Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 103

Chapter 103

Unit 246 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 103Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 1031 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 103

Source

अथ त्र्यधिकशततमोऽध्यायः तुलनीय - लक्ष्मीनारायण संहिता [https://sa.wikisource.org/s/1h0l १.२१७]नारायण उवाच अथाऽऽगत्य मधुपुरीं प्रणम्य पितरं विभुः । सबलो वटमूले च सस्मार गरुडं हरिः ।। १ ।। सादरं लवणोदं च विश्वकर्माणमीप्सितम् । तत्याज गोपवेषं च नृपवेषं दधार सः ।। २ ।। एतस्मिन्नन्तरे चक्रमाजगाम् हरिं स्वयम् । परं सुदर्शनं नाम सूर्यकोटिसमप्रभम् ।। ३ ।। तेजसा हरिणा तुल्यं परं वैरिविमर्दनम् । अव्यर्थमस्त्रमस्त्राणां प्रवरं परमं परम् ।। ४ ।। रत्नयानं पुरः कृत्वा गरुडो हरिसंनिधिम् । विश्वकर्मा सशिष्यश्च जलधिः कम्पितस्तथा ।। ५ ।। हरिं प्रणेमुस्ते सर्वे मूर्ध्ना च भक्तिपूर्वकम् । सस्मितः सादरं यत्नात्तानुवाच क्रमाद्विभुः ।। ६ ।। श्रीकृष्ण उवाच हे समुद्र महाभाग स्थलं च शातयोजनम् । देहि मे नगरार्थं च पश्चाद्दास्यामि निश्चितम् ।। ७ ।। नगरं कुरु हे कारो त्रिषु लोकेषु दुर्लभम् । रमणीयं च सर्वेषां कमनीयं च योषिताम् ।। ८ ।। वाञ्छितं चापि भक्तानां वैकुण्ठसदृशं परम् । सर्वेषामपि स्वर्गाणां परं पारमभीप्सितम् ।। ९ ।। दिवानिशं खगश्रेष्ठ संनिधौ विश्वकर्मणः । स्थितिं कुरु महाभाग यावन्निर्माति द्वारकाम् ।। १० ।। दिवानिशं च मत्पार्श्वे चक्रश्रेष्ठ स्थितिं कुरु । ओमित्युक्त्वा तु प्रययुः सर्वे चक्रं विना मुने ।। ११ ।। कंसस्य पितरं भद्रमुग्रसेनं महाबलम् । नृपं चकार नगरे क्षत्रियाणां सतामपि ।। १२ ।। विजित्य च जरासंधं निहत्य यवनं तथा । उपायेन महाभाग निर्माणक्रममीश्वरः ।। १३ ।। श्रीभगवानुवाच शतयोजनपर्यन्तं नगरं सुमनोहरम् । पद्मरागैर्मरकतैरिन्द्रनीलैरनुत्तमैः ।। १४ ।। रुचकैः पारिभद्रैश्च पलङ्कैश्च स्यमन्तकैः । गन्धकैर्गालिमैश्चैव चन्द्रकान्तादिभिस्तथा ।। १५ ।। सूर्यकान्तादिभिश्चैव पुत्रैश्च स्फटिकाकृतैः । हरिद्वर्णैश्च मणिभिः श्यामैर्गौरमुखैश्चषैः ।। १६ ।। गोरोचनाभिः पीतैश्च दाडिमीबीजरूपकैः । पद्मबीजनिभैश्चैव नीलैः कमलवर्णकैः ।। १७ ।। मणिभिः कज्जलाकारैरुज्ज्वलैश्च परिष्कृतैः । श्वेतचम्पकवर्णाभैस्तप्तकाञ्चनसंनिभैः ।। १८ ।। स्वर्णमूल्यशतगुणैरीषद्रक्तैः सुशोभनैः । गरिष्ठैश्च वरिष्ठैश्च मणिश्रेष्ठैश्च पूजितैः ।। १९ ।। यथाविधानं यद्योगं यत्र यन्मुक्तमीप्सितम् । मणीनां हरणं चैव यक्षसंघा हिमालयात् ।। २० ।। दिवानिशं करिष्यन्ति यावन्निर्माणपूर्वकम् । यक्षैश्च सप्तभिर्लक्षैः कुबेरप्रेरितैरपि ।। २१ ।। वेताललक्षैः कूष्माण्डलक्षैः शंकरयोजितैः । दानवैर्ब्रह्मरक्षोभिः शैलकन्यानियोजितैः ।। २२ ।। कुरु दिव्यं च पत्नीनां सहस्राणां च षोडश । अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च ।। २३ ।। शिबिरं परिखायुक्तमुच्चैः प्राकारवेष्टितम् । युक्तद्वादशशालं च सिंहद्वारपरिष्कृतम् ।। २४ ।। युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कपाटकैः । निषिद्धवृक्षरहितं प्रसिद्धैश्च परिष्कृतम् ।। २५ ।। सुलक्षणं चन्द्रवेधं प्राङ्गणं च तथैव च । यदूनामाश्रमं