Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 88

Chapter 88

Unit 231 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 88Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 881 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 88

Source

अथाष्टाशीतितमोऽध्यायः श्रीकृष्णा उवाच चेतनं कुरु हे तात हे तात चेतनं कुरु । जलबुद्बुदवत्सर्वं संसारं सचराचरम् ।। १ ।। त्याज मोहं महाभाग मायां स्तौहि परत्परामा । ब्रह्मस्वरूपां परमां सर्वमोहनिकृन्तनीम् ।। २ ।। मुक्तिप्रदां महाभागां विष्णुमायां सनातनीम् । त्रिपुरस्य वधे घोरे महायुद्धे भयाकुले ।। ३ ।। येन स्तोत्रेण संभुश्च तया दैत्यं जघान सः । स्तोत्रराजं प्रदास्यामि सर्वमोहनिकृन्तनम् ।। सर्ववाञ्छाप्रदं नन्द श्रूयतामत्र संसदि ।। ४ ।। नन्द उवाच सर्वविघ्नविनाशाय दुःखप्रशमनाय च । विभूतये च यशसे नृणां वाञ्छितसिद्धये ।। ५ ।। स्तोत्रमेकं महादेव्या जगन्मातुर्जगत्प्रभो । परं दुर्गतिनाशिन्या गोपनीयं सुदुर्लभम् ।। ६ ।। देहि मर्ह्य विनीताय भक्ताय भक्तवत्सल । वेदानां जनकस्त्वं च निर्गुणाश्च परात्परः ।। ७ ।। श्रीभगवानुवाच श्रुणु वक्ष्यामि दैश्येन्द्र स्तोत्रं यत्परमाद्भुतम् । सर्वविघ्नविनाशार्थं मोहपाशनिकृन्तनम् ।। ८ ।। रणत्रस्तेन विभुना शंकरेण पुरा कृतम् । नारायणोपदेशेन प्रेरितेन च ब्रह्मणा ।। ९ ।। शत्रुग्रस्तं शिवं दृष्ट्वा स ब्रह्माणमुवाच ह । उवाच शंकरं ब्रह्मा रथस्थं पतितं रणे ।। १० ।। सुरसंकटशान्त्यर्थं दुर्गा दुर्गतिनाशिनीम् । मूलप्रकृतिमाद्यां तां स्तौ(स्तु) हि ब्रह्मस्वरूपिणीम् ।। ११ ।। हरिणा प्रेरितोऽहं च त्वां वदामि सुरेश्वर । विना शक्तिसहायेन को वा कं जेतुमीश्वरः ।। १२ ।। ब्रह्मणश्च वचः श्रुत्वा दुर्गां सस्मार शंकरः । पुटाञ्जलिपरो भूत्वा भक्तिनम्रत्मकंधरः ।। १३ ।। स्नातःपादौ च प्रक्षाल्य धृत्वा धौते वाससी । आचान्तः कुशहस्तश्च शुचिर्विष्णुं च संस्मरन् ।। १४ ।। महादेव उवाच रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि । मां भक्तमनुरक्तं च शत्रुग्रस्ते कृपामयि ।। १५ ।। विष्णुमाये महाभागे नारायणि सनातनि । ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणि ।। १६ ।। त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके । त्वं संहारे च गुणतो निराकारे च निर्गुणात् ।। १७ ।। मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् । तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि ।। १८ ।। वेदानां जननी त्वं च सावित्री च परात्परा । वैकुण्ठे च महालक्ष्मीः सर्वमंपत्स्वरूपिणी ।। १९ ।। मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिनः । स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले ।। २० ।। नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता । सर्वसस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी ।। २१ ।। रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती । प्राणानामधिदेपी त्वं कृष्णस्य परमात्मनः ।। २२ ।। गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि । गोलोकाधिष्ठिता देवी दृन्दा दृन्दावने वने ।। २३ ।। श्रीरासमण्डले रम्या वृन्दावनविनोदिनी । शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति च ।। २४ ।। दक्षकन्या कुत्रकल्पे कुत्रकल्पे च शैलजा । देवमाताऽदितिस्त्वं च सर्वाधारा वसुंधरा ।। २५ ।। त्वमेव गङ्गा तुलसी त्वं च स्वाहा सती । त्वदंशांशांशकलया सर्वदेवादियोषितः ।। २६ ।। स्त्रीरूपं चातिपुंरूपं देवि त्वं च नपुंसकम् । वृक्षाणां वृङरूपा त्वं सृष्टा चाङ्कुररूपिणी ।। २७ ।। वह्नौ च दाहिका शक्तिर्जले शैत्यस्वरूपिणी । सूर्ये तेजः स्वरूपा च प्रभारूपा च संततम् ।। २८ ।। गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी । शोभास्वरूपा चन्द्रे च पद्मसंघे च निश्चितम् ।। २९ ।। सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका । महामारी च संहारे जले च जलरूपिणी ।। ३० ।। क्षुत्तवं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी । तुष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धास्त्वं च क्षमा स्वयम् ।। ३१ ।। शान्तिस्त्वं च स्वयं भ्रान्तिः कान्तिस्तवं कीर्तिरेव च । लज्जा त्वं च तथा माया भुक्ति- ।। सुक्तिस्वरूपिणी ।। ३२ ।। सर्वशक्तिस्वरूपा त्वं सर्वसंबत्प्रदायिनी । वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन ।। ३३ ।। सहस्र वक्त्रस्त्वां स्तोतुं न च शक्तः सुरेश्वरि । वेदा न शक्ताः को विद्वान्न च शक्ता सरस्वती ।। ३४ ।। स्वयं विधाता शक्तो न न च विष्णुः मनातनः । किं स्तौमि पञ्चवक्त्रैस्तु रणत्रस्तो महेश्वरि ।। ३५ ।। कृपां कुरु महामाये मम शत्रुक्षयं कुरु । इत्युक्त्वा च सकरुणं रथस्थे पतिते रणे ।। ३६ ।। आविर्बभूव सा दुर्गा सूर्यकोटिसमप्रभा । नारायणेन कृपया प्रेरिता परमात्मना ।। ३७ ।। शिवस्य पुरतः शीघ्रं शिवाय च जयाय च । इत्युवाच महादेवी मायाशक्त्याऽसुरं जहि ।। ३८ ।। दुर्गोवाच वरं वृणीष्व भद्रं ते यत्ते मनसि वाञ्छितम् । भवान्वरः सुराणां च जयं तुभ्यं ददाम्यहम् ।। ३९ ।। महादेव उवाच क्षयो भवतु दैत्यस्य इति मे वरमीश्वरी । देहीति वाञ्छितं दुर्गे परमाद्ये मलातनि ।। ४० ।। भगवत्युवाच हरिं स्मर महाभागा जय दैत्यं जगद्गुरुः । स्वयं विधाता भगवांस्त्वमेव ज्योतिरीश्वरः ।। ४१ ।। एतस्मिन्नन्तरे विष्णुर्वृषरूपो बभूव ह । दधार कलया मूर्ध्ना शूलपाणे रथं विभुः ।। ४२ ।। ऊर्ध्वचक्रमथोग्रं च प्रकृतिं च चकार सः । शस्त्रं ददौ मन्त्रपूतमुद्दधार ततो रथम् ।। ४३ ।। शिवः शस्त्रं गृहीत्वा च ध्यात्वा विष्णुं महेश्वरीम् । जघान त्रिपुरं शीघ्रं स पपात महीतले ।। ४४ ।। तुष्टुवुः शंकरं देवाश्चकुश्च पुष्पवर्षणम् । दुर्गा तस्मै ददौ शूरं पिनाकं विष्णुरेव च ।। ४५ ।। ब्रह्मा शुभाशिषं चैव मुनयश्चापि हर्षिताः । ननृतुर्देवताः सर्वा जगुर्गन्धर्वकिन्नराः ।। ४६ ।। एतस्मिन्नन्तरे तात स्तवराजमनुत्तमम् । विघ्नविघ्नकरं शीघ्रं शत्रुसंहारकारणम् ।। ४७ ।। परमैश्वर्यजनकं सुखदं परमं शुभम् । निर्वाणमोक्षदं चैव हरिभक्तिप्रदं ध्रुवम् ।। ४८ ।। गोलोकवासदं चैव सर्वसिद्धिप्रदं