Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 86

Chapter 86

Unit 229 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 86Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 861 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 86

Source

नन्द उवाच केदारकन्याप्रस्तावात्कथितं कर्मकीर्तनम् । कृत्यास्त्रीणां प्रसङ्गेन तद्व्यासेन वद प्रभो ।। १ ।। केदारकन्या सा का वा को वा केदारभूपतिः । कस्य वंशेचतज्जन्म तन्मे व्याख्यातुमर्हसि ।। २ ।। श्रीकृष्ण उवाच पुरातु ब्रह्मणाः पुत्रो मनुः स्वांयभुवस्तथा । तस्य स्त्री शतरूपा च धन्या मान्या च योषिताम् ।। ३ ।। प्रियव्रतोत्तानपादौ तयोः पुत्रौ बभूवतुः । उत्तानपादपुत्रश्च ध्रुव एव महायशाः ।। ४ ।। तत्पुत्रो नन्दसावर्णिः केदारश्च तदात्मजः । सप्तद्वीपपतिः श्रीमान्केदारो वैष्णवः स्वयम् ।। ५ ।। तस्य रक्षानिमित्तेन सत्सभायां सुदर्शनम् । गवां लक्षं शुद्धं स्वर्णशृङ्गं च भूषितम् ।। ६ ।। वह्निशुद्धानि वस्त्राणि दत्तानि वरुणेन च । सुवर्णानां तथा लक्षं सर्वसस्यां वसुंधराम् ।। ७ ।। मणिरत्नं च मुक्ताश्च हीरकं परमं तथा । माणिक्यामश्वरत्नानां लक्षं लक्षं चहस्तिनाम् ।। ८ ।। रौप्यं प्रवालं मिष्टान्नं शतधान्याचलं वरम् । नित्यं नित्यं ब्राह्मणेम्यो ददौ च रत्नभूषणाम् ।। ९ ।। शतलक्षं ब्राह्मणानां भोजयामास नित्यशः । जलभोजनपात्राणि सुवर्णानां ददौ नृपः ।। १० ।। सुवर्णानां यज्ञसूत्रमङ्गुलीयकमुत्तमम् । आसनं स्वर्णरत्नानां ब्राह्मणेभ्यो ददौ मुदा ।। ११ ।। ब्राह्मणानां च लक्षं च सूपकारं नृपस्य च । ब्राह्मणानां द्विलक्षं च परिवेषणकारकम् ।। १२ ।। घृतकुल्या मधुकुल्या दधिकुल्या मनोहराः । गुडकुल्या दुग्धकुल्या नित्यं प्रार्थनमीप्सितम् ।। १३ ।। प्रातरारभ्य संध्यान्तं विप्राणां भोजनं तथा । दुःशिनां भिक्षुकाणां च धनदानं यथोचितम् ।। १४ ।। फलमूलाशनो राजा वैष्णवश्च जितेन्द्रियः । सर्व मदर्पणं कृत्वाऽजपन्मां च दिवानिशम् ।। १५ ।। एकदा सूपकारश्च तमुवाच नृपेश्वरम् । विप्राणां भोजनायैव दशलक्षमुपस्थितम् ।। १६ ।। भुञ्जते ब्राह्मणाश्चाद्य रूक्षमन्नं वद प्रभो । कुर्वन्तु भक्षणं ते वै विप्राः सूपादिना नृप ।। १७ ।। चतुर्योजनपर्यन्तमधिकारो नृपस्य च । यो राजा तच्छतसुणः स एव मण्डलेश्वरः ।। १८ ।। तत्तद्दशगुणो राजा राजेन्द्रः परिकीर्तितः । राजेन्द्राणां पञ्चलक्षं नित्यं केदारसंसदि ।। १९ ।। अमूल्यरत्नमाणिक्यं मुक्ताहीरं मणीश्वरम् । गजरत्नमश्वरत्नं केदाराय करं ददौ ।। २० ।। कमलाकलया जाता यज्ञकुण्डसमुद्भवाः । वह्रिशुद्धांसुकाधाना रत्नभूषणभूषिता ।। २१ ।। कामुकी कामिनीश्रेष्ठा कन्या कमललोचना । कन्याऽस्मि ते महाराजेत्युवाच नृपतिं च सा ।। २२ ।। राजा संपूज्य तां भक्त्या तस्थौ पत्नींसर्प्य च । सा विज्ञाय प्रसूं तातं कृत्वा च विनयं सुदा ।। २३ ।। ययौ पुण्यवनं रम्यं तपसे यमृनान्तिकम् । तत्तपस्यावनं यस्मात्तस्माद्दृन्दावनं स्मृतम् ।। २४ ।। तपसा वरयामास मां वरं च वरं वरम् । ब्रह्मा ददौ वरं तस्यै पश्यात्कृष्णं लभेष्यसि ।। २५ ।। स चैकदा नदीतीने वसन्ते सस्मिता सती । शयाना पुष्पशय्यायां रत्नाभरणभूषिता ।। २६ ।। ब्रह्मा परीक्षितुं यातःसाध्वीं च सुमनोहराम् । ददर्श कन्या रहसि युवानं पुरुषं परम् ।। २७ ।। चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् । सस्मीतं कामुकं रम्यं रमणीनां च वाञ्छितम् ।। २८ ।। यथा षोडशवर्षीयं कुमारं कनकप्रभम् । कोटिकन्दर्पलीलाभं वीताम्बरधरं वरम् ।। २९ ।। शरत्पार्वणाचन्द्रास्यं शरत्पद्मसुलोचनम् । दृष्ट्वा तं च समुत्थाय वासयामास संनिधौ ।। ३० ।। पूजां चकार भक्त्या च फलं मूलं ददौ मुदा। सुवा सितं जलं दत्त्वा प्रणनाम मुदाऽन्विता ।। ३१ ।। पूजां गृहीत्वा मुदितः सादरं तामुवाच ह । विप्ररूपी च भगवान्प्रज्वलन्ब्रह्मातेजसा ।। कामुकीनां च काम्यं च सतीनां दुष्करं व्रज ।। ३२ ।। धर्म उवाच भवती कस्य कन्या वा किं ते नाम मनोहरे । किं करोषि रहस्येव तन्मे कथितुमर्हसि ।। ३३ ।। कस्य हेतोस्तपस्या ते किं वा वाञ्छसि सुन्दरि । वरं वृणीष्व भद्रं ते यत्ते मनसि वाञ्छितम् ।। ३४ ।। वृन्दोवाच विप्र केदारकन्याऽहं वृन्दा वृन्दावने स्थिता । तपः करोमि रहसि चिन्तयामि हरिं पतिम् ।। ३५ ।। यदि दातुं समर्थोऽसि देहि मे वाञ्छितं वरम् । असमर्थोऽसि चेद्गच्छ किं ते प्रश्नेन ब्राह्मण ।। ३६ ।। धर्म उवाच निरीहमवितर्क्यं च परमात्मानमीश्वरम् । निर्गुणं च निराकारं भक्तानुग्रहविग्रहम् ।। ३७ ।। का क्षमा तं पतिं कर्तुं विना लक्षमीं सरस्वतीम् ।। चतुर्भुजस्य द्वे भार्ये हरेर्वैकुण्ठशाथिनः ।। ३८ ।। गोलोके द्विभुजस्यापि श्रीवंशीवदनस्य च । किशोरगोपवेषस्य परिपूर्णतमस्य च ।। ३९ ।। तस्य भार्या स्वयं राधा महालक्ष्मीः परात्परा । ब्रह्मस्वरूपा परमा परमात्मानमीश्वरम् ।। ४० ।। भजते सततं शान्तं सुरम्यं श्यामसुन्दरम् । कोटिकन्दर्पसौन्दर्यनिन्दितं सुकलेवरम् ।। ४१ ।। अमूल्यरत्नाभरणं सत्यं च नित्यविग्रहम् । पीताम्बरधरं रम्यं दातारं सर्वसंपदाम् ।। ४२ ।। श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्भुजः । चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ।। ४३ ।। यन्निमेषो भवेद्वृन्दे ब्रह्मणः पततेन च । पञ्चविंशत्सहस्रेणा युगेनेन्द्रस्य पातनम् ।। ४४ ।। चतुर्दशेन्द्रावच्छिन्नकालेन ब्रह्मणो दिनम् । तावतीति निशा तस्य विधातुर्जगतामपि ।। ४५ ।। एवं त्रिंशद्दिनैर्मासं द्विषट्के मासि वर्षकम् । एवं शतायुस्तस्यैव निबोध बोधतत्परम् ।। ४६ ।। यावज्जीवनपर्यन्तं सेवन्ते सनकादयः । कल्पानां कोटिकोटिं च तन्न साध्याश्चयो विभुः ।। ४७ ।। सहस्रवक्त्रः शेषश्च सेवते च जपन्सदा । दिवानिशं च यं भक्त्या कल्पकोटिशतं शतम् ।। ४८ ।। तन्न साध्यो हितकरो दुराराध्यः परात्परः । ब्रह्मा ब्रह्मास्वरूपं तं भजेज्जन्मनि जन्मनि ।। ४९ ।। वक्त्रैश्चतुर्भिः सततं स्तौति नित्यं सनातनम् । वेदेऽनिर्वचनीयश्च वेदानां जनको विधिः ।। ५० ।। विधाता फलदाता च दाता च सर्वसंपदाम् । तन्न साध्यो हि भगवान्कालकालान्तकः ।। ५१ ।। संहारकर्ता जगतां कलया रुद्ररूपतः । स स्तौति पञ्चवक्त्रेण कोऽन्योऽन्यस्यापि का कथा ।। ५२ ।। तत्परश्च प्रियो नास्ति वृन्दे भगवातः शृणु । सर्वशक्तिस्वरूपा सा दुर्गा दुर्गतिनाशिनी ।। ५३ ।। ब्रह्मस्वरूपा परमा मूलप्रकृतिरीश्वरी । नारायणी विष्णुमाया वैष्णवी सा सनातनी ।। ५४ ।। यन्मायया जगद्भ्रान्तमनित्ये भ्रमते सदा । सा स्तौति भक्त्यायं देवं वृन्देऽयङ्गे.