Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 93

Chapter 93

Unit 236 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 93Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 931 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 93

Source

अथ त्रिनवतितमोऽध्यायः नारायण उवाच उद्धवस्तवनं श्रुत्वा चेतनां प्राप्य राधिका । विलोक्य कृष्णाकारं च तमुवाच शुचाऽन्विता ।। १ ।। राधिकोवाच किन्नाम भवतो वत्स केन वा प्रेरितो भवान् । आगतो वा कुत इति ब्रूह मां केन हेतुना ।। २ ।। कृष्णाकृतिस्त्वं सर्वाङ्गैर्मन्ये त्वां कृष्णपार्षदम् । कृष्णस्य सुशलं ब्रूहि बरदेवस्य सांप्रतम् ।। ३ ।। नन्दस्तिष्ठति तत्रैव हेतुना केन तद्वद । समायास्यति सोविन्दो रम्यं वृन्दावनं वनम् ।। ४ ।। पुनर्द्रक्ष्यामि तस्यैव पूर्णचन्द्रमुखं शुभम् । पुनः क्रीडां करिष्यामि तेनाहं रासमण्डले ।। ५ ।। जले च विहरिष्यामि पुनर्वा सखिभिः सह । श्रीनन्दनन्दनाङ्गे च पुनर्दास्यामि चन्दनम् ।। ६ ।। उद्धव उवाच उद्दवेत्यभिधानं मे क्षत्रियोऽहं वरानने । प्रेषितः शुभवार्तार्थं कृष्णेन परमात्मना ।। ७ ।। तवान्तिकं समायातः पार्षदोऽहं हरेरपि । कृष्णस्य बलदेवस्य शिवं नन्दस्य सांप्रतम् ।। ८ ।। राधिकोवाच अस्ति तद्यमुनाकूलं सुगन्धिपवनोऽस्ति सः । तस्य केलिकदम्बानां मूलमस्तयेव सांप्रतम् ।। ९ ।। पुण्यं वृन्दावनं रम्यं तद्विद्यमानमीप्सितम् । पुंस्कोकिलानां विरुतं तल्पं चन्दनचर्चितम् ।। १० ।। चतुर्विधं च भोज्यं च मधुपानं च सुन्दरम् । दुरन्तो दुःखदोऽप्यस्ति पापिष्ठो मन्मथस्तथा ।। ११ ।। ते च रत्नप्रदीपाश्च ज्वलन्ति रासमण्डले । मणीन्द्रसारनिर्माणमस्त्येव रतिमन्दिरम् ।। १२ ।। गोपाङ्गनागणोऽस्त्येव पूर्णचन्द्रोऽस्ति शोभितः । सुगन्धिपुष्परचितं तल्पं चन्दनचर्चितम् ।। १३ ।। ताम्बूलं रतिभोगार्हं कर्पूरादिसुसंस्कृतम् ।सुगन्धिमालतीमाल्यं श्वेतचामरदर्पणम् ।। १४ ।। मुक्तामाणिक्यसंसक्तहीरहारमनोहरम् । कस्तूरीकुङ्कुमाक्तं च पात्रपूर्णं च चन्दनम् ।। १५ ।। नानोपकाननं रम्यं रम्यक्रीडासरोवरम् । सुगन्धिपुष्पोद्यानं च पद्मश्रेणीमनोहरम् ।। १६ ।। अस्त्येवं सर्वविभवः प्राणनाथः कुतो मम । हा कृष्ण हा रामानाथ क्वासि मे प्राणवल्लभ ।। १७ ।। क्व वाऽपराधो दास्याश्च दासीदोषः पदे पदे । इत्येवमुक्त्वा सा देवी पुनर्मूर्च्छामवाप सा ।। १८ ।। चेतनां कारयामास पुनरेव स उद्धवः । तां दृष्ट्वा परमाश्चर्य मेने क्षत्रियपुंगवः ।। १९ ।। सखीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः । गोपीनां च त्रिलक्षैश्च सुप्रियैः प्रियसेविताम् ।। २० ।। दिवानिशं वेष्टितां च गोपीनां शतकोटिभिः । काचित्कज्जलहस्ता च काचिन्माल्यवराऽपरा ।। २१ ।। काचित्सिन्दूरहस्ता च काचिद्गोरोचनाकरा । काचिच्चन्दनपात्रं च हस्ते कृत्वा च तिष्ठति ।। २२ ।। काचिद्दर्पणहस्ता च काचित्कुङ्कुमावहिका । कस्तूरीपात्रमिष्टं च काचिद्वहति तत्र वै ।। २३ ।। काचिच्चम्पकपात्रं च करे धृत्वा च तिष्ठति । मधुभिर्मधुरैः पूर्णं पात्रं धृत्वा शुचाऽन्विता ।। २४ ।। काचित्सुगन्धितैलं च गृहीत्वा परितिष्ठति । काचिद्वहति ताम्बूलं कर्पूरादिसुवासितम् ।। २५ ।। काचिद्वासितमच्छं च जलं धृत्वा च तिष्ठति । क्रीडापुत्तलिकां काचिच्चित्राढ्यां परिरक्षति ।। २६ ।। काचिद्वहति कन्दूकं काचिच्च रत्नभूषणम् । वह्निशुद्धांशुकं काचिदमूल्यं परिरक्षति ।। २७ ।। काचिद्भक्षयोपहारं च गृहीत्वा परिवर्तते । काचिच्च केशवेशार्थकरोति माल्यमीप्सितम् ।। २८ ।। काचित्कङ्कतिकां धृत्वा पुरतः परितिष्ठति । काचिद्यावकहस्ता च काचिद्धात्रीरसं मुदा ।। २९ ।। दूरतोऽपि वहत्येवं भीता च परितिष्ठति । काचिद्भीता भिया स्तौतिकाचिद्रोदिति शोकतः ।। ३० ।। काचित्तां बौधयेत्येर्व विदग्धा विरहातुराम् । काचिदुत्तापतप्ता च स्निग्धतल्पे मनोहरे ।। ३१ ।। स्थापयेद्दाहदूरार्थं स्निग्धपद्मदले शुभे । एवंभूतां चतां दृष्टवा चोवाच