वरम् । स्तोत्रराजप्रपठनात्प्रसन्ना पार्वती सदा ।। ४९ ।। लोभमोहकामक्रोधकर्ममूलनिकृन्तनम् । बलबुद्धिकरं चैव जन्ममृत्युविनाशनम् ।। ५० ।। धनपुत्रप्रियाभूमिसर्वसंपत्प्रदं नृणाम् । शोकदुःखहरं चैव सर्वामिद्धिप्रदं वरम् ।। ५१ ।। स्तोत्रराजप्रपठनान्महावन्ध्या प्रसूयते । वन्धनान्मुच्यते दुःखी भयान्मुच्येत निश्चितम् ।। ५२ ।। रोगाद्विमुच्यते रोगी दरिद्रश्च धनी भवेन् । दावाग्निमध्ये न मृतो मग्नः पोतो महार्णवे ।। ५३ ।। दस्युग्रस्तो निपुग्रस्तो हिंस्रजन्तुसमन्वितः । स्तोत्रेणानेन वैश्येन्द्र कल्याणं लभते नरः ।। ५४ ।। तैजसानां यथा रत्नमाश्रमाणां द्विजो यथा । नदीनां च यथा गङ्गा मन्त्राणां प्रणवो यथा ।। ५५ ।। तुलसी सर्वपत्राणां धराणां च वसुंधरा । पुष्पाणां पारिजातं च काष्ठानां चन्दनं यथा ।। ५६ ।। विष्णुपूजा च तपसां व्रतेष्वेकादशी यथा । ज्ञानिनां च यथा शंभुः सिद्धानां च गणेश्वरः ।। ५७ ।। देवानां च यथा विष्णुर्वेदाः शास्त्रेषु तन्त्रतः । देवीनां च यथा दुर्गा शान्तानां कमला यथा ।। ५८ ।। सरस्वती च विदुषां राधिका सुन्दरीषु च । तथा स्तोत्रेष्विदं स्तोत्रं नातः परतरं व्रज ।। ५९ ।। पुरा दत्तं ब्रह्मणे च पुष्करे सूर्यपर्वणि । दैत्यग्रस्ताय भीताय सर्वदुर्गहरं परम् ।। ६० ।। शिवाय शत्रुग्रस्ताय ददौ ब्रह्मा मदाज्ञया । शिवश्च सनकादिभ्यः पुरा दुर्वाससे ददौ ।। ६१ ।। सनत्कुमारो भगवान्कृपया गौतमाय च । पुलहाय पुलस्त्याय ददौ चाङ्गिरसे मुदा ।। ६२ ।। तथा यन्द्राय सूर्याय सूर्यश्चापि यमाय च । यमाश्च चित्रगुप्ताय कृपया च पुरा ददौ ।। ६३ ।। नित्यं पठिष्यसि स्तोत्रं गोलोकगमनाय वै । साक्षात्पश्यसि भो तात तामेव पार्वतीमिह ।। ६४ ।। यस्मै कस्मै न दातव्यं पापिने गोपनं कुरु । नारायणस्य भक्ताय शान्ताय विदुषे तथा ।। ६५ ।। सर्वज्ञाय च विप्राय दातव्यं च प्रयत्नतः । विप्राय वृषवाहाय वृषलीवतये तथा ।। ६६ ।। शूद्राणां सूपकाराय शूद्रक्षाद्धान्नभोजिने । कन्याविक्रचिणे चैव ब्राह्मणाय विशेषतः ।। ६७ ।। सर्वसिद्धिं च लभते सिद्धस्तोत्रे भवेद्यदि । दशायुतजपेनैव सिद्धस्तोत्रो भवेन्नरः ।। ६८ ।। अग्निस्तमभं जलस्तम्भं मृत्स्तम्भं मनसस्तथा । अश्वमेधसहस्राच्च पृथिव्याश्च प्रदक्षिणात् ।। ६९ ।। स्नानाच्च सर्वतीर्थानां स्तोत्रमेतच्च पुण्यदम् । दत्तं तुभ्यं मया तात मम प्राणसमं व्रज ।। ७० ।। स्तवनं कुरु पार्वत्याश्चेदानीं मम संसदि । श्रीकृष्णस्य वचः श्रुत्वा नन्दस्तुष्टाव पार्वतीम् ।। ७१ ।। स्तोत्रेणानेन विप्रेन्द्र सर्वसंपत्प्रदायिनीम् । वरं तस्मै ददौ दुर्गा गोलोकवासमीप्सितम् ।। ७२ ।। दुर्लभं परमं ज्ञानं वेदे यन्न श्रुतं मुने । राजेन्द्रत्वं गोकुले च कृष्णभक्तिं सुदुर्लभाम् ।। ७३ ।। तद्दास्वं चावि परतो महत्त्वं सिद्धमेव च । वरं दत्त्वा ययौ दुर्गा संभाष्य शंभुना सह ।। ७४ ।। जग्मुर्देवाश्च मुनयः स्तुत्वा च नन्दनन्दनम् । उवाच नन्दं श्रीकृष्णो व्रज नन्द व्रजान्वितः ।। प्रहष्टस्त्यक्तमोहश्च बोधेन दुर्लभेन च ।। ७५ ।। इति श्रीब्रह्मo महाo श्रीकृष्मजन्मखo उत्तo नारदनाo भगवन्नन्दसंo अष्टाशीतितमोऽध्यायः ।। ८८ ।।

