Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 87
Sourceअथ सप्ताशीतितमोध्यायः नन्द उवाच त्वां ज्ञातुं नहि शक्ताश्च वेदा वेदप्रभुं स्वयम् । सुरा ब्रह्मेशसेषाद्या मुनिसिद्धादयस्तथा ।। १ ।। को भवानिति विज्ञातुं परं कौतूहलं मम । तत्सर्व स्वात्मयाथार्थ्यं निर्जने कथय प्रभो ।। २ ।। नारायण उवाच एतस्मिन्नन्तरे तत्र कृष्णं द्रष्टुं मुनीश्वराः । आजग्मुः सहसा वत्स ज्वलन्तो ब्रह्मतेजसा ।। ३ ।। पुलहश्च पुलस्त्यश्च क्रतुश्च भृगुरङ्गिराः । प्रचेताश्च वसिष्ठश्च दुर्वासाः कण्व एव च ।। ४ ।। कात्यायनः पाणिनिश्च कणादो गौतमस्तथा । सनकश्च सनन्दश्च दृतीयश्च सनातनः ।। ५ ।। कपिलश्चाऽऽसुरिश्चैव वायुः पञ्चशिखस्तथा । विश्वामित्रो वाल्मीकिश्च कश्यपश्च पराशरः ।। ६ ।। विभाण्डको मरीचिश्च शुक्रौऽत्रिश्च बृहस्पतिः । गार्ग्यश्यापि तथा वात्स्यो व्यासश्च जैमिनिस्तथा ।। ७ ।। मितवागृष्यशृङ्गश्च याज्ञवल्क्यः शुकस्तथा । सौभरिः शुद्धजटिलो भरद्वाजः सुभद्रकः ।। ८ ।। मार्कण्डेयो लोमशश्च आसुरिश्च विटङ्कणः । अष्टावक्र शतानन्दो वामदेश्च भासुरिः ।। ९ ।। संवर्तश्चाप्युतथ्यश्च नरोऽहं चापि नारद । जाबालिः पर्शुरामश्चाप्यगस्त्यः पैल एव च ।। १० ।। युधामन्युर्गौ रमुखोऽप्युपमन्युः श्रृतश्रवाः । मैत्रेयश्च्यवनश्चैव वररुच्यर्षिरेव च ।। ११ ।। तान्दृष्ट्वा सहसोत्थाय नमस्कृत्य पुटाञ्जलिः । सिंहासनेषु रम्येषु वासयामास सादरम् ।। १२ ।। पूजयामास विधिवत्कुशलप्रश्नपूर्वकम् । परस्परं च संभाष्य मध्ये कृष्ण उवास सः ।। १३ ।। एतस्मिन्नन्तरे कृष्णस्तेजोराशिं ददर्श सः । ददुशुस्ते च मुनयोऽप्याकाशे च समुज्ज्वलम् ।। १४ ।। तेजसोऽभ्यन्तरे वत्स कुमारं कनकप्रभाम् । यथैव पञ्चवर्षीयं नग्नं बालकमीप्सितम् ।। १५ ।। आविर्बभूव सहसा समामध्ये च नारद । उत्तिष्टमानं सहसा तं दृष्ट्वा मुनपुंगवाः ।। १६ ।। प्रणेमुर्मुनयः सर्वे शौरिश्च प्रणनाम तम् । सस्मितं स्निग्धनेत्रं चकृत्वा युक्तिं च सादरम् ।। १७ ।। स सर्वानाशिषं कृत्वा समुवास च संसदि । उवाच तांश्च शौरिं च भगवन्तं सनातनम् ।। १८ ।। सनत्कुमार उवाच भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् । कृष्णस्य कुशलप्रश्नं सिवबीजस्य निष्फलम् ।। १९ ।। सांप्रतं कुशुलं वश्च दर्शनं परमात्मनः । भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि ।। २० ।। निर्गुणास्य निरीहस्य सर्वबीजस्य तेयसा । भारावतरणायैव चाऽऽविर्भूतस्य सांप्रतम् ।। २१ ।। श्रीकृष्ण उवाच शरीरधारिणश्चापि कुशलप्रश्नमीप्सितम् । तत्कथं कुशलप्रश्नं मयि विप्र न विद्यते ।। २२ ।। सनत्कुमार उवाच शरीरे प्राकृते नाथ संततं च शुभाशुभम् । नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम् ।। २३ ।। श्रीभगवानुवाच यो यो विग्रहधारी च स च प्राकृतिकः स्मृताः । देहो न विद्यते विप्र तां नित्यां प्राकृतिं विना ।। २४ ।। सनत्कुमार उवाच रक्तबिन्दूद्भवा देहास्ते च प्राकृतिका स्मृताः । कथं प्रकृतिनाथस्य बीजस्य प्राकृतं वपुः ।। २५ ।। सर्वबीजस्य सर्वादिर्भवांश्च भगवान्स्वयम् । सर्वेषामवतारणां प्रधानं बीजमव्ययम् ।। २६ ।। कृत्वा वदन्ति वेदाश्च नित्यं सत्यं सनातनम् । ज्योतिःस्वरूपं प्रधानं बीजमव्ययम् ।। २७ ।। मायया सगुणं चैव मायेशं निर्गुणं परम् । प्रवदन्ति च वेदाङ्गास्तथा वेदविदः प्रभो ।। २८ ।। श्रीकृष्ण उवाच संप्रतं वासुदेवोऽहं रक्तपीर्याश्रितं वपुः । कथं न प्रकृतो विप्र शिवप्रश्नमभीप्सितम् ।। २९ ।। सनत्कुमार उवाच वासुः सर्वनिवासश्च विश्वानि