Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 92

Chapter 92

Unit 235 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 92Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 921 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 92

Source

अथ द्विनवतितमोऽध्यायः नारायण उवाच श्रीकृष्णप्रेरितो हृष्टः प्रणम्य च गणेश्वरम् । स्मरन्नारायणं शंभुं दुर्गा लक्ष्मीं सरस्वतीम् ।। १ ।। गङ्गां च मनसि ध्यात्वा दिमीशं तं महेश्वरम् । प्रजगामोद्धवश्चैव दृष्ट्वा मङ्गलमूचकम् ।। २ ।। शुश्राव दुंदुभिं घण्टानादं शङ्खध्वनिं तथा । हरिशब्दं च संगीतं शुश्राव मङ्गलध्वनिम् ।। ३ ।। पतिपुत्रवतीं साध्वीं प्रदीपं माल्यदर्पणम् । परिबूर्णतमं कुम्भं दधिलाजफलानि च ।। ४ ।। दूर्वाङ्कुरं शुक्लधान्यं रजतं काञ्चनं मधु । ब्राह्मणानां समूहं च कृष्णसारं वृषं घृतम् ।। ५ ।। सद्योमांसं गजेन्द्रं च नृपेन्द्रं श्वेतघोटकम् । पताकां नकुलं चाषं शुक्लं पुष्पं च चन्दनम् ।। ६ ।। दृष्ट्वैवं पथि कल्याणं प्राप वृन्दावनं वनम् । ददर्श पुरतो वृक्षं भाण्डीरे वटमक्षयम् ।। ७ ।। स्निग्धपर्ण रक्तवर्ण पुण्यदं तीर्थमीप्सितम् । सुवेषान्बालकांश्चैव रत्नभूषणभूषितान् ।। ८ ।। वदतो बलकृष्णेति रुदतश्च शुचाऽन्वितान् । तानाश्वास्य ययौ दूरं प्रविश्य नगरं मुदा ।। ९ ।। ददर्श नन्दशिबिरं रचितं विश्वकर्मणा । मणिरत्नविनिर्माणं मुक्तामाणिक्यहीरकैः ।। १० ।। परिच्छन्नं मनोरम्यं सद्रत्नकलशान्वितम् । द्वारं चित्रं विचित्राढ्यं दृष्ट्वा च प्रविवेश सः ।। ११ ।। अवरुह्य रथात्तूर्ण तस्थौ तत्प्राङ्गणे मुदा । यशोदा रोहिणी शीघ्रं पप्रच्छ कुशलं परम् ।। १२ ।। आसनं च जलं गां च मधुपर्कं ददौ मुदा । क्व नन्दः क्व बलः कृष्णः सत्यं तत्कथयोद्धव ।। १३ ।। उद्धवः कथयामास सर्व भद्रं क्रमेण च । सार्धं च बलकृष्णाभ्यां नन्दः सानन्दपूर्वकम् ।। १४ ।। आयास्यति विलम्बेन कृष्णोपनयनावधि । युष्माकं कुशलं तत्वं विज्ञाय विधिपूर्वकम् ।। १५ ।। अहं यास्यामि मथुरां यशोदे शृणु सांप्रतम् । श्रृत्वा मङ्गलवार्ता च यशोदा रोहिणी मुदा ।। १६ ।। ब्राह्मणाय ददौ रत्नं सुवर्णं वस्त्रमीप्सितम् । उद्धवं भोजयामास मिष्टान्नं च सुधोपमम् ।। १७ ।। मणिश्रेष्ठं च रत्नं च ददौ तस्मै च हीरकम् । वाद्यं च वादयामास भद्रं नानाविधं तथा ।। १८ ।। ब्रह्मणान्भोजयामास कारयामास मङ्गलम् । वेदाश्च पाठयामास परमानन्दपूर्वकम् ।। १९ ।। शंकरं पूजयामास विप्रद्वारा परं विभूम् । नानोपहारैर्नैवेद्यैः पुष्पधूपप्रदीपकैः ।। २० ।। चन्दनैर्वस्त्रताम्बूलैर्मधुगव्यघृतादिभिः । भवानीं पूजयामास श्रीवृन्दारण्यदेवताम् ।। २१ ।। षोडशोपचारैर्द्रव्यैर्बलिभिर्विविधैर्मुने । महिषाणां शते शुद्धं छागालानां सहस्रकम् ।। २२ ।। मेषाणामयुतं शुद्धं युक्तमादाय पञ्चकम् । ब्राह्मणेभ्यः स्वर्णशतं धेनुनां च शतं तथा ।। २३ ।। प्रददौ दक्षिणां तूर्ण कृष्णकल्याणहेतवे । उद्धवं पूजयामास सादरं च पुनः पुनः ।। २४ ।। समाश्वास्य यशोदां च रोहिणीं गोपबालकान् । वृद्धान्गोपालिकाः सर्वाः प्रययू रासमण्डलम् ।। २५ ।। ददर्श रासं रुचिरं चन्द्रमण्डलवर्तुलम् । श्रीरामकदलीस्तम्भशतकैरुपशोभितम् ।। २६ ।। युक्तैश्च स्निग्धवसनैश्चन्दनानां च पल्लवैः । पट्टसूत्रनिबद्धैश्च श्रीयुक्तमाल्यजालकैः ।। २७ ।। दधिलाजफलैः पट्टैः पुष्पैर्दूर्वाङ्कुरैरपि । चन्दनागुरुकस्तूरीकुङ्कुमैः परिसंस्कृतम् ।। २८ ।। वेष्टितं सक्षितं यत्नाद्गोपिकानां त्रिकोटिभिः । त्रिलक्षैः सुन्दरै रम्यैः संसक्तं रतिमन्दिरैः ।। २९ ।। लक्षगोपैः परिवृतं कृष्णागमनशङ्कितैः । यमुनां दक्षिणां कृत्वा प्रययौ मालतीवनम् ।। ३० ।। चन्दनानां चम्पकानां यूथिकानां तथैव च । केतकीमाधवीनां च वनं कृत्वा प्रदक्षिणम् ।। ३१ ।। बकुलानां वञ्जुलानामशोकानां च काननम् । मल्लिकानां पलाशानां शिरीषाणां तथैव च ।। ३२ ।। धात्रीणां काञ्चनानां च कर्णिकानां वनं तथा । नागेश्वराणां विपिनं लवङ्गानां तथैव च ।। ३३ ।। वनं च शालतालानां हिन्तालानां वनं तथा । पनसानां रसालानां लाङ्गलीनां मनोहरम् ।। ३४ ।। मन्दारकाननं रम्यं वामं कृत्वा च सत्वरम् । दृष्ट्वा कुन्दवनं रम्यं संप्राप्य मधुकाननम् ।। ३५ ।। पुंस्कोकिलानां शब्देन मधुरेण समन्वितम् । मधुव्रतसमूहानां मधुरध्वनिबूरितम् ।। ३६ ।। वन्यवृक्षैः परिवृतं माध्वीकाधारमीप्सितम् । वातेन वन्यबुष्पाणां वरितः सुरभीकृतम् ।। ३७ ।। तद्दृष्ट्वा राजमार्गेण यशोदोक्तेन सांप्रतम् । ययौ शीघ्रं निरुद्विग्निं रहस्यं बदरीवनम् ।। ३८ ।। श्रीफलानां च निम्बार्नां नारिङ्गाणां वनं तथा । पद्मानां करवीराणां तुलसीनां च काननम् ।। ३९ ।। दृष्टवा रक्तिमवर्णं च सुपक्वफलमीप्सितम् । तदेव वामतः कृत्वा विवेश कदलीवनम् ।। ४० ।। अतीव निर्जने रम्ये ददर्श राधिकाश्रमम् । मणीन्द्राणां च प्राकारं परिखादुर्गवेष्टितम् ।। ४१ ।। अत्यगम्यं रिपूणां च मित्राणां सुगमं सुखम् । गोप्यं संकेतमार्गं च रक्षकैः परिरक्षितम् ।। ४२ ।। नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्मणा । मणीन्द्रमुक्तामाणिक्यहीरहारोज्ज्वलं परम् ।। ४३ ।। रत्नेन्द्रसाररचितं रत्नस्तम्भैः सुशोभितम् । रत्नसोपानसंसक्तमन्दिरेण मनोहरम् ।। ४४ ।। अमूल्यरत्नखचितं कलशैः परिशोभितम् । वाह्निशुद्धांशुकाभिश्च पताकाभिः परिष्कृतम् ।। ४५ ।। सद्रत्नदर्पणोत्कृष्टं चर्चितं श्वेतचामरैः । ददर्श सिंहद्वारं च युक्तं रत्नकपाटकैः ।। ४६ ।। द्वारोपरि विचित्रं च रम्यं वृन्दावनं वनम् । कदम्बकाननं रम्यं तद्वास्त्रहरणादिकम् ।। ४७ ।। विश्वकर्मविरचितं सुरम्यं रासमण्डलम् । नानारत्नकुटीरं च गोपगोपीसमन्वितम् ।। ४८ ।। रक्षितं गोपिकालक्षैर्वेत्रहस्तैर्मनोहरैः । स्वच्छन्दाचरणैः शश्वदमितैर्बलिभिर्मुदा ।। ४९ ।। तद्द्वारं पुरतो दृष्ट्वा विलङ्क्य च जगाम् सः । द्वितीयं द्वारमुल्लङ्घ्य तस्मादुत्तममीप्सितम् ।। ५० ।। द्वारं चतुर्थं संप्राप्य सर्वस्माच्च विलक्षणम् । तत्पश्चात्पञ्चमं द्वारं ददर्श चित्रमुत्तमम् ।। ५१ ।। द्वारषट्कं च प्रययौ सर्वत्र रुचिरं परम् । रामरावणयोर्युद्धं भित्तिचित्रं मनोहरम् ।। ५२ ।। दशावतारं विष्णोश्च कृत्रिमं रासमण्डलम् । यमुनाजलकेलिं च रचितां विश्वकर्मणा ।। ५३ ।। गोपिकानां सहस्रेणा षष्ठं द्वारं च रक्षितम् । रत्नेन्द्रसारनिर्माणभूषणैर्भूषितेन च ।। ५४ ।। सद्रत्नदण़्डहस्तेन हीरकैर्भूषितेन च । मणीन्द्रमुक्तामाणिक्यहीरहारान्वितेन च ।। ५५ ।। माधवी तत्प्रधाना सा पप्रच्छ सांप्रतं शिवम् । ददौ प्रत्युत्तरं सर्वं क्रमेण च स उद्धवः ।। ५६ ।। गत्वा विज्ञापयामास राधाप्रियसखीगणम् । सा माधवी महाहृष्टा तत्र संस्थाप्य तं मुदा ।। ५७ ।। श्रुत्वा मङ्गलवार्तां च राधाप्रियसखीगणैः । कृत्वा शङ्खध्वनिं घण्टामृदङ्गपटहस्वनम् ।। ५८ ।। कृत्वा निर्मञ्छनं शीघ्रमुद्धवं प्रियमागतम् । हृष्टा प्रवेशयामास राधाभ्यन्तरमुत्तमम् ।। ५९ ।। अमूल्यरत्ननिर्माणं गत्वा मन्दिरमुत्तमम् । ददर्श पुरतो राधां कुह्वा चन्द्रकलोपमाम् ।। ६० ।। सुपक्वपद्मनेत्रां च शयानां शोकमूर्च्छिताम् । रुदतीं रक्तवदनां विल्ष्टां च त्यक्तभूषणाम् ।। ६१ ।। निश्चेष्टां च निराहारां