Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 96

Chapter 96

Unit 239 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 96Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 961 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 96

Source

नारायण उवाच श्रीकृष्णस्मरणं कृत्वा गमनोन्मुखमुद्धवम् । नतं राधापदाम्भोजे शिरसा पुलकाञ्चितम् ।। १ ।। उवाच माधवी गोपी रुदती प्रेमविह्वला । भक्तं रुदन्तमुच्छैश्च राधाविच्छेदकातरम् ।। २ ।। माधव्युवाच उद्धव शृणु वक्ष्यामि क्षणं तिष्ठ यथोचितम् । निगूढं परमं ज्ञानं यत्ते मनसि वाञ्छितम् ।। ३ ।। सुदुर्लभं पुराणेषु वेदेषु गोपनीयकम् । प्रश्नं कुरु महाभाग राधिकां त्रिजगत्प्रसूम् ।। ४ ।। इत्युक्त्वा सा च गोपीशा समुवास मुसंसदि । उवाच मधुरं शान्तामुद्धवश्चापि राधिकाम् ।। ५ ।। उद्धवउवाच एकाकी भवमायाति यात्येकाकी पुनः पुनः । प्राणी कर्मानुरोधेन स्वकर्मफलभुक्पुमान् ।। ६ ।। कर्मणा जायते जन्तुः कर्मणौव प्रलीयते । सुखं दुःखं भयं शोकं कर्मणैवाभिपद्यते ।। ७ ।। जन्तुर्भोगावशेषेण भोगं भुङ्क्ते भवेषु च । पुनश्च कर्मणो भोगात्समायाति च याति च ।। ८ ।। रत्नादिकं च यत्किचिन्मह्यं दत्तं त्वया सति । मया सार्ध न यात्येव तेन मे किं प्रयोजनम् ।। ९ ।। भवाब्थितारणे देवि भवती तरणिर्वरा । कर्णधारः स्वयं कृष्णः सर्वेषां पारकारकः ।। १० ।। किंचिद्यानं देहि मह्यं भवाब्धिपारकारणम् । प्राप्य प्रसातं यास्यामि मथुरां कृष्ममूलकम् ।। ११ ।। यां यां कालगतिं मातः सुराणां च नृणामपि । पितॄणां ब्रह्मलोकस्य तदूर्ध्वस्य च तां वद ।। १२ ।। तामेव दुस्तरां घोरां तीर्त्वा यामि हरेः पदम् । एवंभूतमुपायं च देहि मे कमलालये ।। १३ ।। दूरतो यत्पदाम्भोजं ध्यायन्ते च दिवानिशम् । देवा ब्रह्मेशशेषाद्यास्त्वं तद्वक्षः स्थलस्थिता ।। १४ ।। उद्धवस्य वचः श्रुत्वा जहास कमलालया । वाससा नेत्रनीरं च संभार्ज्य तमुवाच सा ।। १५ ।। राधोवाच माधवीवचनेनैव करोषि प्रश्नमुद्धव । स्त्रीजातिरबला लोके किं वा ज्ञानं ददामि ते ।। १६ ।। शुद्धां कालगतिं वत्स जानाति भगवान्हरिः । ब्रह्म महेशः शेषश्च वेदाश्चत्वार एव च ।। १७ ।। किंचिद्वेदानुसारेण सन्तो जानन्ति पुत्रक । श्रूयतां कुष्णवक्त्रेण गोलोके रासमण़्डले ।। १८ ।। गोलोके चापि वैकुण्ठे ब्रह्मलोके च सांप्रतम् । या च दृष्टा कालगतिस्तामेव कथयामि ते ।। १९ ।। नृणां पितॄणां देवानां ब्रह्मलोकादिकस्य च । बहिर्लोकस्य ब्रह्माण्डात्पातालानां च निश्चितम् ।। २० ।। दुरत्ययां कालगतिं येनोपायेन पण्डिताः । निस्तरन्ति बुधश्रेष्ठ कथयामि निशामय ।। २१ ।। भजन्ति जगतां नाथं कालकालं जगद्गुरुम् । निर्गुणं च निरीहं च परमात्मानमीश्वरम् ।। २२ ।। सद्यः पतति देहोऽयं विना येन सदात्मना । तं निषेव्य कालगतिं तरत्येव हि केवलम् ।। २३ ।। आयुर्हरति सर्वेषां प्राणिनां रविरेव च । श्रीहरेः शुद्धभक्तानां सतां पुण्यवतां विना ।। २४ ।। विधेर्मानसिकान्पुत्रांश्चतुरः पश्य पुत्रक । सनकादीन्भागवतान्येषां च सुस्थिरं वमः ।। २५ ।। रुद्राद्यान्वयसा नित्याञ्ज्ञातिनां च गुरोर्गुरून् । बालाननुपनीतांश्च पञ्चवर्षशिशून्यथा ।। २६ ।। अम्यन्तरे महास्फीतान्सस्मितांश्च दिगम्बरान् । श्रीकृष्णध्यानपूताश्च तीर्थपूतांश्च वैष्णवान् ।। २७ ।। वेदवेदाङ्गशास्त्राणां चिन्ताहीनान्प्रफुल्लितान् । भक्त्या दिवानिशं शश्वद्धरिभावेन तत्परान् ।। २८ ।। बाह्यपूजाविहीनांश्च पूतान्मानसिकांस्तथा । मृत्युञ्जयान्महाभागान्कालव्यालजितस्तथा ।। २९ ।। सनकं च सनन्दं च तृतीयं च सनातनम् । परं सनत्कुमारं च ये स्मरन्ति च सर्वशः ।। ३० ।। तीर्थस्नानफलं लब्ध्वा मुच्यते कृतपातकात् । हरिभक्तिर्भवेत्तेषां हरिदास्यं लभन्ति च ।। ३१ ।। मृकण्डुबालकं पश्य कर्मणा च द्विजोत्तमम् । दशवर्षायुषं तीव्रं ज्वलन्तं ब्रह्मतेजसा ।। ३२ ।। हरिसेवनतः पश्चात्सप्तकल्पान्तजीविनम् । वोढुं पञ्चशिखं पश्य लोमशं चाऽऽसुरिं तथा ।। ३३ ।। सर्वकर्मविहीनं च हरिसेवनतत्परम् । शतकल्पायुषं चैव ध्यायमानं हरेः पदम् ।। ३४ ।। जमदग्नेः सुतं पश्य रामं तं चिरजीविनम् । हनुमन्तं बलिं