यस्य लोमसु । तस्य देवः परं ब्रह्म वासुदेव इतीरितः ।। ३० ।। वासुदेवेति तन्नाम वेदेषु च चतुर्षु च । पुराणेष्वितिहासेषु यात्रादिषु च दृश्यते ।। ३१ ।। रक्तवीर्याश्रितो देहः क्व ते वेदे निरूपितः । साक्षिणो मुनयश्चैव धर्मः सर्वत्र एव च ।। ३२ ।। साक्षिणो मम वेदाश्च रविचन्दौ च संप्रतम् ।। ३३ ।। भृगुरुवाच सत्यं वदसि त्वमेव वैष्णवाग्रणीः । स्वागतं कुशलं शश्वत्किंनिमित्तमिहाऽऽगतः ।। ३४ ।। सनत्कुमार उवाच श्रूयतां मुनयः सर्वे श्रूयतां कृष्ण सांप्रतम् । अहो येन निमित्तेन चातिशीघ्रमिहाऽऽगतः ।। ३५ ।। श्रीकृष्ण उवाच भगवन्मर्वधर्मज्ञ किंनिमित्तमिहाऽऽगतः । सर्वं जानासि सर्वज्ञ त्वमेव विदुषां वरः ।। ३६ ।। सनत्कुमार उवाच धन्योऽसि भगवञ्छश्वन्मान्योऽसि जगतामपि । सर्वेश्वरेश्वरोऽसि त्वं तत्परो नास्ति विश्वतः ।। ३७ ।। श्रीकृष्ण उवाच यज्ञानां च व्रतानां च तपस्यानां द्विजेश्वर। सततं फलदाताऽहं दक्षिणाभिः सहेति य ।। ३८ ।। इति श्रुत्वा कुमारश्च जवेन प्रययौ वने । मत्वाऽऽश्चर्य च वचनं वारयामास तेऽपितम् ।। ३९ ।। ऋषय ऊचुः हे सिद्धेन्द्र महाभाग कुमार करुणामय । का शङ्कितकथा प्रोक्ता भगवत्कृष्णसंनिधौ ।। ४० ।। किं पुत्र दृष्टमाश्चर्य श्रुतं किमपि कुत्रचित् । अतीव कृत्वा विस्तीर्णमस्माकं वक्तुमर्हसि ।। ४१ ।। एत स्मिन्न्नतरे ब्रह्मा पार्वत्या सह शंकरः । अनन्तश्चापि धर्मश्च श्रीसूर्यश्च निशाकरः ।। ४२ ।। आदित्या वसवो रुद्रा दिक्पालाद्याश्च देवताः । श्रीकृष्णः सहसोत्थाय संभाध्य चपृथक्पृथकु ।। ४३ ।। मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः । प्रणेसुर्ऋषयः सर्वे शेषं शंभुं विधिं शिवाम् ।। ४४ ।। परस्परं च संभाषा बभूव द्विजदेवयोः । समुवासाऽऽसने मध्ये कुमारः कनकप्रभः ।। कथां कथितुमारेभे संसदि द्विजदेवयोः ।। ४५ ।। मया गतश्च गोलोको न दृष्टो राधिकापतिः । ततो गतं च वैकुण्ठं तत्र नास्ति चतुर्भुजः ।। ४६ ।। ततो गतश्च क्षीरोदस्तत्र नास्ति हरिः स्वयम् । परिश्रान्तो विषण्णश्च स्नातं क्षीरोदधेस्तटे ।। ४७ ।। विस्तीर्णवालुकामध्ये कच्छपः शतयोजनः । भीतश्च कम्पितस्तत्र दृष्टो दुःखी च शुष्कितः ।। ४८ ।। निःसारितो राघवेण मीनेन च महात्मना । धन्योऽसीति मयोक्तश्च नाहं धन्य उवाच सः ।। ४९ ।। क्षीरोदः सागरो धन्यो जन्तवो यत्र मद्विधाः । मत्तो महत्तराश्चापि ह्यसंख्याश्च महामुने ।। ५० ।। भवान्धन्योऽस्ति क्षीरोद तेनोक्तो नाहमेव च । धन्या वसुंधरा देवी यत्रैव सप्तसागराः ।। ५१ ।। धन्याऽसि वसुधेत्युक्ता नाहमेवेत्युवाच सा । धन्योऽनन्तो ममाऽऽधारः कृष्णांशो नागराड्विभुः ।। ५२ ।। महस्रमूर्ध्ना मध्येऽहं मूर्ध्नि शूर्पे च सर्षपः । धन्योऽसि शेषेत्युक्तोऽयं धन्यो नाहमुवाच वै ।। ५३ ।। धन्यः कूर्मो ममाऽऽधारो गच्छ तत्रैव वै मुने । धन्योऽसि कूर्मेत्युक्तोऽयं नारं धन्योऽस्मि वै मुने ।। ५४ ।। वायुना धार्यमाणोऽहं मत्तो धन्यतमश्च सः । धन्योऽसीत्युक्तः पवनो धन्यो नाहमुवाच सः ।। ५५ ।। धन्यश्च भगवान्ब्रह्मा विधाता जगतामपि । धन्योऽसि तत्र धाता च धन्यो नाहमुवाचसः ।। ५६ ।। धन्यो महेश्वरो देवो योगीन्द्राणां गुरोर्गुरुः । सर्वाराध्यः सर्वपूज्यो धर्मरूपः सनातनः ।। ५७ ।। कालकालश्च संहर्ता स्वयं मृत्युंजयः प्रभुः । धन्योऽसि तत्र शंभुश्च धन्यो नाहमुवाच सः ।। ५८ ।। सर्वादौ पूजनं यस्य ज्ञानिनां च गुरोर्गुरुः । धन्यो गणेश्वरो देवो देवानां प्रवरः परः ।। ५९ ।। सिद्धेन्द्रेषु मुनीन्द्रेषु देवेन्द्रेषु श्रुतौ श्रुतम् । योगीन्द्रेषु च प्राज्ञेषु न