सुवर्णवर्णकुण्डलाम् । शुष्किताधरकण्ठां च किंचिन्निः श्वाससंयुताम् ।। ६२ ।। प्रणनाम च तां दृष्ट्वा भक्तिनम्रात्मकंधरः । पुलकाञ्चितसर्वाङ्गो भक्त्या भक्तः स उद्धवः ।। ६३ ।। उद्धव उवाच वन्दे राधापदाम्भोजं ब्रह्मादिसुरविन्दतम् । यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम् ।। ६४ ।। नमो गोकुलवासिन्यै राधिकायै नमो नमः । शतशृङ्गनिवासिन्यै चन्द्रावत्यै नo ।। ६५ ।। तुलसीवनवासिन्य वृन्दारण्यै नo । रासमण्डलवासिन्यै रासेश्वर्यै नo ।। ६६ ।। विरजातीरवासिन्यै वृन्दायै च नo । वृन्दावनविलासिन्यै कृष्णायै च नo ।। ६७ ।। नमः कृष्णप्रियायै च शान्तायै च नo । कृष्णवक्षःस्थितायै च तत्पियायै नo ।। ६८ ।। नमो वैकुण्ठवासिन्यै महालक्ष्म्यै नo । विद्याधिष्ठातृदेव्यै च सरस्वत्यै नo ।। ६९ ।। सर्वैश्वर्याधिदेव्यै च कमलायै नo । पद्मनाभप्रियायै च पद्मायै च नo ।। ७० ।। महाविष्णोश्च मात्रे च पराद्यायै नo । नमः सिन्धुसुतायै च मर्त्यलक्ष्मयै नo ।। ७१ ।। नारायणप्रियायै च नारायण्यै नo । नमोऽस्तु विष्णुमायायै वैष्णव्यै च नo ।। ७२ ।। महामायास्वरूपायै संपदायै नo । नमः कल्याणरूपिण्यै शुभायै च नo ।। ७३ ।। मात्रे चतुर्णा वेदानां सावित्र्यै च नo । नमोऽस्तु बुद्धिरूपायै ज्ञानदायै नo ।। ७४ ।। नमो दुर्गविनाशिन्यै दुर्गादेव्यै नo । तेजःसु सर्वदेवानां पुरा कृतयुगे मुदा ।। ७५ ।। अधिष्टानकृतायै च प्रकृत्यै च नo । नमस्त्रिपुरहारिण्यै त्रिपुरायै नo ।। ७६ ।। सुन्दरीषु च रम्यायै निर्गुणायै नo । ममो निद्रास्वरूपायै निर्गुणायै नo ।। ७७ ।। नमो दक्षसुतायै च नमः सत्यै नo । नमः शैलसुतायै च पार्वत्यै च नo ।। ७८ ।। नमो नमस्तपस्विन्यै ह्यु मायै च नo । निराहारस्वरूपायै ह्यपर्णायै नo ।। ७९ ।। गौरीलौकविलासिन्यै नमो गौर्यै नo । नमः कैलासवासिन्यै माहेश्वर्यैः नo ।। ८० ।। निद्रायै च दयायै च श्रद्धायै च नo । नमो धृत्यै क्षमार्यै च लज्जायै च नo ।। ८१ ।। तृष्णायै क्षुत्स्वरूपायै स्थितिकर्त्र्यै नo । नमः संहाररूपिण्यै महामार्यै नo ।। ८२ ।। भयायैं चाभयायैं च मुक्तिदायै नo । नमः स्वधायैं स्वाहायै शान्तयै कान्त्यै नo ।। ८३ ।। नमस्तुष्ट्यैं च पुष्ट्यै च दयायै च नo । नमो निद्रास्वरूपायै श्रद्धायै च नo ।। ८४ ।। क्षुत्पिपासास्वरूपायै लज्जायैं च नo । नमो धृत्यैं क्षमायैं च चेतनायैं नo ।। ८५ ।। सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नo । अग्नौ दाहस्वरूपायै भद्रायै च नo ।। ८६ ।। शोभायै पूर्णचन्द्रे च शरत्पद्म नo । नास्ति भेदो यथा देवि दुग्धधावल्ययोःसदा ।। ८७ ।। यथैव गन्धभूम्योश्च यथैव जलशैत्ययौः । यथैव शब्दन्भसोर्ज्योतिः सूर्यकयोर्यथा ।। ८८ ।। लोके वेदे पुराणे च राधामाधवयोस्तथा । चेतनं कुरु कल्याणि देहि मामुत्तरं सति ।। ८९ ।। इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः । इत्युद्ववकृतं स्तोत्रं यः पठेद्भक्तिपूर्वकम् ।। ९० ।। इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ।न भवेद्बन्धुविच्छेदो रोगः शोकः सुदारुणः ।। ९१ ।। प्रोषिता स्त्री लभेत्कान्तं भार्याभेदी लभेत्प्रियाम् । अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् ।। ९२ ।। निर्भूमिर्लभते भूमिं प्रजाहीनो लभेत्प्रजाम् । रोगाद्विमुच्यते रोगी बद्धी मुच्यते बन्धनात् ।। ९३ ।। भयान्मुच्येत भीतस्तु मुच्येताऽऽपन्नआपदः । अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।। ९४ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधास्तोत्रं नाम द्विनवतितमोऽध्यायः ।। ९२ ।।