दिवानिशम् ।। ५५ ।। स्तौति भक्त्या स्वशक्त्या च गजवक्त्रः षडाननः । ध्यायते यं गणेशश्च सर्वादौ यस्य पूजनम् ।। ५६ ।। भगवान्सर्वदेवेशो ज्ञानिनां च गुरोर्गुरुः । सिद्वेन्द्रेषु च देवेन्द्रे योमीन्द्रे ज्ञानिनां गुरौ ।। ५७ ।। न गणेशात्परो विद्वान्गणेशश्च सुराधिपः । सरस्वती च यं स्तोतुमशक्ता परमेश्वरी ।। ५८ ।। दिवानिशं पादपद्मं भक्त्या पद्मा निषेवते । यत्कटाक्षाज्जगत्सर्व परिपूर्णतमं शिवम् ।। ५९ ।। यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् । वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु ।। ६० ।। पृथिवी सेवया यस्य सर्वाधारा वसंधरा । समृद्रा निश्चलाः शैला यस्य भीताश्च सुन्दरि ।। ६१ ।। तीर्थसारा च सा गङ्गा पवित्रा मुक्तिदायिनी । जगतां पावनी देवी यस्य पादाब्जसेवया ।। ६२ ।। पवित्रा तुलसी देवी स्मरणाद्यस्य सेवनात् । नवग्रहाश्च दिक्पाला भीता यस्य प्रतापतः ।। ६३ ।। ब्रह्मण्डेषु च सर्वेषु ब्रह्मविष्णुशिवात्मकाः । अन्ये ये ये सुरेशाश्च शेषाद्या मुनयस्तथा ।। ६४ ।। केचित्कलास्वरूपाश्चाप्यंशरूपाश्च केचन । केचित्कलांशाः कृष्णस्य केचिच्च परमात्मनः ।। ६५ ।। पतिमिच्छसि कल्याणि प्रकृतेः परमीश्वरम् । गोलोके राधिका साध्यो नान्येषां च कदाचन ।। ६६ ।। मां भजस्व महाभागे नृपाणामीश्वरं पतिम् । बलवन्तं च देवेभ्यो दैत्येभ्यश्च वरानने ।। ६७ ।। सुखानि यानि कल्याणि त्रिषु लोकेषु सन्ति वै । भुङ्क्ष्व तान्येव सर्वाणि मत्प्रसादान्न संशयः ।। ६८ ।। सप्तसागलपारे च काञ्चनी रुचिरा वरे । देवानां क्रीडनार्थाय विधात्रा निर्मिता पुरी ।। ६९ ।। तत्रैव गच्छभद्रं ते रम रामे मया सह । महेन्द्रस्य प्रियवनं पुष्पोद्यानसमन्वितम् ।। ७० ।। गच्छ स्वर्णमयीं लङ्कां नानारत्नविभूषिताम् । तत्रैव गच्छ भद्रं ते रमo ।। ७१ ।। विस्पन्दकं सुवसनं नन्दकं पुष्पभद्रकम् । तत्रैव गच्छ भद्रं ते रमo ।। ७२ ।। सुमेरुगह्वरं वाऽपि क्षीरोर्द वा मनोहरम् । तत्रैव गच्छ भद्रं ते रमo ।। ७३ ।। सत्यलोकं ब्रह्मलोकं रम्यं सद्म रहःस्थलम् । तत्रैव गच्छ भद्रं ते रमo ।। ७४ ।। मलये निलयं रम्यं रत्नेन्द्रसारनिर्मितम् । सुगन्धियुक्तं सततं शुद्धं चन्दनवायुना ।। ७५ ।। मालती यूथिका रम्या केतकी माधवी तथा । चारुचम्पकपुष्पाणां गन्धेन सुमनोहरम् ।। ७६ ।। पिकानां भ्रमराणां च मधुरध्वनिसंयुतम् । तत्रैव गच्छ भद्रं ते रमo ।। ७७ ।। इन्द्रस्य वरुणास्यैव वायोरपि यमस्य च । धनेश्वरस्य बह्रेश्च धर्मस्य शशिनस्तथा ।। ७८ ।। सुरम्यं लोकमेतेषां मध्ये तेवि यथेच्छसि । तत्रैव गच्छ भद्रं ते रमo ।। ७९ ।। रत्नद्वीपं मणिद्वीपं रम्यं चन्द्रसरोवरम् । तत्रैव गच्छ भद्रं ते रमo ।। ८० ।। इत्येवमुक्त्वा संभोक्तुं गच्छन्तं तं छलेन च । न वास्तवपरीक्षार्थं सतीत्वं बोधितुं व्रज ।। ८१ ।। उवाच सा नृपसुता कोपवक्त्रास्यलोचना । हितं सत्यं योगयुक्तं धर्मार्थं च यशस्करम् ।। ८२ ।। वृन्दोवाच धैर्य कुरु महाभाग श्रेष्ठो जातिषु ब्रह्मणः । ब्रह्मणानां तपो मूलं सत्यं वेदव्रतं धृतिः ।। ८३ ।। परस्त्रीसहसंभोगः स्वभावश्चाप्यधर्मिणाम् । अधर्मेणैव हे विप्र दुष्टोऽभद्राणि पश्यति ।। ८४ ।। ततः सपत्ने जयति समूलस्थो विनश्यति । पतिव्रतानां गमने बलात्कारेण निश्चितम् ।। ८५ ।। मातृगामी भवेत्सद्यो ब्रह्महत्याशतं भवेत् । कुम्भीपाके पच्यते च यावच्चन्द्रदिवाकरौ ।। ८६ ।। प्रदग्धस्तैलतप्तेषु न मृतः सूक्ष्मदेहतः । ताडितो यमदूतैश्च लोहदण़्डेन मूर्धनि ।। ८७ ।। क्षणं सुखं चिरं दुःखं सर्वनाशस्य कारणम् । अगम्यागमनं दुःखं धर्मिष्ठो नैव वाञ्छति ।। ८८ ।। क्षमस्वगच्छ भद्रं ते ब्राह्मण ज्ञानदुर्बल । यथा दीपशिखां दृष्ट्वा कीटः पतति निश्चितम् ।। ८९ ।। मिष्टं दृष्ट्वा बडीशाग्रे लुब्धमीनो मृगो यथा । यथा विषाक्तं भक्ष्यं च भुङ्क्ते भोक्ता बुभुक्षितः ।। ९० ।। गृह्णाति दुष्टो दुष्टं च विषकुम्भं पयोमुखम् । तथा दृष्ट्वा परस्त्रीणां मुखपद्मं मनोहरम् ।। ९१ ।। विनाशबीजं मोहेन भ्रान्तो भवति लम्पटः । मुखं च रुचिरं स्त्रीणां श्रोणियुग्मं मनोहरम् ।। ९२ ।। कामाधारं नाशबीजमधर्मस्थलमेव च । भगं नरककुण्डं च लालामूत्रसमन्वितम् ।। ९३ ।। दुर्गन्धियुक्तं पापं च यमदण्डस्य कारणम् । यथा लिङ्गं विशत्येव पापयोनौ च योषिताम् ।। ९४ ।। तथा पुमान्विशत्येव रौरवे च युगे युगे । रहस्यं चाऽऽपदं दृष्ट्वा मां तवं धर्षितुमिच्छसि ।। ९५ ।। अत्रैव सर्वदेवाश्च लोकपालाश्च ब्राह्मणा । जाज्वल्यमानो धर्मश्च साक्षी शास्ता च कर्मणाम् ।। ९६ ।। यमश्च दण़्डकर्ता च स्थापितो हरिणा स्वयम् । स्वयं कुष्णश्च धर्मात्मा ज्ञानरुपो महेश्वरः ।। ९७ ।। दुर्गा बुद्धिर्मनो ब्रह्म चेन्द्रियाणि सुरास्तथा । सर्वप्राणिषु तिष्ठन्ति साक्षिणाः कर्मणां द्विज ।। ९८ ।। क्व गुप्तं क्व रहस्यं वा ब्रह्मण ज्ञानदुर्बल । क्षमस्व गच्छ भद्रं ते अवध्याश्च द्विजातयः ।। ९९ ।। शक्ताऽहं भमसात्कर्तुं गच्छ वत्स यथासुखम् । तपस्यासु मम गतमष्टोत्तरशतं युगम् ।। १०० ।। नास्ति गोर्त्र मत्पितुश्च न माता न पिता मम । सर्वान्तरात्मा भगवान्कृष्णो रक्षति मां द्विज ।। १०१ ।। कृष्णेन स्थापितो धर्मो मां च रक्षति नित्यशः । आदित्यश्च तथा चन्द्रः पवनश्च हुताशनः ।। १०२ ।। ब्रह्मा शंभुर्भगवती दुर्गा रक्षति मां सदा । येन