athāṣṭāśītitamo'dhyāyaḥ śrīkṛṣṇā uvāca cetanaṃ kuru he tāta he tāta cetanaṃ kuru | jalabudbudavatsarvaṃ saṃsāraṃ sacarācaram || 1 || tyāja mohaṃ mahābhāga māyāṃ stauhi paratparāmā | brahmasvarūpāṃ paramāṃ sarvamohanikṛntanīm || 2 || muktipradāṃ mahābhāgāṃ viṣṇumāyāṃ sanātanīm | tripurasya vadhe ghore mahāyuddhe bhayākule || 3 || yena stotreṇa saṃbhuśca tayā daityaṃ jaghāna saḥ | stotrarājaṃ pradāsyāmi sarvamohanikṛntanam || sarvavāñchāpradaṃ nanda śrūyatāmatra saṃsadi || 4 || nanda uvāca sarvavighnavināśāya duḥkhapraśamanāya ca | vibhūtaye ca yaśase nṛṇāṃ vāñchitasiddhaye || 5 || stotramekaṃ mahādevyā jaganmāturjagatprabho | paraṃ durgatināśinyā gopanīyaṃ sudurlabham || 6 || dehi marhya vinītāya bhaktāya bhaktavatsala | vedānāṃ janakastvaṃ ca nirguṇāśca parātparaḥ || 7 || śrībhagavānuvāca śruṇu vakṣyāmi daiśyendra stotraṃ yatparamādbhutam | sarvavighnavināśārthaṃ mohapāśanikṛntanam || 8 || raṇatrastena vibhunā śaṃkareṇa purā kṛtam | nārāyaṇopadeśena preritena ca brahmaṇā || 9 || śatrugrastaṃ śivaṃ dṛṣṭvā sa brahmāṇamuvāca ha | uvāca śaṃkaraṃ brahmā rathasthaṃ patitaṃ raṇe || 10 || surasaṃkaṭaśāntyarthaṃ durgā durgatināśinīm | mūlaprakṛtimādyāṃ tāṃ stau(stu) hi brahmasvarūpiṇīm || 11 || hariṇā prerito'haṃ ca tvāṃ vadāmi sureśvara | vinā śaktisahāyena ko vā kaṃ jetumīśvaraḥ || 12 || brahmaṇaśca vacaḥ śrutvā durgāṃ sasmāra śaṃkaraḥ | puṭāñjaliparo bhūtvā bhaktinamratmakaṃdharaḥ || 13 || snātaḥpādau ca prakṣālya dhṛtvā dhaute vāsasī | ācāntaḥ kuśahastaśca śucirviṣṇuṃ ca saṃsmaran || 14 || mahādeva uvāca rakṣa rakṣa mahādevi durge durgatināśini | māṃ bhaktamanuraktaṃ ca śatrugraste kṛpāmayi || 15 || viṣṇumāye mahābhāge nārāyaṇi sanātani | brahmasvarūpe parame nityānandasvarūpiṇi || 16 || tvaṃ ca brahmādidevānāmambike jagadambike | tvaṃ saṃhāre ca guṇato nirākāre ca nirguṇāt || 17 || māyayā puruṣastvaṃ ca māyayā prakṛtiḥ svayam | tayoḥ paraṃ brahma paraṃ tvaṃ bibharṣi sanātani || 18 || vedānāṃ jananī tvaṃ ca sāvitrī ca parātparā | vaikuṇṭhe ca mahālakṣmīḥ sarvamaṃpatsvarūpiṇī || 19 || martyalakṣmīśca kṣīrode kāminī śeṣaśāyinaḥ | svargeṣu svargalakṣmīstvaṃ rājalakṣmīśca bhūtale || 20 || nāgādilakṣmīḥ pātāle gṛheṣu gṛhadevatā | sarvasasyasvarūpā tvaṃ sarvaiśvaryavidhāyinī || 21 || rāgādhiṣṭhātṛdevī tvaṃ brahmaṇaśca sarasvatī | prāṇānāmadhidepī tvaṃ kṛṣṇasya paramātmanaḥ || 22 || goloke ca svayaṃ rādhā śrīkṛṣṇasyaiva vakṣasi | golokādhiṣṭhitā devī dṛndā dṛndāvane vane || 23 || śrīrāsamaṇḍale ramyā vṛndāvanavinodinī | śataśṛṅgādhidevī tvaṃ nāmnā citrāvalīti ca || 24 || dakṣakanyā kutrakalpe kutrakalpe ca śailajā | devamātā'ditistvaṃ ca sarvādhārā vasuṃdharā || 25 || tvameva gaṅgā