व्यासमश्वत्थामानमेव च ।। ३५ ।। विभीषणं कृपं विप्रं जाम्बवन्तं च भल्लुकम् । हरिभावनया चैते शुद्धाः सुचिरजीविनः ।। ३६ ।। सिद्धेन्द्रेषु मुनीन्द्रेषु नरेष्वन्येषु चोद्धव । हरिभावनशुद्धाश्च सर्वे ते चिरजीविनः ।। ३७ ।। प्रह्लादं पश्य दैत्येषु हिरण्यकशिपोः सुतम् । हरिद्विषो दुरन्तस्य हरिभावनतत्परम् ।। ३८ ।। चिरायुषं कालजितं पश्यान्यं चाप्यसंख्यकम् । अनेकजन्मतपसा लब्ध्वा जन्म च भारते ।। ३९ ।। ये हरिं तं न सेवन्ते ते मूढाः कृतपापिनः । वासुदेवं परित्यज्य विषये निरतो जनः ।। ४० ।। त्यक्त्वाऽमृतं महामूढो विषं भुङ्क्ते निजेच्छया । कस्य स्त्री कस्य वा पुत्रः कस्य वा बान्धवास्तथा ।। ४१ ।। कः कस्य बन्धुर्विपदि श्रीकृष्णेन विना भुवि । तस्मात्सन्तः सदा कृष्णं भजन्त्येव दिवानिशम् ।। ४२ ।। जन्ममृत्युजराव्याधिहरं सर्वहरं परम् । कालस्य तरणोपायं भजनं परमात्मनः ।। ४३ ।। आनन्दनन्दनस्यैव परिपूर्णतमस्य च । शृणु कालगतिं वत्स मदीयज्ञानगोचराम् ।। ४४ ।। नराणां च पितॄणां च सुराणां चापि ब्रह्मणः । नागानां राक्षसादीनां तत्परेषां च पुत्रक ।। ४५ ।। कथयामि निगूढार्थं सावधानं निशामय । सर्वस्माच्च परं स्थानं सर्वाधारो महान्विराट् ।। ४६ ।। यस्य लोमसु विश्वानि चासंख्यानि च तानि च । सर्वस्माच्च परं सूक्ष्मं परमाणुं निशामय ।। ४७ ।। कालारम्भात्मकं सर्वमनूरं परमीप्सितम् । चरमः सद्विशेषाणामनेकोऽसंयुतः सदा ।। ४८ ।। परमाणुः स विज्ञेयो नृपामैक्यभ्रमो यतः । परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः ।। ४९ ।। त्रसरेणुत्रिकेणापि त्रुटिरुक्ता मनीषिभिः । वेधस्त्रुटिशतेनैव त्रिवेधेन लवस्तथा ।। ५० ।। त्रिलवेन निमेषश्च त्रि निमेषेण च क्षणः । काष्ठा पञ्चक्षणेनैव लघुश्च दशकाष्ठया ।। ५१ ।। लघुपञ्चदशं दण्डस्तत्प्रमाणं निशामय । द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।। ५२ ।। स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् । दण्डद्वये मुहूर्तः स्यात्वष्टिदण्डात्मिका तिथिः ।। ५३ ।। तदष्टभागः प्रहरः प्रमाणं च निरूपणम् । चतुर्भिः प्रहरै रात्रिश्चतुर्भिर्दिनमुच्यते ।। ५४ ।। तिथिपञ्चदशेनैव पक्षमानं प्रकीर्तितम् । पक्षद्वयेन मासः स्याच्छुक्लकृष्णाभिधेन च ।। ५५ ।। ऋतुर्मासद्वयेनैव तत्षट्केनैव वत्सरः । वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशीतकाः ।। ५६ ।। वर्षाः पञ्चविधा ज्ञेयाः कालविद्भिर्निरूपिताः । संवत्सरः प्रवत्सर इलावत्सर एव च ।। ५७ ।। अनुवत्सरो वत्सरोऽयमिति कालविदो विदुः । अब्दो द्विषट्कमासैश्च तन्नाम शुणु चोद्धव ।। ५८ ।। वैशाखो ज्येष्ठ आषाढः श्रावणो भाद्र एव च । आश्विनः कार्तिको मार्गः पौषो माघस्तु फाल्गुनः ।। ५९ ।। सैत्रस्तु चरमो ज्ञेयो वर्षशेषी निरूपितः । वसन्तश्चैत्रवैशाखमासयुग्मेन कीर्तितः ।। ६० ।। ज्येष्ठावाढद्वयेनैव ग्रीष्मस्तु परिकीर्तितः । वर्षा श्रावणभद्रे च ह्याश्विने कार्तिके शरत् ।। ६१ ।। मार्गे पौषे च हेमन्तः शिशिरो माघफाल्गुने । अब्दस्तु चायनै द्वे वै चोत्तरे दक्षिणायने ।। ६२ ।। माघादिषड्विनिर्मितमुत्तरायणमीप्सितम् । श्रावणादिमासषट्कं दक्षिणायनमेव च ।। ६३ ।। माघादाषाढपर्यन्तं दिनं वृद्धं क्रमेण वै । नक्तं वृद्धं श्रावणश्च पौषपर्यन्तमेव च ।। ६४ ।। प्रतिपत्पूर्णिमान्तश्च शुक्लपक्षः प्रकीर्तितः । पूर्णिमायाः प्रतिपदश्चामावास्यान्त एव च ।। ६५ ।। कृष्णपक्षस्तु विज्ञेयो वेदविद्भिर्निरूपितः । द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा ।। ६६ ।। षष्ठी च सप्तमी चैव ह्यष्टमी नवमी तथा । दशम्येकादशी चापि द्वादशी च त्रयोदशी ।। ६७ ।। चतुर्दशी कुहूर्यावद्दिनं तु गणनं स्मृतम् । अश्विनी भरणी चापि कृत्तिका रोहिणी तथा ।। ६८ ।। मृगशिरस्त्थाऽऽर्द्रा च नक्षत्रे द्वे पुनर्वसू । पुष्याश्लेषे मघा चैव पूर्वा चोत्तरफाल्गुनी ।। ६९ ।। हस्तचित्रे तथा स्वाती विशाखा चानुराधिका । ज्येष्ठा मूलं तथा ज्ञेया पूर्वाषाढोत्तरा तथा ।। ७० ।। श्रवणाभिजिती चैव धनिष्ठा च प्रकीर्तिता । ततः शतभिषा ज्ञेय पूर्वाभाद्रपदा तथा ।। ७१ ।। तथोत्तरा तु विज्ञेया रेवती चरमा स्मृता । अष्टाविंशति