Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 77

Chapter 77

Unit 220 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 77Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 771 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 77

Source

अथ सप्तस्पततितमोऽध्यायः नन्द उवाच केन स्पप्नेन किं पुण्यं केन मोक्षो भवेत्सुखम् । कोऽपि कोऽपि च सुस्वप्नस्तत्सर्वं कथय प्रभो ।। १ ।। श्रीभगवानुवाच वेदेषु सामवेदश्च प्रशस्तः सर्वकर्मसु । तथैव कण्वशाखायां पुण्यकाण्डे मनोहरे ।। २ ।। स व्यवतो यश्च दुःस्वप्नः शश्वतपुण्यफलप्रदः । तत्सर्व निखिलं तात कथयामि निशामय ।। ३ ।। स्वप्नाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् । स्वप्नाध्यायं नरः श्रुत्वा गङ्गास्नानफलं लभेत् ।। ४ ।। स्वप्नक्तु प्रथमे यामे संवत्सरफलप्रदः । द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयरे ।। ५ ।। चतुर्थे चार्धमासेन स्वप्नः स्वात्मफलप्रदः । दशाहे फलदः स्वप्नोऽप्यरुणोदयदर्णने ।। ६ ।। प्रातःस्वप्नश्च फलदस्तत्क्षणं यदि बोधितः । दिने मनसि यद्दृष्टं तत्सर्व च लभेद्ध्रुवम् ।। ७ ।। चिन्ताव्याधिसमायुक्तो नरः स्वप्नं च पश्यति । तत्सर्व निष्फलं तात प्रयात्येव न संशयः ।। ८ ।। जचडो मूत्रपुरीषेण पीडितश्च भयाकुलः । दिगम्बरो मुक्तकेशो न लभेत्स्वप्नजं फलम् ।। ९ ।। दृष्ट्वा स्वप्नं च निद्रालुर्यदि निद्रां प्रयति च । विमूढो वक्ति चेद्रात्रौ न लभेत्स्वप्नजं फलम् ।। १० ।। उक्तवा काश्यपगोत्रे च विपर्त्ति लभते ध्रुवम् । दुर्गते दुर्गतिं याति नीचे व्याधिंप्रयाति च ।। ११ ।। शत्रौ भयं च लभते मूर्खे च कलहं लभेत् । कामिन्यां धनहानिः स्याद्रात्रौ जोरभयं भवेत् ।। १२ ।। निद्रायां लभते शोकं पण़्डिते वाञ्छितं फलम् । न प्रकाश्यश्च सुस्वप्नः पण्डितैः काश्यपे व्रज ।। १३ ।। गवां च कुञ्जराणां च हयानां च व्रजेश्वर । प्रासादानां च शैलानां वृक्षाणां च तथैव च ।। १४ ।। आरोहणं च धनदं भोजनं रोदनं तथा । प्रतिगृह्यतथा वीणां सस्याढ्यां भूमिमालभेत् ।। १५ ।। शस्त्रास्त्रेण यदा विद्धो व्रणेन कृमिणा तथा । विष्ठया रुधिरेणैव संयुक्तोऽप्यर्थवान्भवेत् ।। १६ ।। स्वप्नेऽप्यगम्यागमतो भार्यालाभं करोति यः । मूत्रसिक्तः पिबेच्छुकं नरकं च विशत्यपि ।। १७ ।। नगरं प्रविशेद्रक्तं समुद्रं वा सुधां पिबेत् । शुभवार्तामवाप्नोति विपुलं चार्थमालभेत् ।। १८ ।। गजं नृपं सुवर्ण च वृषभं घेनुमेव च । दीपमन्नं फलं पुष्पं कन्यां छत्रं रथं ध्वजम् ।। १९ ।। कुटुम्बं लभते दृष्ट्वा कीर्तिं च विपुलां श्रियम् । पूर्णकुम्भंद्विजं वह्निं पुष्पताम्बूलमन्दिरम् ।। २० ।। शुक्लधान्यं नदं वेश्यां दृष्ट्वा श्रियमवाप्नुयात् । गोक्षीरं च घृतं दृष्ट्वा चार्थ पुण्यधनं लभेत् ।। २१ ।। पायसं पद्मपत्रे च दधि दुग्धं घृतं मधु । मिष्टान्नं