg): I The sage Durvasa, arrived with three lakhs of his pupils, Kasyapa with a lakhs of his pupils, Valmiki with three lakhs of his pupils, Gautama with one lakh of pupils, Brhaspati with three crores of pupils, Sukracarya with three crores of pupils, Bharadvaja with a lakh of pupils, Ahgira with three crores' of pupils, Vasistha and Praceta with a crore of pupils each. Atri with three crore of people, Bhrgu with five crores of pupils, Marici with three crores of people, Agastya with crores of pupils, Pulastya with three lakhs of pupils,. Pulaha and Kratu with a lakh of pupils each, Satananda with thousand of pupils, Vibhandaka Rsyas'rhga with three and a half crores of pupils, Panini with crores of pupils and Katyayana arrived with lakhs of pupils.

Yajnavalkya arrived with thousand of his pupils, Vy^sa arrived with three crores of pupils, the family priest Garga arrived with lakhs of pupils, Galava and Saubhari arrived with a thousand pupil each, Lomasa and Markandeya arrived with three crores of pupils, Vamadeva with crores of pupils, JaigTsavya with three crores of pupils and thereafter pupils Sandipani with three crores of pupils, while Devala arrived with crores of pupils, Vodhu arrived with the crores of pupils, Pancasikha arrived with the lakhs of pupils, Narayana arrived with three crores of pupils besides Nara, Visvamitra arrived with crores of pupils, Jaratkaru, Parasurama and Astika, arrived with three crores of pupils each.

Vatsa arrived with lakhs of pupils, Daksa arrived with three lakhs of pupils, Kapila arrived with five crores of pupils, Saihvarta and Utathya with three lakhs of pupils each, Jaimini arrived with thousand of pupils, Paila arrived with lakh of pupils, Suvarna arrived with thousand of pupils, Vyasa pupil Vaisampayana arrived with lakhs of pupils, Srhgl and Upamanyu arrived with lakhs of pupils each. Gauramukha arrived with thousand of pupils, Kaca arrived with a lakh of Asvatthama and Dronacarya, Krpacarya with their pupils, Bhisma, Karna, Sakuni, the king Duryodhana and his brother stayed with Sr! Krsna said- All the people who have arrived here will return only after completion of the auspicious festivities. O king, you enter the city gate of Dvaraka in the Mahendra muhurta together with the mothers, fathers and Yadavas.

All other people of the race of Yadu should go back to Mathura. At these Ugrasena felt terrified and said to him.

O Vasudeva, I shall go back to my ancestral, land because it happens to be more auspicious that any other place for the performing of adoration of the gods and the manes. The one who does make the offering of the pindas to the ancestors on the land and the fire, the ancestors destroy the performers and the sraddha. The s'raddhas performed by such a person for the ancestors become fruitless or bear little fruit but such a performance when made at the ancestral place bears much fruit. The ancestors land is considered to be dearer than the son, grandson and wife. The inaccessible ancestral land is dearer than the parents. Therefore for performing the adoration of the gods and the ancestors, it is considered to be quite auspicious, whatever is playfully given there is considered, to be. The charity, the charity given by someone at some other place is considered to be inauspicious, when one dies at the ancestral-land one achieves

great merit like dyeing at a holy place. O Hari, the water of the pool of the ancestral and is considered to be quite auspicious like the water of the Gahga. By taking a bath there in that pool, one earns the merit of having a bath in the Gahga. The adoration of the gods and offering of water (tarpana) are considered to be quite auspicious. In case the birth place is an ancestral place the fruit of tarpana and other performance is doubled.

Sri Krsna said- You have spoken the truth, who can stop the birth and the ancestors land is' like a holy place but can that holy place be more important than the city of Dvaraka. The city of I Dvaraka is the best of all and bestows great merit, with the entry of the people in Dvaraka they achiever moksa, O king, by giving away charities or by, performing sraddha or the adoration of gods in Dvaraka, one achieves four times more the merit than taking a bath in Gahga and other holy places.