पुनरुद्धवः ।। सुप्रियं कर्णपीयूषं विनयेन च भीतिवत् ।। ३२ ।। उद्धव उवाच जाने त्वां देवदेवीशां सुस्निग्धां सिद्धयोगिनीम् । सर्वशक्तिस्वरूपां च सूलप्रकृतिमीश्वरीम् ।। ३३ ।। श्रीदामशापाद्धरणीं प्राप्तां गोलोककामिनीम् । कृष्णप्राणाधिकां देवीं तद्वक्षःस्थलवासिनीम् ।। ३४ ।। शृणु देवि प्रवक्ष्यामि शुभवार्तामभीप्सिताम् । सुस्थिरं सखिभिः सार्धं हृदयस्नग्धिकारिणीम् ।। ३५ ।। दुःखदावाग्निदग्धायाः सुधावर्षणरूपिणीम् । विरहव्याधियुक्ताया रसायनसमां शुभाम् ।। ३६ ।। तत्र तिष्ठति नन्दोऽयं सानन्दो सुदितः सदा । निमन्त्रितश्च वसुना कृष्णोपनयनावधि ।। ३७ ।। गृहीत्वा सबलं कृष्णं साङ्गे मङ्गलकर्मणि । स नन्दः परमानन्दो सुदाऽऽयास्यति गोकुलम् ।। ३८ ।। आगत्य कृष्णो मुदितः प्रणम्य मातरं पुनः । नक्तमायास्यति मुदा पुण्यं वृन्दावनं वनम् ।। ३९ ।। अचिराद्द्रक्ष्यसि सति श्रीकृष्णमुखपङ्कजम् । सर्वं विरहदुःखं च संत्यक्ष्यसि च सांप्रतम् ।। ४० ।। सुस्थिरा भव मातस्त्वं त्यज शोकं सुदारुणम् । वह्निशुद्धांशुकं रम्यं परिधाय प्रहर्षिता ।। ४१ ।। अमूल्यरत्ननिर्माणभूषणग्रहणं कुरु । गृहाणचन्दनं स्निग्धं कस्तूरीकुङ्कुमान्वितम् ।। ४२ ।। कुरुष्व केशसंस्कारं मालतीमाल्यभूषितम् । सुवेषं कुरु कल्याणि गण्डे च चित्रपत्रकम् ।। ४३ ।। सिन्दूरबिन्दुं सीमन्ते कस्तूरीचन्दनान्वितम् । अलक्तकाक्तं चरणं युक्तं यावकभूषणैः ।। ४४ ।। कुरुष्व तिष्ठचोतिष्ठ रत्नसिंहासने वरे । सपङ्कपङ्कजं तल्पं त्यज सार्धं शुचा सति ।। ४५ ।। भुङ्क्ष्व कृष्णेन मनसा विशुद्धं मधुरं मधु । संस्कृतं भासितं तोयं ताम्बूलं च सुवासितम् ।। ४६ ।। रत्नेन्द्रसारनिर्माणपर्यङ्के मुमनोहरे । वह्निसद्धांशुकाक्ते च मालतीमाल्यभूषिते ।। ४७ ।। सुगन्धियुक्ते कस्तूरीजातीचम्पकचन्दनैः । परितो मालतीमाल्यहीरहारविभूषिते ।। ४८ ।। मणीन्द्रमुक्तामाणिक्यसुन्दरैश्च परिष्कृते । पुष्पमाल्योपधाने च मङ्गलार्हे मुदाऽन्विता ।। ४९ ।। शयनं कुरु देवेशि गोपीभिः सेविता सदा । करोतु सेवनं शश्वत्प्रियालिः श्वेतयामरैः ।। ५० ।। पदारविन्दसेवां च गोपीभक्ता मनोहरे । सद्रत्नसारनिर्माणपर्यङ्के सुमनोहरे ।। ५१ ।। त्येवमुक्त्वा स मुने पुनस्तूष्णीं बभूव ह । प्रणम्य पादपद्मं च ब्रह्मादिसुरवन्दितम् ।। ५२ ।। उद्धवस्य वचःश्रुत्वा सस्मिता राधिका सती । यौतुकं च ददौ तस्मै रत्नसाराङ्गुलीयकम् ।। ५३ ।। अमूल्यं सुन्दरं रम्यं विश्वकर्मविनिर्मितम् । मुखदृश्यं पीतवर्ण सुदीप्तं सुप्रदीपवत् ।। ५४ ।। कृष्णय वह्निना दत्तमपूर्वं रासमण्डले । मणिकुण्डलयुग्मं चामूल्यरत्नविनिर्मितम् ।। ५५ ।। अमूल्यरत्ननिर्माणं सर्वभूषणमीप्सितम् । वह्निशुद्धांशुकयुगं रत्ननिर्माणनायकम् ।। ५६ ।। हीरहारविनिर्माणं हारं च सुमनोहरम् । पुरा दत्तं च सुप्रित्या कृष्णाय वरुणेन च ।। ५७ ।। श्रीसूर्येण च यद्दत्तं श्रीकृष्णाय स्यमन्तकम् । प्रदत्तं कौ(यौ) तुकं तस्मै यद्दत्तं हरिणा पुरा ।। ५८ ।। यद्दत्तं च महेन्द्रेण रत्नसिंहासनं वरम् । तत्प्रदत्तं मुदा देब्या तस्मै प्रीत्या च राधाया ।। ५९ ।। मणीन्द्रसारनिर्माणं छत्ररत्नं मनोहरम् । मुक्तामाणिक्यसारेण हीरहारसमन्वितम् ।। ६० ।। विचित्ररत्नपद्मेन विचित्रं वारुणं सदा । शोभितं परितश्चान्यै रत्ननिर्माणदर्पणैः ।। ६१ ।। यद्दत्तं ब्रह्मण प्रीत्या हरये रासमण्डले । सुप्रीत्या राधया तत्र प्रदत्तमुद्धवाय च ।। ६२ ।। मणिकारविनिर्माणं मणिराजविराजितम् । जपामाल्यं संस्कृतं च यद्दत्तं शंभुना पुरा ।। ६३ ।। तदेव दत्तं तस्मै चाप्यमूल्यं पुण्यदं शुभम् । जन्ममृत्युजराव्याधिहरं चातिमनोहरम् ।। ६४ ।। चन्द्रकान्तमणिं रम्यं चन्द्रदत्तं परिष्कृतम् । चन्द्रावलीं ददौ तस्मै सुदीप्तं पूर्णचन्द्रवत् ।। ६५ ।। विशुद्धं मधुपूर्णं च मधुपात्रं यदक्षयम् । धर्मेण यत्प्रदत्तं च तद्दत्तं प्रियया हरेः ।। ६६ ।। जलभोजनपात्रं च शृद्रं स्वर्णविनिर्मितम् । मिष्टान्नं परमान्नं चददौ सुस्वादुमिष्टकम् ।। ६७ ।। भोजतं कारयित्वा च कर्पूरादिसुवासितम् । ताम्बूलं च ददौ शीघ्रं माल्यं सुस्निग्धचन्दनम् ।। ६८ ।। शुभाशिषं च प्रददौ वाञ्छितं प्रवरं वरम् । ज्ञानं कृष्णेन यद्दत्तं गोलोके रासमण्डले ।। ६९ ।। पुरुषाणां शतं यावन्निश्चलां कमलां ददौ । विद्यां यशस्करीं शुद्धां यशः कीर्तिं सुनिर्मलाम् ।। ७० ।। सर्वसिद्धिं हरेर्दास्यं हरिभक्तिं च निश्चलाम् । पार्षदप्रवरत्वं च पार्षदं च हरेरिति ।। ७१ ।। वरं प्रसादं दत्त्वा च समुत्थाय मुदाऽन्वितम् । वह्निशुद्धांशुके धृत्वा चामूल्यं रत्नभूषणम् ।। ७२ ।। हीरहारं रत्नमालां परिघाय मनोहराम् । सिन्दूरं कज्जलं पुष्पमाल्यं सुस्तिग्धचन्दनम् ।। ७३ ।। रत्नसिंहासनस्थं तं पूजिता पूजितं मुदा । वेष्टिता हर्षनिरतं गौपीनां शातकोटि भिः ।। तप्तकाञ्चनवर्णाभा शतचन्द्रसमप्रभा ।। ७४ ।। राधिकोवाच सत्यमायास्यति हरिः सत्यं निष्कपटं वद । वद तथ्यं भयं त्यक्त्वा सत्यं ब्रूहि सुसंसदि ।। ७५ ।। वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशतात्किल ।। ७६ ।। न हि सत्यात्परो धर्मो नानृतात्पातकं परम् ।। ७७ ।। उद्धव उवाच सत्यमायास्यति हरिः सत्यं द्रक्ष्यसि सुन्दरि । ध्रुवं त्यक्ष्यसि संतापं दृष्ट्वा चन्द्रमुखं हरेः ।। ७८ ।। मद्दर्शनान्महाभागे गतस्ते विरहज्वरः । नानाभोगसुखं भुक्त्वा त्यज चिन्तां दुरत्ययाम् ।। ७९ ।। अहं प्रस्थापयास्यामि गत्वा मधुपुरीं हरिम् । विधाय तत्प्रबोधं च कार्यमन्यत्करिष्यति ।। ८० ।। विदायं कुरु मे मातर्यास्यामि हरिसंनिधिम् । सर्वं तं कथयिष्यामि त्वद्वृत्तान्तं यथोचितम् ।। ८१ ।। राधिकोवाच गमिष्यसि यदा वत्स मथुरां सुमनोहराम् । श्रृणु दुःखकथां कांचित्तिष्ठ वत्स स्थिरोभव ।। ८२ ।। मां विस्मृतो न भवसि विरहज्वरकातराम् । कथयिष्य सि मत्कान्तं ध्रुवं प्रस्थापयिष्यसि ।। ८३ ।। नारीणां मनसो वार्तां को वा जानाति पण्डितः । किंचिच्छास्त्रानुसारेण प्रकरोति निरूपणम् ।। ८४ ।। वेदा वक्तुं न शक्ताश्च शास्त्राणि किं वदन्ति च । कथ यिष्यामि त्वां सर्वं पुत्र कृष्णं च वक्ष्यसि ।। ८५ ।। गेहे वने न भेदो मे पश्वादिषु तथा नृषु । किं वा जलं किमु स्वप्नमज्ञानं च दिवानिशम् ।। ८६ ।। आत्मानं च न जानामि चौदयं चन्द्रसूर्ययोः । क्षणं प्राप्य हरेर्वार्तां चेतनं मे बभूव ह ।। ८७ ।। कृष्णाकृतिं च पश्यामि श्रृणोमि मुरलीध्वनिम् । कुलं लज्जां भयं त्यक्त्वा चिन्तयामिहरेः पदम् ।। ८८ ।। संप्राप्य सर्वजगतामीश्वरं प्रकृतेः परम् । न ज्ञानं मायया तस्य ज्ञात्वा गोपपतेर्मंम ।। ८९ ।। ध्यायन्ते यत्पदाम्भोजं वेदा ब्रह्मादयः सुराः । स भर्त्सितो मया कीपाद्ध्दि शत्यमिदं मम ।। ९० ।। तत्पदाम्भोजसेवाभिर्गुणप्रस्तावतोऽपि वा । तद्भक्त्या यत्क्षणो नीतो ध्यातो ध्यानेन पूजया ।। ९१ ।। तत्रापि मङ्गलं सर्वं हर्षमायुर्व्यंवस्थितम् । विघ्नं च हृदि संतापस्तद्विच्छेदे सदोद्धव ।। ९२ ।। क्रीडाप्रीतिर्नं भविता तादुशीष्टा पुनर्मम । तादृशं प्रेमसौभाग्यं निर्जने न च संगमः ।। ९३ ।। वृन्दावनं न यास्यामि तत्सङ्गे पुनरुद्धव । चन्दनं वा न दास्यामि नन्दनन्दनवक्षसि ।। ९४ ।। मालां तस्मै न दास्यामि न द्रक्ष्यामि मुखाम्बुजम् । मालतीनां केतकीनां चम्पकानां च काननम् ।। ९५ ।। पुनरेव न यास्यामि सुन्दरं रासमण्डलम् । हरिसङ्गे न यास्यामि रम्यं चन्द्रनकाननम् ।। ९६ ।। पुनरेव न यास्यामि मलयं रत्नमन्दिरम् । माधवीनां वनं रम्यं रहस्यं मधुकाननम् ।। ९७ ।। श्रीखण्डकाननं रम्यं स्वच्छं चन्द्रसरोवरम् । विस्पन्दकं सुरवनं नन्दनं पुष्पभद्रकम् ।। ९८ ।। भद्रकं हरिणां सार्धं न यास्यामि पुनः पुनः । क्व सा रम्या विकसिता माधवे माधवीलता ।। ९९ ।। क्व गता माधवी रात्रिः क्व मधुः क्वापि माधवः । इस्येवमुक्त्वा सा राधा ध्यात्वा कृष्णपदाम्बुजम् ।। पुनर्मुर्च्छां च संप्रप्य रूदती पुलकान्विता ।। १०० ।। इति श्रीब्रह्मo महाo नारदनाo श्रीकृष्मजन्मखo उत्तरo राधोद्धवसंo त्रिनवतितमोऽध्यायः ।। ९३ ।।