नक्षत्रं कलत्रं शशिनस्तथा ।। ७२ ।। क्रमेण ताभिः सार्ध च चन्द्रस्तिष्ठति नित्यशः । सप्तविंशति नक्षत्रं कलत्रं च श्रुतौ श्रुतम् ।। ७३ ।। अभिजिच्छूवणच्छाया तेनाष्टाविंशतिः स्मृता । एकदा च मधौ चन्द्रो रोहिण्या वामया सह ।। ७४ ।। रेमे दिवानिशं नित्यं श्रवणा च चुकोप सा । छायां च दत्त्वा चन्द्राय ययौ तातान्तिकं भिया ।। ७५ ।। ततः पितरमादाय सा चक्रे च विभागकम् । बभूव तेन नक्षत्रमभिजिन्नामकं पुरा ।। ७६ ।। एतच्छ्रुत्वा कृष्णमुखाच्छतश्रृङ्गे च पर्वते । नक्षत्रं कथितं वत्स तिथ्या भ्रमति नित्यशः ।। ७७ ।। योगं च करणं चैव मद्वक्त्रेण निशामय । विष्कम्भः प्रीतिरायुष्मान्सौभाग्यः शोभनस्तथा ।। ७८ ।। अतिगण्डः सुकर्मा च घृतिः शूलस्तथैव च । गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणास्तथा ।। ७९ ।। वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः । सिद्धिः साध्यः शुभः शुक्लो ब्रह्मेन्द्रो वैधृतिस्तथा ।। ८० ।। कीर्तितस्ते योगगणः करणं श्रूयतामिति । बवश्च बालवश्चैव कौलवस्तैतिलस्तथा ।। ८१ ।। गरश्च वणिजश्चापि विष्टिश्च शकुनिस्तथा । चतुष्पाच्चापि नागश्च किंस्तुघ्न इति कीर्तितम् ।। ८२ ।। नराणां चापि मासेन पितॄणां च दिवानिशम् । शुक्ले चापि दिनं तेषां कृष्णे नक्तं प्रकीर्तितम् ।। ८३ ।। वत्सरेण नाराणां च सुराणां च दिवानिशम् । दिनं तेषामुत्तरे च नक्तं च दक्षिणायने ।। ८४ ।। मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः । मनोरायुः परिमितं शक्रस्याऽऽयुः प्रकीर्तितम् ।। ८५ ।। पञ्चविंशत्सहस्रं च तथा पञ्चशतं परम् । तत्र सूर्यगतिर्नास्ति शक्रपातानुसारतः ।। ८६ ।। दिवानिशं च जानन्ति ब्रह्मलोकनिवासिनः । दण्डद्वयं नरपलं शक्रपातेन तत्पलम् ।। ८७ ।। एवं त्रिशद्दिनेनैव धातुर्मासः प्रकीर्तितः । अब्दो द्वादशभिर्मासैरेवं तस्य शतायुषः ।। ८८ ।। ब्रह्मणः पतनेनैव निमेषाच्छ्रीहरेरपि । धातुः पातानुसारेण वैकुण्ठे न दिवानिशम् ।। ८९ ।। तत्र सूर्यगतिर्नास्ति चैवं गोलोकतः स्मृतम् । वैकुण्ठवासिनः सर्वे न वै जानन्त्यहर्निशम् ।। ९० ।। चन्द्रस्यापि ग्रहाणां च गतिर्नास्ति च तत्र वै । चक्रं नैव भ्रमत्येव राशीनामिच्छया हरेः ।। ९१ ।। दिनं च तेजसा दीप्तं कृष्णस्य परमात्मनः । नक्तं तेजोविहीनं च हरौ च मन्दिरं गते ।। ९२ ।। एवं कालगतिस्तत्र विष्णुलोकेऽस्ति संततम् । कालस्वरूपो भगवान्परमात्मा निराकृतिः ।। ९३ ।। चन्द्रसूर्यगतिर्नास्चि पातालेषु च सप्तषु । ,द्वासिनश्च जानन्ति शङ्कन्ते न दिवानिशम् ।। ९४ ।। दिने च मूर्ध्निनागानां मणिर्ज्वलति नित्यशः । संध्यायां दीप्तमग्निश्च रात्रिश्च तमसाऽऽवृता ।। ९५ ।। कालं ताम्रीप्रमाणेन जानन्ति तन्निवासिनः । यथा भुवि तथा तत्र परिमाणं प्रकीर्तितम् ।। ९६ ।। कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशसाहस्रैर्वत्सरैश्चापि तन्मितम् ।। ९७ ।। अष्टौ शतान्यप्यधिकं सहस्राणां चतुष्टयम् । दिव्यैर्वर्षैः कृतयुगं कालविद्भिर्निरूपितम् ।। ९८ ।। अष्टाविंशत्सहस्राण्यप्यधिकं परिमाणकम् । लक्षाणां च सप्तदशं नृमानं परिकीन्तितम् ।। ९९ ।। अधिकं षट्शतान्येव सहस्राणां त्रयं तथा । दिव्यैर्वर्षैश्च त्रेतेति वत्स कालविदो विदुः ।। १०० ।। षण्णवतिसहस्राणि लक्षैर्द्वादशभिः सह । नृणां वर्षैश्च त्रेतेति कालविद्भिः प्रकीर्तितः ।। १०१ ।। चतुष्टयं शतानां चाप्यधिकं द्विसहस्रकम् । वर्ष दिव्यं द्वापरं च कालज्ञैः परिकीर्तितम् ।। १०२ ।। चतुःषष्टिसहस्राणि लक्षैरष्टभिरेव च । नृणां वर्षैर्द्वापरं च कालज्ञैः परिकीर्तितम् ।। १०३ ।। अधिकं द्विशतं चैव दिव्यं वर्षसहस्रकम् । एवंमितं कलियुगं वत्स प्राज्ञैर्निरूपितम् ।। १०४ ।। द्वात्रिंशच्च सहस्रं च चतुर्लक्षं नृमानकम् । वर्ष चेति कलियुगे चकार कालकोविदः ।। १०५ ।। लक्षैर्द्विचत्वारिंशद्भिः सह विंशत्सहस्रकैः । नृमानवर्षैः कालज्ञैर्व्यक्तमेव चतुर्युगम् ।। १०६ ।। इति ते कथितं वत्स कालसंख्यानिरूपणम् । यथाश्रुतं यथाज्ञानं गच्छ वत्स हरेः पुरम् ।। १०७ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्ववसंo कालनिरूपणं नाम षण्ण्वतितमोऽध्यायः ।। ९६ ।।

nārāyaṇa uvāca śrīkṛṣṇasmaraṇaṃ kṛtvā gamanonmukhamuddhavam | nataṃ rādhāpadāmbhoje śirasā pulakāñcitam || 1 || uvāca mādhavī gopī rudatī premavihvalā | bhaktaṃ rudantamucchaiśca rādhāvicchedakātaram || 2 || mādhavyuvāca uddhava śṛṇu vakṣyāmi kṣaṇaṃ tiṣṭha yathocitam | nigūḍhaṃ paramaṃ jñānaṃ yatte manasi vāñchitam || 3 || sudurlabhaṃ purāṇeṣu vedeṣu gopanīyakam | praśnaṃ kuru mahābhāga rādhikāṃ trijagatprasūm || 4 || ityuktvā sā ca gopīśā samuvāsa musaṃsadi | uvāca madhuraṃ śāntāmuddhavaścāpi rādhikām || 5 || uddhavauvāca ekākī bhavamāyāti yātyekākī punaḥ punaḥ | prāṇī karmānurodhena svakarmaphalabhukpumān || 6 || karmaṇā jāyate jantuḥ karmaṇauva pralīyate | sukhaṃ duḥkhaṃ bhayaṃ śokaṃ karmaṇaivābhipadyate || 7 || janturbhogāvaśeṣeṇa bhogaṃ bhuṅkte bhaveṣu ca | punaśca karmaṇo bhogātsamāyāti ca yāti ca || 8 || ratnādikaṃ ca yatkicinmahyaṃ dattaṃ tvayā sati | mayā sārdha na yātyeva tena me kiṃ prayojanam || 9 || bhavābthitāraṇe devi bhavatī taraṇirvarā | karṇadhāraḥ svayaṃ kṛṣṇaḥ sarveṣāṃ pārakārakaḥ || 10 || kiṃcidyānaṃ dehi mahyaṃ bhavābdhipārakāraṇam | prāpya prasātaṃ yāsyāmi mathurāṃ kṛṣmamūlakam || 11 || yāṃ yāṃ kālagatiṃ mātaḥ surāṇāṃ ca nṛṇāmapi | pitṝṇāṃ brahmalokasya tadūrdhvasya ca tāṃ vada || 12 || tāmeva dustarāṃ ghorāṃ tīrtvā yāmi hareḥ padam | evaṃbhūtamupāyaṃ ca dehi me kamalālaye || 13 || dūrato yatpadāmbhojaṃ dhyāyante ca divāniśam | devā brahmeśaśeṣādyāstvaṃ tadvakṣaḥ sthalasthitā || 14 || uddhavasya vacaḥ śrutvā jahāsa kamalālayā | vāsasā netranīraṃ ca saṃbhārjya tamuvāca sā || 15 || rādhovāca mādhavīvacanenaiva karoṣi praśnamuddhava | strījātirabalā loke kiṃ vā jñānaṃ dadāmi te || 16 || śuddhāṃ kālagatiṃ vatsa jānāti bhagavānhariḥ | brahma maheśaḥ śeṣaśca vedāścatvāra eva ca || 17 || kiṃcidvedānusāreṇa santo jānanti putraka | śrūyatāṃ kuṣṇavaktreṇa goloke rāsamaṇa़ḍale || 18 || goloke cāpi vaikuṇṭhe brahmaloke ca sāṃpratam | yā ca dṛṣṭā kālagatistāmeva kathayāmi te || 19 || nṛṇāṃ pitṝṇāṃ devānāṃ brahmalokādikasya ca | bahirlokasya brahmāṇḍātpātālānāṃ ca niścitam || 20 || duratyayāṃ kālagatiṃ yenopāyena paṇḍitāḥ | nistaranti budhaśreṣṭha kathayāmi niśāmaya || 21 || bhajanti jagatāṃ nāthaṃ kālakālaṃ jagadgurum | nirguṇaṃ ca nirīhaṃ ca paramātmānamīśvaram || 22 || sadyaḥ patati deho'yaṃ vinā yena sadātmanā | taṃ niṣevya kālagatiṃ taratyeva hi kevalam || 23 || āyurharati sarveṣāṃ prāṇināṃ ravireva ca | śrīhareḥ śuddhabhaktānāṃ satāṃ puṇyavatāṃ vinā || 24 || vidhermānasikānputrāṃścaturaḥ paśya putraka | sanakādīnbhāgavatānyeṣāṃ ca susthiraṃ vamaḥ || 25 || rudrādyānvayasā nityāñjñātināṃ ca gurorgurūn | bālānanupanītāṃśca pañcavarṣaśiśūnyathā || 26 || amyantare mahāsphītānsasmitāṃśca digambarān | śrīkṛṣṇadhyānapūtāśca tīrthapūtāṃśca vaiṣṇavān || 27 || vedavedāṅgaśāstrāṇāṃ cintāhīnānpraphullitān | bhaktyā divāniśaṃ śaśvaddharibhāvena tatparān || 28 || bāhyapūjāvihīnāṃśca pūtānmānasikāṃstathā | mṛtyuñjayānmahābhāgānkālavyālajitastathā || 29 || sanakaṃ ca sanandaṃ ca tṛtīyaṃ ca sanātanam | paraṃ sanatkumāraṃ ca ye smaranti ca sarvaśaḥ || 30 || tīrthasnānaphalaṃ labdhvā mucyate kṛtapātakāt | haribhaktirbhavetteṣāṃ haridāsyaṃ labhanti ca || 31 || mṛkaṇḍubālakaṃ paśya karmaṇā ca dvijottamam | daśavarṣāyuṣaṃ tīvraṃ jvalantaṃ brahmatejasā || 32 || harisevanataḥ paścātsaptakalpāntajīvinam | voḍhuṃ pañcaśikhaṃ paśya lomaśaṃ cā''suriṃ tathā || 33 || sarvakarmavihīnaṃ ca harisevanatatparam | śatakalpāyuṣaṃ caiva dhyāyamānaṃ hareḥ padam || 34 || jamadagneḥ sutaṃ paśya rāmaṃ taṃ cirajīvinam | hanumantaṃ baliṃ vyāsamaśvatthāmānameva ca || 35 || vibhīṣaṇaṃ kṛpaṃ vipraṃ jāmbavantaṃ ca bhallukam | haribhāvanayā caite śuddhāḥ sucirajīvinaḥ || 36 || siddhendreṣu munīndreṣu nareṣvanyeṣu coddhava | haribhāvanaśuddhāśca sarve te cirajīvinaḥ || 37 || prahlādaṃ paśya daityeṣu hiraṇyakaśipoḥ sutam | haridviṣo durantasya haribhāvanatatparam || 38 || cirāyuṣaṃ kālajitaṃ paśyānyaṃ cāpyasaṃkhyakam | anekajanmatapasā labdhvā janma ca bhārate || 39 || ye hariṃ taṃ na sevante te mūḍhāḥ kṛtapāpinaḥ | vāsudevaṃ parityajya viṣaye nirato janaḥ || 40 || tyaktvā'mṛtaṃ mahāmūḍho viṣaṃ bhuṅkte nijecchayā | kasya strī kasya vā putraḥ kasya vā bāndhavāstathā || 41 || kaḥ kasya bandhurvipadi śrīkṛṣṇena vinā bhuvi | tasmātsantaḥ sadā kṛṣṇaṃ bhajantyeva divāniśam || 42 || janmamṛtyujarāvyādhiharaṃ sarvaharaṃ param | kālasya taraṇopāyaṃ bhajanaṃ paramātmanaḥ || 43 || ānandanandanasyaiva paripūrṇatamasya ca | śṛṇu kālagatiṃ vatsa madīyajñānagocarām || 44 || narāṇāṃ ca pitṝṇāṃ ca surāṇāṃ cāpi brahmaṇaḥ | nāgānāṃ rākṣasādīnāṃ tatpareṣāṃ ca putraka || 45 || kathayāmi nigūḍhārthaṃ sāvadhānaṃ niśāmaya | sarvasmācca paraṃ sthānaṃ sarvādhāro mahānvirāṭ || 46 || yasya lomasu viśvāni cāsaṃkhyāni ca tāni ca | sarvasmācca paraṃ sūkṣmaṃ paramāṇuṃ niśāmaya || 47 || kālārambhātmakaṃ sarvamanūraṃ paramīpsitam | caramaḥ sadviśeṣāṇāmaneko'saṃyutaḥ sadā || 48 || paramāṇuḥ sa vijñeyo nṛpāmaikyabhramo yataḥ | paramāṇudvayenāṇustrasareṇustu te trayaḥ || 49 || trasareṇutrikeṇāpi truṭiruktā manīṣibhiḥ | vedhastruṭiśatenaiva trivedhena lavastathā || 50 || trilavena nimeṣaśca tri nimeṣeṇa ca kṣaṇaḥ | kāṣṭhā pañcakṣaṇenaiva laghuśca daśakāṣṭhayā || 51 || laghupañcadaśaṃ daṇḍastatpramāṇaṃ niśāmaya | dvādaśārdhapalonmānaṃ caturbhiścaturaṅgulaiḥ || 52 || svarṇamāṣaiḥ kṛtacchidraṃ yāvatprasthajalaplutam | daṇḍadvaye muhūrtaḥ syātvaṣṭidaṇḍātmikā tithiḥ || 53 || tadaṣṭabhāgaḥ praharaḥ pramāṇaṃ ca nirūpaṇam | caturbhiḥ praharai rātriścaturbhirdinamucyate || 54 || tithipañcadaśenaiva pakṣamānaṃ prakīrtitam | pakṣadvayena māsaḥ syācchuklakṛṣṇābhidhena ca || 55 || ṛturmāsadvayenaiva tatṣaṭkenaiva vatsaraḥ | vasantagrīṣmavarṣāśca śaraddhemantaśītakāḥ || 56 || varṣāḥ pañcavidhā jñeyāḥ kālavidbhirnirūpitāḥ | saṃvatsaraḥ pravatsara ilāvatsara eva ca || 57 || anuvatsaro vatsaro'yamiti kālavido viduḥ | abdo dviṣaṭkamāsaiśca tannāma śuṇu coddhava || 58 || vaiśākho jyeṣṭha āṣāḍhaḥ śrāvaṇo bhādra eva ca | āśvinaḥ kārtiko mārgaḥ pauṣo māghastu phālgunaḥ || 59 || saitrastu caramo jñeyo varṣaśeṣī nirūpitaḥ | vasantaścaitravaiśākhamāsayugmena kīrtitaḥ || 60 || jyeṣṭhāvāḍhadvayenaiva grīṣmastu parikīrtitaḥ | varṣā śrāvaṇabhadre ca hyāśvine kārtike śarat || 61 || mārge pauṣe ca hemantaḥ śiśiro māghaphālgune | abdastu cāyanai dve vai cottare dakṣiṇāyane || 62 || māghādiṣaḍvinirmitamuttarāyaṇamīpsitam | śrāvaṇādimāsaṣaṭkaṃ dakṣiṇāyanameva ca || 63 || māghādāṣāḍhaparyantaṃ dinaṃ vṛddhaṃ krameṇa vai | naktaṃ vṛddhaṃ śrāvaṇaśca pauṣaparyantameva ca || 64 || pratipatpūrṇimāntaśca śuklapakṣaḥ prakīrtitaḥ | pūrṇimāyāḥ pratipadaścāmāvāsyānta eva ca || 65 || kṛṣṇapakṣastu vijñeyo vedavidbhirnirūpitaḥ | dvitīyā ca tṛtīyā ca caturthī pañcamī tathā || 66 || ṣaṣṭhī ca saptamī caiva hyaṣṭamī navamī tathā | daśamyekādaśī cāpi dvādaśī ca trayodaśī || 67 || caturdaśī kuhūryāvaddinaṃ tu gaṇanaṃ smṛtam | aśvinī bharaṇī cāpi kṛttikā rohiṇī tathā || 68 || mṛgaśirastthā''rdrā ca nakṣatre dve punarvasū | puṣyāśleṣe maghā caiva pūrvā cottaraphālgunī || 69 || hastacitre tathā svātī viśākhā cānurādhikā | jyeṣṭhā mūlaṃ tathā jñeyā pūrvāṣāḍhottarā tathā || 70 || śravaṇābhijitī caiva dhaniṣṭhā ca prakīrtitā | tataḥ śatabhiṣā jñeya pūrvābhādrapadā tathā || 71 || tathottarā tu vijñeyā revatī caramā smṛtā | aṣṭāviṃśati nakṣatraṃ kalatraṃ śaśinastathā || 72 || krameṇa tābhiḥ sārdha ca candrastiṣṭhati nityaśaḥ | saptaviṃśati