tulasī tvaṃ ca svāhā satī | tvadaṃśāṃśāṃśakalayā sarvadevādiyoṣitaḥ || 26 || strīrūpaṃ cātipuṃrūpaṃ devi tvaṃ ca napuṃsakam | vṛkṣāṇāṃ vṛṅarūpā tvaṃ sṛṣṭā cāṅkurarūpiṇī || 27 || vahnau ca dāhikā śaktirjale śaityasvarūpiṇī | sūrye tejaḥ svarūpā ca prabhārūpā ca saṃtatam || 28 || gandharūpā ca bhūmau ca ākāśe śabdarūpiṇī | śobhāsvarūpā candre ca padmasaṃghe ca niścitam || 29 || sṛṣṭau sṛṣṭisvarūpā ca pālane paripālikā | mahāmārī ca saṃhāre jale ca jalarūpiṇī || 30 || kṣuttavaṃ dayā tvaṃ nidrā tvaṃ tṛṣṇā tvaṃ buddhirūpiṇī | tuṣṭistvaṃ cāpi puṣṭistvaṃ śraddhāstvaṃ ca kṣamā svayam || 31 || śāntistvaṃ ca svayaṃ bhrāntiḥ kāntistavaṃ kīrtireva ca | lajjā tvaṃ ca tathā māyā bhukti- || suktisvarūpiṇī || 32 || sarvaśaktisvarūpā tvaṃ sarvasaṃbatpradāyinī | vede'nirvacanīyā tvaṃ tvāṃ na jānāti kaścana || 33 || sahasra vaktrastvāṃ stotuṃ na ca śaktaḥ sureśvari | vedā na śaktāḥ ko vidvānna ca śaktā sarasvatī || 34 || svayaṃ vidhātā śakto na na ca viṣṇuḥ manātanaḥ | kiṃ staumi pañcavaktraistu raṇatrasto maheśvari || 35 || kṛpāṃ kuru mahāmāye mama śatrukṣayaṃ kuru | ityuktvā ca sakaruṇaṃ rathasthe patite raṇe || 36 || āvirbabhūva sā durgā sūryakoṭisamaprabhā | nārāyaṇena kṛpayā preritā paramātmanā || 37 || śivasya purataḥ śīghraṃ śivāya ca jayāya ca | ityuvāca mahādevī māyāśaktyā'suraṃ jahi || 38 || durgovāca varaṃ vṛṇīṣva bhadraṃ te yatte manasi vāñchitam | bhavānvaraḥ surāṇāṃ ca jayaṃ tubhyaṃ dadāmyaham || 39 || mahādeva uvāca kṣayo bhavatu daityasya iti me varamīśvarī | dehīti vāñchitaṃ durge paramādye malātani || 40 || bhagavatyuvāca hariṃ smara mahābhāgā jaya daityaṃ jagadguruḥ | svayaṃ vidhātā bhagavāṃstvameva jyotirīśvaraḥ || 41 || etasminnantare viṣṇurvṛṣarūpo babhūva ha | dadhāra kalayā mūrdhnā śūlapāṇe rathaṃ vibhuḥ || 42 || ūrdhvacakramathograṃ ca prakṛtiṃ ca cakāra saḥ | śastraṃ dadau mantrapūtamuddadhāra tato ratham || 43 || śivaḥ śastraṃ gṛhītvā ca dhyātvā viṣṇuṃ maheśvarīm | jaghāna tripuraṃ śīghraṃ sa papāta mahītale || 44 || tuṣṭuvuḥ śaṃkaraṃ devāścakuśca puṣpavarṣaṇam | durgā tasmai dadau śūraṃ pinākaṃ viṣṇureva ca || 45 || brahmā śubhāśiṣaṃ caiva munayaścāpi harṣitāḥ | nanṛturdevatāḥ sarvā jagurgandharvakinnarāḥ || 46 || etasminnantare tāta stavarājamanuttamam | vighnavighnakaraṃ śīghraṃ śatrusaṃhārakāraṇam || 47 || paramaiśvaryajanakaṃ sukhadaṃ paramaṃ śubham | nirvāṇamokṣadaṃ caiva haribhaktipradaṃ dhruvam || 48 || golokavāsadaṃ caiva sarvasiddhipradaṃ varam | stotrarājaprapaṭhanātprasannā pārvatī sadā || 49 || lobhamohakāmakrodhakarmamūlanikṛntanam | balabuddhikaraṃ caiva janmamṛtyuvināśanam || 50 || dhanaputrapriyābhūmisarvasaṃpatpradaṃ nṛṇām | śokaduḥkhaharaṃ caiva sarvāmiddhipradaṃ varam || 51 || stotrarājaprapaṭhanānmahāvandhyā prasūyate | vandhanānmucyate duḥkhī bhayānmucyeta niścitam || 52 || rogādvimucyate rogī daridraśca dhanī bhaven | dāvāgnimadhye na mṛto magnaḥ poto mahārṇave || 53 || dasyugrasto nipugrasto hiṃsrajantusamanvitaḥ | stotreṇānena vaiśyendra kalyāṇaṃ labhate naraḥ || 54 || taijasānāṃ yathā ratnamāśramāṇāṃ dvijo yathā | nadīnāṃ ca yathā gaṅgā mantrāṇāṃ praṇavo yathā || 55 || tulasī sarvapatrāṇāṃ dharāṇāṃ ca vasuṃdharā | puṣpāṇāṃ pārijātaṃ ca kāṣṭhānāṃ candanaṃ yathā || 56 || viṣṇupūjā ca tapasāṃ vrateṣvekādaśī yathā | jñānināṃ ca yathā śaṃbhuḥ siddhānāṃ ca gaṇeśvaraḥ || 57 || devānāṃ ca yathā viṣṇurvedāḥ śāstreṣu tantrataḥ | devīnāṃ ca yathā durgā śāntānāṃ kamalā yathā || 58 || sarasvatī ca viduṣāṃ rādhikā sundarīṣu ca | tathā stotreṣvidaṃ stotraṃ nātaḥ parataraṃ vraja || 59 || purā dattaṃ brahmaṇe ca puṣkare sūryaparvaṇi | daityagrastāya bhītāya sarvadurgaharaṃ param || 60 || śivāya śatrugrastāya dadau brahmā madājñayā | śivaśca sanakādibhyaḥ purā durvāsase dadau || 61 || sanatkumāro bhagavānkṛpayā gautamāya ca | pulahāya pulastyāya dadau cāṅgirase mudā || 62 || tathā yandrāya sūryāya sūryaścāpi yamāya ca | yamāśca citraguptāya kṛpayā ca purā dadau || 63 || nityaṃ paṭhiṣyasi stotraṃ golokagamanāya vai | sākṣātpaśyasi bho tāta tāmeva pārvatīmiha || 64 || yasmai kasmai na dātavyaṃ pāpine gopanaṃ kuru | nārāyaṇasya bhaktāya śāntāya viduṣe tathā || 65 || sarvajñāya ca viprāya dātavyaṃ ca prayatnataḥ | viprāya vṛṣavāhāya vṛṣalīvataye tathā || 66 || śūdrāṇāṃ sūpakārāya śūdrakṣāddhānnabhojine | kanyāvikraciṇe caiva brāhmaṇāya viśeṣataḥ || 67 || sarvasiddhiṃ ca labhate siddhastotre bhavedyadi | daśāyutajapenaiva siddhastotro bhavennaraḥ || 68 || agnistamabhaṃ jalastambhaṃ mṛtstambhaṃ manasastathā | aśvamedhasahasrācca pṛthivyāśca pradakṣiṇāt || 69 || snānācca sarvatīrthānāṃ stotrametacca puṇyadam | dattaṃ tubhyaṃ mayā tāta mama prāṇasamaṃ vraja || 70 || stavanaṃ kuru pārvatyāścedānīṃ mama saṃsadi | śrīkṛṣṇasya vacaḥ śrutvā nandastuṣṭāva pārvatīm || 71 || stotreṇānena viprendra sarvasaṃpatpradāyinīm | varaṃ tasmai dadau durgā golokavāsamīpsitam || 72 || durlabhaṃ paramaṃ jñānaṃ vede yanna śrutaṃ mune | rājendratvaṃ gokule ca kṛṣṇabhaktiṃ sudurlabhām || 73 || taddāsvaṃ cāvi parato mahattvaṃ siddhameva ca | varaṃ dattvā yayau durgā saṃbhāṣya śaṃbhunā saha || 74 || jagmurdevāśca munayaḥ stutvā ca nandanandanam | uvāca nandaṃ śrīkṛṣṇo vraja nanda vrajānvitaḥ || prahaṣṭastyaktamohaśca bodhena durlabhena ca || 75 || iti śrībrahmao mahāo śrīkṛṣmajanmakhao uttao nāradanāo bhagavannandasaṃo aṣṭāśītitamo'dhyāyaḥ || 88 ||