atha trinavatitamo'dhyāyaḥ nārāyaṇa uvāca uddhavastavanaṃ śrutvā cetanāṃ prāpya rādhikā | vilokya kṛṣṇākāraṃ ca tamuvāca śucā'nvitā || 1 || rādhikovāca kinnāma bhavato vatsa kena vā prerito bhavān | āgato vā kuta iti brūha māṃ kena hetunā || 2 || kṛṣṇākṛtistvaṃ sarvāṅgairmanye tvāṃ kṛṣṇapārṣadam | kṛṣṇasya suśalaṃ brūhi baradevasya sāṃpratam || 3 || nandastiṣṭhati tatraiva hetunā kena tadvada | samāyāsyati sovindo ramyaṃ vṛndāvanaṃ vanam || 4 || punardrakṣyāmi tasyaiva pūrṇacandramukhaṃ śubham | punaḥ krīḍāṃ kariṣyāmi tenāhaṃ rāsamaṇḍale || 5 || jale ca vihariṣyāmi punarvā sakhibhiḥ saha | śrīnandanandanāṅge ca punardāsyāmi candanam || 6 || uddhava uvāca uddavetyabhidhānaṃ me kṣatriyo'haṃ varānane | preṣitaḥ śubhavārtārthaṃ kṛṣṇena paramātmanā || 7 || tavāntikaṃ samāyātaḥ pārṣado'haṃ harerapi | kṛṣṇasya baladevasya śivaṃ nandasya sāṃpratam || 8 || rādhikovāca asti tadyamunākūlaṃ sugandhipavano'sti saḥ | tasya kelikadambānāṃ mūlamastayeva sāṃpratam || 9 || puṇyaṃ vṛndāvanaṃ ramyaṃ tadvidyamānamīpsitam | puṃskokilānāṃ virutaṃ talpaṃ candanacarcitam || 10 || caturvidhaṃ ca bhojyaṃ ca madhupānaṃ ca sundaram | duranto duḥkhado'pyasti pāpiṣṭho manmathastathā || 11 || te ca ratnapradīpāśca jvalanti rāsamaṇḍale | maṇīndrasāranirmāṇamastyeva ratimandiram || 12 || gopāṅganāgaṇo'styeva pūrṇacandro'sti śobhitaḥ | sugandhipuṣparacitaṃ talpaṃ candanacarcitam || 13 || tāmbūlaṃ ratibhogārhaṃ karpūrādisusaṃskṛtam |sugandhimālatīmālyaṃ śvetacāmaradarpaṇam || 14 || muktāmāṇikyasaṃsaktahīrahāramanoharam | kastūrīkuṅkumāktaṃ ca pātrapūrṇaṃ ca candanam || 15 || nānopakānanaṃ ramyaṃ ramyakrīḍāsarovaram | sugandhipuṣpodyānaṃ ca padmaśreṇīmanoharam || 16 || astyevaṃ sarvavibhavaḥ prāṇanāthaḥ kuto mama | hā kṛṣṇa hā rāmānātha kvāsi me prāṇavallabha || 17 || kva vā'parādho dāsyāśca dāsīdoṣaḥ pade pade | ityevamuktvā sā devī punarmūrcchāmavāpa sā || 18 || cetanāṃ kārayāmāsa punareva sa uddhavaḥ | tāṃ dṛṣṭvā paramāścarya mene kṣatriyapuṃgavaḥ || 19 || sakhībhiḥ saptabhiḥ śaśvatsevitāṃ śvetacāmaraiḥ | gopīnāṃ ca trilakṣaiśca supriyaiḥ priyasevitām || 20 || divāniśaṃ veṣṭitāṃ ca gopīnāṃ śatakoṭibhiḥ | kācitkajjalahastā ca kācinmālyavarā'parā || 21 || kācitsindūrahastā ca kācidgorocanākarā | kāciccandanapātraṃ ca haste kṛtvā ca tiṣṭhati || 22 || kāciddarpaṇahastā ca kācitkuṅkumāvahikā | kastūrīpātramiṣṭaṃ ca kācidvahati tatra vai || 23 || kāciccampakapātraṃ ca kare dhṛtvā ca tiṣṭhati | madhubhirmadhuraiḥ pūrṇaṃ pātraṃ dhṛtvā śucā'nvitā || 24 || kācitsugandhitailaṃ ca gṛhītvā paritiṣṭhati | kācidvahati tāmbūlaṃ karpūrādisuvāsitam || 25 || kācidvāsitamacchaṃ ca jalaṃ dhṛtvā ca tiṣṭhati | krīḍāputtalikāṃ kāciccitrāḍhyāṃ parirakṣati || 26 || kācidvahati kandūkaṃ kācicca ratnabhūṣaṇam | vahniśuddhāṃśukaṃ kācidamūlyaṃ parirakṣati || 27 || kācidbhakṣayopahāraṃ ca gṛhītvā parivartate | kācicca keśaveśārthakaroti mālyamīpsitam || 28 || kācitkaṅkatikāṃ dhṛtvā purataḥ paritiṣṭhati | kācidyāvakahastā ca kāciddhātrīrasaṃ mudā || 29 || dūrato'pi vahatyevaṃ bhītā ca paritiṣṭhati | kācidbhītā bhiyā stautikācidroditi śokataḥ || 30 || kācittāṃ baudhayetyerva vidagdhā virahāturām | kāciduttāpataptā ca snigdhatalpe manohare || 31 || sthāpayeddāhadūrārthaṃ snigdhapadmadale śubhe | evaṃbhūtāṃ catāṃ dṛṣṭavā covāca punaruddhavaḥ || supriyaṃ karṇapīyūṣaṃ vinayena ca bhītivat || 32 || uddhava uvāca jāne tvāṃ devadevīśāṃ susnigdhāṃ siddhayoginīm | sarvaśaktisvarūpāṃ ca sūlaprakṛtimīśvarīm || 33 || śrīdāmaśāpāddharaṇīṃ prāptāṃ golokakāminīm | kṛṣṇaprāṇādhikāṃ devīṃ tadvakṣaḥsthalavāsinīm || 34 || śṛṇu devi pravakṣyāmi śubhavārtāmabhīpsitām | susthiraṃ sakhibhiḥ sārdhaṃ hṛdayasnagdhikāriṇīm || 35 || duḥkhadāvāgnidagdhāyāḥ sudhāvarṣaṇarūpiṇīm | virahavyādhiyuktāyā rasāyanasamāṃ śubhām || 36 || tatra tiṣṭhati nando'yaṃ sānando suditaḥ sadā | nimantritaśca vasunā kṛṣṇopanayanāvadhi || 37 || gṛhītvā sabalaṃ kṛṣṇaṃ sāṅge maṅgalakarmaṇi | sa nandaḥ paramānando sudā''yāsyati gokulam || 38 || āgatya kṛṣṇo muditaḥ praṇamya mātaraṃ punaḥ | naktamāyāsyati mudā puṇyaṃ vṛndāvanaṃ vanam || 39 || acirāddrakṣyasi sati śrīkṛṣṇamukhapaṅkajam | sarvaṃ virahaduḥkhaṃ ca saṃtyakṣyasi ca sāṃpratam || 40 || susthirā bhava mātastvaṃ tyaja śokaṃ sudāruṇam | vahniśuddhāṃśukaṃ ramyaṃ paridhāya praharṣitā || 41 || amūlyaratnanirmāṇabhūṣaṇagrahaṇaṃ kuru | gṛhāṇacandanaṃ snigdhaṃ kastūrīkuṅkumānvitam || 42 || kuruṣva keśasaṃskāraṃ mālatīmālyabhūṣitam | suveṣaṃ kuru kalyāṇi gaṇḍe ca citrapatrakam || 43 || sindūrabinduṃ sīmante kastūrīcandanānvitam | alaktakāktaṃ caraṇaṃ yuktaṃ yāvakabhūṣaṇaiḥ || 44 || kuruṣva tiṣṭhacotiṣṭha ratnasiṃhāsane vare | sapaṅkapaṅkajaṃ talpaṃ tyaja sārdhaṃ śucā sati || 45 || bhuṅkṣva kṛṣṇena manasā viśuddhaṃ madhuraṃ madhu | saṃskṛtaṃ bhāsitaṃ toyaṃ tāmbūlaṃ ca suvāsitam || 46 || ratnendrasāranirmāṇaparyaṅke mumanohare | vahnisaddhāṃśukākte ca mālatīmālyabhūṣite || 47 || sugandhiyukte kastūrījātīcampakacandanaiḥ | parito mālatīmālyahīrahāravibhūṣite || 48 || maṇīndramuktāmāṇikyasundaraiśca pariṣkṛte | puṣpamālyopadhāne ca maṅgalārhe mudā'nvitā || 49 || śayanaṃ kuru deveśi gopībhiḥ sevitā sadā | karotu sevanaṃ śaśvatpriyāliḥ śvetayāmaraiḥ || 50 || padāravindasevāṃ ca gopībhaktā manohare | sadratnasāranirmāṇaparyaṅke sumanohare || 51 || tyevamuktvā sa mune punastūṣṇīṃ babhūva ha | praṇamya pādapadmaṃ ca brahmādisuravanditam || 52 || uddhavasya vacaḥśrutvā sasmitā rādhikā satī | yautukaṃ ca dadau tasmai ratnasārāṅgulīyakam || 53 || amūlyaṃ sundaraṃ ramyaṃ viśvakarmavinirmitam | mukhadṛśyaṃ pītavarṇa sudīptaṃ supradīpavat || 54 || kṛṣṇaya vahninā dattamapūrvaṃ rāsamaṇḍale | maṇikuṇḍalayugmaṃ cāmūlyaratnavinirmitam || 55 || amūlyaratnanirmāṇaṃ sarvabhūṣaṇamīpsitam | vahniśuddhāṃśukayugaṃ ratnanirmāṇanāyakam || 56 || hīrahāravinirmāṇaṃ hāraṃ ca sumanoharam | purā dattaṃ ca suprityā kṛṣṇāya varuṇena ca || 57 || śrīsūryeṇa ca yaddattaṃ śrīkṛṣṇāya syamantakam | pradattaṃ kau(yau) tukaṃ tasmai yaddattaṃ hariṇā purā || 58 || yaddattaṃ ca mahendreṇa ratnasiṃhāsanaṃ varam | tatpradattaṃ mudā debyā tasmai prītyā ca rādhāyā || 59 || maṇīndrasāranirmāṇaṃ chatraratnaṃ manoharam | muktāmāṇikyasāreṇa hīrahārasamanvitam || 60 || vicitraratnapadmena vicitraṃ vāruṇaṃ sadā | śobhitaṃ paritaścānyai ratnanirmāṇadarpaṇaiḥ || 61 || yaddattaṃ brahmaṇa prītyā haraye rāsamaṇḍale | suprītyā rādhayā tatra pradattamuddhavāya ca || 62 || maṇikāravinirmāṇaṃ maṇirājavirājitam | japāmālyaṃ saṃskṛtaṃ ca yaddattaṃ śaṃbhunā purā || 63 || tadeva dattaṃ tasmai cāpyamūlyaṃ puṇyadaṃ śubham | janmamṛtyujarāvyādhiharaṃ cātimanoharam || 64 || candrakāntamaṇiṃ ramyaṃ candradattaṃ pariṣkṛtam | candrāvalīṃ dadau tasmai sudīptaṃ pūrṇacandravat || 65 || viśuddhaṃ madhupūrṇaṃ ca madhupātraṃ yadakṣayam | dharmeṇa yatpradattaṃ ca taddattaṃ priyayā hareḥ || 66 || jalabhojanapātraṃ ca śṛdraṃ svarṇavinirmitam | miṣṭānnaṃ paramānnaṃ cadadau susvādumiṣṭakam || 67 || bhojataṃ kārayitvā ca karpūrādisuvāsitam | tāmbūlaṃ ca dadau śīghraṃ mālyaṃ susnigdhacandanam || 68 || śubhāśiṣaṃ ca pradadau