You go to the royal palace together with Brahma, gods and the sages beside the Yadavas and reside there. This city of Dvaraka puts Amaravatl, the city of Indra to shame. O king, you enter the divine assembly named Sudharma in the auspicious time of Mahendra. The people of Jambudvipa, the great kings, the courtiers and others would give you the taxes as the gods give to Indra. You conquer Kubera in riches, the sun in the lustre, Indra in fortunes, the gods in the battle, the sages in sacredness and the mendicants in tapas besides with vratas, you would excel the vratas (performers). There has been no king like Ugrasena nor would there any such king be in future. In his court the extremely valorous Balarama is present over one of whose thousand heads, the entire globe is lodged like the sesamum seed in a windowing basket. There is no one else more valorous than Baladeva and there is no end to his virtues. This is the reason

the people have given him the name of Ananta.

MtfRvjK i oii gg?? iFimi^i nirgi cfTPlRT'RRlFRH.Il'S^ I' The eight Vasus, Rudras, without ^iva, the valorous twelve Adityas and Indra together with all the gods would not be able to over-power Ugrasena. On hearing the words of Kyspa, the king started together with all Yadavas. He found his palace in the middle of DvSraka shining with gems on the gates of which thousands of gods were deputed holding the staff and the trident in their hands. The camp was inside the six gates.

There were palaces inlaid with hundreds of precious stones. The king found a crore of intoxicated elephants in the elephant-stable. The number of ordinary elephants ran to four crores.

He found very strong horses in the horse-stable, the number of which was six times more than the elephants who could gallop with the speed of with the horse of the sun. O Narada, the herd of those elephants was superior than all the vehicles of Indra and were jeering at Airavata. The king then came across the horses of very high breed of Uccaisarva. Thereafter there were ten crores of donkeys and the number of foot soldiers was six times more than the same, there were five lakhs of chariots built with the best of gems and an equal number of charioteers. The number of horses was six times more then the cavalry men.

The king also witnesses the assembly named aujWlcjifgqblcJlyl'li 1 (i o 11 The assembly which was quite charming to look at, accommodated the gods and the sages.

The assembly was issuing lustre like the fire. It had enough of silken clothes of red and yellow colours, besides the lion thrones. It was decorated with the lines of invaluable gems and was surrounded by a hundred crores of disciplined soldiers. At the time of entering into beautiful assembly hall, the conches were blown and drums were beaten. The sages recited the Vedic hymns. Finding the kings arrival, Krspa and Baiarama got up from their seats.

Brahma, ^iva, Sesa, the ascetics, the best of the gods also stood up. All the kings and the siddhas together with Vasudeva also stood up.

Thereafter valorous Ugrasena with the permission of Indra, the sages, lord Krsna, the gods and the teacher, also took his seat. O Narada, the coronation of the king was completed with the reciting of the hymns from the Vedas and pouring water from the seven holy places. The king was then offered the two divine garments sanctified by fire which were presented by Varuna to Krisna.

The valorous Baladeva presented him the chatra of gems, Brahma presented a kamandalu, Siva the trident, Parvatl a garland of gems, the chaste Malatl presented him a garland of flowers.

Thereafter several other gods, the sages, the best of the kings and the siddhas also gave their presents to him.

Vasudeva presented him with an auspicious white-fly-whisks, which was presented to Krsna by Vasudeva.

Nanda presented him a KSmadhenu cow.

Yasoda and DevakI delightfully gifted him the best of gems.

The seven attendants started serving him moving the white fly-whisks, Akrura with the permission of ^rl Kfsna held chatra on the head of the king. The king while seated on the gem- studded lion throne looked at the mirror which could be achieved by performing several good deeds. Thereafter, Sri Krsna offered a present.

The Bhdta then started praising the king while the Brahmanas, the gods and the sages showered their blessings on him. The king distributed with great devotion, crores of diamonds, together with the bhdfas and the beggars, all the people of the race of Yadu after attending the coronation of the king adored the gods. The sages, Brahmana, the bhdtas, the beggars and the teachers went back to their respective abodes. All the attendants of Kfs na also went back to their respective abodes. The next morning all of them came to attend the court named Sudharma. In the assembly they bowed before the king and took their seats.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 76551 (2016-08-26T01:25:00Z); Shanti Lal Nagar English scan pages n1554–n1561: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1554/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.