दिव्यं किंकराणां तथैव च ।। २६ ।। सर्वत्र सिद्धं निलयमुग्रसेनस्य भूभृतः । आश्रमं सर्वतोभद्रं वसुदेवस्य मत्पितुः ।। २७ ।। विश्वकर्मोवाच के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन । भद्राभद्रप्रदाश्चापि तान्वदस्व जगद्गुरो ।। २८ ।। केषामस्थिनियुक्तं च शिबिरं च शुभाशुभम् । दिशि कुत्र जलं भद्रमभद्रं च वद प्रभो ।। २९ ।। भद्रप्रदश्च को वृक्षो दिशि कृत्र प्रवर्तते । किं प्रमाणं गृहाणां च प्राङ्गणानां सुरेश्वर ।। ३० ।। मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा । प्राकाराणां किं प्रमाणं परिखाणां सुरेश्वर ।। ३१ ।। द्वाराणां च गृहाणां च प्राकाराणां प्रमाणकम् । कस्य कस्य तरोः काष्ठं प्रशस्तं शिबिरे प्रभो ।। ३२ ।। अमङ्गलं वा केषां च सर्वं मां वक्तुमर्हसि ।। ३३ ।। श्रीभगवानुवाच आश्रमे नारिकेलश्च गृहिणां च धनप्रदः । शिबिरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः ।। ३४ ।। सर्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्वस्मिन्नृणां संपत्प्रदस्तथा ।। ३५ ।। शुभप्रदश्च सर्वत्र सुरकारो निशामय । बिल्वश्च पनसश्चैव जम्बीरो बदरी तथा ।। ३६ ।। प्रजाप्रदश्च पूर्वस्मिन्दक्षिणे धनदस्तथा । संपत्प्रदश्च सर्वत्र यतो हि वर्धते गृही ।। ३७ ।। जम्बूवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा । बन्धुप्रदश्च पूर्वस्मिन्दक्षिणे मित्रदस्तथा ।। ३८ ।। सर्वत्र शुभदश्चैव धनपुत्रशुभप्रदः । हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ।। ३९ ।। ईशाने सुखदश्चैव सर्वत्रैव निशामय । सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ।। ४० ।। अलाबुश्चापि कूष्माण्डमायाम्बुश्च सकिंशुकः । खर्जूरी कर्कटी चापि शिबिरे मङ्गलप्रदा ।। ४१ ।। वास्तूककारबिल्वश्च वार्ताकश्च शुभप्रदः । लताफलं च शुभदं सर्वं सर्वत्र निश्चितम् ।। ४२ ।। प्रशस्तं कथितं कारो निषिद्धं च निशामय । वन्यवृक्षो निषिद्धश्च शिबिरे नगरेऽपि च ।। ४३ ।। वटो निषिद्धः शिबिरे नित्यं चोरभयं यतः । नगरेषु प्रसिद्धश्च दर्शनात्पुण्यदस्तथा ।। ४४ ।। निषिद्धः शाल्मलिश्चैव शिबिरे नगरे पुरे । दुःखप्रदश्च सततं भूमिपानां सदाऽपि च ।। ४५ ।। न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च । विद्यामतिनिषिद्धस्तु सततं दुःखदस्तदा ।। ४६ ।। हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्जयेत् । शतेन धनहानिः स्यात्प्रजाहानिर्भवेद्ध्रुवम् ।। ४७ ।। शिबिरेऽतिनिषिद्धश्च नगरे किंचिदेव च । न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।। ४८ ।। विद्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्जयेत् । खर्जूरश्च गहुश्चैव निषिद्धः शिबिरे तथा ।। ४९ ।। न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च । वृक्षश्च चणकादीनां धान्यं च मङ्गलप्रदम् ।। ५० ।। ग्रामेषु नगरे चापि शिबिरे च तथैव च । इक्षुवृक्षश्च शुभदः संततं शुभदस्तथा ।। ५१ ।। अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः । कच्चिद्धरिद्रा शुभदा शुभदश्चाऽऽर्द्रकस्तथा ।। ५२ ।। हरीतकी च शुभदा ग्रामेषु नगरेषु च । न वाद्या भद्रदा नित्यं तथा चाऽऽमलकी घ्रुवम् ।। ५३ ।। गजानामस्थि शुभदमश्वानां च तथैव च । कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम् ।। ५४ ।। न शुभप्रदमन्येषामुच्छिन्नकारणं परम् । वानराणां नराणां च गर्दभानां गवामपि ।। ५५ ।। कुक्कुराणां शृगालानां मार्जाराणामभद्रकम् । भेटकानां सूकराणां सर्वेषां च शुभप्रदम् ।। ५६ ।। ईशाने चापि पूर्वस्मिन्पश्चिमे च तथोत्तरे । शिबिरस्य जलं भद्रमन्यत्राशुभमेव च ।। ५७ ।। दीर्घे प्रस्थे समानं च न कुर्यान्मन्दिरे बुधः । चतुरस्रे गृहे कारो गृहिणां धननाशनम् ।। ५८ ।। दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् । शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम् ।। ५९ ।। प्रस्थे हस्तद्वयात्पूर्वं दीर्घे हस्तत्रयं तथा । गृहाणां शुभदं द्वारं प्राकारस्य गृहस्य च ।। ६० ।। न मध्यदेशे कर्तव्यं किंचिन्न्यूनाधिके शुभम् । चतुरस्रं चन्द्रवेधं शिबिरं मङ्गलप्रदम् ।। ६१ ।। अभद्रदं सूर्यवेधं शिबिरं मङ्गलप्रदम् । अभद्रदं सूर्यवेधं प्राङ्गणं च तथैव च ।। ६२ ।। शिबिराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् । धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा ।। ६३ ।। प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् । मालती यूथिका कुन्दं माधवी केतकी तथा ।। ६४ ।। नागेश्वरं मल्लिकां च काञ्चनं बकुलं शुभम् । अपराजिता च शुभदा तेषामुद्यानमीप्सितम् ।। ६५ ।। पूर्वे च दक्षिणे चैव शुभदं नात्र संशयः । ऊर्ध्वं षोडशहस्तेभ्यो नैव कुर्याद्गृहं गृही ।। ६६ ।। उर्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् । सूत्रधारं तैलाकारं स्वर्णकारं च हीरकम् ।। ६७ ।। वाटीमूले ग्राममध्ये न कुर्यात्स्थापनं बुधः । ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् ।। ६८ ।। भट्टं वैद्यं पुष्पकारं स्थापयेच्छिबिरान्तिके । प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् ।। ६९ ।। परितः शिबिराणां च गम्भीरं दशहस्तकम् । संकेतपूर्वकं चैव परिखाद्वारमीप्सितम् ।। ७० ।। शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च । शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च ।। ७१ ।। निम्बाणां सिन्धुवाराणां बदरीणामभद्रकम् । धत्तूराणां वटानां चाप्येरण्डानामवाञ्छितम् ।। ७२ ।। एतेषामतिरिक्तानां शिबिरे काष्ठमीप्सितम् । वृक्षं च वज्रहस्तं च भूधरो वर्जयेदधः ।। ७३ ।। पुत्रदारधनं हन्यादित्याह कमलोद्भवः । कथितं लोकशिक्षार्थं कुरु काष्ठं विना पुरीम् ।। ७४ ।। शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् । विश्वकर्मा हरिं नत्वा जगाम् पक्षिणा सह ।। ७५ ।। समुद्रस्य समीपं च वटमूलं मनोहरम् । सुष्वाप तत्र नक्तं च कारुश्च पक्षिणा सह ।। ७६ ।। स्वप्ने द्वारवतीं रम्यां ददर्श गरुडस्तथा । यत्किंचित्कथितं कारुं कृष्णेन परमात्मना ।। ७७ ।। तदेव लक्षणं सर्वं ददर्श नगरे मुने । कारुं हसन्ति स्वप्ने च सर्वे ते शिल्पकारिणः ।। ७८ ।। गरुडं गरुडाश्चान्ये बलवन्तश्च पक्षिणः । बुद्धो ददर्श गरुडो विश्वकर्मा च लज्जितः ।। ७९ ।। अतीव द्वारकां रम्यां शतयोजनविस्तृताम् । ब्रह्मादीनां च नगरं विजित्य च विराजिताम् ।। तेजसाऽऽच्छादितां सूर्यं रत्नानां च परिष्कृताम् ।। ८० ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo द्वारकानिर्माणारम्भे त्र्यधिकशततमोऽध्यायः ।। १०३