atha dvinavatitamo'dhyāyaḥ nārāyaṇa uvāca śrīkṛṣṇaprerito hṛṣṭaḥ praṇamya ca gaṇeśvaram | smarannārāyaṇaṃ śaṃbhuṃ durgā lakṣmīṃ sarasvatīm || 1 || gaṅgāṃ ca manasi dhyātvā dimīśaṃ taṃ maheśvaram | prajagāmoddhavaścaiva dṛṣṭvā maṅgalamūcakam || 2 || śuśrāva duṃdubhiṃ ghaṇṭānādaṃ śaṅkhadhvaniṃ tathā | hariśabdaṃ ca saṃgītaṃ śuśrāva maṅgaladhvanim || 3 || patiputravatīṃ sādhvīṃ pradīpaṃ mālyadarpaṇam | paribūrṇatamaṃ kumbhaṃ dadhilājaphalāni ca || 4 || dūrvāṅkuraṃ śukladhānyaṃ rajataṃ kāñcanaṃ madhu | brāhmaṇānāṃ samūhaṃ ca kṛṣṇasāraṃ vṛṣaṃ ghṛtam || 5 || sadyomāṃsaṃ gajendraṃ ca nṛpendraṃ śvetaghoṭakam | patākāṃ nakulaṃ cāṣaṃ śuklaṃ puṣpaṃ ca candanam || 6 || dṛṣṭvaivaṃ pathi kalyāṇaṃ prāpa vṛndāvanaṃ vanam | dadarśa purato vṛkṣaṃ bhāṇḍīre vaṭamakṣayam || 7 || snigdhaparṇa raktavarṇa puṇyadaṃ tīrthamīpsitam | suveṣānbālakāṃścaiva ratnabhūṣaṇabhūṣitān || 8 || vadato balakṛṣṇeti rudataśca śucā'nvitān | tānāśvāsya yayau dūraṃ praviśya nagaraṃ mudā || 9 || dadarśa nandaśibiraṃ racitaṃ viśvakarmaṇā | maṇiratnavinirmāṇaṃ muktāmāṇikyahīrakaiḥ || 10 || paricchannaṃ manoramyaṃ sadratnakalaśānvitam | dvāraṃ citraṃ vicitrāḍhyaṃ dṛṣṭvā ca praviveśa saḥ || 11 || avaruhya rathāttūrṇa tasthau tatprāṅgaṇe mudā | yaśodā rohiṇī śīghraṃ papraccha kuśalaṃ param || 12 || āsanaṃ ca jalaṃ gāṃ ca madhuparkaṃ dadau mudā | kva nandaḥ kva balaḥ kṛṣṇaḥ satyaṃ tatkathayoddhava || 13 || uddhavaḥ kathayāmāsa sarva bhadraṃ krameṇa ca | sārdhaṃ ca balakṛṣṇābhyāṃ nandaḥ sānandapūrvakam || 14 || āyāsyati vilambena kṛṣṇopanayanāvadhi | yuṣmākaṃ kuśalaṃ tatvaṃ vijñāya vidhipūrvakam || 15 || ahaṃ yāsyāmi mathurāṃ yaśode śṛṇu sāṃpratam | śrṛtvā maṅgalavārtā ca yaśodā rohiṇī mudā || 16 || brāhmaṇāya dadau ratnaṃ suvarṇaṃ vastramīpsitam | uddhavaṃ bhojayāmāsa miṣṭānnaṃ ca sudhopamam || 17 || maṇiśreṣṭhaṃ ca ratnaṃ ca dadau tasmai ca hīrakam | vādyaṃ ca vādayāmāsa bhadraṃ nānāvidhaṃ tathā || 18 || brahmaṇānbhojayāmāsa kārayāmāsa maṅgalam | vedāśca pāṭhayāmāsa paramānandapūrvakam || 19 || śaṃkaraṃ pūjayāmāsa vipradvārā paraṃ vibhūm | nānopahārairnaivedyaiḥ puṣpadhūpapradīpakaiḥ || 20 || candanairvastratāmbūlairmadhugavyaghṛtādibhiḥ | bhavānīṃ pūjayāmāsa śrīvṛndāraṇyadevatām || 21 || ṣoḍaśopacārairdravyairbalibhirvividhairmune | mahiṣāṇāṃ śate śuddhaṃ chāgālānāṃ sahasrakam || 22 || meṣāṇāmayutaṃ śuddhaṃ yuktamādāya pañcakam | brāhmaṇebhyaḥ svarṇaśataṃ dhenunāṃ ca śataṃ tathā || 23 || pradadau dakṣiṇāṃ tūrṇa kṛṣṇakalyāṇahetave | uddhavaṃ pūjayāmāsa sādaraṃ ca punaḥ punaḥ || 24 || samāśvāsya yaśodāṃ ca rohiṇīṃ gopabālakān | vṛddhāngopālikāḥ sarvāḥ prayayū rāsamaṇḍalam || 25 || dadarśa rāsaṃ ruciraṃ candramaṇḍalavartulam | śrīrāmakadalīstambhaśatakairupaśobhitam || 26 || yuktaiśca snigdhavasanaiścandanānāṃ ca pallavaiḥ | paṭṭasūtranibaddhaiśca śrīyuktamālyajālakaiḥ || 27 || dadhilājaphalaiḥ paṭṭaiḥ puṣpairdūrvāṅkurairapi | candanāgurukastūrīkuṅkumaiḥ parisaṃskṛtam || 28 || veṣṭitaṃ sakṣitaṃ yatnādgopikānāṃ trikoṭibhiḥ | trilakṣaiḥ sundarai ramyaiḥ saṃsaktaṃ ratimandiraiḥ || 29 || lakṣagopaiḥ parivṛtaṃ kṛṣṇāgamanaśaṅkitaiḥ | yamunāṃ dakṣiṇāṃ kṛtvā prayayau mālatīvanam || 30 || candanānāṃ campakānāṃ yūthikānāṃ tathaiva ca | ketakīmādhavīnāṃ ca vanaṃ kṛtvā pradakṣiṇam || 31 || bakulānāṃ vañjulānāmaśokānāṃ ca kānanam | mallikānāṃ palāśānāṃ śirīṣāṇāṃ tathaiva ca || 32 || dhātrīṇāṃ kāñcanānāṃ ca karṇikānāṃ vanaṃ tathā | nāgeśvarāṇāṃ vipinaṃ lavaṅgānāṃ tathaiva ca || 33 || vanaṃ ca śālatālānāṃ hintālānāṃ vanaṃ tathā | panasānāṃ rasālānāṃ lāṅgalīnāṃ manoharam || 34 || mandārakānanaṃ ramyaṃ vāmaṃ kṛtvā ca satvaram | dṛṣṭvā kundavanaṃ ramyaṃ saṃprāpya madhukānanam || 35 || puṃskokilānāṃ śabdena madhureṇa samanvitam | madhuvratasamūhānāṃ madhuradhvanibūritam || 36 || vanyavṛkṣaiḥ parivṛtaṃ mādhvīkādhāramīpsitam | vātena vanyabuṣpāṇāṃ varitaḥ surabhīkṛtam || 37 || taddṛṣṭvā rājamārgeṇa yaśodoktena sāṃpratam | yayau śīghraṃ nirudvigniṃ rahasyaṃ badarīvanam || 38 || śrīphalānāṃ ca nimbārnāṃ nāriṅgāṇāṃ vanaṃ tathā | padmānāṃ karavīrāṇāṃ tulasīnāṃ ca kānanam || 39 || dṛṣṭavā raktimavarṇaṃ ca supakvaphalamīpsitam | tadeva vāmataḥ kṛtvā viveśa kadalīvanam || 40 || atīva nirjane ramye dadarśa rādhikāśramam | maṇīndrāṇāṃ ca prākāraṃ parikhādurgaveṣṭitam || 41 || atyagamyaṃ ripūṇāṃ ca mitrāṇāṃ sugamaṃ sukham | gopyaṃ saṃketamārgaṃ ca rakṣakaiḥ parirakṣitam || 42 || nānācitravicitrāḍhyaṃ nirmitaṃ viśvakarmaṇā | maṇīndramuktāmāṇikyahīrahārojjvalaṃ param || 43 || ratnendrasāraracitaṃ ratnastambhaiḥ suśobhitam | ratnasopānasaṃsaktamandireṇa manoharam || 44 || amūlyaratnakhacitaṃ kalaśaiḥ pariśobhitam | vāhniśuddhāṃśukābhiśca patākābhiḥ pariṣkṛtam || 45 || sadratnadarpaṇotkṛṣṭaṃ carcitaṃ śvetacāmaraiḥ | dadarśa siṃhadvāraṃ ca yuktaṃ ratnakapāṭakaiḥ || 46 || dvāropari vicitraṃ ca ramyaṃ vṛndāvanaṃ vanam | kadambakānanaṃ ramyaṃ tadvāstraharaṇādikam || 47 || viśvakarmaviracitaṃ suramyaṃ rāsamaṇḍalam | nānāratnakuṭīraṃ ca gopagopīsamanvitam || 48 || rakṣitaṃ gopikālakṣairvetrahastairmanoharaiḥ | svacchandācaraṇaiḥ śaśvadamitairbalibhirmudā || 49 || taddvāraṃ purato dṛṣṭvā vilaṅkya ca jagām saḥ | dvitīyaṃ dvāramullaṅghya tasmāduttamamīpsitam || 50 || dvāraṃ caturthaṃ saṃprāpya sarvasmācca vilakṣaṇam | tatpaścātpañcamaṃ dvāraṃ dadarśa citramuttamam || 51 || dvāraṣaṭkaṃ ca prayayau sarvatra ruciraṃ param | rāmarāvaṇayoryuddhaṃ bhitticitraṃ manoharam || 52 || daśāvatāraṃ viṣṇośca kṛtrimaṃ rāsamaṇḍalam | yamunājalakeliṃ ca racitāṃ viśvakarmaṇā || 53 || gopikānāṃ sahasreṇā ṣaṣṭhaṃ dvāraṃ ca rakṣitam | ratnendrasāranirmāṇabhūṣaṇairbhūṣitena ca || 54 || sadratnadaṇa़ḍahastena hīrakairbhūṣitena ca | maṇīndramuktāmāṇikyahīrahārānvitena ca || 55 || mādhavī tatpradhānā sā papraccha sāṃprataṃ śivam | dadau pratyuttaraṃ sarvaṃ krameṇa ca sa uddhavaḥ || 56 || gatvā vijñāpayāmāsa rādhāpriyasakhīgaṇam | sā mādhavī mahāhṛṣṭā tatra saṃsthāpya taṃ mudā || 57 || śrutvā maṅgalavārtāṃ ca rādhāpriyasakhīgaṇaiḥ | kṛtvā śaṅkhadhvaniṃ ghaṇṭāmṛdaṅgapaṭahasvanam || 58 || kṛtvā nirmañchanaṃ śīghramuddhavaṃ priyamāgatam | hṛṣṭā praveśayāmāsa rādhābhyantaramuttamam || 59 || amūlyaratnanirmāṇaṃ gatvā mandiramuttamam | dadarśa purato rādhāṃ kuhvā candrakalopamām || 60 || supakvapadmanetrāṃ ca śayānāṃ śokamūrcchitām | rudatīṃ raktavadanāṃ vilṣṭāṃ ca tyaktabhūṣaṇām || 61 || niśceṣṭāṃ ca nirāhārāṃ suvarṇavarṇakuṇḍalām | śuṣkitādharakaṇṭhāṃ ca kiṃcinniḥ śvāsasaṃyutām || 62 || praṇanāma ca tāṃ dṛṣṭvā bhaktinamrātmakaṃdharaḥ | pulakāñcitasarvāṅgo bhaktyā bhaktaḥ sa uddhavaḥ || 63 || uddhava uvāca vande rādhāpadāmbhojaṃ brahmādisuravindatam | yatkīrtiḥ kīrtanenaiva punāti bhuvanatrayam || 64 || namo gokulavāsinyai rādhikāyai namo namaḥ | śataśṛṅganivāsinyai candrāvatyai nao || 65 || tulasīvanavāsinya vṛndāraṇyai nao | rāsamaṇḍalavāsinyai rāseśvaryai nao || 66 || virajātīravāsinyai vṛndāyai ca nao | vṛndāvanavilāsinyai kṛṣṇāyai ca nao || 67 || namaḥ kṛṣṇapriyāyai ca śāntāyai ca nao | kṛṣṇavakṣaḥsthitāyai ca tatpiyāyai nao || 68 || namo vaikuṇṭhavāsinyai mahālakṣmyai nao | vidyādhiṣṭhātṛdevyai ca sarasvatyai nao || 69 || sarvaiśvaryādhidevyai ca kamalāyai nao | padmanābhapriyāyai ca padmāyai ca nao || 70 || mahāviṣṇośca mātre ca parādyāyai nao | namaḥ sindhusutāyai ca martyalakṣmayai nao || 71 || nārāyaṇapriyāyai ca nārāyaṇyai nao | namo'stu viṣṇumāyāyai vaiṣṇavyai ca nao || 72 || mahāmāyāsvarūpāyai saṃpadāyai nao | namaḥ kalyāṇarūpiṇyai śubhāyai ca nao || 73 || mātre caturṇā vedānāṃ sāvitryai ca nao | namo'stu buddhirūpāyai jñānadāyai nao || 74 || namo durgavināśinyai durgādevyai nao | tejaḥsu sarvadevānāṃ purā kṛtayuge mudā || 75 || adhiṣṭānakṛtāyai ca prakṛtyai ca nao | namastripurahāriṇyai tripurāyai nao || 76 || sundarīṣu ca ramyāyai nirguṇāyai nao | mamo nidrāsvarūpāyai nirguṇāyai nao || 77 || namo dakṣasutāyai ca namaḥ satyai nao | namaḥ śailasutāyai ca pārvatyai ca nao || 78 || namo namastapasvinyai hyu māyai ca nao | nirāhārasvarūpāyai hyaparṇāyai nao || 79 || gaurīlaukavilāsinyai namo gauryai nao | namaḥ kailāsavāsinyai māheśvaryaiḥ nao || 80 || nidrāyai ca dayāyai ca śraddhāyai ca nao | namo dhṛtyai kṣamāryai ca lajjāyai ca nao || 81 || tṛṣṇāyai kṣutsvarūpāyai sthitikartryai nao | namaḥ saṃhārarūpiṇyai mahāmāryai nao || 82 || bhayāyaiṃ cābhayāyaiṃ ca muktidāyai nao | namaḥ svadhāyaiṃ svāhāyai śāntayai kāntyai nao || 83 || namastuṣṭyaiṃ ca puṣṭyai ca dayāyai ca nao | namo nidrāsvarūpāyai śraddhāyai ca nao || 84 || kṣutpipāsāsvarūpāyai lajjāyaiṃ ca nao | namo dhṛtyaiṃ kṣamāyaiṃ ca cetanāyaiṃ nao || 85 || sarvaśaktisvarūpiṇyai sarvamātre nao | agnau dāhasvarūpāyai bhadrāyai ca nao || 86 || śobhāyai pūrṇacandre ca śaratpadma nao | nāsti bhedo yathā devi dugdhadhāvalyayoḥsadā || 87 || yathaiva gandhabhūmyośca yathaiva jalaśaityayauḥ | yathaiva śabdanbhasorjyotiḥ sūryakayoryathā || 88 || loke vede purāṇe ca rādhāmādhavayostathā | cetanaṃ kuru kalyāṇi dehi māmuttaraṃ sati || 89 || ityuktvā coddhavastatra praṇanāma punaḥ punaḥ | ityudvavakṛtaṃ stotraṃ yaḥ paṭhedbhaktipūrvakam || 90 || iha loke sukhaṃ bhuktvā yātyante harimandiram |na bhavedbandhuvicchedo rogaḥ śokaḥ sudāruṇaḥ || 91 || proṣitā strī labhetkāntaṃ bhāryābhedī labhetpriyām | aputro labhate putrānnirdhano labhate dhanam || 92 || nirbhūmirlabhate bhūmiṃ prajāhīno labhetprajām | rogādvimucyate rogī baddhī mucyate bandhanāt || 93 || bhayānmucyeta bhītastu mucyetā''pannaāpadaḥ | aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ || 94 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo rādhāstotraṃ nāma dvinavatitamo'dhyāyaḥ || 92 ||