vāñchitaṃ pravaraṃ varam | jñānaṃ kṛṣṇena yaddattaṃ goloke rāsamaṇḍale || 69 || puruṣāṇāṃ śataṃ yāvanniścalāṃ kamalāṃ dadau | vidyāṃ yaśaskarīṃ śuddhāṃ yaśaḥ kīrtiṃ sunirmalām || 70 || sarvasiddhiṃ harerdāsyaṃ haribhaktiṃ ca niścalām | pārṣadapravaratvaṃ ca pārṣadaṃ ca hareriti || 71 || varaṃ prasādaṃ dattvā ca samutthāya mudā'nvitam | vahniśuddhāṃśuke dhṛtvā cāmūlyaṃ ratnabhūṣaṇam || 72 || hīrahāraṃ ratnamālāṃ parighāya manoharām | sindūraṃ kajjalaṃ puṣpamālyaṃ sustigdhacandanam || 73 || ratnasiṃhāsanasthaṃ taṃ pūjitā pūjitaṃ mudā | veṣṭitā harṣanirataṃ gaupīnāṃ śātakoṭi bhiḥ || taptakāñcanavarṇābhā śatacandrasamaprabhā || 74 || rādhikovāca satyamāyāsyati hariḥ satyaṃ niṣkapaṭaṃ vada | vada tathyaṃ bhayaṃ tyaktvā satyaṃ brūhi susaṃsadi || 75 || varaṃ kūpaśatādvāpī varaṃ vāpīśatātkratuḥ | varaṃ kratuśatātputraḥ satyaṃ putraśatātkila || 76 || na hi satyātparo dharmo nānṛtātpātakaṃ param || 77 || uddhava uvāca satyamāyāsyati hariḥ satyaṃ drakṣyasi sundari | dhruvaṃ tyakṣyasi saṃtāpaṃ dṛṣṭvā candramukhaṃ hareḥ || 78 || maddarśanānmahābhāge gataste virahajvaraḥ | nānābhogasukhaṃ bhuktvā tyaja cintāṃ duratyayām || 79 || ahaṃ prasthāpayāsyāmi gatvā madhupurīṃ harim | vidhāya tatprabodhaṃ ca kāryamanyatkariṣyati || 80 || vidāyaṃ kuru me mātaryāsyāmi harisaṃnidhim | sarvaṃ taṃ kathayiṣyāmi tvadvṛttāntaṃ yathocitam || 81 || rādhikovāca gamiṣyasi yadā vatsa mathurāṃ sumanoharām | śrṛṇu duḥkhakathāṃ kāṃcittiṣṭha vatsa sthirobhava || 82 || māṃ vismṛto na bhavasi virahajvarakātarām | kathayiṣya si matkāntaṃ dhruvaṃ prasthāpayiṣyasi || 83 || nārīṇāṃ manaso vārtāṃ ko vā jānāti paṇḍitaḥ | kiṃcicchāstrānusāreṇa prakaroti nirūpaṇam || 84 || vedā vaktuṃ na śaktāśca śāstrāṇi kiṃ vadanti ca | katha yiṣyāmi tvāṃ sarvaṃ putra kṛṣṇaṃ ca vakṣyasi || 85 || gehe vane na bhedo me paśvādiṣu tathā nṛṣu | kiṃ vā jalaṃ kimu svapnamajñānaṃ ca divāniśam || 86 || ātmānaṃ ca na jānāmi caudayaṃ candrasūryayoḥ | kṣaṇaṃ prāpya harervārtāṃ cetanaṃ me babhūva ha || 87 || kṛṣṇākṛtiṃ ca paśyāmi śrṛṇomi muralīdhvanim | kulaṃ lajjāṃ bhayaṃ tyaktvā cintayāmihareḥ padam || 88 || saṃprāpya sarvajagatāmīśvaraṃ prakṛteḥ param | na jñānaṃ māyayā tasya jñātvā gopapatermaṃma || 89 || dhyāyante yatpadāmbhojaṃ vedā brahmādayaḥ surāḥ | sa bhartsito mayā kīpāddhdi śatyamidaṃ mama || 90 || tatpadāmbhojasevābhirguṇaprastāvato'pi vā | tadbhaktyā yatkṣaṇo nīto dhyāto dhyānena pūjayā || 91 || tatrāpi maṅgalaṃ sarvaṃ harṣamāyurvyaṃvasthitam | vighnaṃ ca hṛdi saṃtāpastadvicchede sadoddhava || 92 || krīḍāprītirnaṃ bhavitā tāduśīṣṭā punarmama | tādṛśaṃ premasaubhāgyaṃ nirjane na ca saṃgamaḥ || 93 || vṛndāvanaṃ na yāsyāmi tatsaṅge punaruddhava | candanaṃ vā na dāsyāmi nandanandanavakṣasi || 94 || mālāṃ tasmai na dāsyāmi na drakṣyāmi mukhāmbujam | mālatīnāṃ ketakīnāṃ campakānāṃ ca kānanam || 95 || punareva na yāsyāmi sundaraṃ rāsamaṇḍalam | harisaṅge na yāsyāmi ramyaṃ candranakānanam || 96 || punareva na yāsyāmi malayaṃ ratnamandiram | mādhavīnāṃ vanaṃ ramyaṃ rahasyaṃ madhukānanam || 97 || śrīkhaṇḍakānanaṃ ramyaṃ svacchaṃ candrasarovaram | vispandakaṃ suravanaṃ nandanaṃ puṣpabhadrakam || 98 || bhadrakaṃ hariṇāṃ sārdhaṃ na yāsyāmi punaḥ punaḥ | kva sā ramyā vikasitā mādhave mādhavīlatā || 99 || kva gatā mādhavī rātriḥ kva madhuḥ kvāpi mādhavaḥ | isyevamuktvā sā rādhā dhyātvā kṛṣṇapadāmbujam || punarmurcchāṃ ca saṃprapya rūdatī pulakānvitā || 100 || iti śrībrahmao mahāo nāradanāo śrīkṛṣmajanmakhao uttarao rādhoddhavasaṃo trinavatitamo'dhyāyaḥ || 93 ||

English translation

Conversation between Radha and Uddhava Narayana said- On listening to the stotra of Uddhava, Radha regained consciousness, then convincing Uddhava as Krsna she spoke to him.

Radhika said- O son, who are you? What is your name? Who has sent you, where from have you arrived? And what is the purpose of your arrival here? You tell me.

All of your limbs resemble those of Krsna. I therefore, believe what you happen to be the courtier of Krsna, therefore you let me know about the welfare of Krsna and Baladeva. You also tell me as to how is Nanda staying there?

Would Krsna ever come to this charming Vnidavana, when I would be able to have a look at his moon like face? Shall be able to enjoys the divine dance with him in the Rasamandala, shall I again have the chance of enjoy the water-sport with my friends? Would I be able to plaster the sandal-paste on the body of Krsna?.

Uddhava said- O beautiful faced one, I am a Ksatriya and my name is Uddhava. Krsna the supreme soul has deputed me to convey the news about his welfare.. I happen to be the courtier of the lord, that is why I have arrived here.

Currently Krsna, Baladeva and Nanda are quite well in Mathura.

Radhika said- The bank of Yamuna is present here, the fragrant wind is blowing, the kadamba tree is also available for his sports. The beautiful and auspicious Vmdavana is also there, the cuckoos are issuing sweet notes, the bed with sandal-paste is also there, all the, four types of eatables and the honey is also there. That wicked god of love, who always causes pain is also there. The lamps of gems are burning in the Rdsamandala, the pleasure house is also there which has been built with the best of gems. The cowherdesses are there, the full moon is there, the flower bed painted with sandal-paste is also there issuing fragrance. The betel with camphor is also there which is consumed after performing the love-sport, the fragrant garland of jasmine flower is also there, the white fly-whisks is there, beside, the mirror made of gems, the garland of gems, the pool for with the water sport surrounded by charming gardens is also there,

the garden with fragrant flower is also there, the lines of beautiful lotus flowers are there. Thus all the pleasures are available but where is the lord of my life? O Krsna, O Saranatha, O lord of my life, where are you? what is the fault of the slave girl like me or otherwise the fault of the slave girl is visible at every step. Thus speaking she again fainted.

f <5i i Py T R RlnM Thereafter, Uddhava somehow brought her to senses again and he was immensely surprised. At that point of time the seven female friends of Radha where moving white fly-whisks on her.

Three lakhs of cowherdesses remained in attention, always to serve Radha. She was surrounded by a hundred crores of cowherdesses through out the day and night. Some of them carried the collyrium in their hands, some of them carried the garland of flowers.

Some carried vermilion in their hands, while others carried gorocana, while still others carried the vases of sandal-wood in their hands, some of them carried the mirrors, some of them carried kumkum and others carried vases of kasturl.

Someone carried the vase of campaka flowers while others carried the vases of honey filled with gems. Some of them carried the fragrant oil, some of them carried fragrant oil, some of them carried the betels with the fragrance of camphor, while others carried the scented water. Some of them were attending to the dancing puppets.

Some of them carried the balls, some of them carried the gem-studded ornaments while others carried invaluable garments sanctified by fire, some of them carried the eatables. Some of them were inserting the flowers in the hair of Radha, while others were carrying the combs. Some of them carried the red paint for the feet and some of them carried the essence of myrobalan and were standing in panic at a distance, someone feeling panicky was praying while someone was grief-stricken and crying, some of the intelligent cowherdesses were addressiiig sweet words to Radha, who was burning with separation.

Someone was looking at Radha, who was lying at the beautiful bed and was trying to remove the grief of separation. Someone of them was trying to lay Radha on the bed of lotus leaves. Finding Radha in such a condition Uddhava felt panicky and he.spoke words which were sweet like nectar to Radha.

Uddhava said- I know you fiilly well, you happen to be the foremost of all the gods and goddesses or affectionate, Siddhayogim, the form of the entire prowess, Mulaprakrti, Isvari and the damsel of Goloka^ you have incarnated on the earth because of the curse of Srldama, O goddess, you happen to be the beloved of Sri Krsna and always reside in his heart.

O goddess, you be attentive and listen to me with your cowherdesses, I have come here to convey a good news to you which is desired by you and pleases the heart and would be serve as the rain to extinguished the fire of separation or serves the medicine for the person ailing from O mother, you composer yourself and clad yourself in the divine garment sanctified by fire you adorn yourself with gem-studded ornaments and apply the paste of kasturl, kumfmm and sandal-paste over your body. Decorate your hair with the garland of jasmine flowers, O virtuous one, now you adorn yourself with the best of costumes and have your cheeks suitably painted and the pasting of hair would be adorned with kasturl and sandal-paste, applying the spot of vermilion over your forehead and the red paste over the soles of your feet. You now get up and occupy the gem-studded lion-throne, you discard the dirty bed of the loais leaves. ^

Vasudeva has invited Nanda to remain in Mathura till the performing of the thread ceremony of Krsna. Therefore Nanda is quite happy thereafter the completion of those festivities, Nanda accompanied by Krsna. and would delightful return to Gokula.

At that time SrT Krsna would be delightful, bow in reverence to the mother and would return to Vrndavana in the night.

O chaste lady you would surely have a look at the lotus-like face of Sri Krsna and would be relieved of the pain of separation.

You consume the sweet beverages, devoting your mind towards Krsna. You consume the fragrant betel and water, enjoy the channiiig bed delightfully which is having a bed sheet of fine cloth sanctified by fire and is also decorated with the garlands of jasmine flowers kasturl, lilies, campaka flowers and sandal-paste. Issuing divine fragrance, it is decorated with the garland of jasmine flowers from all sides, is decorated by several precious gems and the Jewels and the pillow is made of the best of auspicious flowers, O goddess, all the cowherdesses serve you some of your dear friends are moving the white fly- whisks uninterruptedly, but I want that you should be lodged over the lion throne which is built of the best of the gems and all the cowherdesses should serve at your feet. O sage, thus speaking Uddhava adored the lotus-like feet of Radha which are adored by Brahma and all other gods daily with reverence. After thus

speaking, Uddhava kept quiet.