atha tryadhikaśatatamo'dhyāyaḥ tulanīya - lakṣmīnārāyaṇa saṃhitā [https://sa.wikisource.org/s/1h0l 1.217]nārāyaṇa uvāca athā''gatya madhupurīṃ praṇamya pitaraṃ vibhuḥ | sabalo vaṭamūle ca sasmāra garuḍaṃ hariḥ || 1 || sādaraṃ lavaṇodaṃ ca viśvakarmāṇamīpsitam | tatyāja gopaveṣaṃ ca nṛpaveṣaṃ dadhāra saḥ || 2 || etasminnantare cakramājagām hariṃ svayam | paraṃ sudarśanaṃ nāma sūryakoṭisamaprabham || 3 || tejasā hariṇā tulyaṃ paraṃ vairivimardanam | avyarthamastramastrāṇāṃ pravaraṃ paramaṃ param || 4 || ratnayānaṃ puraḥ kṛtvā garuḍo harisaṃnidhim | viśvakarmā saśiṣyaśca jaladhiḥ kampitastathā || 5 || hariṃ praṇemuste sarve mūrdhnā ca bhaktipūrvakam | sasmitaḥ sādaraṃ yatnāttānuvāca kramādvibhuḥ || 6 || śrīkṛṣṇa uvāca he samudra mahābhāga sthalaṃ ca śātayojanam | dehi me nagarārthaṃ ca paścāddāsyāmi niścitam || 7 || nagaraṃ kuru he kāro triṣu lokeṣu durlabham | ramaṇīyaṃ ca sarveṣāṃ kamanīyaṃ ca yoṣitām || 8 || vāñchitaṃ cāpi bhaktānāṃ vaikuṇṭhasadṛśaṃ param | sarveṣāmapi svargāṇāṃ paraṃ pāramabhīpsitam || 9 || divāniśaṃ khagaśreṣṭha saṃnidhau viśvakarmaṇaḥ | sthitiṃ kuru mahābhāga yāvannirmāti dvārakām || 10 || divāniśaṃ ca matpārśve cakraśreṣṭha sthitiṃ kuru | omityuktvā tu prayayuḥ sarve cakraṃ vinā mune || 11 || kaṃsasya pitaraṃ bhadramugrasenaṃ mahābalam | nṛpaṃ cakāra nagare kṣatriyāṇāṃ satāmapi || 12 || vijitya ca jarāsaṃdhaṃ nihatya yavanaṃ tathā | upāyena mahābhāga nirmāṇakramamīśvaraḥ || 13 || śrībhagavānuvāca śatayojanaparyantaṃ nagaraṃ sumanoharam | padmarāgairmarakatairindranīlairanuttamaiḥ || 14 || rucakaiḥ pāribhadraiśca palaṅkaiśca syamantakaiḥ | gandhakairgālimaiścaiva candrakāntādibhistathā || 15 || sūryakāntādibhiścaiva putraiśca sphaṭikākṛtaiḥ | haridvarṇaiśca maṇibhiḥ śyāmairgauramukhaiścaṣaiḥ || 16 || gorocanābhiḥ pītaiśca dāḍimībījarūpakaiḥ | padmabījanibhaiścaiva nīlaiḥ kamalavarṇakaiḥ || 17 || maṇibhiḥ kajjalākārairujjvalaiśca pariṣkṛtaiḥ | śvetacampakavarṇābhaistaptakāñcanasaṃnibhaiḥ || 18 || svarṇamūlyaśataguṇairīṣadraktaiḥ suśobhanaiḥ | gariṣṭhaiśca variṣṭhaiśca maṇiśreṣṭhaiśca pūjitaiḥ || 19 || yathāvidhānaṃ yadyogaṃ yatra yanmuktamīpsitam | maṇīnāṃ haraṇaṃ caiva yakṣasaṃghā himālayāt || 20 || divāniśaṃ kariṣyanti yāvannirmāṇapūrvakam | yakṣaiśca saptabhirlakṣaiḥ kuberapreritairapi || 21 || vetālalakṣaiḥ kūṣmāṇḍalakṣaiḥ śaṃkarayojitaiḥ | dānavairbrahmarakṣobhiḥ śailakanyāniyojitaiḥ || 22 || kuru divyaṃ ca patnīnāṃ sahasrāṇāṃ ca ṣoḍaśa | anyapatnījanasyāpi cāṣṭādhikaśatasya ca || 23 || śibiraṃ parikhāyuktamuccaiḥ prākāraveṣṭitam | yuktadvādaśaśālaṃ ca siṃhadvārapariṣkṛtam || 24 || yuktaṃ citrairvicitraiśca kṛtrimaiśca kapāṭakaiḥ | niṣiddhavṛkṣarahitaṃ prasiddhaiśca pariṣkṛtam || 25 || sulakṣaṇaṃ candravedhaṃ prāṅgaṇaṃ ca tathaiva ca | yadūnāmāśramaṃ divyaṃ kiṃkarāṇāṃ tathaiva ca || 26 || sarvatra siddhaṃ nilayamugrasenasya bhūbhṛtaḥ | āśramaṃ sarvatobhadraṃ vasudevasya matpituḥ || 27 || viśvakarmovāca ke te vṛkṣāḥ praśastāśca niṣiddhāścāpi kecana | bhadrābhadrapradāścāpi tānvadasva jagadguro || 28 || keṣāmasthiniyuktaṃ ca śibiraṃ ca śubhāśubham | diśi kutra jalaṃ bhadramabhadraṃ ca vada prabho || 29 || bhadrapradaśca ko vṛkṣo diśi kṛtra pravartate | kiṃ pramāṇaṃ gṛhāṇāṃ ca prāṅgaṇānāṃ sureśvara || 30 || maṅgalaṃ kusumodyānaṃ diśi kutra tarostathā | prākārāṇāṃ kiṃ pramāṇaṃ parikhāṇāṃ sureśvara || 31 || dvārāṇāṃ ca gṛhāṇāṃ ca prākārāṇāṃ pramāṇakam | kasya kasya taroḥ kāṣṭhaṃ praśastaṃ śibire prabho || 32 || amaṅgalaṃ vā keṣāṃ ca sarvaṃ māṃ vaktumarhasi || 33 || śrībhagavānuvāca āśrame nārikelaśca gṛhiṇāṃ ca dhanapradaḥ | śibirasya yadīśāne pūrve putrapradastaruḥ || 34 || sarvatra maṅgalārhaśca tarurājo manoharaḥ | rasālavṛkṣaḥ pūrvasminnṛṇāṃ saṃpatpradastathā || 35 || śubhapradaśca sarvatra surakāro niśāmaya | bilvaśca panasaścaiva jambīro badarī tathā || 36 || prajāpradaśca pūrvasmindakṣiṇe dhanadastathā | saṃpatpradaśca sarvatra yato hi vardhate gṛhī || 37 || jambūvṛkṣaśca dāḍimbaḥ kadalyāmrātakastathā | bandhupradaśca pūrvasmindakṣiṇe mitradastathā || 38 || sarvatra śubhadaścaiva dhanaputraśubhapradaḥ | harṣaprado guvākaśca dakṣiṇe paścime tathā || 39 || īśāne sukhadaścaiva sarvatraiva niśāmaya | sarvatra campakaḥ śuddho bhuvi bhadrapradastathā || 40 || alābuścāpi kūṣmāṇḍamāyāmbuśca sakiṃśukaḥ | kharjūrī karkaṭī cāpi śibire maṅgalapradā || 41 || vāstūkakārabilvaśca vārtākaśca śubhapradaḥ | latāphalaṃ ca śubhadaṃ sarvaṃ sarvatra niścitam || 42 || praśastaṃ kathitaṃ kāro niṣiddhaṃ ca niśāmaya | vanyavṛkṣo niṣiddhaśca śibire nagare'pi ca || 43 || vaṭo niṣiddhaḥ śibire nityaṃ corabhayaṃ yataḥ | nagareṣu prasiddhaśca darśanātpuṇyadastathā || 44 || niṣiddhaḥ śālmaliścaiva śibire nagare pure | duḥkhapradaśca satataṃ bhūmipānāṃ sadā'pi ca || 45 || na niṣiddhaḥ prasiddhaśca grāmeṣu nagareṣu ca | vidyāmatiniṣiddhastu satataṃ duḥkhadastadā || 46 || he kāro tintiḍīvṛkṣo yatnāttaṃ parivarjayet | śatena dhanahāniḥ syātprajāhānirbhaveddhruvam || 47 || śibire'tiniṣiddhaśca nagare kiṃcideva ca | na niṣiddhaḥ prasiddhaśca grāmeṣu nagareṣu ca || 48 || vidyāmatiniṣiddhaśca prājñastaṃ parivarjayet | kharjūraśca gahuścaiva niṣiddhaḥ śibire tathā || 49 || na niṣiddhaḥ prasiddhaśca grāmeṣu nagareṣu ca | vṛkṣaśca caṇakādīnāṃ dhānyaṃ ca maṅgalapradam || 50 || grāmeṣu nagare cāpi śibire ca tathaiva ca | ikṣuvṛkṣaśca śubhadaḥ saṃtataṃ śubhadastathā || 51 || aśokaśca śirīṣaśca kadambaśca śubhapradaḥ | kacciddharidrā śubhadā śubhadaścā''rdrakastathā || 52 || harītakī ca śubhadā grāmeṣu nagareṣu ca | na vādyā bhadradā nityaṃ tathā cā''malakī ghruvam || 53 || gajānāmasthi śubhadamaśvānāṃ ca tathaiva ca | kalyāṇamuccaiḥśravasāṃ vāstau sthāpanakāriṇām || 54 || na