English translation

NSrayana said- Uddhava who was inspired by Kysna, delightfully bowed in reverence to Sarasvatl, Gahga and Dikpalas and witnessing the auspicious symbols proceeded towards El R f a it fw He heard on the way beating the of big drums, the bells, the blowing of conches, reciting of the name of the lord, accompanied with music and the sound of welfare. He also came across on the way, chaste women whose husband and son was alike, the burning lamp, the garland, mirror, the pitcher filled with water, the curd, fried paddy, the fruit, tender dtirvd grass, white paddy, silver, gold, honey, group of BrShmanas, the buck, the bull, ghee, fresh meat, the elephant, the king, white flowers and sandal-paste. He than reached Vindavana first of all he came across the Aks ayavata tree in the Bhan^Ira forest, it was in red colour, with glassy leaves; it was quite meritorious and auspicious. Thereafter he met with the boys clad in beautiful garments, who

were adorned with gem-studded ornaments and were crying reciting the name of Kfspa as a boy.

Assuring them variously, Uddhava entered the city delightfully and walked up to a long He spotted the palace of Nanda which was built by Visvakarma inlaid with several gems and diamonds besides pearls and other precious gems on all the sides; it had the pitchers of gems decorating the same. It had astonishing type of gates and Uddhava entered the same, reaching before the court-yard he descended from the chariot and stood over the ground. Finding him there, Yasoda and RohinI at once came out and enquired about his welfare.

He was seated delightfully over a seat and offered water, arghya and madhuparka; then they asked him, "O Uddhava, where are Nanda, Balarama and Krsna. You tell us truthfully," Thereafter Uddhava spoke to them all, the words of welfare and said, "O Yasoda, Balarama, Krsna and Nanda are quite comfortable; Krsna would return to Gokula only after performing of the thread ceremony; therefore his arrival here would be delayed. I have arrived here only to convey the news to you. After informing you suitably I shall go back to Mathura; on coming to know about the welfare of all of them, Yasoda and RohinI were filled with delight and they distributed gems, gold and beautiful costumes to the Brahmanas; thereafter they served Uddhava the sweet dishes which were as tasty as the neater; he was presented with the best of gems, diamonds and other precious stones. The musical instrument were played upon in welfare tunes.

wiiRTR I? 11 fgrrsRT m fg99;i The Brahmanas were served with food the festivities of the welfare were arranged and the recitation of the Vedas was made delightfully presenting various types of gifts to the Brahmanas. The naivedya, flowers, incense, the lamp, were offered to lord Siva. The goddess Bhavan! of Vmdavana was adored with sandal- paste, costumes, betel, honey, milk, preparations, offering sixteen types of adoration's to her.

Several types of sacrifices were also made which included a hundred he-buffaloes, a hundred he- goats and ten thousand sheep, for the welfare of lord Krsna, the Brahmanas were given in charity, a hundred cows together with a hundred gold coins. They were adored with great devotion.

Then Uddhava assured Yasoda, Rohini, cowherds, old people and cowherdesses variously and moved towards Rdsamandala, Reaching there he found a circular building like the globe. Which was known as Rdsamandala\ it had hundreds of the pillars of the banana trunks; it was decorated with the best of costumes and the tree leaves bound in the cord of silk. It had a number of beauti&l garland with a huge stock of curd, paddy, fruit, silken cloth, flowers, tender Durvd-grass, sandal-paste, aguru, kasturi and saffron. It was protected by three crores of cowherdesses, it bad three lakhs of pleasure houses which were quite charming and beautiful.

Waiting for the arrival of Krsna, a lakh of cowherds always remained there, looking at the Rdsamandala and living Yamuna to the right, Uddhava moved on to the forest of jasmine From there he moved on to the forest of vana and Mddhavhvana, From there he moved on to the Bakula-vana, Vanjula-vana, Yasodd' Karnikd-vana Lavanga-vana, forest of teak wood, forest of tala trees, Hintdla-vana, forest of jack-fruits, mango groves, the pleasant Ldngall- vana and the forest of Manddra trees. Leaving this forest to the left Uddhava reached Kunda- vana and thereafter he reached Madhuvana in which the sweet voice of the cuckoos was echoing and the black wasps were creating the hissing sound. It had enough of the wild growth and was the base of wine. It was fragrant with forest flowers and the fragrant cool breeze was blowing. Thereafter, he moved over to the royal path built by Visvakarma and reached the secret

forest of Jujubi trees, thin crossing over to srlphala forest, lemon forest, orange forest, forest of lotus flower, fragrant oleander forest and Tulasl-vana, he found there enough of fruit of red colour and other delicious fruits. Leaving it, Uddhava moved to the forest of banana trees.

It was quite a secluded place and was located pleasantly. He then spotted the extremely charming abode of Radhika, having the boundary wall studded with gems and surroxmded by moat and the forts, being inaccessible by the enemies.

It was easily accessible for the friends and had quite secretive and indicative paths; it was surrounded by the moats from all the four sides; it was painted with various types of paintings and was built by Visvakarma, using the precious stones and gems beside the garland of gems, it had the pillars which were made of the best of the gems. The steps were made of gems and the pitchers were also decorated with gems; it had a number of banners of fine cloth sanctified by fire. It had beautiful mirrors made of gems as well as the white fly-whisks. He then came across the main gate which had the doors of gems. Above the gate, Visvakarma had painted beautifully scene from Vindavana, kadamba- vana, stealing of the cloth, extremely beautiful Rdsamandala, several types of orchards of gems were depicted which was filled with cowherds and cowherdesses.

TtsrnzT fwRRTDTti;i A lakh of cowherdesses were guarding the gate, holding the staff in their hands. All of them could move at will and they carried various types of presents in their hands. Finding the gate there, Uddhava crossed, it then crossing the second and the third gates he reached the fourth gate which was quite surprising. Thereafter he crossed the fifth gate and found beautiful paintings there; he than reached the sixth gate which was quite beautiful from all sides, the walls of the place were painted by Visvakarma with the scenes from Ramayana including the battle scenes the ten incarnations of lord Visnu, Rdsamandala and the water sport at the bank of Yamuna river. The sixth gate was guarded by a thousand cowherdesses. All of them were adorned with the best of ornaments studded with gems and held in their hands the staff decorated with gems and other precious stones.

Out of them the female friend of Radha named MadhavT put a meaningful question to Uddhava besides asking about his welfare. Uddhava on his part gave the appropriate reply. Thereafter the cowherdesses left Uddhava at that place, went to Radhika and spoke to her dearest friend.

Listening to the goodness, the cowherdesses, on small drums and big drums welcoming Uddhava's arrival there. They carried him to the inner apartment of Radhika.

Arriving in the place which was built with the best of gems, Uddhava met with Radhika; she was beautiful like the moon rays. Her eyes were like full blown lotus flowers, she had discarded all the oniaments, except the pairs of ear ornaments which were hanging issuing the lustre.