शुक्लीकृता हंसाः शुकाश्च हरिताः कृताः ।। १०३ ।। मयूराश्चित्रिता येन स मे रक्षां करिष्यति । अनाथबालवृद्धानां रक्षकाः सर्वदेवताः ।। १०४ ।। नारीबुद्व्या न मां धर्मस्त्यक्त्वा गच्छेद्धि सर्वदा । मां मातरं परित्यज्य गच्छ वत्स यथासुखम् ।। १०५ ।। इत्येवमुक्त्वा देवी सा तस्थौ तत्र धरा यथा । आगच्छन्तं च संभोक्तुं मा यान्तं बोधनेन च ।। १०६ ।। शशापेति च सा कोपाद्ब्रह्मपन्धो क्षयो भव । क्षयो भव दुराचार हे पापिष्ठ क्षयो भव ।। १०७ ।। पुनः शप्तं स्वयं सूर्यो वारयामास यत्नतः । एतसिमन्नन्तरे तात तत्रव जगदीश्वराः ।। १०८ ।। आजग्मुरतिसंत्रस्ता ब्रह्मविष्णुशिवादयः । धर्म दृष्ट्वा कलारूपं रुरुदुस्त्रिदशेश्वराः ।। १०९ ।। कृत्वा क्रोडेऽतीव कृशं कुह्वा भीतं यथा विधुम् । निश्चेष्टं मलिनं दग्धं सतीकोपाग्निना व्रज ।। ११० ।। श्रीभवानुवाच क्षमस्व वृन्दे मद्भक्ते जन्ममृत्युजराहरे । धर्म जीवय मद्भक्तं रक्ष धर्म पतिव्रते ।। १११ ।। ब्रह्मोवाच ध्वान्तपूर्ण जगत्सर्दं विना धर्म बभूव ह । कम्पितौ चन्द्रसूर्यौ च शेषश्चापि वसुंधरा ।। ११२ ।। महदेव उवाच प्रनष्टं च जगत्सर्वं विना धर्मेण सुन्दरि । धर्मं जीवय भद्रं ते स्वस्ति तेऽस्तु वरानने ।। ११३ ।। सूर्य उवाच वरं वृष्णीष्व भद्रं ते यत्ते मनसि वाञ्छितम् । धर्मं जीवय भद्रं ते रक्ष सृष्टिं पतिव्रते ।। ११४ ।। अनन्त उवाच धर्मं करोषि तपसा कथं धर्मं विहसि च । धर्मं जीवय भद्रं ते सर्वधर्मो भवेत्तव ।। ११५ ।। चन्द्र उवाच द्विजरूपधरो धर्मस्त्वां परीक्षितुमागतः । ब्रह्मणा प्रेरितश्चैव निर्दोषश्च विहिंसितः ।। ११६ ।। महेन्द्र उवाच तपसोपान्जितो धर्मो धर्मेण च फलं नृपाम् । कथं फलं च तपसां यदि धर्मः क्षयं गतः ।। ११७ ।। वरुण उवाच धर्मं जीवय धर्मिष्ठे धर्मं रक्ष सनातनम् । निष्फलं कर्मिणां कर्म विना धर्मेणा धार्मिके ।। ११८ ।। पवन उवाच जगत्पूतं कुरु शुभे धर्मं जौवय सांप्रतम् । धर्मे प्रनष्टे तपसां तवापूर्वं विनङ्क्ष्यति ।। ११९ ।। वह्निरुवाच स्वधर्मोपार्जनं कर्तुमागताऽसि च भारतम् । विहंसि धर्ममज्ञात्वा पुनर्जीवय सुन्दरि ।। १२० ।। यम उवाच वेदोक्तकर्मकर्तणासहं विश्वे वरानने । धर्मानुसारात्फलदो धर्म जीवय सत्वरम् ।। १२१ ।। देवानां वचनं क्षुत्वा समुत्थाय पतिव्रता । नमस्कृत्य सुरेशांश्चतानुवाच तपस्विनी ।। १२२ ।। वृन्दोवाच अहं देवा न जानामि धर्मं ब्राह्मणरूपिणम् । कृतः क्षयो मया कोपान्मां परीङितुमागतः ।। १२३ ।। जीवयामि ध्रुवं धर्मं युष्माकं च प्रसादतः । इत्येवमुक्त्वा सा वृन्दा चेत्युवाच व्पजेश्वर ।। १२४ ।। तपः सत्यं यदि मम सत्यं च विष्णुपूजनम् । तेन पुण्येन सद्योऽत्र द्विजो भवतु विज्वरः ।। १२५ ।। यदि मे च भवेत्सत्यं व्रतं सत्यं तपःशुचि । तेन पुण्येन सत्येन द्विजो भo ।। १२६ ।। यदि नारायणः सत्यः सर्वात्मा नित्यविग्रहः । ज्ञानात्मकः शिवः सत्यो द्विजो भo ।। १२७ ।। ब्रह्म सत्यं च ते देवाः प्रकृतिः परमा यदि । यज्ञः सत्यस्तपः सत्यं द्विजो भo ।। १२८ ।। इत्येवमुक्त्वा सा वृन्दा धर्म क्रोडे चकार च । तं दृष्ट्वा च कलारूपं रुरोद कृपयासती ।। १२९ ।। एतस्मिन्नन्तरे मूर्तिर्धर्मभार्या शुचाऽऽकुला । निपत्य विष्णुपादे य शिरसा चेत्युवाच सा ।। १३० ।। मूर्तिरुवाच हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु । तूर्णं जीवय कान्तं मे जगन्नाथ कृपामय ।। १३१ ।। पतिहीना च या नारी पापिनी सा भवार्णवे । यथाऽऽस्यं चक्षुर्विरतं प्राणहीना यथा तनूः ।। १३२ ।। मितं ददाति हि पिता मितं भ्रादा मितं सुतः । मितं बन्धुर्मितं माता सर्वदाता पतिः प्रभुः ।। १३३ ।। इत्येवमुक्त्वा सा देवी तत्र तस्थौ रुरोद च । उवाच वृन्दां णगवान्सर्वात्मा प्रकृतेः परः ।। १३४ ।। श्रीभगवानुवाच त्वयाऽऽयुस्तपसा लब्धं यावदायुश्च ब्रह्मणः । तदेव देहि धर्माय गोलोकं गच्छ सुन्दरि ।। १३५ ।। तन्वाऽनया च तपसा पश्चान्मां च लभिष्यसि । पश्चाद्गोलोकमागत्य वाराहे च वरानने ।। १३६ ।। वृषभानसुता त्वं च राधाच्छाया भविष्यसि । मत्कलांशश्च रायाणस्त्वां विवाह ग्रहीष्यति ।। १३७ ।। मां लभिष्यसि रासे च गोपीभी राधया सह । राधा श्रीदामशापेन वृषभानसुता यदा ।। १३८ ।। सा चैव वास्तवी राधा त्वं च च्छायास्वरुपिणी । विवाहकाले रायाणस्त्वां च च्छायां ग्रहीष्यति ।। १३९ ।। त्वां दत्त्वा वास्तवी राधा साऽन्तर्धाना भविष्यति । राधैवेति विमूढाश्च विज्ञास्यन्ति ।। च गोकुले ।। १४० ।। स्वप्ने राधापदाम्भोजं न रि पश्यन्ति बल्लवाः । स्वयं राधा मम क्रोडे छाया रायाणकामिनी ।। १४१ ।। विष्णोश्च वचनं श्रुत्वा ददावायुश्च सुन्दरी । उत्तस्थौ पूर्ण धर्मश्च तप्तकाञ्चनसंनिभः ।। पूर्वस्मात्सुन्दरः श्रीमान्प्रणनाम परात्परम् ।। १४२ ।। वृन्दोवाच देवाः शृणुत मद्वाक्यं दुर्लङ्घ्यं सावधानतः । न हि मिथ्या भवेद्वाक्यं मदीयं च निशामय ।। १४३ ।। क्षयो भवेति वाक्यं च मयोक्तं कोपभीतया । वारत्रयं पुनर्वक्तुं वारयामास भास्करः ।। १४४ ।। सत्ये च परिपूर्णोऽयं यथापूर्वो यथाऽधुना । त्रिपादश्चापि त्रेतायां द्वापदो द्विपरे तथा ।। १४५ ।। एकपादश्च दर्मोऽयं कलेश्च प्रथमे हरे । शेषे कलाषोडशांशः पुनः सत्ये यथा पुरा ।। १४६ ।। त्रिर्निर्गतं मम मुखात्क्षयस्तेन ततः क्रमात् । पुनरुक्ते च मनसि वारयामास भास्करः ।। १४७ ।। तेनैव रेतुनाऽयं च करिशेषे कलामयः । तथा शप्तः स्थितो दुर्गे कलिशेषे तथा ध्रुवम् ।। १४८ ।। एतस्मिन्नन्तरे नन्द ददृशुर्देवता रथम् । गोलोकादागतं वेगादतीव सुन्दरं शुभम् ।। १४९ ।। अमूल्यरत्ननिर्माणं हीरहारपरिष्कृतम् । मणिमाणिक्यमुक्ताभिर्वस्त्रैश्च श्वेतचामरै। ।। १५० ।। विभूषितं भूषणौश्च रुचिरै स्तनदर्पणैः । नत्वा हरिं हरं वृन्दा ब्रह्माणं सर्वदेवताः ।। १५१ ।। समारुङ्य रथं दृष्ट्वा गोलोकं च जगाम सा । देवा जग्मुश्च स्वस्थानं किं भूयः श्रोतुमिच्छसि ।। १५२ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo

nanda uvāca kedārakanyāprastāvātkathitaṃ karmakīrtanam | kṛtyāstrīṇāṃ prasaṅgena tadvyāsena vada prabho || 1 || kedārakanyā sā kā vā ko vā kedārabhūpatiḥ | kasya vaṃśecatajjanma tanme vyākhyātumarhasi || 2 || śrīkṛṣṇa uvāca purātu brahmaṇāḥ putro manuḥ svāṃyabhuvastathā | tasya strī śatarūpā ca dhanyā mānyā ca yoṣitām || 3 || priyavratottānapādau tayoḥ putrau babhūvatuḥ | uttānapādaputraśca dhruva eva mahāyaśāḥ || 4 || tatputro nandasāvarṇiḥ kedāraśca tadātmajaḥ | saptadvīpapatiḥ śrīmānkedāro vaiṣṇavaḥ svayam || 5 || tasya rakṣānimittena satsabhāyāṃ sudarśanam | gavāṃ lakṣaṃ śuddhaṃ svarṇaśṛṅgaṃ ca bhūṣitam || 6 || vahniśuddhāni vastrāṇi dattāni varuṇena ca | suvarṇānāṃ tathā lakṣaṃ sarvasasyāṃ vasuṃdharām || 7 || maṇiratnaṃ ca muktāśca hīrakaṃ paramaṃ tathā | māṇikyāmaśvaratnānāṃ lakṣaṃ lakṣaṃ cahastinām || 8 || raupyaṃ pravālaṃ miṣṭānnaṃ śatadhānyācalaṃ varam | nityaṃ nityaṃ brāhmaṇemyo dadau ca ratnabhūṣaṇām || 9 || śatalakṣaṃ brāhmaṇānāṃ bhojayāmāsa nityaśaḥ | jalabhojanapātrāṇi suvarṇānāṃ dadau nṛpaḥ || 10 || suvarṇānāṃ yajñasūtramaṅgulīyakamuttamam | āsanaṃ svarṇaratnānāṃ brāhmaṇebhyo dadau mudā || 11 || brāhmaṇānāṃ ca lakṣaṃ ca sūpakāraṃ nṛpasya ca | brāhmaṇānāṃ dvilakṣaṃ ca pariveṣaṇakārakam || 12 || ghṛtakulyā madhukulyā dadhikulyā manoharāḥ | guḍakulyā dugdhakulyā nityaṃ prārthanamīpsitam || 13 || prātarārabhya saṃdhyāntaṃ viprāṇāṃ bhojanaṃ tathā | duḥśināṃ bhikṣukāṇāṃ ca dhanadānaṃ yathocitam || 14 || phalamūlāśano rājā vaiṣṇavaśca jitendriyaḥ | sarva madarpaṇaṃ kṛtvā'japanmāṃ ca divāniśam || 15 || ekadā sūpakāraśca tamuvāca nṛpeśvaram | viprāṇāṃ bhojanāyaiva daśalakṣamupasthitam || 16 || bhuñjate brāhmaṇāścādya rūkṣamannaṃ vada prabho | kurvantu bhakṣaṇaṃ te vai viprāḥ sūpādinā nṛpa || 17 || caturyojanaparyantamadhikāro nṛpasya ca | yo rājā tacchatasuṇaḥ sa eva maṇḍaleśvaraḥ || 18 || tattaddaśaguṇo rājā rājendraḥ parikīrtitaḥ | rājendrāṇāṃ pañcalakṣaṃ nityaṃ kedārasaṃsadi || 19 || amūlyaratnamāṇikyaṃ muktāhīraṃ maṇīśvaram | gajaratnamaśvaratnaṃ kedārāya karaṃ dadau || 20 || kamalākalayā jātā yajñakuṇḍasamudbhavāḥ | vahriśuddhāṃsukādhānā ratnabhūṣaṇabhūṣitā || 21 || kāmukī kāminīśreṣṭhā kanyā kamalalocanā | kanyā'smi te mahārājetyuvāca nṛpatiṃ ca sā || 22 || rājā saṃpūjya tāṃ bhaktyā tasthau patnīṃsarpya ca | sā vijñāya prasūṃ tātaṃ kṛtvā ca vinayaṃ sudā || 23 || yayau puṇyavanaṃ ramyaṃ tapase yamṛnāntikam | tattapasyāvanaṃ yasmāttasmāddṛndāvanaṃ smṛtam || 24 || tapasā varayāmāsa māṃ varaṃ ca varaṃ varam | brahmā dadau varaṃ tasyai paśyātkṛṣṇaṃ labheṣyasi || 25 || sa caikadā nadītīne vasante sasmitā satī | śayānā puṣpaśayyāyāṃ ratnābharaṇabhūṣitā || 26 || brahmā parīkṣituṃ yātaḥsādhvīṃ ca sumanoharām | dadarśa kanyā rahasi yuvānaṃ puruṣaṃ param || 27 || candanokṣitasarvāṅgaṃ ratnabhūṣaṇabhūṣitam | sasmītaṃ kāmukaṃ ramyaṃ ramaṇīnāṃ ca vāñchitam || 28 || yathā ṣoḍaśavarṣīyaṃ kumāraṃ kanakaprabham | koṭikandarpalīlābhaṃ vītāmbaradharaṃ varam || 29 || śaratpārvaṇācandrāsyaṃ śaratpadmasulocanam | dṛṣṭvā taṃ ca samutthāya vāsayāmāsa saṃnidhau || 30 || pūjāṃ cakāra bhaktyā ca phalaṃ mūlaṃ dadau mudā| suvā sitaṃ jalaṃ dattvā praṇanāma mudā'nvitā || 31 || pūjāṃ gṛhītvā muditaḥ sādaraṃ tāmuvāca ha | viprarūpī ca bhagavānprajvalanbrahmātejasā || kāmukīnāṃ ca kāmyaṃ ca satīnāṃ duṣkaraṃ vraja || 32 || dharma uvāca bhavatī kasya kanyā vā kiṃ te nāma manohare | kiṃ karoṣi rahasyeva tanme kathitumarhasi || 33 || kasya hetostapasyā te kiṃ vā vāñchasi sundari | varaṃ vṛṇīṣva bhadraṃ te yatte manasi vāñchitam || 34 || vṛndovāca vipra kedārakanyā'haṃ vṛndā vṛndāvane sthitā | tapaḥ karomi rahasi cintayāmi hariṃ patim || 35 || yadi dātuṃ samartho'si dehi me vāñchitaṃ varam | asamartho'si cedgaccha kiṃ te praśnena brāhmaṇa || 36 || dharma uvāca nirīhamavitarkyaṃ ca paramātmānamīśvaram | nirguṇaṃ ca nirākāraṃ bhaktānugrahavigraham || 37 || kā kṣamā taṃ patiṃ kartuṃ vinā lakṣamīṃ sarasvatīm || caturbhujasya dve bhārye harervaikuṇṭhaśāthinaḥ || 38 || goloke dvibhujasyāpi śrīvaṃśīvadanasya ca | kiśoragopaveṣasya paripūrṇatamasya ca || 39 || tasya bhāryā svayaṃ rādhā mahālakṣmīḥ parātparā | brahmasvarūpā paramā paramātmānamīśvaram || 40 || bhajate satataṃ śāntaṃ suramyaṃ śyāmasundaram | koṭikandarpasaundaryaninditaṃ sukalevaram || 41 || amūlyaratnābharaṇaṃ satyaṃ ca nityavigraham | pītāmbaradharaṃ ramyaṃ dātāraṃ sarvasaṃpadām || 42 || śrīkṛṣṇaśca dvidhārūpo dvibhujaśca caturbhujaḥ | caturbhujaśca vaikuṇṭhe goloke dvibhujaḥ svayam || 43 || yannimeṣo bhavedvṛnde brahmaṇaḥ patatena ca | pañcaviṃśatsahasreṇā yugenendrasya pātanam || 44 || caturdaśendrāvacchinnakālena brahmaṇo dinam | tāvatīti niśā tasya vidhāturjagatāmapi || 45 || evaṃ triṃśaddinairmāsaṃ dviṣaṭke māsi varṣakam | evaṃ śatāyustasyaiva nibodha bodhatatparam || 46 || yāvajjīvanaparyantaṃ sevante sanakādayaḥ | kalpānāṃ koṭikoṭiṃ ca tanna sādhyāścayo vibhuḥ || 47 || sahasravaktraḥ śeṣaśca sevate ca japansadā | divāniśaṃ ca yaṃ bhaktyā kalpakoṭiśataṃ śatam || 48 || tanna sādhyo hitakaro durārādhyaḥ parātparaḥ | brahmā brahmāsvarūpaṃ taṃ bhajejjanmani janmani || 49 || vaktraiścaturbhiḥ satataṃ stauti nityaṃ sanātanam | vede'nirvacanīyaśca vedānāṃ janako vidhiḥ || 50 || vidhātā phaladātā ca dātā ca sarvasaṃpadām | tanna sādhyo hi bhagavānkālakālāntakaḥ || 51 || saṃhārakartā jagatāṃ kalayā