English translation

recites Durga stotra for Nanda Sri Krsna said- O father be conscious. The entire universe comprising of moveable and immovable creatures is like the water bubble.

O virliious one, discarding attraction you adore the eternal goddess May^ who is beyond everything, the fonn of Brahma, eternal, destroyer of all the attractions, bestowers of salvation, extremely virtuous and is the eternal illusion of Visnu. In the terrific battle of Tripurasura, Siva had recited this stotra in adoration to the goddess and killed the demon. O Nanda, shall bestow that stotra to you in the present assembly. The stotra destroys all the attractions and fulfills all the desires. You please listen to it.

Nanda said- O lord you are graceful to the devotees, you kindly bestow the knowledge of the best of siotras of Durga which removes all the obstructions, removes the grief, bestows Ibrtune, popularity and fulfils all the desires, destroying the evil times, which is quite secretive and the best of cill the stotras. You are graceful to the devotees, creator of the Vedas, without qualities and beyond everything.

SrT Krsna said- O lord of the Vaisyas, In the earlier times, Siva got terrified from the battle and at the advice of Narayana and the inspiration of Brahma he had recited the stotra. The same stotra removes all the obstructions and noose of attachment, is being narrated by me which you please listen.

Finding that Siva was surrounded by the enemies, Narayana, spoke to Brahma. Then Brahma went to Siva in the battle-field and spoke to him, ''For the destruction of the danger on the gods you recite the stotra of Durga who removes the misfortune, is mulaprakrti, eternal prowess and is the form of Brahma.

O lord of the gods I am speaking this at the instance of Hari because no one can win the battle without the help of the eternal goddess," On hearing the words of Brahma, Siva bowed his head in reverence and started reciting the name of Durga. He took his bath and washing his feet, he clad himself in two garments and holding kus'a grass in his hand getting purified and thinking of lord Visnu in his mind, he said.

Mahadeva said- O Durga the great goddess, you are the one who removes the misfortune.

Therefore you protect me. I am your great devotee and have been cunently surrounded by the enemies; therefore you protect me.

O virtuous one, you are the illusion of lord Vis nu and known as NarayanI, eternal form of Brahma and blissfiil.

O mother of the universe, you are the mother of Brahma and the other gods. You are visible when you have a definite form and are invisible when you are formless; by your illusion you appear as Purusa and by the same process to you appear as Prakrti. You are the eternal Brahma and beyond them both. O eternal one, you contain the eternal Brahma.

You are the creator of the Vedas known as Savitrl; in the Vaikuntha you appear as Mahalaks ml, the goddess of all the riches, In the ocean of milk you appear as the spouse of lord Visnu when he sleeps there, known as Martyalaksml in the heaven you are known as Svargalaksmi and on the ground you are known as Rdjalaksml.

In the nether world you happen to be LaksmI of the NSgas and in the household you appear as besides being the form of truth and bestower of all the fortunes.

You are the great goddess of Brahma named Sarasvatl and you happen to be the life of the I supreme soul known as Krspa. j You dwell over the chest of the Kr§na in Goloka and you are known as RSdha with him.

In the forest named Vpidavana, you are known as Vrnda while in the Rdsaman^ala you are known as Vrnddvana-vinodinl. You are the goddess named CitrSvall dwelling over the mountain of hundred peaks.

In one of the kalpas you were bom as Satl the daughter of Daksa, in another kalpa you were bom as Parvatl the daughter of Himalaya.

Sometimes you were bom as Aditi the mother of the gods and you also represent the universe in the fom of the earth. You are Gahga, TulasI, Svaha and Svadha; all the spouses of the gods have been bom of your arhsa or the part of your O goddess you represent the men, women and eunuchs. You are the form of the trees and in the trees you appear like the sprouting tender leaves.

You happen to be the power of burning with the fire, the coolness in water, tejas of Stlrya, fragrance of the earth and the sound in the sky, you surety happen to be the lustre of the moon and the bunch of lotus flowers.

You are the' creation, the form of creation, preserver, epidemic in destruction and become the form of water in the water.

You are the hunger, mercy, sleep, passion, intelligence, satisfaction, support, faith, forgiveness, peace, fallacy, glory, shyness, illusion, consumption and the form of salvation.

You possess the form of all the prowess, bestower of all the riches and are known as inexplicable in the Vedas therefore no one knows about your true identity.

O goddess the serpent Se?a with a thousand hoods is unable to adore you besides the Vedas and Sarasvatl; who else can spell out you praise.

Even Brahma the creator of the universe and eternal lord Visiju are unable to recite your glory.

I being Mahesvara and feeling terrified in the battle-field, I am reciting your glory with all my five faces. Therefore O great illusion, be merciful on me and destroy the enemies. Thus speaking in pathetic voice, lord Siva fell down over the chariot in the battle-field.

Thereafter getting inspired with the kindness of Narayana, Durga appeared before Siva having the lustre of crores of suns for his protection and bestowed victory on him. The great goddess spoke to him. "You destroy the enemy with the application of illusion".

wgr: ippiTt if tspt 3T% Durga said- You will meet with welfare. You ask for a boon. You are best among the gods therefore, I shall bestow victory on you " Mahadeva said- O great goddess you are the eternal, the eternal ^akti. Therefore, O goddess Durga, let this demon be destroyed. I need only this boon.