On hearing the words of Uddhava, the smiling and chaste Radha offered to him a ring which was invaluable, beautiful and studded with gems and was made by Visvakarma. She then offered him the two ear ornaments in which one could look his own reflection. They were yellow in colour, were unprecedented and were shining like the lamp. These kundalas were handed over by lord Agni to Krsna in the Rdsamandala.

Thereafter she also gave him several gem- studded ornaments and the costumes sanctified by fire, the garland of gems which had been handed over by Varuna to Krsna in the earlier times, she also handed over the Syamantaka gem to Uddhava which was handed over by Surya to Krsna. The same gem was presented by Krsna to Thereafter the goddess Radha handed over the lion-throne studded with best of gems which was presented to ^rl Krsna by Mahendra quite delightfully. She also gave fiim the chatra which was made of the best of gems and diamonds. A garland of diamonds decorated it and several lotus flowers of gems were engraved over it- She also gave the mirror of gems which was handed over to Krsna by Brahma in the Rdsamandala.

This was also handed over to Uddhava by Thereafter she also gave him a garland of china-rose flower in which the best of gems were studded and which was given in earlier times by Siva to Krsna and was invaluable, auspicious, remover of deaths birth and old age, beside the ailment. She also handed over the Candrakdnta gem which was given to Krsna by the moon was an excellent gem and had the lustre of the full She also handed over the pure imperishable vase of honey which was handed over to Krsna by Dharmaraja.

She also gave Uddhava, the gold vase which were quite auspicious and were used for taking food and water, she also served the sweet and delicious dishes to him including pdyasam. She than offered him the betel sanctified by camphor beside the garland of flowers beside, the garland of flowers with soaked in sandal-paste.

jOTMt w -andfviV'THi ^i TlHkt VWdVl(i(^;ll She than blessed him variously and bestowed him with the divine knowledge which was imparted by lord Krsna himself to Rcldha in Rdsamandala of the Goloka^ she than blessed him that the LaksmI would not depart from his house up to a hundred generations, beside bestowing the knowledge of Yasaskari, wide spread popularity, spotless, glory, all the siddhis, the slavehood of the lord, the infallible devotion to the lord, beside becoming the best of the courtier of the lord. This delightfully handing over all these things and pronouncing the blessing on him, Radhika got up and she clad herself in the divine costumes sanctified by fire adorned herself with the best of gem-studded ornaments, garland of diamonds and also applied the spot of vermilion over her forehead besides the collyrium in the eyes. She wore long garland of flowers. She applied sandal-paste on her body

and than adored Uddhava who was seated on the gem-studded lion throne. At that point of time the complexion of the body of Radha resembled that of the molten gold and her lustre exceeded hundreds of moons. She was surrounded by a hundred crores of cowherdesses, thereafter, she I delightfully adored Uddhava who was seated on I the gem-studded lion-throne.

Radhika said- Will Krsna really come back you tell me truthfully, he is deprived of deceit- fullness, you speak out the truth in this vast assembly because the step-well is better than a hundred wells and a yajfia is better than a hundred step wells, a son is better than a hundred yajftas md truthfulness is better than a hundred sons. There is no sin greater than the falsehood.

Uddhava said- O beautiful one, the lord would surely come and you would truthfully meet him and your suffering would come to an end at the sight of the lotus-like face of lord.

O virtuous one, the pain of separation from which you had been suffering has disappeared with my meeting you, you shed away all the worries which are always troublesome and enjoy all the pleasures of life, I am returning to Mathura and shall surely send the lord back to Gokula. He would complete all the unfinished tasks. O mother, let me take leave of I shall go to the lord and reaching there, I shall to him convey news about Radhika said- O son, in case you have to go to the pleasant city of Mathura, then you stay here for some more time and listen to my painful story. I am badly suffering from the pain of separation. Therefore, you do not forget me reaching there. You tell my beloved everything and send him here without fail.

Otherwise, who can reach the mind of a damsel, a learned person can create anything according to the scriptures but when even the Vedas are unable to recite his glory then what could the scriptures do. Therefore, O son, I shall speak everything to you which you should convey to lord Kysna.

Because of the pain of separation I am unable to distinguish between the human being and an animal between the water and the earth or the day or night, I have indeed forgotten myself and am unmindful of the rising of the sun and the moon or their setting. I have regained consciousness simply in order to receive the news about the welfare of the lord, during all the time I only visualise the form of the lord or to listen to the sweet notes of his flute. Discarding the traditional shame and fear, I always get engrossed at the lotus-like feet of the lord. No doubt I achieved the lord of universe who is beyond Prakfti but I could not achieve the true knowledge because of his illusion. I understood him only as the lord of cowherdesses whose feet are adored by Brahma and all other gods beside the Vedas. I denounced him in anger. This fact is paining my heart like a thorn. O Uddhava, the time I spent while serving at his lotus-like feet,

reciting his glory and adoring him is considered to be quite auspicious and delightful moment and my entire life is dedicated to him, now in separation from him my heart always remains painful. Because of this, I shall not have the fortune to enjoy his love sport-in the secluded place like this.

I shall not be able to go to the Vmdavana any more. I would not be able to plaster his body with sandal-paste nor would I be able to adorn his neck with garland of flowers nor would I be able to have a look at his lotus-like face. I would not be able to visit the jasmine, the lilly and campaka flowers forests or the Rdsamandala any further. The visit of the charming sandal-wood forest with Hari, the peaks of gems of the Malaya mountain, the Madhavi forest, the Madhuvana which is quite secretive and charming, the Khanda-vana, the beautiful and charming Candrasarovara, the Nandana-vana of the gods, the forest of Puspabhadraka and Bhadraka cannot be visited by me any further with out company of the lord. Where is the beautiful Madhavi creepers laiden with flowers in the spring season? Where is the night of the spring season. Where is the spring season? And Alas, where has Madhava gone? Thus speaking Radha

started devoting her mind at the lotus-like feet of the lord, she felt emotional and fainted while

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122527 (2017-09-18T13:33:29Z); Shanti Lal Nagar English scan pages n1497–n1505: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1497/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.