गणेशात्परः पुमान् ।। ६० ।। निम्नगासु यथा गङगा तीर्थेषु पुष्करं यथा । वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।। ६१ ।। वेदो नारायणः साक्षाद्वयं पूज्या व्यवस्थया । तस्माच्छास्त्राणि सर्वाणि पुराणानि च सन्ति वै ।। ६२ ।। यस्मान्निरूपितो धर्मश्चेतिहासश्च संहिता । तस्माद्धन्याश्च ते वेदा वदन्त्यत्र मनीषिणाः ।। ६३ ।। यूयं धन्याश्च मान्याश्चेत्युक्ता वेदा मया ततः । ऊयुस्ते न वयं धन्या यज्ञसंघश्य सांप्रतम् ।। ६४ ।। वयं व्यवस्थाकर्तारो यज्ञौघः फलदः स्वयम् । तस्माद्धन्यः स एवापि गच्छ गच्छ महामुने ।। ६५ ।। धन्योऽसि यज्ञसंघोऽसीत्युक्तस्तत्र मया विभो । ऊचुस्ते न वयं धन्या धन्यं कर्म शुभं मुने ।। ६६ ।। शुभकर्मासि धन्यं त्वं नाहं धन्यमुवाच तत् । कर्मणां फलदाता यः कर्महेतुश्च सांप्रतम् ।। ६७ ।। धातुर्विधाता भगवान्सर्वादिः सर्वकारकः । श्रीकृष्णः परमात्मा च धन्यो मान्यश्चनिश्चितम् ।। ६८ ।। धर्मालयं ततो गत्वा न दुष्ट्वा जगदीश्वरम् । मथुरामागतो द्रष्टुं परिपूर्णतम् प्रभुम् ।। ६९ ।। यज्ञानां तपसां चैव व्रतानां शुभकर्मणाम् । ईश्वरं फलदातारं परमात्मानमेव च ।। ७० ।। कारणं कारणानां च ब्रह्मादीनां पुरःसरम् । धन्योऽसीति मयोक्तश्च दक्षिणाभिः सहेति च ।। ७१ ।। इत्युक्तेन भगवता कथितं सर्वकारणम् । दक्षिणाभिश्च फलदो हतयज्ञो ङ्यदक्षिणाः ।। ७२ ।। दक्षिणा विप्रमुद्दिश्य तत्काले तु न दीयते । एकरात्रे व्यतीते तु तद्दानं द्विगुणं भवेत् ।। ७३ ।। मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम् । संवत्सरे व्यतीते तु स दाता नरकं व्रजेत् ।। ७४ ।। वर्षाणां च सहस्रं च मूत्रकुण्डे निपत्य च । ततश्चाण़्डालतां याति व्याधियुक्तश्च पातकी ।। ७५ ।। दात्रा न दीयते दानं ग्रहीत्रा चेन्न गृह्यते । उभौ तौ नरकं प्राप्तौ वर्षाणां च सहस्रकम् ।। ७६ ।। यजमानश्च चाण्डालो ब्रह्मणस्तत्पुरोहितः । व्याधियुक्तावुभौ तौ च पापिनौ कर्मणः फलात् ।। ७७ ।। सर्वे देवाश्च मुनयो जहसुर्विस्मयं ययुः । विस्मयं च ययौ नन्दस्तत्याज पुत्रभावकम् ।। ७८ ।। रुरोद च सभामध्ये लज्जाहीनः शुचाऽऽकुलः । त्यज मौहमितीत्युक्त्वा बोधयामास पार्वती ।। ७९ ।। नन्द उवाच अमूल्यरत्नं माणिक्यं यथा कुजन्मनो गृहे । स्थितं तेन च देवेश तथाऽहं वञ्चितः प्रभो ।। ८० ।। ममापराधं भगवान् क्षमस्व प्रकृतेः पर । यास्यामि न पुनर्गेहं गोकुलं यमुनातटम् ।। ८१ ।। वृन्दावनं तथाऽऽवासं क्रीडावासं गदाग्रज । तत्सर्वं च यशोदाया गोपिकान्तिकमेव च ।। ८२ ।। किं ब्रवीमि यशोदां य प्रेयसीं राधिकामपि । प्रेमपात्रं च बालौघं वद भोः कथयामि किम् ।। ८३ ।। इत्युक्त्वा च सभामध्ये मर्च्छां संप्राप नारद । क्रोडे कृत्वा जगन्नाथो बोधयामास तत्क्षणम् ।। ८४ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo सप्ताशीतितमोऽध्यायः ।। ८७ ।।
atha saptāśītitamodhyāyaḥ nanda uvāca tvāṃ jñātuṃ nahi śaktāśca vedā vedaprabhuṃ svayam | surā brahmeśaseṣādyā munisiddhādayastathā || 1 || ko bhavāniti vijñātuṃ paraṃ kautūhalaṃ mama | tatsarva svātmayāthārthyaṃ nirjane kathaya prabho || 2 || nārāyaṇa uvāca etasminnantare tatra kṛṣṇaṃ draṣṭuṃ munīśvarāḥ | ājagmuḥ sahasā vatsa jvalanto brahmatejasā || 3 || pulahaśca pulastyaśca kratuśca bhṛguraṅgirāḥ | pracetāśca vasiṣṭhaśca durvāsāḥ kaṇva eva ca || 4 || kātyāyanaḥ pāṇiniśca kaṇādo gautamastathā | sanakaśca sanandaśca dṛtīyaśca sanātanaḥ || 5 || kapilaścā''suriścaiva vāyuḥ pañcaśikhastathā | viśvāmitro vālmīkiśca kaśyapaśca parāśaraḥ || 6 || vibhāṇḍako marīciśca śukrau'triśca bṛhaspatiḥ | gārgyaśyāpi tathā vātsyo vyāsaśca jaiministathā || 7 || mitavāgṛṣyaśṛṅgaśca yājñavalkyaḥ śukastathā | saubhariḥ śuddhajaṭilo bharadvājaḥ subhadrakaḥ || 8 || mārkaṇḍeyo lomaśaśca āsuriśca viṭaṅkaṇaḥ | aṣṭāvakra śatānando vāmadeśca bhāsuriḥ || 9 || saṃvartaścāpyutathyaśca naro'haṃ cāpi nārada | jābāliḥ parśurāmaścāpyagastyaḥ paila eva ca || 10 || yudhāmanyurgau ramukho'pyupamanyuḥ śrṛtaśravāḥ | maitreyaścyavanaścaiva vararucyarṣireva ca || 11 || tāndṛṣṭvā sahasotthāya namaskṛtya puṭāñjaliḥ | siṃhāsaneṣu ramyeṣu vāsayāmāsa sādaram || 12 || pūjayāmāsa vidhivatkuśalapraśnapūrvakam | parasparaṃ ca saṃbhāṣya madhye kṛṣṇa uvāsa saḥ || 13 || etasminnantare kṛṣṇastejorāśiṃ dadarśa saḥ | daduśuste ca munayo'pyākāśe ca samujjvalam || 14 || tejaso'bhyantare vatsa kumāraṃ kanakaprabhām | yathaiva pañcavarṣīyaṃ nagnaṃ bālakamīpsitam || 15 || āvirbabhūva sahasā samāmadhye ca nārada | uttiṣṭamānaṃ sahasā taṃ dṛṣṭvā munapuṃgavāḥ || 16 || praṇemurmunayaḥ sarve śauriśca praṇanāma tam | sasmitaṃ snigdhanetraṃ cakṛtvā yuktiṃ ca sādaram || 17 || sa sarvānāśiṣaṃ kṛtvā samuvāsa ca saṃsadi | uvāca tāṃśca śauriṃ ca bhagavantaṃ sanātanam || 18 || sanatkumāra uvāca bhadraṃ vo munayaḥ śaśvattapasāṃ phalamīpsitam | kṛṣṇasya kuśalapraśnaṃ sivabījasya niṣphalam || 19 || sāṃprataṃ kuśulaṃ vaśca darśanaṃ paramātmanaḥ | bhaktānurodhāddehasya parasya prakṛterapi || 20 || nirguṇāsya nirīhasya sarvabījasya teyasā | bhārāvataraṇāyaiva cā''virbhūtasya sāṃpratam || 21 || śrīkṛṣṇa uvāca śarīradhāriṇaścāpi kuśalapraśnamīpsitam | tatkathaṃ kuśalapraśnaṃ mayi vipra na vidyate || 22 || sanatkumāra uvāca śarīre prākṛte nātha saṃtataṃ ca śubhāśubham | nityadehe kṣemabīje śivapraśnamanarthakam || 23 || śrībhagavānuvāca yo yo vigrahadhārī ca sa ca prākṛtikaḥ smṛtāḥ | deho na vidyate vipra tāṃ nityāṃ prākṛtiṃ vinā || 24 || sanatkumāra uvāca raktabindūdbhavā dehāste ca prākṛtikā smṛtāḥ | kathaṃ prakṛtināthasya bījasya prākṛtaṃ vapuḥ || 25 || sarvabījasya sarvādirbhavāṃśca bhagavānsvayam | sarveṣāmavatāraṇāṃ pradhānaṃ bījamavyayam || 26 || kṛtvā vadanti vedāśca nityaṃ satyaṃ sanātanam | jyotiḥsvarūpaṃ pradhānaṃ bījamavyayam || 27 || māyayā saguṇaṃ caiva māyeśaṃ nirguṇaṃ param | pravadanti ca vedāṅgāstathā vedavidaḥ prabho || 28 || śrīkṛṣṇa uvāca saṃprataṃ vāsudevo'haṃ raktapīryāśritaṃ vapuḥ | kathaṃ na prakṛto vipra śivapraśnamabhīpsitam || 29 || sanatkumāra uvāca vāsuḥ sarvanivāsaśca viśvāni yasya lomasu | tasya devaḥ paraṃ brahma vāsudeva itīritaḥ || 30 || vāsudeveti tannāma vedeṣu ca caturṣu ca | purāṇeṣvitihāseṣu yātrādiṣu ca dṛśyate || 31 || raktavīryāśrito dehaḥ kva te vede nirūpitaḥ | sākṣiṇo munayaścaiva dharmaḥ sarvatra eva ca || 32 || sākṣiṇo mama vedāśca ravicandau ca saṃpratam || 33 || bhṛguruvāca satyaṃ vadasi tvameva vaiṣṇavāgraṇīḥ | svāgataṃ kuśalaṃ śaśvatkiṃnimittamihā''gataḥ || 34 || sanatkumāra uvāca śrūyatāṃ munayaḥ sarve śrūyatāṃ kṛṣṇa sāṃpratam | aho yena nimittena cātiśīghramihā''gataḥ || 35 || śrīkṛṣṇa uvāca bhagavanmarvadharmajña kiṃnimittamihā''gataḥ | sarvaṃ jānāsi sarvajña tvameva viduṣāṃ varaḥ || 36 || sanatkumāra uvāca dhanyo'si bhagavañchaśvanmānyo'si jagatāmapi | sarveśvareśvaro'si tvaṃ tatparo nāsti viśvataḥ || 37 || śrīkṛṣṇa uvāca yajñānāṃ ca vratānāṃ ca tapasyānāṃ dvijeśvara| satataṃ phaladātā'haṃ dakṣiṇābhiḥ saheti ya || 38 || iti śrutvā kumāraśca javena prayayau vane | matvā''ścarya ca vacanaṃ vārayāmāsa te'pitam || 39 || ṛṣaya ūcuḥ he siddhendra mahābhāga kumāra karuṇāmaya | kā śaṅkitakathā proktā bhagavatkṛṣṇasaṃnidhau || 40 || kiṃ putra dṛṣṭamāścarya śrutaṃ kimapi kutracit | atīva kṛtvā vistīrṇamasmākaṃ vaktumarhasi || 41 || eta sminnnatare brahmā pārvatyā saha śaṃkaraḥ | anantaścāpi dharmaśca śrīsūryaśca niśākaraḥ || 42 || ādityā vasavo rudrā dikpālādyāśca devatāḥ | śrīkṛṣṇaḥ sahasotthāya saṃbhādhya capṛthakpṛthaku || 43 || madhuparkādikaṃ dattvā pūjayāmāsa bhaktitaḥ | praṇesurṛṣayaḥ sarve śeṣaṃ śaṃbhuṃ vidhiṃ śivām || 44 || parasparaṃ ca saṃbhāṣā babhūva dvijadevayoḥ | samuvāsā''sane madhye kumāraḥ kanakaprabhaḥ || kathāṃ kathitumārebhe saṃsadi dvijadevayoḥ || 45 || mayā gataśca goloko na dṛṣṭo rādhikāpatiḥ | tato gataṃ ca vaikuṇṭhaṃ tatra nāsti caturbhujaḥ || 46 || tato gataśca kṣīrodastatra nāsti hariḥ svayam | pariśrānto viṣaṇṇaśca snātaṃ kṣīrodadhestaṭe || 47 || vistīrṇavālukāmadhye kacchapaḥ śatayojanaḥ | bhītaśca kampitastatra dṛṣṭo duḥkhī ca śuṣkitaḥ || 48 || niḥsārito rāghaveṇa mīnena ca mahātmanā | dhanyo'sīti mayoktaśca nāhaṃ dhanya uvāca saḥ || 49 || kṣīrodaḥ sāgaro dhanyo jantavo yatra madvidhāḥ | matto mahattarāścāpi hyasaṃkhyāśca mahāmune || 50 || bhavāndhanyo'sti kṣīroda tenokto nāhameva ca | dhanyā vasuṃdharā devī yatraiva saptasāgarāḥ || 51 || dhanyā'si vasudhetyuktā nāhamevetyuvāca sā | dhanyo'nanto mamā''dhāraḥ kṛṣṇāṃśo nāgarāḍvibhuḥ || 52 || mahasramūrdhnā madhye'haṃ mūrdhni śūrpe ca sarṣapaḥ | dhanyo'si śeṣetyukto'yaṃ dhanyo nāhamuvāca vai || 53 || dhanyaḥ kūrmo mamā''dhāro gaccha tatraiva vai mune | dhanyo'si kūrmetyukto'yaṃ nāraṃ dhanyo'smi vai mune || 54 || vāyunā dhāryamāṇo'haṃ matto dhanyatamaśca saḥ | dhanyo'sītyuktaḥ pavano dhanyo nāhamuvāca saḥ || 55 || dhanyaśca bhagavānbrahmā vidhātā jagatāmapi | dhanyo'si tatra dhātā ca dhanyo nāhamuvācasaḥ || 56 || dhanyo maheśvaro devo yogīndrāṇāṃ gurorguruḥ | sarvārādhyaḥ sarvapūjyo dharmarūpaḥ sanātanaḥ || 57 || kālakālaśca saṃhartā svayaṃ mṛtyuṃjayaḥ prabhuḥ | dhanyo'si tatra śaṃbhuśca dhanyo nāhamuvāca saḥ || 58 || sarvādau pūjanaṃ yasya jñānināṃ ca gurorguruḥ | dhanyo gaṇeśvaro devo devānāṃ pravaraḥ paraḥ || 59 || siddhendreṣu munīndreṣu devendreṣu śrutau śrutam | yogīndreṣu ca prājñeṣu na gaṇeśātparaḥ pumān || 60 || nimnagāsu yathā gaṅagā tīrtheṣu puṣkaraṃ yathā | vedapraṇihito dharmo