Bhagavatl said- O virtuous one, O teacher of the universe, you would surely be victorious, you are yourself the supreme lord, the creator and the form of the eternal flame, you remember Hari and conquer the demon. In the meantime lord V-ismrtakmg to the form of a bull lifted up the chariot of ^iva over the horns.

Thus the wheels of the terrific chariot were raised and it started floating in the air. She than bestowed a weapon to Siva sanctified by mantras, Siva than held the weapon remembered the goddess Durga and Visnu and than killed Tripurasura. The demon fell down on earth. At that point of time the gods eulogised lord Siva and showered the rain of flower petals, Durga than gave to Siva a trident, Visnu a bow and Brahma the auspicious blessing. The delighted ascetics also behaved similarly. All the gods started dancing and the Gandharvas started O father, in the meantime the Stavardja also appeared in person who could remove the obstructions, the persons creating the obstructions, the killer of the enemies, was bestower of all riches, bestowed pleasure, quite auspicious, bestower of salvation and the devotion of lord Hari beside the dwelling in Goloka and the success. By reciting this Stotraraja, Parvatl also gets pleased. This stotra

relieves one of the greed, passion, anger, the cause of deeds beside bestowing the prowess, intelligence making one free from the cycle of birth and death. This stotra bestows the people with riches, sons, wife, land and all the riches, removing all his ailments and grief. All the success is achieves by him. By reciting this stotra even the immensely barren woman gets a child, a grief stricken person is freed from fetters.

The ailing person is freed from the disease, while the pauper is bestowed with immense riches; the person under the influence of this stotra does not die even when thrown into the burning fire nor his boat capsizes in the great ocean. O best of the Vaisyas, with the influence of this stotra, a person meets with welfare even when surrounded by the robbers, enemies and O lord of Vraja, as the gem is the best among the articles that glitter, a Brahmana among the varrias, Ganga among the rivers, othkara among the mantras and TulasI among the leaves, Vasundhara among the land, Pdrijdta among the flowers, sandal-wood among the wood, Visnu- pdjd among the adoration's, Ekddasl among the vratas, ^iva among the intellectuals, Ganesa among, the siddhas, Visnu among the gods, Vedas among the scriptures, Durga among the goddesses, Kamala among the having peaceful nature, Sarasvatl among the intellectuals,

Radhika among the beautiful damsels. Similarly this stotra happens to be the best of all and no other stotra can equated with it.

twnrerrw wtwiw I g o 11 In the earlier times at the time of solar eclipse I bestowed this stotra which is remover of all the difficulties to Brahma.

Brahma bestowed the knowledge of this stotra to Siva who had been surrounded by his enemies.

In turn Siva bestowed this stotra to Sanaka and Lord Sanatkumara gave this stotra to Gautama, Pulaha, Pulastya, Ahgira, the sun and the moon. Surya bestowed the knowledge of the stotra to Yama. Yama gave it to Citragupta.

O father, the one who recites it daily he achieves Goloka and with the influence of the same you are having an audience with Parvati at daughter. With the achieving of the success by this stotra, one gets all the siddhis and by reciting this stotra ten thousand times, one meets with success.

It results in the disturbance of fire, water dust and the mind. It is the best of the stotra and bestows the merit of performing and a thousand As'vamedha sacrifices, going round the earth and taking bath at all the holy places. O father, I have bestowed the knowledge of the stotra, to you since you happen to be dearer to me than my life.

Now you adore goddess Parvati in my assembly.

O best of the Brahmanas, on hearing the words of Sri Krsna, Nanda adored goddess Durga who bestows all the riches. Thereafter getting pleased the goddess bestowed him the boon of his stay in the Goloka, The knowledge of this stotra cannot be imparted to anyone else nor would it be proper to bestow its knowledge to a sinner; it. can be bestow to a devotee of Narayana, a peaceful intellectual and all knowing Brahmana. This stotra should never be given to the driver of the bulls, a Brahmana who happens to be the husband of a loose women, the Brahmana serving as a cook with the Sudras and the Brahmanas consuming the food with the Sudras at the time of s'raddhas. It should also not be given to a Brahmana \vho sells away his O sage, thereafter the inaccessible knowledge which was not available even in the Vedas, beside the kingship of Gokula, the inaccessible devotion of lord Krsna and his slavehood and the

boon of meeting with success was bestowed to Nanda by the goddess. Thereafter Durga left the place after talking to Siva, the gods and the sages also adored Krsna the son of Nanda and left the

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122516 (2017-09-18T13:28:58Z); Shanti Lal Nagar English scan pages n1472–n1479: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1472/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.