rudrarūpataḥ | sa stauti pañcavaktreṇa ko'nyo'nyasyāpi kā kathā || 52 || tatparaśca priyo nāsti vṛnde bhagavātaḥ śṛṇu | sarvaśaktisvarūpā sā durgā durgatināśinī || 53 || brahmasvarūpā paramā mūlaprakṛtirīśvarī | nārāyaṇī viṣṇumāyā vaiṣṇavī sā sanātanī || 54 || yanmāyayā jagadbhrāntamanitye bhramate sadā | sā stauti bhaktyāyaṃ devaṃ vṛnde'yaṅge.divāniśam || 55 || stauti bhaktyā svaśaktyā ca gajavaktraḥ ṣaḍānanaḥ | dhyāyate yaṃ gaṇeśaśca sarvādau yasya pūjanam || 56 || bhagavānsarvadeveśo jñānināṃ ca gurorguruḥ | sidvendreṣu ca devendre yomīndre jñānināṃ gurau || 57 || na gaṇeśātparo vidvāngaṇeśaśca surādhipaḥ | sarasvatī ca yaṃ stotumaśaktā parameśvarī || 58 || divāniśaṃ pādapadmaṃ bhaktyā padmā niṣevate | yatkaṭākṣājjagatsarva paripūrṇatamaṃ śivam || 59 || yadbhayādvāti vāto'yaṃ sūryastapati yadbhayāt | varṣatīndro dahatyagnirmṛtyuścarati jantuṣu || 60 || pṛthivī sevayā yasya sarvādhārā vasaṃdharā | samṛdrā niścalāḥ śailā yasya bhītāśca sundari || 61 || tīrthasārā ca sā gaṅgā pavitrā muktidāyinī | jagatāṃ pāvanī devī yasya pādābjasevayā || 62 || pavitrā tulasī devī smaraṇādyasya sevanāt | navagrahāśca dikpālā bhītā yasya pratāpataḥ || 63 || brahmaṇḍeṣu ca sarveṣu brahmaviṣṇuśivātmakāḥ | anye ye ye sureśāśca śeṣādyā munayastathā || 64 || kecitkalāsvarūpāścāpyaṃśarūpāśca kecana | kecitkalāṃśāḥ kṛṣṇasya kecicca paramātmanaḥ || 65 || patimicchasi kalyāṇi prakṛteḥ paramīśvaram | goloke rādhikā sādhyo nānyeṣāṃ ca kadācana || 66 || māṃ bhajasva mahābhāge nṛpāṇāmīśvaraṃ patim | balavantaṃ ca devebhyo daityebhyaśca varānane || 67 || sukhāni yāni kalyāṇi triṣu lokeṣu santi vai | bhuṅkṣva tānyeva sarvāṇi matprasādānna saṃśayaḥ || 68 || saptasāgalapāre ca kāñcanī rucirā vare | devānāṃ krīḍanārthāya vidhātrā nirmitā purī || 69 || tatraiva gacchabhadraṃ te rama rāme mayā saha | mahendrasya priyavanaṃ puṣpodyānasamanvitam || 70 || gaccha svarṇamayīṃ laṅkāṃ nānāratnavibhūṣitām | tatraiva gaccha bhadraṃ te ramao || 71 || vispandakaṃ suvasanaṃ nandakaṃ puṣpabhadrakam | tatraiva gaccha bhadraṃ te ramao || 72 || sumerugahvaraṃ vā'pi kṣīrorda vā manoharam | tatraiva gaccha bhadraṃ te ramao || 73 || satyalokaṃ brahmalokaṃ ramyaṃ sadma rahaḥsthalam | tatraiva gaccha bhadraṃ te ramao || 74 || malaye nilayaṃ ramyaṃ ratnendrasāranirmitam | sugandhiyuktaṃ satataṃ śuddhaṃ candanavāyunā || 75 || mālatī yūthikā ramyā ketakī mādhavī tathā | cārucampakapuṣpāṇāṃ gandhena sumanoharam || 76 || pikānāṃ bhramarāṇāṃ ca madhuradhvanisaṃyutam | tatraiva gaccha bhadraṃ te ramao || 77 || indrasya varuṇāsyaiva vāyorapi yamasya ca | dhaneśvarasya bahreśca dharmasya śaśinastathā || 78 || suramyaṃ lokameteṣāṃ madhye tevi yathecchasi | tatraiva gaccha bhadraṃ te ramao || 79 || ratnadvīpaṃ maṇidvīpaṃ ramyaṃ candrasarovaram | tatraiva gaccha bhadraṃ te ramao || 80 || ityevamuktvā saṃbhoktuṃ gacchantaṃ taṃ chalena ca | na vāstavaparīkṣārthaṃ satītvaṃ bodhituṃ vraja || 81 || uvāca sā nṛpasutā kopavaktrāsyalocanā | hitaṃ satyaṃ yogayuktaṃ dharmārthaṃ ca yaśaskaram || 82 || vṛndovāca dhairya kuru mahābhāga śreṣṭho jātiṣu brahmaṇaḥ | brahmaṇānāṃ tapo mūlaṃ satyaṃ vedavrataṃ dhṛtiḥ || 83 || parastrīsahasaṃbhogaḥ svabhāvaścāpyadharmiṇām | adharmeṇaiva he vipra duṣṭo'bhadrāṇi paśyati || 84 || tataḥ sapatne jayati samūlastho vinaśyati | pativratānāṃ gamane balātkāreṇa niścitam || 85 || mātṛgāmī bhavetsadyo brahmahatyāśataṃ bhavet | kumbhīpāke pacyate ca yāvaccandradivākarau || 86 || pradagdhastailatapteṣu na mṛtaḥ sūkṣmadehataḥ | tāḍito yamadūtaiśca lohadaṇa़ḍena mūrdhani || 87 || kṣaṇaṃ sukhaṃ ciraṃ duḥkhaṃ sarvanāśasya kāraṇam | agamyāgamanaṃ duḥkhaṃ dharmiṣṭho naiva vāñchati || 88 || kṣamasvagaccha bhadraṃ te brāhmaṇa jñānadurbala | yathā dīpaśikhāṃ dṛṣṭvā kīṭaḥ patati niścitam || 89 || miṣṭaṃ dṛṣṭvā baḍīśāgre lubdhamīno mṛgo yathā | yathā viṣāktaṃ bhakṣyaṃ ca bhuṅkte bhoktā bubhukṣitaḥ || 90 || gṛhṇāti duṣṭo duṣṭaṃ ca viṣakumbhaṃ payomukham | tathā dṛṣṭvā parastrīṇāṃ mukhapadmaṃ manoharam || 91 || vināśabījaṃ mohena bhrānto bhavati lampaṭaḥ | mukhaṃ ca ruciraṃ strīṇāṃ śroṇiyugmaṃ manoharam || 92 || kāmādhāraṃ nāśabījamadharmasthalameva ca | bhagaṃ narakakuṇḍaṃ ca lālāmūtrasamanvitam || 93 || durgandhiyuktaṃ pāpaṃ ca yamadaṇḍasya kāraṇam | yathā liṅgaṃ viśatyeva pāpayonau ca yoṣitām || 94 || tathā pumānviśatyeva raurave ca yuge yuge | rahasyaṃ cā''padaṃ dṛṣṭvā māṃ tavaṃ dharṣitumicchasi || 95 || atraiva sarvadevāśca lokapālāśca brāhmaṇā | jājvalyamāno dharmaśca sākṣī śāstā ca karmaṇām || 96 || yamaśca daṇa़ḍakartā ca sthāpito hariṇā svayam | svayaṃ kuṣṇaśca dharmātmā jñānarupo maheśvaraḥ || 97 || durgā buddhirmano brahma cendriyāṇi surāstathā | sarvaprāṇiṣu tiṣṭhanti sākṣiṇāḥ karmaṇāṃ dvija || 98 || kva guptaṃ kva rahasyaṃ vā brahmaṇa jñānadurbala | kṣamasva gaccha bhadraṃ te avadhyāśca dvijātayaḥ || 99 || śaktā'haṃ bhamasātkartuṃ gaccha vatsa yathāsukham | tapasyāsu mama gatamaṣṭottaraśataṃ yugam || 100 || nāsti gortra matpituśca na mātā na pitā mama | sarvāntarātmā bhagavānkṛṣṇo rakṣati māṃ dvija || 101 || kṛṣṇena sthāpito dharmo māṃ ca rakṣati nityaśaḥ | ādityaśca tathā candraḥ pavanaśca hutāśanaḥ || 102 || brahmā śaṃbhurbhagavatī durgā rakṣati māṃ sadā | yena śuklīkṛtā haṃsāḥ śukāśca haritāḥ kṛtāḥ || 103 || mayūrāścitritā yena sa me rakṣāṃ kariṣyati | anāthabālavṛddhānāṃ rakṣakāḥ sarvadevatāḥ || 104 || nārībudvyā na māṃ dharmastyaktvā gaccheddhi sarvadā | māṃ mātaraṃ parityajya gaccha vatsa yathāsukham || 105 || ityevamuktvā devī sā tasthau tatra dharā yathā | āgacchantaṃ ca saṃbhoktuṃ mā yāntaṃ bodhanena ca || 106 || śaśāpeti ca sā kopādbrahmapandho kṣayo bhava | kṣayo bhava durācāra he pāpiṣṭha kṣayo bhava || 107 || punaḥ śaptaṃ svayaṃ sūryo vārayāmāsa yatnataḥ | etasimannantare tāta tatrava jagadīśvarāḥ || 108 || ājagmuratisaṃtrastā brahmaviṣṇuśivādayaḥ | dharma dṛṣṭvā kalārūpaṃ rurudustridaśeśvarāḥ || 109 || kṛtvā kroḍe'tīva kṛśaṃ kuhvā bhītaṃ yathā vidhum | niśceṣṭaṃ malinaṃ dagdhaṃ satīkopāgninā vraja || 110 || śrībhavānuvāca kṣamasva vṛnde madbhakte janmamṛtyujarāhare | dharma jīvaya madbhaktaṃ rakṣa dharma pativrate || 111 || brahmovāca dhvāntapūrṇa jagatsardaṃ vinā dharma babhūva ha | kampitau candrasūryau ca śeṣaścāpi vasuṃdharā || 112 || mahadeva uvāca pranaṣṭaṃ ca jagatsarvaṃ vinā dharmeṇa sundari | dharmaṃ jīvaya bhadraṃ te svasti te'stu varānane || 113 || sūrya uvāca varaṃ vṛṣṇīṣva bhadraṃ te yatte manasi vāñchitam | dharmaṃ jīvaya bhadraṃ te rakṣa sṛṣṭiṃ pativrate || 114 || ananta uvāca dharmaṃ karoṣi tapasā kathaṃ dharmaṃ vihasi ca | dharmaṃ jīvaya bhadraṃ te sarvadharmo bhavettava || 115 || candra uvāca dvijarūpadharo dharmastvāṃ parīkṣitumāgataḥ | brahmaṇā preritaścaiva nirdoṣaśca vihiṃsitaḥ || 116 || mahendra uvāca tapasopānjito dharmo dharmeṇa ca phalaṃ nṛpām | kathaṃ phalaṃ ca tapasāṃ yadi dharmaḥ kṣayaṃ gataḥ || 117 || varuṇa uvāca dharmaṃ jīvaya dharmiṣṭhe dharmaṃ rakṣa sanātanam | niṣphalaṃ karmiṇāṃ karma vinā dharmeṇā dhārmike || 118 || pavana uvāca jagatpūtaṃ kuru śubhe dharmaṃ jauvaya sāṃpratam | dharme pranaṣṭe tapasāṃ tavāpūrvaṃ vinaṅkṣyati || 119 || vahniruvāca svadharmopārjanaṃ kartumāgatā'si ca bhāratam | vihaṃsi dharmamajñātvā punarjīvaya sundari || 120 || yama uvāca vedoktakarmakartaṇāsahaṃ viśve varānane | dharmānusārātphalado dharma jīvaya satvaram || 121 || devānāṃ vacanaṃ kṣutvā samutthāya pativratā | namaskṛtya sureśāṃścatānuvāca tapasvinī || 122 || vṛndovāca ahaṃ devā na jānāmi dharmaṃ brāhmaṇarūpiṇam | kṛtaḥ kṣayo mayā kopānmāṃ parīṅitumāgataḥ || 123 || jīvayāmi dhruvaṃ dharmaṃ yuṣmākaṃ ca prasādataḥ | ityevamuktvā sā vṛndā cetyuvāca vpajeśvara || 124 || tapaḥ satyaṃ yadi mama satyaṃ ca viṣṇupūjanam | tena puṇyena sadyo'tra dvijo bhavatu vijvaraḥ || 125 || yadi me ca bhavetsatyaṃ vrataṃ satyaṃ tapaḥśuci | tena puṇyena satyena dvijo bhao || 126 || yadi nārāyaṇaḥ satyaḥ sarvātmā nityavigrahaḥ | jñānātmakaḥ śivaḥ satyo dvijo bhao || 127 || brahma satyaṃ ca te devāḥ prakṛtiḥ paramā yadi | yajñaḥ satyastapaḥ satyaṃ dvijo bhao || 128 || ityevamuktvā sā vṛndā dharma kroḍe cakāra ca | taṃ dṛṣṭvā ca kalārūpaṃ ruroda kṛpayāsatī || 129 || etasminnantare mūrtirdharmabhāryā śucā''kulā | nipatya viṣṇupāde ya śirasā cetyuvāca sā || 130 || mūrtiruvāca he nātha karuṇāsindho dīnabandho kṛpāṃ kuru | tūrṇaṃ jīvaya kāntaṃ me jagannātha kṛpāmaya || 131 || patihīnā ca yā nārī pāpinī sā bhavārṇave | yathā''syaṃ cakṣurvirataṃ prāṇahīnā yathā tanūḥ || 132 || mitaṃ dadāti hi pitā mitaṃ bhrādā mitaṃ sutaḥ | mitaṃ bandhurmitaṃ mātā sarvadātā patiḥ prabhuḥ || 133 || ityevamuktvā sā devī tatra tasthau ruroda ca | uvāca vṛndāṃ ṇagavānsarvātmā prakṛteḥ paraḥ || 134 || śrībhagavānuvāca tvayā''yustapasā labdhaṃ yāvadāyuśca brahmaṇaḥ | tadeva dehi dharmāya golokaṃ gaccha sundari || 135 || tanvā'nayā ca tapasā paścānmāṃ ca labhiṣyasi | paścādgolokamāgatya vārāhe ca varānane || 136 || vṛṣabhānasutā tvaṃ ca rādhācchāyā bhaviṣyasi | matkalāṃśaśca rāyāṇastvāṃ vivāha grahīṣyati || 137 || māṃ labhiṣyasi rāse ca gopībhī rādhayā saha | rādhā śrīdāmaśāpena vṛṣabhānasutā yadā || 138 || sā caiva vāstavī rādhā tvaṃ ca cchāyāsvarupiṇī | vivāhakāle rāyāṇastvāṃ ca cchāyāṃ grahīṣyati || 139 || tvāṃ dattvā vāstavī rādhā sā'ntardhānā bhaviṣyati | rādhaiveti vimūḍhāśca vijñāsyanti || ca gokule || 140 || svapne rādhāpadāmbhojaṃ na ri paśyanti ballavāḥ | svayaṃ rādhā mama kroḍe chāyā rāyāṇakāminī || 141 || viṣṇośca vacanaṃ śrutvā dadāvāyuśca sundarī | uttasthau pūrṇa dharmaśca taptakāñcanasaṃnibhaḥ || pūrvasmātsundaraḥ śrīmānpraṇanāma parātparam || 142 || vṛndovāca devāḥ śṛṇuta madvākyaṃ durlaṅghyaṃ sāvadhānataḥ | na hi mithyā bhavedvākyaṃ madīyaṃ ca niśāmaya || 143 || kṣayo bhaveti vākyaṃ ca mayoktaṃ kopabhītayā | vāratrayaṃ punarvaktuṃ vārayāmāsa bhāskaraḥ || 144 || satye ca paripūrṇo'yaṃ yathāpūrvo yathā'dhunā | tripādaścāpi tretāyāṃ dvāpado dvipare tathā || 145 || ekapādaśca darmo'yaṃ kaleśca prathame hare | śeṣe kalāṣoḍaśāṃśaḥ punaḥ satye yathā purā || 146 || trirnirgataṃ mama mukhātkṣayastena tataḥ kramāt | punarukte ca manasi vārayāmāsa bhāskaraḥ || 147 || tenaiva retunā'yaṃ ca kariśeṣe kalāmayaḥ | tathā śaptaḥ sthito durge kaliśeṣe tathā dhruvam || 148 || etasminnantare nanda dadṛśurdevatā ratham | golokādāgataṃ vegādatīva sundaraṃ śubham || 149 || amūlyaratnanirmāṇaṃ hīrahārapariṣkṛtam | maṇimāṇikyamuktābhirvastraiśca śvetacāmarai| || 150 || vibhūṣitaṃ bhūṣaṇauśca rucirai stanadarpaṇaiḥ | natvā hariṃ haraṃ vṛndā brahmāṇaṃ sarvadevatāḥ || 151 || samāruṅya rathaṃ dṛṣṭvā golokaṃ ca jagāma sā | devā jagmuśca svasthānaṃ kiṃ bhūyaḥ śrotumicchasi || 152 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo bhagavannandasaṃo