śubhapradamanyeṣāmucchinnakāraṇaṃ param | vānarāṇāṃ narāṇāṃ ca gardabhānāṃ gavāmapi || 55 || kukkurāṇāṃ śṛgālānāṃ mārjārāṇāmabhadrakam | bheṭakānāṃ sūkarāṇāṃ sarveṣāṃ ca śubhapradam || 56 || īśāne cāpi pūrvasminpaścime ca tathottare | śibirasya jalaṃ bhadramanyatrāśubhameva ca || 57 || dīrghe prasthe samānaṃ ca na kuryānmandire budhaḥ | caturasre gṛhe kāro gṛhiṇāṃ dhananāśanam || 58 || dīrghaprasthaḥ parimito netrāṅkenāpi saṃhṛtam | śūnyena rahitaṃ bhadraṃ śūnyaṃ śūnyapradaṃ nṛṇām || 59 || prasthe hastadvayātpūrvaṃ dīrghe hastatrayaṃ tathā | gṛhāṇāṃ śubhadaṃ dvāraṃ prākārasya gṛhasya ca || 60 || na madhyadeśe kartavyaṃ kiṃcinnyūnādhike śubham | caturasraṃ candravedhaṃ śibiraṃ maṅgalapradam || 61 || abhadradaṃ sūryavedhaṃ śibiraṃ maṅgalapradam | abhadradaṃ sūryavedhaṃ prāṅgaṇaṃ ca tathaiva ca || 62 || śibirābhyantare bhadrā sthāpitā tulasī nṛṇām | dhanaputrapradātrī ca puṇyadā haribhaktidā || 63 || prabhāte tulasīṃ dṛṣṭvā svarṇadānaphalaṃ labhet | mālatī yūthikā kundaṃ mādhavī ketakī tathā || 64 || nāgeśvaraṃ mallikāṃ ca kāñcanaṃ bakulaṃ śubham | aparājitā ca śubhadā teṣāmudyānamīpsitam || 65 || pūrve ca dakṣiṇe caiva śubhadaṃ nātra saṃśayaḥ | ūrdhvaṃ ṣoḍaśahastebhyo naiva kuryādgṛhaṃ gṛhī || 66 || urdhvaṃ viṃśatihastebhyaḥ prākāraṃ na śubhapradam | sūtradhāraṃ tailākāraṃ svarṇakāraṃ ca hīrakam || 67 || vāṭīmūle grāmamadhye na kuryātsthāpanaṃ budhaḥ | brāhmaṇaṃ kṣattriyaṃ vaiśyaṃ sacchūdraṃ gaṇakaṃ śubham || 68 || bhaṭṭaṃ vaidyaṃ puṣpakāraṃ sthāpayecchibirāntike | prasthe ca parikhāmānaṃ śatahastaṃ praśastakam || 69 || paritaḥ śibirāṇāṃ ca gambhīraṃ daśahastakam | saṃketapūrvakaṃ caiva parikhādvāramīpsitam || 70 || śatroragamyaṃ mitrasya gamyameva sukhena ca | śālmalīnāṃ tintiḍīnāṃ hintālānāṃ tathaiva ca || 71 || nimbāṇāṃ sindhuvārāṇāṃ badarīṇāmabhadrakam | dhattūrāṇāṃ vaṭānāṃ cāpyeraṇḍānāmavāñchitam || 72 || eteṣāmatiriktānāṃ śibire kāṣṭhamīpsitam | vṛkṣaṃ ca vajrahastaṃ ca bhūdharo varjayedadhaḥ || 73 || putradāradhanaṃ hanyādityāha kamalodbhavaḥ | kathitaṃ lokaśikṣārthaṃ kuru kāṣṭhaṃ vinā purīm || 74 || śubhakṣaṇaṃ cāpyadhunā gaccha vatsa yathāsukham | viśvakarmā hariṃ natvā jagām pakṣiṇā saha || 75 || samudrasya samīpaṃ ca vaṭamūlaṃ manoharam | suṣvāpa tatra naktaṃ ca kāruśca pakṣiṇā saha || 76 || svapne dvāravatīṃ ramyāṃ dadarśa garuḍastathā | yatkiṃcitkathitaṃ kāruṃ kṛṣṇena paramātmanā || 77 || tadeva lakṣaṇaṃ sarvaṃ dadarśa nagare mune | kāruṃ hasanti svapne ca sarve te śilpakāriṇaḥ || 78 || garuḍaṃ garuḍāścānye balavantaśca pakṣiṇaḥ | buddho dadarśa garuḍo viśvakarmā ca lajjitaḥ || 79 || atīva dvārakāṃ ramyāṃ śatayojanavistṛtām | brahmādīnāṃ ca nagaraṃ vijitya ca virājitām || tejasā''cchāditāṃ sūryaṃ ratnānāṃ ca pariṣkṛtām || 80 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo dvārakānirmāṇārambhe tryadhikaśatatamo'dhyāyaḥ || 103