स्वस्तिकं भुक्त्वा ध्रुवं राजा भविष्यति ।। २२ ।। पक्षिणां मानुषाणां च भुङ्क्ते मांसं नरो यदि । बह्वर्थं शुभवार्तां च लभते वाञ्छितं फलम् ।। २३ ।। छत्रं वा पादुकां वाऽपि लब्ध्वा धान्यं च गच्छति । असिं च निर्मरं तीक्ष्णं तत्तथैव भविष्यति ।। २४ ।। हेलया संतरेद्यो हि स प्रधानो भविष्यति । दृष्ट्वा च फलितं वृक्षं धनमाप्नोति निश्चितम् ।। २५ ।। सर्पेण भक्षितो यो हि णर्थलात्रश्च तद्भवेत् । स्वप्ने सूर्य विधुं दृष्ट्वा मुच्यते व्याधिबन्धनात् ।। २६ ।। वडवां कुक्कुटीं दृष्ट्वा कौञ्चीं भार्यं लभेद्ध्रुवम् । स्वप्नेयो निगडैर्बद्धः प्रतिष्ठां पुत्रमालभेत् ।। २७ ।। दध्यन्नं पायसं भुङ्कते पद्मपत्रे नदीतटे । विशीर्णपद्मपत्रे च सोऽपि राजा मविष्यति ।। २८ ।। जलौकसं वृश्चिकं च सर्प च यदि पश्यति । धनं पुत्रं च विजयं प्रतिष्ठां वा लभेदिति ।। २९ ।। शृङ्गिभिर्दंष्ट्रिभिः कोलैर्वानरैः पीडितो यदि । निश्चितं च भवेद्राजा धनं च विपुलं लभेत् ।। ३० ।। मत्स्यं मांसं मौक्तिकं च शङ्खं चन्दनहीरकम् । यस्तु पश्यति स्वप्नान्ते विपुलं धनमालभेत् ।। ३१ ।। सुरां च रुधिरं स्वर्ण भुक्त्वा विष्ठांधनं लभेत्। प्रतिमां शिवलिङ्गंच लभेद्दृष्ट्वा जयं धनम् ।। ३२ ।। फलितं पुष्पितं बिल्वमाम्रं दृष्ट्वा लभेद्धनम् । दृष्ट्वा च ज्वलदग्निं च धनं बुद्धिं श्रियं लभेत् ।। ३३ ।। आमलकं धात्रौफलमुत्पलं च धनागमम् । देवताश्च द्विजा गावः पितरो लिङ्गिनस्तथा ।। ३४ ।। यद्ददाति मिथःस्वप्ने तत्तथैव भविष्यति । शुक्लाम्बरधरा नार्यः शुक्लमाल्यानुलेपना । समाश्लिष्यन्ति यं स्वप्ने तस्य श्रीः सर्वतः सुखम् ।। ३५ ।। पीताम्बरधरां नारीं पीतमाल्यानुलेपनाम् । अवगूहति यः स्वप्ने कल्याणं तस्य जायते ।। ३६ ।। सर्वाणि शुक्लानि प्रशंसितानि भस्मास्थिकार्पासविवर्जितानि । सर्वाणि कृष्णन्यतिनिन्दितानि गोहस्तिवाजिद्विजदेववर्ज्यम् ।। ३७ ।। दिव्य स्त्री सस्मिता विप्रा नत्नभूषणभूषिता । यस्य मन्दिरमायाति स प्रियं लभते ध्रुवम् ।। ३८ ।। स्वप्ने च ब्रह्मणो देवो ब्राह्मणी देवकन्यका । ब्राह्मणो ब्राह्मणी वाऽपि संतुष्टा सस्मिता सती ।। ३९ ।। फलं ददाति यस्मै च तस्य पुत्रो भविष्यति । यं स्वप्ने ब्राह्मणा नन्द कुर्वन्ति च शुभाशिषम् ।। ४० ।। यद्वदन्ति भवेत्तस्य तस्यैश्वर्य भवेद्ध्रुवम् । परितुष्टो द्विजश्रेष्ठश्टाऽऽयाति यस्य मन्दिरम् ।। ४१ ।। नारायणः शिवो ब्रह्मा प्रविशेत्तु तदाश्रमम् । संपत्तिस्वस्य भवति यशश्च विपुलं शुभम् ।। ४२ ।। पदे पदे सुखं तस्य समानं गौरवं लभेत् । अकस्मादपि स्वप्ने तु लभते सुरभिं यदि ।। ४३ ।। भूमिलाभो भवेत्तस्य भार्या चापि पतिव्रता । करेण कृत्वा हस्ती यं मस्तके स्थापयेद्यदि ।। ४४ ।। राज्यलाभोभवेत्तस्य निश्चितं च श्रुतौ मतम् । स्वप्ने तु ब्राह्मणस्तुष्टः समाश्लिष्यतियं व्रज ।। ४५ ।। तीर्थस्नायी भवेत्सोऽपि