nakṣatraṃ kalatraṃ ca śrutau śrutam || 73 || abhijicchūvaṇacchāyā tenāṣṭāviṃśatiḥ smṛtā | ekadā ca madhau candro rohiṇyā vāmayā saha || 74 || reme divāniśaṃ nityaṃ śravaṇā ca cukopa sā | chāyāṃ ca dattvā candrāya yayau tātāntikaṃ bhiyā || 75 || tataḥ pitaramādāya sā cakre ca vibhāgakam | babhūva tena nakṣatramabhijinnāmakaṃ purā || 76 || etacchrutvā kṛṣṇamukhācchataśrṛṅge ca parvate | nakṣatraṃ kathitaṃ vatsa tithyā bhramati nityaśaḥ || 77 || yogaṃ ca karaṇaṃ caiva madvaktreṇa niśāmaya | viṣkambhaḥ prītirāyuṣmānsaubhāgyaḥ śobhanastathā || 78 || atigaṇḍaḥ sukarmā ca ghṛtiḥ śūlastathaiva ca | gaṇḍo vṛddhirdhruvaścaiva vyāghāto harṣaṇāstathā || 79 || vajraṃ siddhirvyatīpāto varīyānparighaḥ śivaḥ | siddhiḥ sādhyaḥ śubhaḥ śuklo brahmendro vaidhṛtistathā || 80 || kīrtitaste yogagaṇaḥ karaṇaṃ śrūyatāmiti | bavaśca bālavaścaiva kaulavastaitilastathā || 81 || garaśca vaṇijaścāpi viṣṭiśca śakunistathā | catuṣpāccāpi nāgaśca kiṃstughna iti kīrtitam || 82 || narāṇāṃ cāpi māsena pitṝṇāṃ ca divāniśam | śukle cāpi dinaṃ teṣāṃ kṛṣṇe naktaṃ prakīrtitam || 83 || vatsareṇa nārāṇāṃ ca surāṇāṃ ca divāniśam | dinaṃ teṣāmuttare ca naktaṃ ca dakṣiṇāyane || 84 || manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ | manorāyuḥ parimitaṃ śakrasyā''yuḥ prakīrtitam || 85 || pañcaviṃśatsahasraṃ ca tathā pañcaśataṃ param | tatra sūryagatirnāsti śakrapātānusārataḥ || 86 || divāniśaṃ ca jānanti brahmalokanivāsinaḥ | daṇḍadvayaṃ narapalaṃ śakrapātena tatpalam || 87 || evaṃ triśaddinenaiva dhāturmāsaḥ prakīrtitaḥ | abdo dvādaśabhirmāsairevaṃ tasya śatāyuṣaḥ || 88 || brahmaṇaḥ patanenaiva nimeṣācchrīharerapi | dhātuḥ pātānusāreṇa vaikuṇṭhe na divāniśam || 89 || tatra sūryagatirnāsti caivaṃ golokataḥ smṛtam | vaikuṇṭhavāsinaḥ sarve na vai jānantyaharniśam || 90 || candrasyāpi grahāṇāṃ ca gatirnāsti ca tatra vai | cakraṃ naiva bhramatyeva rāśīnāmicchayā hareḥ || 91 || dinaṃ ca tejasā dīptaṃ kṛṣṇasya paramātmanaḥ | naktaṃ tejovihīnaṃ ca harau ca mandiraṃ gate || 92 || evaṃ kālagatistatra viṣṇuloke'sti saṃtatam | kālasvarūpo bhagavānparamātmā nirākṛtiḥ || 93 || candrasūryagatirnāsci pātāleṣu ca saptaṣu | ,dvāsinaśca jānanti śaṅkante na divāniśam || 94 || dine ca mūrdhnināgānāṃ maṇirjvalati nityaśaḥ | saṃdhyāyāṃ dīptamagniśca rātriśca tamasā''vṛtā || 95 || kālaṃ tāmrīpramāṇena jānanti tannivāsinaḥ | yathā bhuvi tathā tatra parimāṇaṃ prakīrtitam || 96 || kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam | divyairdvādaśasāhasrairvatsaraiścāpi tanmitam || 97 || aṣṭau śatānyapyadhikaṃ sahasrāṇāṃ catuṣṭayam | divyairvarṣaiḥ kṛtayugaṃ kālavidbhirnirūpitam || 98 || aṣṭāviṃśatsahasrāṇyapyadhikaṃ parimāṇakam | lakṣāṇāṃ ca saptadaśaṃ nṛmānaṃ parikīntitam || 99 || adhikaṃ ṣaṭśatānyeva sahasrāṇāṃ trayaṃ tathā | divyairvarṣaiśca treteti vatsa kālavido viduḥ || 100 || ṣaṇṇavatisahasrāṇi lakṣairdvādaśabhiḥ saha | nṛṇāṃ varṣaiśca treteti kālavidbhiḥ prakīrtitaḥ || 101 || catuṣṭayaṃ śatānāṃ cāpyadhikaṃ dvisahasrakam | varṣa divyaṃ dvāparaṃ ca kālajñaiḥ parikīrtitam || 102 || catuḥṣaṣṭisahasrāṇi lakṣairaṣṭabhireva ca | nṛṇāṃ varṣairdvāparaṃ ca kālajñaiḥ parikīrtitam || 103 || adhikaṃ dviśataṃ caiva divyaṃ varṣasahasrakam | evaṃmitaṃ kaliyugaṃ vatsa prājñairnirūpitam || 104 || dvātriṃśacca sahasraṃ ca caturlakṣaṃ nṛmānakam | varṣa ceti kaliyuge cakāra kālakovidaḥ || 105 || lakṣairdvicatvāriṃśadbhiḥ saha viṃśatsahasrakaiḥ | nṛmānavarṣaiḥ kālajñairvyaktameva caturyugam || 106 || iti te kathitaṃ vatsa kālasaṃkhyānirūpaṇam | yathāśrutaṃ yathājñānaṃ gaccha vatsa hareḥ puram || 107 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo rādhodvavasaṃo kālanirūpaṇaṃ nāma ṣaṇṇvatitamo'dhyāyaḥ || 96 ||