English translation

The Story of V^nda Nanda said- O lord with the resolve of the daughter of Kedara you have spelt out the result of the deed. I halve also learnt about the conduct of loose woman. Now you tell me in detail the story about Keddrakanyd who was king Kedara and in which race was he bom.

Krspa said- In the earlier times Svayambhuvamanu was the son of Brahma who was married to SatariSpa who was quite graceful among the ladies. They had two sons named Priyavrata and Uttanapada. Out of them Uttanapada happened to be quite glorious and he had a son named Dhruva. Dhruva had a son named Nandasavarni and KedSra was the son of Nandasavarni. He happened to be the lord of all the seven continents and was a great Vaispava.

g g arin' r gar gggng^iivsii The Sudarsana-cakra always remained present in his court. He used to give away in charity a lakh of cows of high breed whose horns were covered with gold plates, which were given to him by Vanina and covered with the best of garments purified fire, a lakh of gold coins and land with growing crops. The best of the gems, jewels, diamonds, a lakh of horses, a lakh of elephants, silver, rubies, sweet dishes and a hundred mountain-like heaps of paddy, besides gem-studded ornaments. He used to serve food to a hundred lakhs of BrShmanas daily. The king had all the vases made of gold. The gold vases for eating and the yaJnopavUa were of gold and had beautiful finger rings. He also gave away in charity the gem-studded seats delightfully to the A lakh of Brahmanas were engaged by the king to serve in the kitchen for cooking food and serving it to the Brahmanas.

tjgfggi gfgfggr ^ggt?Tr:i He always had a huge stock of honey, curd, guda and milk. The king right from the morning till evening engaged himself in serving the fruits, roots and other eatables to the Brahmanas. He was a great Vaisnava who had controlled all the senses. He offered everything of his own to me and always recited my name throughout the day and night.

Once the cook came to him and told the king, king, ten lakhs of Brahmanas have, arrived to take food; Today the Brahmana are taking quite simple food. O lord you tell me kindly as to what should be done. O king the Brahmanas should take their food with pulses and other eatables/'.

The authority of the king spread up to the four yojanas and the one whose authority extended to hundred times more the area, he is considered to be a mandalesvara. The one whose command is extended to ten times more than mandalesvara is called Rajendra. In the court of Kedara five lakhs of kings always remained present who were adorned with gem-studded ornaments, the jewels and the diamonds and presented to the king the best of gems, horses and elephants.

From the fire altar of the same king LaksmI had appeared as a damsel, having lotus-like eyes, she was clad in the garments sanctified by fire and was adorned with gem-studded ornaments.

she said to the king, O lord I am your daughter".

On hearing this the king handed over the girl with devotion to his wife and stood there.

Thereafter the girl humbly spoke to her parents and went for performing tapas at the bank of the Yamuna in an auspicious forest. Because of her performing the tapas there, the place was known as Vmdavana. After performing tapas she desired to have me as her husband as a boon.

Brahma then bestowed a boon to her, "You would achieve lord Krsna as the husband later.".

W fRR cfiq|cfiJl'RR;i R R RpiOR RIRWR RfRE^I I? 011 Once she was lying down in the spring season over the bank of the river in the flower bed, adorned with all the gem-studded ornaments, she wore a serene smile on her face while sleeping there. At the same time a Brahmana in order to test the chastity of the damsel arrived there. The girl also saw a beautiful young men having arrived there whose body was plastered with sandal-paste. He was adorned with gem-studded ornaments and was quite desirable by the damsels. He was quite young, beautiful and quite pleasant to look at. He appeared like a boy of sixteen, having the lustre of the molten gold, looking more beautiful then the crores of the gods of love, wearing pitdmbaray a face like the moon and the eyes like the lotus of the winter season. On finding the Brahmana boy there, the girl got up from her bed and made him sit besides her.

She adorned him with devotion and offered fruits and roots to him besides the fragrant water and then bowed in reverence to him O lord of Vraja, Dharma in the form of a Brahmana boy was shining with his eternal lustre. He delightfully accepted the adoration of the princess and spoke the words which were quite appropriate for the passionate women but were difficult for the chaste woman.

Dharma said - O beautiful one, who is your father? What is your name? Why are you staying here in the lonely place? You tell me. O beautiful one, what for are you performing tapas'l What is your desire? You will meet with welfare. You ask for a boon.

Vmda said- O Brahmana, I am the daughter of Kedara and my name is Vfnda. Residing in Vmdavana, I performed tapas in a secluded place in order to get lord Hari as my husband. O Brahmana, if you can bestow a boon on me then give the same to me. And if you are not competent enough to do so what is the use of putting a question to me?.

Dharma said- The lord is devoid of desires, beyond comprehension, the soul of all, the lord of all, without qualities, invisible, who becomes visible to shower his grace on his devotees; therefore who else would be able to achieve him as her husband, except Sarasvatl and LaksmT?

The four-armed lord Hari who sleeps in the Vaikuntha with two spouses and the two-armed lord who dwells in the Goloka holding a flute, appearing in the form of a cowherd, is lord Krsna and he has Radha as his spouse. The same Radha who is the form of eternal Brahmana, serves the dark-complexioned Krsna always, who possesses considerable mental prowess and fortunes, is peaceful and extremely beautiful. Her beautiful body puts to shame the bodies of crores of gods of love. He is adorned with invaluable gem- studded ornaments, is the form of truth, imperishable, clad in pltambara and happens to be the bestower of all riches.

The same Krsna who is two-armed in Goloka, resides in the Vaikuntha, having four arms.

Mocira - v i oa ig ^ TTORf;ii-«')iii O Vrnda, with the fall of Brahma, lord Krsna winks his eye. After a lapse of twenty five yugas.

Indra comes to an end and after the fall of fourteen such Indras, a day of Brahma is counted, his life similarly is in lengthy.

Thirty such days make a month and twelve such months make a year. Brahma has the life of hundred such years.

With the end of the life of Brahma, a second of lord Visnu is counted, the sages like Sanaka and others serve him throughout life but even after performing tapas, for crores of kalpas, they never achieve his glance. The serpent Sesa having a thousand serpent-hoods adore him with devotion for an innumerable number of years but he is not able to get him. Brahma, the creator of the Vedas, who is the creator of the universe, bestows reward for all the deeds; bestower of all the fortunes, he always adores the lord who is eternal, the form of Brahmana, imperishable, with all the four mouths but the lord is beyond the description of the Vedas, is the death for the time and is the Yama for Yama, is not able to achieve him.

The one who taking the form of Rudra destroys the universe, offers prayer with all his five faces. No one else is dearer to the lord than him but still he cannot be achieved even by such people; then what to speak of others. O Vrnda, Durga who is the form of all the prowess, destroys misfortune, the form of eternal numaya, Vaispavl and the eternal force is influenced by the illusion of the lord always roamed about in the perishable universe. She has also been adoring the lord with great devotion; the elephant-faced Ganes'a and six face Karttikeya always adore him according to their prowess. Lord Gaiiesa who is adored first of all, happens to be the lord of the gods and the teacher of the intellectuals. There is no one greater than Ganesa who could achieve the siddhis nor is there any other lord of the gods or a yogT or an intellectual comparable to Ganesa and who happens to be the lord of the gods, the same lord

Gapesa adores him. Sarasvati the great goddess also adores him, Lak§mi serves at his lotus-like feet throughout the day and night with devotion.

With the frowning of whom the whole universe is complete and meets with welfare, with the fear of whom, the wind blows, the sun bums, Indra pours the rain, the fire bums and the death roams about in the universe.

By serving him the earth has become the base ^ of all and the store of all the riches, terrified from whom the ocean and the mountains remain within their limit.

By serving whose lotus-like feet, Gaiiga becomes the essence of all the holy places and redeems everyone.

With the reciting of whose name, TulasI gets purified and by whose glory, the nine planets and Dikpalas get frightened. Brahma, Visnu and Siva are present in all the globes besides the Sesa, other gods and sages. Some of them have the amsas of lord Krsna while others are the amsas of his amsas. O virtuous one, you intend to achieve the same lord as your husband who is beyond Prakrti but he could be achieved by Radha only in Goloka, No one wise can achieve Therefore, O virtuous one, O damsel, you accept me as your husband and enjoy all the pleasures. I happen to be the lord of all the gods and possess more prowess than the gods and the demons. O virtuous one, you can enjoy with me all the pleasures of the three worlds with my grace. There is no doubt about it.

Beyond the seven oceans, Brahma has built up a sporting place for the gods which is quite charming and known as the city of Kancanl.

O Rama, you will meet with welfare, let us go and enjoy the pleasure there. There is an orchard which is quite dear to Indra.

The golden Lanka is adorned with the ornaments of gold. O beautiful one, you would meet with welfare; you get along with me there and let us enjoy the pleasure.

There are the gardens named Vispandaka, Suvasana, Nandaka and Puspabhadraka. O beautiful one, you go there and enjoy my O beautiful damsel, let us go to the beautiful caves of the Sumeru mountain and the bed of ocean of milk and enjoy my company there.

t 4. qk qr?i q?:qsicTq;i Visiting Satyaloka, Brahmaloka and the charming lonely places enjoy my company there.

Rqk ikk qk q#qnqfqkqq;i qtq Rc 3 ^ ^ qq qk w qT?i Its ts 11 There is a beautiful place on the Malaya mountain built with the best of gems where the fragrant cool breeze blows, the jasmine flower and the flower of XctakT, Madhavi and Campa creepers are also lycre. The place is filled with the sweet notes of the cuckoos and the hissing sound of the black-wasps. O beautiful one, you get along with me and enjoy my company there.

O goddess, the places of Indra, Varuna, Vayu, Yama, Kubera, Agni, Dharma and the moon are quite pleasant; you can enjoy my company at whichever place you like. We can visit Ratnadvipa, Manidvipa, Candrasarovara which are quite beautiful. O beautiful one, you get along with me and enjoy my company.

O lord of Vraja, thus speaking Dharma in order to test the chastity of the daughter of Kedara advanced towards her deceitfully.

The eyes of the damsels became red with anger and the princess spoke to him the words which were quite beneficial, truthful, appropriate and glorious.