hyadharmastadviparyayaḥ || 61 || vedo nārāyaṇaḥ sākṣādvayaṃ pūjyā vyavasthayā | tasmācchāstrāṇi sarvāṇi purāṇāni ca santi vai || 62 || yasmānnirūpito dharmaścetihāsaśca saṃhitā | tasmāddhanyāśca te vedā vadantyatra manīṣiṇāḥ || 63 || yūyaṃ dhanyāśca mānyāścetyuktā vedā mayā tataḥ | ūyuste na vayaṃ dhanyā yajñasaṃghaśya sāṃpratam || 64 || vayaṃ vyavasthākartāro yajñaughaḥ phaladaḥ svayam | tasmāddhanyaḥ sa evāpi gaccha gaccha mahāmune || 65 || dhanyo'si yajñasaṃgho'sītyuktastatra mayā vibho | ūcuste na vayaṃ dhanyā dhanyaṃ karma śubhaṃ mune || 66 || śubhakarmāsi dhanyaṃ tvaṃ nāhaṃ dhanyamuvāca tat | karmaṇāṃ phaladātā yaḥ karmahetuśca sāṃpratam || 67 || dhāturvidhātā bhagavānsarvādiḥ sarvakārakaḥ | śrīkṛṣṇaḥ paramātmā ca dhanyo mānyaścaniścitam || 68 || dharmālayaṃ tato gatvā na duṣṭvā jagadīśvaram | mathurāmāgato draṣṭuṃ paripūrṇatam prabhum || 69 || yajñānāṃ tapasāṃ caiva vratānāṃ śubhakarmaṇām | īśvaraṃ phaladātāraṃ paramātmānameva ca || 70 || kāraṇaṃ kāraṇānāṃ ca brahmādīnāṃ puraḥsaram | dhanyo'sīti mayoktaśca dakṣiṇābhiḥ saheti ca || 71 || ityuktena bhagavatā kathitaṃ sarvakāraṇam | dakṣiṇābhiśca phalado hatayajño ṅyadakṣiṇāḥ || 72 || dakṣiṇā vipramuddiśya tatkāle tu na dīyate | ekarātre vyatīte tu taddānaṃ dviguṇaṃ bhavet || 73 || māse śataguṇaṃ proktaṃ dvimāse tu sahasrakam | saṃvatsare vyatīte tu sa dātā narakaṃ vrajet || 74 || varṣāṇāṃ ca sahasraṃ ca mūtrakuṇḍe nipatya ca | tataścāṇa़ḍālatāṃ yāti vyādhiyuktaśca pātakī || 75 || dātrā na dīyate dānaṃ grahītrā cenna gṛhyate | ubhau tau narakaṃ prāptau varṣāṇāṃ ca sahasrakam || 76 || yajamānaśca cāṇḍālo brahmaṇastatpurohitaḥ | vyādhiyuktāvubhau tau ca pāpinau karmaṇaḥ phalāt || 77 || sarve devāśca munayo jahasurvismayaṃ yayuḥ | vismayaṃ ca yayau nandastatyāja putrabhāvakam || 78 || ruroda ca sabhāmadhye lajjāhīnaḥ śucā''kulaḥ | tyaja mauhamitītyuktvā bodhayāmāsa pārvatī || 79 || nanda uvāca amūlyaratnaṃ māṇikyaṃ yathā kujanmano gṛhe | sthitaṃ tena ca deveśa tathā'haṃ vañcitaḥ prabho || 80 || mamāparādhaṃ bhagavān kṣamasva prakṛteḥ para | yāsyāmi na punargehaṃ gokulaṃ yamunātaṭam || 81 || vṛndāvanaṃ tathā''vāsaṃ krīḍāvāsaṃ gadāgraja | tatsarvaṃ ca yaśodāyā gopikāntikameva ca || 82 || kiṃ bravīmi yaśodāṃ ya preyasīṃ rādhikāmapi | premapātraṃ ca bālaughaṃ vada bhoḥ kathayāmi kim || 83 || ityuktvā ca sabhāmadhye marcchāṃ saṃprāpa nārada | kroḍe kṛtvā jagannātho bodhayāmāsa tatkṣaṇam || 84 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo bhagavannandasaṃo saptāśītitamo'dhyāyaḥ || 87 ||
English translation
Arrival of Sanatkumara at the time of conversation between Kr§na and Nanda Nanda said- O lord, you happen to be well- versed in the Vedas and your knowledge surpasses Brahma, Siva, Sesa and other gods beside the munis or the siddhas; therefore, you let me know about your true identity and I am anxious to know about the same. You kindly reveal to me your true identity in this secluded and lonely place.