English translation

Description of the movement of time by Narayaiia said- Uddhava was ready to proceed to Mathura but was feeling upset and had fallen on the lotus-like feet of Radha. He was filled with emotion and overwhelmed with the separation from Radha and was crying aloud. At that movement the cowherdesses Madhavl, with her mind filled with love spoke to him while Madhavl said- O Uddhava, in case you think it proper you wait for while, I shall extend to you the deep knowledge which is occupying your mind. O virtuous one, you put a question to Radha who happens to be the mother of the three worlds. The same is inaccessible in the Vedas and the Puranas besides being secretive. Thus speaking the foremost of the cowherdesses took her seat in the assembly. Thereafter Radhika with a peaceful mind spoke sweet words to Uddhava.

Uddhava said- A person arrives in the universe alone and departs alone from the universe, A creature or a person has to face the reward of his deeds performed by him earlier.

A person takes his birth because of his deeds and disappears from the universe because of his deeds. He achieves the pleasure, pain, fear, grief and everything else because of his deeds.

When the enjoyments are left out a person is bom again in the universe and faces all the enjoyment. He arrives in the universe because of his deeds and goes back because of his deeds, therefore O chaste lady, whatever gems you have given to me cannot accompany me to the heaven.

Therefore they are of no used to me. O goddess you are like the beautiful boat to cross the ocean of the universe. Lord Krsna also makes other to cross over the ocean of universe. He himself the sailor. Therefore, you bestow me the gift by which I should be able to cross the ocean of the universe. After receiving the gratification I shall go to Mathura to meet Krsna.

O mother, you kindly let me know the movement of time for the gods, the human beings, ancestors and the Brahmaloka.

Lotus faced one you spell out a remedy for me by which I should be able to cross the movement of the time and achieve the abode of the lord.

Because you reside in the heart of the one whose lotus-like feet are adored by Brahma, Siva, Sesa and gods from a distance and meditate upon him through out the day and night.

On hearing the words of Uddhava, lotus face Radhika smiled, wiping out her tears with a cloth, she started speaking.

Radhika said- O Uddhava, you have put up this question at the instance of Madhavl. First of all you tell me that the ladies are considered to be quite delicate, ones therefore what type of knowledge can I impart to you?.

O son, the spotless movement of the time is known only to lord Krsna, besides Brahma, Siva, Sesa and the Vedas.

g- ^ c6l(H-'lfd'Wfi)d gSWlfil hl^RW O son, according to the Vedas, the noble people also are aware of the same to some extent.

Now I am going to tell you something which I had heard from the mouth of lord Krsna in the Rasamandala of the Goloka, I have also witnessed the same in the Goloka, Vaikuntha and Brahmaloka, the same Kdla-cah'a (movement of time), is being spelt out by me, you listen to it.

O best of the friend, I am going to narrate to you the movement of time which influences the the globe and the people who live beyond them.

You listen to me. The great lord who is meditated upon by the intellectuals who happen to be the lord of the universe, who happens to be the killer of the time, the teacher of the universe, devoid of gums unattached and who happens to be the soul of all, without whom the bodies are destroyed, one can cross the movement of the time only be serving the great lord.

Except the people with great merit and the spotless devotees of lord Krsna, the life of all the creatures, is shortened by Surya.

As for example you look at the four mind-bom sons of Brahma named Sanaka and others. Their age remains stable, they always remains of five years' old, without yajnopavlta like the children and in the same form they happen to be the teachers of eleven Rudras, twelve Adityas and the great intellectuals. They are spotless from inside and their faces always wear the serene smile, they remain without garments and are sanctified with the reciting of the name of Krsna, They are devoted to Visnu and purify even the They are free from the worries of, Vedas, post-Vedic literature and scriptures. Their faces are always shining and they recite the name of Hari through out the day and night.

Hasan f)?rqT?ra?Rii They are unconcerned with the adoration of Brahman. They are purified at heart. They have over-come, the death. They are immensely virtuous and over-powered Stlrya, who is the cause of death. They are known by the names of Sanaka, Sanandana and Sanatkumara, those who recite their names regularly, all their sins are removed and they achieve the merit of having the bath at the holy places. They ultimately achieved the devotion of lord Hari and slavehood of the You look at MSrkapdeya the son of sage Mrkandu who has achieved the Brahmanhood by means of his good deeds and being illustrious and having divine lustre, he at the age of ten years, by adoring the lord achieved the life of seven kalpas. Than look at Vodhu, Pancasikha, Lomasa and Asuri. All of them having been freed from the deeds, they devote them-selves exclusively. They enjoy the age of a hundred kalpas, they always remain devoted at the feet of

lord Hari.

Now you look at Parasurama the son of Vibhisana, Kfpacarya and Jambavan. They were sanctified because of their devotion at the feet of gj: grPT fgRT gf^i O Uddhava, you have a look at siddhas the sages and the devotees of Hari among the humans who always remain devoted at the feet of the lord with spotless mind and enjoy the long life. You look at Prahlada the son of Hirapyakasipu who was always inimical to the gods. He also remained devoted to lord Hari and achieved long life and conquered the movement of time. There are innumerable other such people also. Therefore as a result of performing great tapas lor several births, one is bom on the auspicious land of Bharata. Those who don't serve the lord they are foolish and sinners.