Because of the separation from Krsna, her mouth had become red; she was lying over the ground getting fainted and was crying at the same time; she was motionless and peaceful. She was without food; her lips, throat had dried up; she was breathing some-how; finding her in that condition, Uddhava the great devotee of Krsna was filled with emotions. He bowed his head in reverence to Radhika.

Uddhava said-1 bow in reverence at the lotus¬ like feet of Radha who is adored by Brahma and other gods and by whose virtues all the three lokas gets purified; I bow in reverence to the dweller of Gokula. I bow in reverence to Radhika. The one who resides over the mountain of hundred peaks and is known as Candravatl, I offer my salutation to her; she is the dweller of the TulasT forest and the Vmdavana; I adore her again and again. She is the dweller of the Rdsamandala, the goddess of divine dance, I offer my salutation to her a gain and again.

I offer my salutation to Vmda, the dweller on the bank of Viraja river. I offer my salutation to the passionate Krsna of Vmdavana, I offer my salutation again and again. I offer my salutation to the beloved of Krsna who is quite peaceful, I offer my salutation to her again and again. The one who reside is in the heart of Krsna and is his beloved, I offer my salutation to her again and I offer my salutation to the one who resides in Vaikuntha as MahalaksmI. I offer her salutation again and again. The one who is the great goddess of all the knowledge and also appeared in the form of Sarasvati, I adore her again and again. She is the lady of all the fortunes, in the form of Kamala I offer my salutation to her again and again. She is the beloved of lord Padmanabha, I offer my salutation to her again and again.

rT RTTUT^ RRt RR:I She is the one who happens to be the mother of Mahavisnu, is quite eternal and the eternal force. I bow in reverence to her again and again.

I bow in reverence to the daughter of Sindhu and the goddess Laksml of the universe, I offer my salutation to her again and again. She happens to be Narayam the beloved of Narayana, I offer her salutation again and again. I bow in reverence to VisnumayS; she is also called Vaisnavi, I offer my salutation to her again and again.

RRt RR: I I adore the treasure known in the form of Mahamaya. She is the fonn of all the welfare, I bow in reverence to her. She is the form of welfare, I bow in reverence to her. The one who happens to be the mother of all the four Vedas and is also known as Savitrl, I bow in reverence to her. The one who removes all the misfortune, I bow in reverence to Durga again and again.

The one who was bom in Krtayuga out of the tejas of ail the gods, I bow in reverence to the same goddess again and again. I bow in reverence to the goddess who destroyed the demon Tripurasura. Because of that she was known as Tripurasundarl. I bow in reverence to her again and again.

The one who happens to be the most beautiful of ail the beautiful goddesses on earth who is without qualities, I bow in reverence to her again and again. The one who has the fonn of sleep, I bow in reverence to her. The one who is without qualities I bow in reverence to her.

I bow in reverence to the daughter of Daksa, who came to be known as Satl, I bow in reverence to her again and again. I offer my salutation to the daughter of the mountain who was known as Parvatl, I bow in reverence to the ascetic goddess again and again. I bow in reverence to Uma again and again. The one who remained without food and without clothes, I bow in reverence to her again and again.

The one who is known as Gaurl, I bow in reverence to her; the one who dwells in Gaiiri- loka, I bow in reverence to her. I bow in reverence to the dweller of Kailasa. The one who is known as Mahesvarl, I bow in reverence to her again and again.

The one who is of the form of sleep, compassion, reverence, I bow in reverence to her again and again. The one who is patient and forgive and everyone. I bow in reverence to her again and again. The one who is the fonn of shyness, I bow in reverence to her again and again. The one who has the form of lust, hunger and the one who establishes everyone, I bow in reverence to her again and again. The one who is the form of destruction I offer my salutation to her. I offer my salutation to the great epidemic again and again.

The one who is the form of fear as well as fearlessness and the granter of salvation, I offer my salutation to her again and again. I offer my salutation to Svadha and Svaha, the form of lustre as well as peace, I bow in reverence to her again and again.

W pn4 W Tmt 7T|I; I The one who is the form of satisfaction, protection and compassion, I bow in reverence to her again and again. The one who is the fonn of sleep and devotion, I offer my salutation to her again and again.

TfrJt tit: I The one who has the form of hunger, thirst and shyness, I offer my salutation to her again and again. The one who has the form of patience and forgiveness beside consciousness, I bow in, reverence to her again and again.

The one who represents the eternal strength and is the mother of all, I bow in reverence to her again and again, the one who is the burning sensation in the fire and who happens to be Bhadra, I offer my salutation to her again and again. The one who has the lustre of the ftill moon as well as the lotus flower of the winter season, I bow in reverence to her again and Tmm gr: fT:i O goddess as the whiteness cannot be separated from the milk, fragrance cannot be separated from the earth, coolness cannot be separated from water the sound can not be separated from the sky. The lustre cannot be separated from the sun, similarly the Vedic and Pauranic literature define Radha as inseparable from Madhava. O goddess of welfare, "O chaste goddess regain consciousness and give me the Thus speaking Uddhava bowed in reverence to Radha again and again. Thus the one who recites the stotra composed by Uddhava

with devotion, after enjoying all the pleasures in this world, lived in the abode of lord. He does not suffer from the separation from the relatives or ailment and the grief.

By reciting this stotra a lady whose husband has gone to some other place gets back the husband and the one who is separated from the wife gets back the wife, a person without a son gets a son, a pauper gets the riches, a person without land gets the land, a person who is issueless gets the progeny, the ailing person would be freed from the ailment and person in fetter would be freed from the fetters, the person in panic would he freed from the same and the one who is over-powered with misfortune would be relieved of the same. A person with no reputation achieves immense reputation and a foolish person becomes wise.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122528 (2017-09-18T13:33:52Z); Shanti Lal Nagar English scan pages n1490–n1497: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1490/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.