English translation

Building of Dvaraka by Kr§iia Narayana said- Krsna together with Balarama returned to Mathura and offered his salutation to his father and seated under the banyan tree he summoned gracefully, Garuda, ocean of milk and Visvakarma. Thereafter discarding the costumes of cowherds, he clad himself in the royal garments. In the meantime the Sudarsana-cakra also arrived before the lord having the lustre of the crores of suns, it was illustrious like Hari himself, destroyer of the enemies, infallible and was the best of all the weapons. Mounting on the gem-studded chariot the lord, Visvakarma, together with his pupils and the ocean feeling panicky, bowed before the lord in reverence.

Thereafter the all-pervading lord spoke to them SrI Krsna said- O virtuous ocean, you give me a hundred yojanas of land for dwelling, which could be returned to you.

high boundary walls, each one of these houses should have twelve rooms with the main They should have the artificial doors, beautifully painted, the should be deprived of the evil trees and should have enough of the popular types of trees, in the court-yard should have auspicious symbols and Candra-vedha. Similarly other houses should be built for the people of Yadu's race and the divine dsramas for their The palace of king Ugrasena should be the best and the dsrama of Vasudeva should be Sarvatobhadra (open from all four sides).

VisVakarma said- O lord of the universe, you tell me which one of the tree is praise-worthy and which one is a prohibited one. Which one of them produces good or bad results? You kindly tell me all.

O lord with the fall of whose bone the place become auspicious with the fall whose bone it becomes inauspicious. Towards which side of the camp the water is auspicious and on which side it becomes inauspicious? O lord of the gods the boundary wall, moats, the gates, the houses and their enclosure walls should be of which sizes? O lord, the wood of which tree should be used in the building of a camp and the wood of which trees as inauspicious. You kindly tell me.

Sri Krsna said- In case the coconut tree is planted in the dsrama, the householder achieve riches, these trees when planted towards the east or north-east bestows son to the householder.

The tree bestows welfare all round. In case a mango tree is planted to the east of the house, the householder achieves enough of riches and it bestows welfare everywhere. O divine architect, the trees of wood-apple, jack-fruit, the lemon and jujubi, if planted on the eastern side, they bestow sons to the householder and in case they are planted on the southern side, the householder gets the riches all the times, The prosperity of householder increases with them.

frrgcimgT 11? <i 11 The trees of sdla fruit, banana, myrobalan, when planted in the southern side they increase the friends. They are auspicious for all sides, the betel nut tree when planted on the southern side provides the householder with riches, sons and fortunes, in case they are planted in the west, they bestow pleasure and in case they are planted in the north-east, they bestow, welfare all round, the campd tree is auspicious wherever it is The white gourd, pumpkin, Ayambu, Palasa, date palm and cucumber are always auspicious in the royal camp. The purple goose foot, wood apple and bringle plants are quite auspicious. The creepers with fruits are always auspicious for all O architect, thus I have spoken to you about the auspicious trees now you listen to the inauspicious trees. The wild tree should neither be planted in a city nor in an dsrama. The banyan tree should not be planted in a camp

where the danger of thieves always remains. But in the big cities, the banyan tree is quite popular.