Vmda said- O lord, be patient with all the castes, Brahmana is believed to be the supreme.

The base of a Brahmana is tapas, truthfulness, i the performing of vratas and patience. O' Brahmana, it is not proper for noble people to I cohabit with the wives of others. Because of sin, j the wicked people have to face misfortune.

Thereafter he is vanquished by the enemies and then is completely destroyed. The one who rapes chaste woman forcibly, is surely described as the one cohabiting with his mother and earns the sin of a hundred Brahmahatyds. He stays in the kumbhipdka hell for the life of the sun an the moon. He is thrown into the pan of boiling oil but because of his having an "ethereal form he does not die; the Messengers of Yama strike on his head with iron rods. For a short-lived pleasure, he has to suffer pain for a long time.

This happens to be the cause of total destruction.

Therefore the intellectuals never invite such a type of misfortune.

O Brahmana, your knowledge is weak. Let you meet with welfare and you kindly excuse me. As a fire-fly hovers round the burning wick of a lamp, similarly fish and deer finding the sweet places at the mouth of a thorn swallow it, the hungry person consumes poisoned food.

RltR RTRTT RRfR RRRZ: I A wicked person accepts milk filled with poison with pleasure; similarly a wicked person turns round others' wives, having a pleasant face which results in total destruction. By looking at the face of a beautiful woman, a wicked person is filled with fallacy. The beautiful face of the damsels, the breasts and the pelvic region are the seeds for destruction. Filled with fluid and urine, the pelvic region is like an altar of hell. It is filled with bad smell, sinful and entitles one to receive punishment at the hands of Yama after men and women are united. Similarly the men have to fall into the terrific hell for yugas, O Brahmana, finding me alone if you intend to rape me, then all the gods, the lokapalas, dharma who is the witness to all the deeds, lord Hari and the lord of Yama, lord Krsna, MahesVara the abode of all intelligence, Durga, wisdom, mind, Brahma and all other gods would arrive.

All these gods remaining witness to all the people remain present at all times in all the places. Therefore, O foolish BrHhmana, which is the secret place and what is secretive? O Brahmana, therefore you excuse me; you leave the place and meet with your welfare. O son, the Brahmanas are not to be killed, therefore, you leave the place with pleasure; otherwise, I am competent enough to reduce you to ashes. I have been performing tapas for a hundred and eight yugas; therefore, there is no name or gotra for my father nor are my parents alive.

O Brahmana, lord Krsna who is the soul of all always protects me and. the cakra of lord Kfsna always protects me besides the sun, the moon, the wind, Agni, Brahma, Siva and the goddess Durga always protects me.

The one who has bestowed whiteness to the goose, greenness to the parrot, different colours to the peacock, the same lord will surely protect me, he is the lord of the orphans boys, as well as the old people. Therefore taking me to be a women, dharma cannot disown me.

O son, you leave me alone and go to your place comfortably. Thus the lady remained unmoved like the earth.

In spite of speaking the truth to him, when she found that the Brahmana a was making advances to her, she then pronounced a curse on him, "O degraded Brahmana, you get destroyed, O sinful one, you get destroyed, O degraded one, you get destroyed Thus speaking when he was about to pronounce another curse, the sun prevented her from doing so with great effort. O father, in the meantime, Brahma the creator of the universe beside Siva, Visnu and other gods arrive there in panic and finding Dharma deduced to a single ray, all the gods started crying. O lord of Vraja, he picked up Dharma in his lap who was frightened from Uma like the fourteenth day of the black fortnight and was cursed by a chaste women. His lustre was faded. The lord said- 0 Vmda, you are my devotee and free from the birth, death and old age, you please forgive him.

O chaste lady, bring Dharma back to life, you protect dharma who happens to be my devotees.

Brahma said- without Dharma the entire universe has plunged into darkness, the moon, the sun, the earth and Sesa are all shaking.

Mahadeva said- O beautiful one, without Dharma the entire universe has been destroyed.

Therefore, 0 damsel, you will meet with welfare but you bring Dharma back to life.

SQrya said- O chaste damsel, you ask for a boon, you will meet with welfare by bringing back Dharma to life, you protect the universe.

Ananta said- You earn dharma only by performing tapas then why do you destroy him, let you meet with welfare and bring Dharma back to life. As a result of this, all your dharmas could be well-protected.

The moon said- Dharma in the form of a ijfahmana and arr''''ed before you at the instance of Brahma in ore;r to test your devotion.

Therefore he has ' m killed without any fault of his own.

Mahendra said- The dharma is earned by performing tapas and dharma alone bestows the reward of the tapas. In case Dharma is destroyed, how would one be able to achieve the result of his tapas.

Varuna said- O religious one, by bringing back Dharma to life, you protect the eternal dharma. O religious one, all the deeds of the people would become infructuous without RRRT 1qR|Rf?n I? n 11 The wind god said- O beautiful one, you at once bring back Dharma to life and purify the universe. With the destruction of Dharma your tapas would also become infructuous.

qjfRTRRTSftr R RHcRI^I Agni said- 0 beautiful one, you have arrived in the land of BhSrata, to earn Dharma and unknowingly you have killed Dharma. Therefore you bring him back to life.

Yama said- O beautiful faced one. I bestow the reward to all the people of the universe for the deeds perfonned by them according to the Vedas. Therefore, you bring Dharma back to life On hearing the words of all the gods and the ascetics, chaste Vmda got up and bowing in reverence to all the gods she said.

Vmda said- O gods I never knew about the true identity of Dharma who appeared to me in the form of a Brahmana, in order to test me. He has been destroys by me in anger. By your grace, I shall surely bring him back to life”. O lord of Vraja, thus speaking Vmda said- In case my tapas is truthful, my devotion towards lord Visnu is truthful then with the influence of that tapas the Brahmana should be relived of all the miseries. In case, I am truthful, my vrata is truthful, because of the influence of the same and with the influence of my tapas, this Brahmana should be freed from the misery. In case the eternal NSrayana who happens to be the soul of all and Siva the all knowledgeable one is also truthful, in that case the Brahmana should be relieved of the entire miseries. In case Brahmana is truthful beside the gods and the Prakrti, the yajna and the tapas then this Br^mana should be freed from all the sufferings. Thus speaking

Vmda picked up Dharma and took him in her lap. Finding him reduced to the foim of a mere ray, she started crying, In the meantime MUrti the wife of Dharma was filled with grief and she fell at the feet of lord Visnu.

Murti said- O lord, O ocean of mercy, you are the ere graceful to the down-trodden, compassionate, O compassionate lord of the universe, you bring, my husband back to life.

A women who is deprived and her husband is considered to be a sinner in the ocean of universe. She becomes like a face without eyes and the body without life.

The parents, the brothers, the sons and the relatives can give only a limited comfort but the husband provides all the comforts. Thus speaking, the goddess stood there quietly and started crying. Thereafter, lord Visnu spoke to said- O beautiful one by performing tapas you have achieved the age comparable to Brahma. You bestow the same age to Dharma and go back to Goloka and stay there.

You would achieve me with this body alone later on. O damsel, reaching Goloka in the Varaha-kalpa you would be bom as a daughter Vrsabhanu and would be known as the reflection of Radha. In the Vmdavana Raya^va would be bora from my Goloka and would own you after marriage. While performing the divine dance you would meet me together with Radha and other tJ i HW g' H T H VtrdHML I I ^ 11 When Radha would be bom as the daughter of Vrsabhanu due to the curse of ^rldama, at that very moment, Radha would appear together with you as her reflection. At the time of the marriage Rayana would accept you because after entrusting the real Radha to you, he would disappear. Therefore, all the people of Gokula would treat you, as the real Radha but the cowherds would not be able to witness the lotus¬ like feel of Radha in dream. Because Radha herself resides in my heart and her reflection would be the wife of Rayana. On hearing these

words of Vi§nu, the damsel gave away his life to Dharma. Thereafter Dharma got up in his full form with the complexion of molten gold and looked more illustrious than before; he then bowed in reverence to lord Vi§pu.

giH i tfevriyi; 3=r: Vrnda said- O gods you listen to my words carefully which cannot be overlooked and can never untrue or false. In anger I pronounced the word k^yobhava thrice but when I was about to pronounce the same the fourth time, SQrya prevented me from doing so. The same total effect of my curse would be that in Satyayuga, Dharma would be complete in all respects but in Tretayuga, he would have only three feet; in Dvapara only in two and in Kaliyuga only one; in the later part of Kaliyuga, only a small reflection of dharma would be visible thereafter in Satyayuga he would again appear in his full form. The words of destruction were spoken by me thrice and as such the effect of the same has also been pronounced by me. I was going to repeat the same the fourth time when SQrya prevented me from doing so, therefore, I could not speak it out. Therefore Dharma would remain in the last part of the Kaliyuga only in negligible

O Nanda, in the meantime the gods witnessed the arrival of a chariot moving with great force which was quite beautiful to look at and was built with the best of gems, it had the doors of gems and was decorated with diamonds, rubies, precious gems, costumes, white fly-whisk, ornaments and beautiful minors. Vmda after bowing in reverence to Visnu, Siva and Brahma beside other gods, mounted over to chariot and proceeded to Goloka, Thereafter the gods also went to their respective places. Now what else do you want to listen from me.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 294829 (2020-12-03T00:36:40Z); Shanti Lal Nagar English scan pages n1455–n1466: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1455/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.