Sri Narayana said- O son, in the meantime all the sages and ascetics shining with divine light arrived there in order to have an audience with lord Kfsna. They included Pulaha, Pulastya, Cyavana and Vararuci arrived there.
giWRnr TIRTtI,l I? ^ 11 Finding the sages present there, ^rl Krsna got up suddenly and welcomed them offering his reverence to them with folded hands. Thereafter, all of them were made to sit over the charming lion thrones; Sri Krsna then asked about their welfare and adored them all. After mutual consultations Sri Kfsna took his seat among them. In the meantime Krsna spotted a fall of lustre in the sky which was also witnessed by the Inside the lustre there was Sanatkumara in the form of a nude child having the lustre like gold.
O Narada he appeared among the assembly suddenly. Finding him having arrived suddenly, all the ascetics bowed in reverence to him and Sri Krsna also with a smiling face and the love reflecting in his eyes, bowed his head to him in reverence. The child than bestowed his blessing on all those present there taking his seat among the assembly of ascetics. Thereafter he spoke to lord Krsna who happens to be eternal.
Sanatkumara said- O ascetics, you may meet with welfare always and you may also get the fruit all the tapas performed by you, but it is of no use to question-about the true form of lord Krsna who bestows his grace on all. Presently all of you meet with welfare because you are having an audience with the great soul at present. He has taken to the human form at the instance of his devotees. He is beyond Prakrti beyond qualities, unattached the seed of all and has incarnated on earth to relieve her of her burden.
Krspa said- O Brahmapa, if it is desirable to enquire about the welfare from all who possess the human bodies than why are you not interested in such question about me?.
Sanatkumara said- O lord the worldly body is always surrounded with the good or bad deeds, but the one who himself is the seed of welfare, it is no used asking question about his welfare.
R R R Jllfifrra;; 1^:1 Kfsna said- O Brahmana, of the people having human form or the other are termed as Prdkrtika and without Prakrti they cannot Sanatkumara said- The bodies which are bom with the application of semen, they are known as Prdkrtika but the one who is the lord of Prakrti and the cause of his body cannot be Prdkrtika.
You happen to be the cause of all the causes, the one beginning of all, the lord himself, the foremost of all the incarnation, the seed of all as well as indestmctible.
The Vedas always define you as eternal, form of flame, the excellent, the supreme soul and the O lord, the Vedas and post-Vedic literature also define you as the lord of illusion, without qualities, beyond the illusion and also possessing the form.
Sri Krsna said- O Brahmana, presently I am the son of Vasudeva and my body has the semen and blood as usual. Then how can it not be called as Prakrta and why is it not proper to enquire about the welfare of the same body.
Sanatkumara said- you are the one in whose hair pits, innumerable globes are enshrined and happen to be the abode of all. That is why you are called Vdsu and because of the god-hood inherent in how you are called Vasudeva. The word Vasudeva has also been repeated in the Puranas, the history books and the treatises on journeys or pilgrimages. His body comprising of the semen and blood has not been defined in the Vedas, The ascetics and the Dharma stand witnessed for the same. Presently the Vedas, the sun and the moon are my witness.
Bhrgu said- O Brahmana, you have spoken truthfully, you are the fore-most of the Vaisnavas and therefore we welcome you. Are you perfectly all right, you tell us the reason for your arrival here.
Sanatkumara said- O sages and lord Krsna, you please listen to me about the purpose for which I have arrived here.
Sri Krsna said- O religious one, tell me the purpose for your arrival here. You are foremost among, the intellectuals and possessed all the knowledge, you know everything and therefore you kindly speak out the purpose for your arrival Sanatkumara said- O lord, you are quite graceful and you are adored throughout the universe; you happen to be the lord of all and no one is superior than you.
Sri Krsna said- O lord of the Brahmanas, I bestow the fruit of the yajnas and daksinas, for performing yajnas, vratas and tapas. On hearing this Kiimara was about to leave the plaee in a hurry in the forest but the sages prevented him from going finding his words to Tje quite The sages said- O great sage, O virtuous one, O ocean of mercy, O Kumara, what are the doubtful words spoken by you in the presence of lord Kfsna. O son, have you witnessed or met with any surprise? You please speak out the same in detail.
In the meantime Brahma, Siva with Parvatl, Ananta. Dharma, Stlrya, the moon, Adityas, Vasus, Rudras, Dikpalas and all the gods arrived there. Finding them having arrived there, ^rl Kys na got up from his seat and welcomed them individually offering madhuparka and adoring them with devotion. All the sages adored ^e?a, Brahma and Parvatl. The Brahmanas and the gods conversed with one another; thereafter, Sanatkumara having the lustre of gold addressed the assembly while seated on the gem-studded SRTtS-Rtfw M'itlTbV^ -qi? SgirT -Rni-if*?!!