निश्चितं च श्रियाऽन्वितः । स्वप्ने ददाति पुष्पं च यस्मै पुण्यवते द्विजः ।। ४६ ।। जययुक्तो भवेत्सोऽपि यशस्वी च धरी सुखी । स्वप्ने दृष्टवा च तीर्थानि सौधरत्नगृहाणि च ।। ४७ ।। जययुक्तश्च धनवांस्तीर्थस्नायी भवेन्नरः । स्वप्ने तु पूणंकलशं कश्चित्कस्मै ददाति च ।। ४८ ।। पुत्रलाभो भवेत्तस्य मंपत्तिं वा समालभेत् । हस्ते कृत्वा तु कुडवमाढकं वारसुन्दरी ।। ४९ ।। यस्य मन्दिरमायाति स लक्ष्मीं लभते ध्रुवम् । दिव्या स्त्री यद्गृहं गत्वा पुरीषं विसृजेद्द्विज ।। ५० ।। अर्थलाभो भवेत्तस्य दारिद्र्यं च प्रयाति च । यस्य गेहं समायाति ब्राह्मणो भार्यया सह ।। ५१ ।। पार्वत्या सह शंभुर्वा लक्ष्म्या नारायणोऽथवा । ब्राह्मणो ब्राह्मणी वाऽपि स्वप्ने तस्मै प्रदीयते ।। ५२ ।। धान्यं पुष्पाञ्जलिं वाऽपि तस्य श्रीः सर्दतोमुखी । मुक्ताहारं पुष्पमाल्यं चन्दनं च लभेद्व्रज ।। ५३ ।। स्वाप्ने ददाति विप्रश्च तस्य श्रीः सर्वo । गोरोचनं पताकां वा हरिद्रामिक्षुदण्डकम् ।। ५४ ।। सिद्धान्नं च लभेत्स्वप्ने तस्य श्रीः सर्वo । ब्राह्मणो ब्रह्माणी वाऽपि ददाति यस्य मस्तके ।। ५५ ।। छत्रं वा शुक्लवान्यं व स चराजा भविष्यति । स्वप्ने लथस्थः पुरुषः शुक्लमाल्यानुलेपनः ।। ५६ ।। तत्रस्थोदधि भुङ्क्ते च पायसं वा लृपो भवेत् । स्वप्ने ददाति विप्रश्च ब्राह्मणी च सुधांदधि ।। ५७ ।। प्रशस्तपात्रं यस्मै वा सोऽपि राजा भवेद्ध्रुवम् । कुमारी चाष्टवर्षीया रत्नभूषणभूषिता ।। ५८ ।। यस्य तुष्टा भवेत्स्वप्ने स भवेत्कविपण़्डितः । ददाति पुस्तकं स्वप्ने यस्मै पुण्यवते च सा ।। ५९ ।। स भवेद्विश्वविख्यातः कवीन्द्रः पण़्डितेश्वरः । यं पाठयति स्वप्ने वा मातेव च सुतं यथा ।। ६० ।। सरस्वतीसुतः सोऽपि तत्परो नास्ति पण्डितः । ब्राह्मणः पाठयेद्यं च पितेव यत्नपूर्वकम् ।। ६१ ।। ददाति पुस्तकं प्रीत्या स च सत्सदृशो भवेत् । प्राप्नोति पुस्तकं स्वप्ने पथि वा यत्र तत्र वा ।। ६२ ।। स पण्डितो यशस्वी च विख्यातश्च महीतले । स्वप्ने यस्मै महामन्त्रं विप्रो विप्रे ददाति चेत् ।। ६३ ।। स भवेत्पुरुषः प्राज्ञो धनवान्गुणवान्सुधीः । स्वप्ने ददाति मन्त्रं वा प्रतिमां वा शिलामयीम् ।। ६४ ।। यस्मै ददाति विप्रश्च मन्त् सिद्धिश्च तद्भवेत् । विप्रं विप्रसमूहं च दृष्ट्वा नत्वाऽऽशिषं लभेत् ।। ६५ ।। राजेन्द्रः स भवेद्वाऽपि किंवा च कविपण्डितः । शुक्लधान्ययुतां भूमीं यस्मै विप्र समुत्सृजेत् ।। ६६ ।। स्वप्नेऽपि परितुष्टश्च स भवेत्पृथिवीपतिः । स्वप्न विप्रो रथे कृत्वा नानास्वर्गं प्रदर्शयेत् ।। ६७ ।। चिरंजीवी भवेदायुर्धनवृद्धिर्भवेद्ध्रुवम् । विप्राय विप्रः संतुष्टो यस्मै कन्यां ददाति च ।। ६८ ।। स्वप्ने च स भवेन्नित्यं धनाढ्यो भूवतिः स्वयम् । स्वप्ने सरोवरं दृष्टवा समुद्रं वा नदीं नदम् ।। ६९ ।। शुक्लाहिं शुक्लशैलं च दृष्ट्वा श्रियमवाप्नुयात् । यं