The very sight of this tree showers merit on the In the asrama cities and the villages, the plant of the cotton tree is totally prohibited. It causes misfortune to the king.

O architect, the planting of tamarind tree should be planted in the villages but should never be planted in the camps. It destroys learnings and intelligence and creates pain, with the planting of this tree, the people have to loose the riches.

Therefore one should carefully escape from the The planting of the tamarind in an asrama is strictly prohibited and its plantation is restricted.

In the towns and villages its plantation is not prohibited but it is quite popular.

The planting of palm tree and the tree with thorns are strictly prohibited in the camp because they destroy the learning and the intelligence, therefore they should be kept as a distance.

In the cities as well as the villages the planting of cereals like grams is not prohibited but it is quite popular, the paddy is considered to be quite auspicious there, In the villages as well as in the cities, beside, ds'ramas, the planting of sugar-cane is considered to be quite auspicious together with asoka tree, sirisa and kadamba tree. The planting of turmeric, ginger, black myrobalan, as well as green myrobalan are quite auspicious and bestow welfare in the land of construction, the bone of an elephant is considered to be quite auspicious together with the bone of the horse belonging to the breed of Uccaihs'rava.

The bones of others brings total destruction.

The bones of monkeys, human beings, the donkeys, the crows, the gods, the jackal and the cats are considered to be quite inauspicious, the bones of the seep and the pigs are considered to quite auspicious.

It is quite beneficial, in case the water is available towards the north-east, west and the north of the camp.

girfr -gfpTt i5iT4T?i^im(iii O architect the intellectual should keep the length and breadth of the house as equal. By constructing the house in a quadrangle, the house owner meets with his end.

The length and breadth of the house after dividing it by two if is nothing is left, it is considered to be quite auspicious for the people.

Two hands ahead of the width of the houses and three hands ahead and three hands beyond the length on the south, the door of the house as well as of the boundary walls is always considered to be auspicious.

A door should not be provided in the middle of the house. It is always auspicious to be kept a little this way that way. The square house is considered to be auspicious when provided with a Candra-vedha. But the auspicious house also becomes inauspicious when it has the Suryavedha. Similarly the Suryavedha court-yard is also inauspicious.

The TulasI plant which is planted by the householder is always considered to be auspicious which bestows riches and provides merit and the devotion of lord Hari.

TJcltiraldfRiiRi djiaiTmdH^i ttpzrgTT TTcjj gRT itsjigtag^i The one who sights the TulasI plant in the morning, he earns the merit of giving away gold in charity. Towards the east and the south of the house, the plants of jasmine, madhavi, ketaJd, nages'vara, wood apple, thorn-apple, maulasin and apardjM are always considered to be auspicious. The garden of these plants is always considered to be auspicious. There is no doubt about it A house-holder should not build a house having a height of more than sixteen hands and the boundary walls should not be more than twenty hands in height. An intelligent person should not make the carpenter and oil-men and the goldsmith to live in the centre of the city but the Brahmanas, Ksatriyas, Vaisyas, Sudras, the astrologer, the bards, the physicians and the gardener should always the made to live close to, one's house. The camp should be surrounded by

a moat having a length of hundred hands and ten ^ hands in depth. This type of moat has been praised by all. The entrance gate of the moatj should be indicative which should be comfortable for the movement of the people but should be inaccessible for the enemies. Except the wood of cotton tree, tamarind wild-palm, neem, sindhuvara, the wild fig tree, wood-apple, banyan, castor oil tree, the wood of all other trees could be used for the construction purpose. The king should not touch the wood vajra-hasta, otherwise one faces the destruction of the son, the wife and the riches. This has been ordained by Brahma, O son I have spoken all this for the information of the people, now you go with pleasure and construct the city without wood.

This is the most auspicious time to start the construction work. Visvakarma them bowed in reverence to the lord and left the place with They reached the pleasant banyan tree standing on the shore of the ocean and spent the night there.

In the dream Garuda witnesses the charming city of Dvtoka. O sage, he witnesses all the symptoms which lord Krsna had spoken to Visvakarma in the city. In the dream also all the artisans were laughing at Visvakarma and other were laughing at Garuda. After waking up, both Garuda and VisVakarma felt ashamed.

The city of Dvaraka was quite beautiful and was spread over an area of hundred yojanas, it was established by conquering the cities of Brahma and others, there was enough of inlay work. The lustre issued from the gems studded in the houses covered the son.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 402858 (2024-06-07T10:54:34Z); Shanti Lal Nagar English scan pages n1548–n1554: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1548/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.