Sanatkumara said-1 had gone to Goloka but I could not find there Kyspa the lord of Radha.
Thereafter I went to Vaikuptha and could not find the four-farmed Vi§pu there. I then went to the ocean of milk but lord Hari was no where to be found there; thereafter feeling fatigued, I found that a vast tortoise of the size of a hundred yojanas was lying there. He looked terrified, shaking, grief, stricken and dry. It was driven out from the water by a fish named Raghava. I told him that you are quite graceful. He said, "O great sage I am not graceful but the ocean of milk is graceful which is filled with innumerable creatures of my size and even bigger than me.
I than told the ocean of milk, "O ocean of milk you are graceful. He said, 'T am not graceful, this earth is graceful which has accommodated seven oceans like me.
inpPTt I I then said, ”0 earth you are graceful but she said, 'T am not graceful but Ananta the lord of the serpents is graceful who supports me and is bom from the arnsa of Krsna and pervades everywhere. He has a thousand hoods over one of which I have been lodges like a sesamum seed in the winnowing basket. Then I said, Sesa is quite graceful". He said, no I am not graceful, O sage, the tortoise who happens to be my base is graceful, you go to him. Then I spoke to tortoise, you are graceful, but he replied O sage I am not graceful. The wind carries me; therefore he is more graceful than myself, Then I spoke to the wind god, "You are graceful" he replied "lord Brahma is graceful who had created the three worlds, then I spoke to Brahma, "O Brahma you are graceful, he said", I am not graceful. Lord Mahavisnu is graceful who happens to be the teacher of the yogis and is adored by all, is the
form of Dharma, is eternal, is death for the death, the destroyer of all, having over-come the death and the lord of all. when I told him. You are, he said, "No I am not graceful lord Ganesa is graceful who is adored first of all everywhere, who is the intellectuals, the best among the gods, because I have heard in the Vedas that there is no one else more graceful than Ganesa among that siddhas, ascetic, the gods, the yogis.
gpjTFET ^ W rT?r:l As the Gahga is the best of all the rivers. Pus kara is the best of all the holy places, similarly he happens to be the best of all. I therefore told Ganesa that he was graceful who said, "All whatever has been prescribed in the Vedas is dharma and whatever is done against the same is sinful. Vedas are treated as the form of Narayana himself we are adored because of the provisions of the Vedas. All the scriptures and the Puranas have emerged from the Vedas. The source of dharma history, Sarhhitas also vests in the Vedas. Therefore, according to the opinion of the intellectual, Vedas are graceful. Then I spoke to the Vedas saying, "You are graceful". Then they said, 'We are not graceful the people who perform yajnas are graceful; we people only prescribe the path but the yajna provides the fruit. O sage, therefore only such people are graceful and you go to them.
O virtuous one, I went to the people who performed the yajna and said to them. "You people are graceful" they said, "We are not graceful only the good deeds are graceful".
I than spoke to the noble deeds and said, you are graceful. They said, "we are not graceful, lord Krsna alone is graceful who bestows the fruit for the good deeds and who happens to be the eternal Brahmana and the creator of the fsyjt qlci;i IV9 ^ 11 Then I went to the abode of Dharma but I could not find him there and ultimately I arrived at Mathura in order to meet him. He is the one who bestows fruit for all the yajnas, tapas, vratas and he is the lord on to himself, the supreme soul, cause of all the causes besides being Brahma and the fore-most of the gods. I told him, "You are graceful with daksina"' At these words of mine, the lord spoke to him about the causes of everything and said that a yajha performed, by giving away the daksind, is quite successful and the yajna performed without daks ind is unsuccessful. In case the Brahmana is not provided daksind immediately after the completion of the yajna than it is doubled after
the lapse of one night.
On the expiry of one month, it is multiplied to hundred times and after the completion of two months it is multiplied to a thousand times. After completion of one year the performer of the yajna has to fall in the hell.
He has to remain there in the tank of urine for a thousand years and is then reborn as a candala and a sinner.
In case the performer does not give and the receiving does not receive daksind then both of them are thrown in the hell for thousand years.
Thereafter, the performer and his priest Brahmana become candala, both of them suffer from ailment because of the same sin".
FTwnftq: I On hearing this all the gods and the sages laughed aloud getting surprised, Nanda also getting surprised shed away from his mind, attraction towards Krsna, of his being a son to him. He started crying in grief among the assembly. At that point of time ParvatT consoled him and said, "You shed away the illusion, you free yourself from ignorance.
Nanda said- O lord I feel deprived like the one in whose house an invaluable gem is bom but he remains ignorant about the same.
O lord, you are beyond Prakrti and you forgive me for my sin. O wielder of the gadd I will not go to Gokula, the bank of Yamuna, Vmdavana, my abode, the place of Yasoda and the cowherdesses.
You kindly tell me what reply shall I give to Yasoda and Radha who is your beloved, besides the cowherds? O Narada, thus speaking Nanda fainted in the assembly. Thereafter Krsna took him in his lap and started consoling him.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 311180 (2021-05-26T22:08:11Z); Shanti Lal Nagar English scan pages n1466–n1472: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1466/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.