Leaving Vasudeva, whosoever involves himself in the worldly pleasures and is considered to be a great fool. He willingly leaving aside the nectar, consumes the poison. In the xmiverse who is the wife of whom, who is the son of whom and who is the brother of whom? In the universe when one is over-powered with misfortune who help him except lord Kfsna? This is the reason while why the noble people recite the name of Kv§na throughout the day and night.

ftcpi ^ fTioir rirfr WIIW: i Lord Krsna is the destroyer of the birth, death, old age and ailment, beside removing all the griefs. Only by reciting the name of Sri Krsna, the supreme soul who is blissfiil, one can over¬ come the time or death. O son, you listen to me I am going to tell you about the life of the humans, the ancestors, the gods, Brahma, Nagas, Raks asas and others.

ehlHBWirrRdi •H4MTg 'attlfuttWH.I I am revealing to you a deep secret, you listen to me attentively. The great Virat is the best abode and base of everyone. Innumerable globes are enshrined in his hair-pits, you listen to me about the smallest of the things called atom. The time starts from the atom alone, the same atom takes the form of all, is beyond discussion, i desired the most with distinction multiplies I variously and also gets because of separated because of which people it to be one. It is known as the atom or paramdnu with the combination of three anus is produced trasarem. Three trasarenus make a truti. This has been ordained by the intellectuals. Thereafter a hundred trutis makes a vedha and three vedhas make a lava, three lavas make a nimesa and three nimesa make a ksana, the five hams make a kdsthd, the ten kdsthds make a laghu and fifteen laghus make a dandla. You listen to its measure. A sear

of water should be placed in a vase equal of six palas with the hole made by four fingers with the wire of gold. Till such time it remains submerged in the water, the same is called danda. Similarly two dandas make a mahurta and sixty danda make a tithi. Its eighth part has been described as a prahara. Similarly, four praharas make a day and four praharas make a night.

Fifteen tithis make a fortnight which are of two types known as the bright and dark fortnights. The two fortnights make a month and two months make a season. Six season make a year which are the known as the spring, summer, rainy, winter, autumn and cold.

The intellectuals have described five types of years known as Samvatsara, Pravatsara, Ildvatsara, Anuvatsara and Vatsara. The people who are well-versed in the signs of time or well- aware about the same. O Uddhava, the twelve months make a year known as Vaisakha, Jyestha, Pausa, Magha, Phalguna and Caitra.

Caitra happens to be the last month of the year, the Caitra and Vaisakha months represent the spring season, the Jyestha and Asadha represent the summer season, ^ravana and Bhadrapada represents the rainy search, Asvina and Kartika represent the winter season, Margasirsa and Paus a represent the autumn and Magha and Phalguna represent the cold season. There are two half years kn'own as Uttar&yai^a and Daksinayana.

Both of them combined comprise of a year. The period from the month of Magha to Asadha are treated to be Uttardyana while the period from Sravana to Pausa month is treated as Dak?

iifdyana. The span of night increase from the mouth Sravana up to the month of Pau§a, the people well-versed in the Vedas have described the bright fortnight from Pratipada to the full moon day as the bright fortnight and from the first day after the full moon to the moonless night as the dark fortnight. The days are counted from EkddasI, DvddasX TrayodasX Caturdas'I and There are twenty eight Naksatras, including Asvini, Bharar^i, Krttikd, Rohinl, Mrgasird, bhddrapadd and Revatl. These twenty eight constellation are believed to the wives of the moon and the moon spent the time with them one by one. Though the Vedas only twenty seven constellations as the spouses of the moon, but still the shadow of Sravana constellation is called Abhijit which makes the total as twenty eight.

Once in the month of Caitra, the moon spent time enjoying the conjugal pleasure with his beautiful spouse RohinI, at this Sravana was enraged and entrusting the care of the moon to her shadow, she left for the house of her parents.

Thereafter at the instance of her father the time was distributed. Thereafter the constellation Abhijit was introduced. O son, I have heard about these constellation from the mouth of Krs na tit the mountain of hundred peaks, who always used to move around along with the tithis. Now you listen from me the names of the yogas which are Viskambha, Prlti, Ayusmdn, Brahmandra and Vaidhrti. The names of the karanas are Bava, Vdlava, Kaulava, Taitila, Gar a, Vanija, Visti, Sakuni, Catuspada, Ndga and Kimstughna, The months of the ancestors are strictly like those of the humans. The bright fortnight is the day of the ancestors, while the dark fortnight is considered to be their nights. Similarly, the years of the gods as expectedly like those of the humans. The period of Uttardyana is considered to be their day and the period of Daksindyana is considered to be their night. Seventy one divine yugas make a manvantara.

The age of Indra is exactly like that of Manu which has been described as twenty five thousand and five hundred years. The sun rays do not reach Brahmaloka. The people of Brahmaloka do not know about the day and night after the fall of Indra.

m M %Ttor: T?rR;i Like the movement of the human Brahma too has the movement, who falls. Two palas make a danda and two dandas make a muhurta and with the fall of Indra, his one day is counted. Thirty such days make a month and twelve months make a year. Thus Brahma enjoys the age of a hundred years. After the fall of Brahma, Nimesa a movement of Krsna is counted, there are no days and nights in the Vaikuntha, because it is beyond the reach of the sun. The dwellers of Vaikuntha remain unaware about the day and night. The place is also beyond the reach of the moon and the planets, with the will of the lord, the sighs of zodiac do not move there, the place is illumined with the lustre of lord Krsna and while moving into his palace, one comes across the night.

The same movement of time always prevails in Visnuloka, the lord is the form of the time, the supreme soul and is invisible, the seven neither worlds are also beyond the reach of the sun and the moon, the dwellers of that place are well aware of the same and they developed know how doubt about the same. The gems studded in the hoods of the serpents illumine the place and the fire is lighted in the evening and the night is covered with darkness^ the dwellers of that place know about the time with the ringing of the bells.

They have similar arrangement as we have on the earth. There are fourywga^ known as Satyayuga, Treta, Dvdpara and Kali. The life of each one of these extepds to twelve thousand divine years.

Out of these, Krtayuga has a span of four thousand and eight hundred years. This has been spelt out by the people well-versed in the signs of time. The Satyayuga. has the span of seventeen lakhs and twenty eight thousands years of the humans, O son, the Tretdyuga has the span of lakh and six hundred divine years. This has been told by those well-versed in time. This time is equivalent to twelve lakhs, ninety six thousand years all the humans. According to those who are well-versed in the signs of time, Dvdpara has the span of too thousand and four hundred divine years which period is equivalent to eight lakhs and sixty four thousand years of humans, this has been ordained by those well-versed in the signs of time. O son, the span of Kaliyuga extends to a thousand and two hundred divine years which is equivalent to four lakhs, thirty two thousand years of human beings, this has been told by

those well-versed in the signs of the time.

Thereafter, the astrologer have described the period of Caturyugas eighty lakhs and twenty thousand years. O son, I have narrated to you whatever I had heard earlier about the time. Now you move on to Mathura, the place of Hari.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 409934 (2025-08-10T00:40:57Z); Shanti Lal Nagar English scan pages n1517–n1524: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1517/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.