पश्यन्ति मृतं स्वप्ने स भवेच्चिरजीवनः ।। ७० ।। अरोगी रोगिणं दु खी सुशिनं च सुखं भवेत् । दिव्या स्त्री यं प्रवदति मम स्वामी भवानिति ।। ७१ ।। स्वप्ने दृष्ट्वा च चागतिं स च राजा भवेद्दृढम् । स्वप्ने वा कालिकां दृष्ट्वा लब्धवा स्फटिकमालिकाम् ।। ७२ ।। इन्द्रचापं शक्रवज्रं स प्रतिष्ठां लभेद्ध्रुवम् । स्वप्ने वदति यं विप्रो मम दासो भवेति च ।। ७३ ।। हरिदास्यं च मद्भक्तिं स लब्ध्वा वैष्णवो भवेत् । स्वप्ने विप्रो हरीः शंभुर्ब्राह्मणी कमला शिवा ।। ७४ ।। शक्ला स्त्री देवमाता वा जाह्नवी वा सरस्वती । गोपालिकावेषधरी बालिका राधिका मम ।। ७५ ।। बालश्च बालगोपालः स्वप्नविद्भिः प्रकाशितः । एष ते कथितो नन्द सुस्वप्नः पुण्यहेतुकः ।। श्रोतुमिच्छसि किं वा त्वं किं भूयः कथयामि ते ।। ७६ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo सुस्वप्नकथानं नाम सप्तसप्ततितमोऽध्यायः ।। ७७ ।।

atha saptaspatatitamo'dhyāyaḥ nanda uvāca kena spapnena kiṃ puṇyaṃ kena mokṣo bhavetsukham | ko'pi ko'pi ca susvapnastatsarvaṃ kathaya prabho || 1 || śrībhagavānuvāca vedeṣu sāmavedaśca praśastaḥ sarvakarmasu | tathaiva kaṇvaśākhāyāṃ puṇyakāṇḍe manohare || 2 || sa vyavato yaśca duḥsvapnaḥ śaśvatapuṇyaphalapradaḥ | tatsarva nikhilaṃ tāta kathayāmi niśāmaya || 3 || svapnādhyāyaṃ pravakṣyāmi bahupuṇyaphalapradam | svapnādhyāyaṃ naraḥ śrutvā gaṅgāsnānaphalaṃ labhet || 4 || svapnaktu prathame yāme saṃvatsaraphalapradaḥ | dvitīye cāṣṭabhirmāsaistribhirmāsaistṛtīyare || 5 || caturthe cārdhamāsena svapnaḥ svātmaphalapradaḥ | daśāhe phaladaḥ svapno'pyaruṇodayadarṇane || 6 || prātaḥsvapnaśca phaladastatkṣaṇaṃ yadi bodhitaḥ | dine manasi yaddṛṣṭaṃ tatsarva ca labheddhruvam || 7 || cintāvyādhisamāyukto naraḥ svapnaṃ ca paśyati | tatsarva niṣphalaṃ tāta prayātyeva na saṃśayaḥ || 8 || jacaḍo mūtrapurīṣeṇa pīḍitaśca bhayākulaḥ | digambaro muktakeśo na labhetsvapnajaṃ phalam || 9 || dṛṣṭvā svapnaṃ ca nidrāluryadi nidrāṃ prayati ca | vimūḍho vakti cedrātrau na labhetsvapnajaṃ phalam || 10 || uktavā kāśyapagotre ca vipartti labhate dhruvam | durgate durgatiṃ yāti nīce vyādhiṃprayāti ca || 11 || śatrau bhayaṃ ca labhate mūrkhe ca kalahaṃ labhet | kāminyāṃ dhanahāniḥ syādrātrau jorabhayaṃ bhavet || 12 || nidrāyāṃ labhate śokaṃ paṇa़ḍite vāñchitaṃ phalam | na prakāśyaśca susvapnaḥ paṇḍitaiḥ kāśyape vraja || 13 || gavāṃ ca kuñjarāṇāṃ ca hayānāṃ ca vrajeśvara | prāsādānāṃ ca śailānāṃ vṛkṣāṇāṃ ca tathaiva ca || 14 || ārohaṇaṃ ca dhanadaṃ bhojanaṃ rodanaṃ tathā | pratigṛhyatathā vīṇāṃ sasyāḍhyāṃ bhūmimālabhet || 15 || śastrāstreṇa yadā viddho vraṇena kṛmiṇā tathā | viṣṭhayā rudhireṇaiva saṃyukto'pyarthavānbhavet || 16 || svapne'pyagamyāgamato bhāryālābhaṃ karoti yaḥ | mūtrasiktaḥ pibecchukaṃ narakaṃ ca viśatyapi || 17 || nagaraṃ praviśedraktaṃ samudraṃ vā sudhāṃ pibet | śubhavārtāmavāpnoti vipulaṃ cārthamālabhet || 18 || gajaṃ nṛpaṃ suvarṇa ca vṛṣabhaṃ ghenumeva ca | dīpamannaṃ phalaṃ puṣpaṃ kanyāṃ chatraṃ rathaṃ dhvajam || 19 || kuṭumbaṃ labhate dṛṣṭvā kīrtiṃ ca vipulāṃ śriyam | pūrṇakumbhaṃdvijaṃ vahniṃ puṣpatāmbūlamandiram || 20 || śukladhānyaṃ nadaṃ veśyāṃ dṛṣṭvā śriyamavāpnuyāt | gokṣīraṃ ca ghṛtaṃ dṛṣṭvā cārtha puṇyadhanaṃ labhet || 21 || pāyasaṃ padmapatre ca dadhi dugdhaṃ ghṛtaṃ madhu | miṣṭānnaṃ svastikaṃ bhuktvā dhruvaṃ rājā bhaviṣyati || 22 || pakṣiṇāṃ mānuṣāṇāṃ ca bhuṅkte māṃsaṃ naro yadi | bahvarthaṃ śubhavārtāṃ ca labhate vāñchitaṃ phalam || 23 || chatraṃ vā pādukāṃ vā'pi labdhvā dhānyaṃ ca gacchati | asiṃ ca nirmaraṃ tīkṣṇaṃ tattathaiva bhaviṣyati || 24 || helayā saṃtaredyo hi sa pradhāno bhaviṣyati | dṛṣṭvā ca phalitaṃ vṛkṣaṃ dhanamāpnoti niścitam || 25 || sarpeṇa bhakṣito yo hi ṇarthalātraśca tadbhavet | svapne sūrya vidhuṃ dṛṣṭvā mucyate vyādhibandhanāt || 26 || vaḍavāṃ kukkuṭīṃ dṛṣṭvā kauñcīṃ bhāryaṃ labheddhruvam | svapneyo nigaḍairbaddhaḥ pratiṣṭhāṃ putramālabhet || 27 || dadhyannaṃ pāyasaṃ bhuṅkate padmapatre nadītaṭe | viśīrṇapadmapatre ca so'pi rājā maviṣyati || 28 || jalaukasaṃ vṛścikaṃ ca sarpa ca yadi paśyati | dhanaṃ putraṃ ca vijayaṃ pratiṣṭhāṃ vā labhediti || 29 || śṛṅgibhirdaṃṣṭribhiḥ kolairvānaraiḥ pīḍito yadi | niścitaṃ ca bhavedrājā dhanaṃ ca vipulaṃ labhet || 30 || matsyaṃ māṃsaṃ mauktikaṃ ca śaṅkhaṃ candanahīrakam | yastu paśyati svapnānte vipulaṃ dhanamālabhet || 31 || surāṃ ca rudhiraṃ svarṇa bhuktvā viṣṭhāṃdhanaṃ labhet| pratimāṃ śivaliṅgaṃca labheddṛṣṭvā jayaṃ dhanam || 32 || phalitaṃ puṣpitaṃ bilvamāmraṃ dṛṣṭvā labheddhanam | dṛṣṭvā ca jvaladagniṃ ca dhanaṃ buddhiṃ śriyaṃ labhet || 33 || āmalakaṃ dhātrauphalamutpalaṃ ca dhanāgamam | devatāśca dvijā gāvaḥ pitaro liṅginastathā || 34 || yaddadāti mithaḥsvapne tattathaiva bhaviṣyati | śuklāmbaradharā nāryaḥ śuklamālyānulepanā | samāśliṣyanti yaṃ svapne tasya śrīḥ sarvataḥ sukham || 35 || pītāmbaradharāṃ nārīṃ pītamālyānulepanām | avagūhati yaḥ svapne kalyāṇaṃ tasya jāyate || 36 || sarvāṇi śuklāni praśaṃsitāni bhasmāsthikārpāsavivarjitāni | sarvāṇi kṛṣṇanyatininditāni gohastivājidvijadevavarjyam || 37 || divya strī sasmitā viprā natnabhūṣaṇabhūṣitā | yasya mandiramāyāti sa priyaṃ labhate dhruvam || 38 || svapne ca brahmaṇo devo brāhmaṇī devakanyakā | brāhmaṇo brāhmaṇī vā'pi saṃtuṣṭā sasmitā satī || 39 || phalaṃ dadāti yasmai ca tasya putro bhaviṣyati | yaṃ svapne brāhmaṇā nanda kurvanti ca śubhāśiṣam || 40 || yadvadanti bhavettasya tasyaiśvarya bhaveddhruvam | parituṣṭo dvijaśreṣṭhaśṭā''yāti yasya mandiram || 41 || nārāyaṇaḥ śivo brahmā praviśettu tadāśramam | saṃpattisvasya bhavati yaśaśca vipulaṃ śubham || 42 || pade pade sukhaṃ tasya samānaṃ gauravaṃ labhet | akasmādapi svapne tu labhate surabhiṃ yadi || 43 || bhūmilābho bhavettasya bhāryā cāpi pativratā | kareṇa kṛtvā hastī yaṃ mastake sthāpayedyadi || 44 || rājyalābhobhavettasya niścitaṃ ca śrutau matam | svapne tu brāhmaṇastuṣṭaḥ samāśliṣyatiyaṃ vraja || 45 || tīrthasnāyī bhavetso'pi niścitaṃ ca śriyā'nvitaḥ | svapne dadāti puṣpaṃ ca yasmai puṇyavate dvijaḥ || 46 || jayayukto bhavetso'pi yaśasvī ca dharī sukhī | svapne dṛṣṭavā ca tīrthāni saudharatnagṛhāṇi ca || 47 || jayayuktaśca dhanavāṃstīrthasnāyī bhavennaraḥ | svapne tu pūṇaṃkalaśaṃ kaścitkasmai dadāti ca || 48 || putralābho bhavettasya maṃpattiṃ vā samālabhet | haste kṛtvā tu kuḍavamāḍhakaṃ vārasundarī || 49 || yasya mandiramāyāti sa lakṣmīṃ labhate dhruvam | divyā strī yadgṛhaṃ gatvā purīṣaṃ visṛjeddvija || 50 || arthalābho bhavettasya dāridryaṃ ca prayāti ca | yasya gehaṃ samāyāti brāhmaṇo bhāryayā saha || 51 || pārvatyā saha śaṃbhurvā lakṣmyā nārāyaṇo'thavā | brāhmaṇo brāhmaṇī vā'pi svapne tasmai pradīyate || 52 || dhānyaṃ puṣpāñjaliṃ vā'pi tasya śrīḥ sardatomukhī | muktāhāraṃ puṣpamālyaṃ candanaṃ ca labhedvraja || 53 || svāpne dadāti vipraśca tasya śrīḥ sarvao | gorocanaṃ patākāṃ vā haridrāmikṣudaṇḍakam || 54 || siddhānnaṃ ca labhetsvapne tasya śrīḥ sarvao | brāhmaṇo brahmāṇī vā'pi dadāti yasya mastake || 55 || chatraṃ vā śuklavānyaṃ va sa carājā bhaviṣyati | svapne lathasthaḥ puruṣaḥ śuklamālyānulepanaḥ || 56 || tatrasthodadhi bhuṅkte ca pāyasaṃ vā lṛpo bhavet | svapne dadāti vipraśca brāhmaṇī ca sudhāṃdadhi || 57 || praśastapātraṃ yasmai vā so'pi rājā bhaveddhruvam | kumārī cāṣṭavarṣīyā ratnabhūṣaṇabhūṣitā || 58 || yasya tuṣṭā bhavetsvapne sa bhavetkavipaṇa़ḍitaḥ | dadāti pustakaṃ svapne yasmai puṇyavate ca sā || 59 || sa bhavedviśvavikhyātaḥ kavīndraḥ paṇa़ḍiteśvaraḥ | yaṃ pāṭhayati svapne vā māteva ca sutaṃ yathā || 60 || sarasvatīsutaḥ so'pi tatparo nāsti paṇḍitaḥ | brāhmaṇaḥ pāṭhayedyaṃ ca piteva yatnapūrvakam || 61 || dadāti pustakaṃ prītyā sa ca satsadṛśo bhavet | prāpnoti pustakaṃ svapne pathi vā yatra tatra vā || 62 || sa paṇḍito yaśasvī ca vikhyātaśca mahītale | svapne yasmai mahāmantraṃ vipro vipre dadāti cet || 63 || sa bhavetpuruṣaḥ prājño dhanavānguṇavānsudhīḥ | svapne dadāti mantraṃ vā pratimāṃ vā śilāmayīm || 64 || yasmai dadāti vipraśca mant siddhiśca tadbhavet | vipraṃ viprasamūhaṃ ca dṛṣṭvā natvā''śiṣaṃ labhet || 65 || rājendraḥ sa bhavedvā'pi kiṃvā ca kavipaṇḍitaḥ | śukladhānyayutāṃ bhūmīṃ yasmai vipra samutsṛjet || 66 || svapne'pi parituṣṭaśca sa bhavetpṛthivīpatiḥ | svapna vipro rathe kṛtvā nānāsvargaṃ pradarśayet || 67 || ciraṃjīvī bhavedāyurdhanavṛddhirbhaveddhruvam | viprāya vipraḥ saṃtuṣṭo yasmai kanyāṃ dadāti ca || 68 || svapne ca sa bhavennityaṃ dhanāḍhyo bhūvatiḥ svayam | svapne sarovaraṃ dṛṣṭavā samudraṃ vā nadīṃ nadam || 69 || śuklāhiṃ śuklaśailaṃ ca dṛṣṭvā śriyamavāpnuyāt | yaṃ paśyanti mṛtaṃ svapne sa bhaveccirajīvanaḥ || 70 || arogī rogiṇaṃ du khī suśinaṃ ca sukhaṃ bhavet | divyā strī yaṃ pravadati mama svāmī bhavāniti || 71 || svapne dṛṣṭvā ca cāgatiṃ sa ca rājā bhaveddṛḍham | svapne vā kālikāṃ dṛṣṭvā labdhavā sphaṭikamālikām || 72 || indracāpaṃ śakravajraṃ sa pratiṣṭhāṃ labheddhruvam | svapne vadati yaṃ vipro mama dāso bhaveti ca || 73 || haridāsyaṃ ca madbhaktiṃ sa labdhvā vaiṣṇavo bhavet | svapne vipro harīḥ śaṃbhurbrāhmaṇī kamalā śivā || 74 || śaklā strī devamātā vā jāhnavī vā sarasvatī | gopālikāveṣadharī bālikā rādhikā mama || 75 || bālaśca bālagopālaḥ svapnavidbhiḥ prakāśitaḥ | eṣa te kathito nanda susvapnaḥ puṇyahetukaḥ || śrotumicchasi kiṃ vā tvaṃ kiṃ bhūyaḥ kathayāmi te || 76 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nārādanāo susvapnakathānaṃ nāma saptasaptatitamo'dhyāyaḥ || 77 ||

English translation

The Good Dreams Nanda said- O lord, which one of the dreams bestows merit and by witnessing which dream one achieves moksa, which one of the dream bestowed pleasure and which ones of them are considered to be good dreams.

wnftT f%mgi I? 11 Sri Krsna said- Of all the Vedas, Sdmaveda is considered to be the best for performing all types of deeds. In the Manohar-punya-kanda of the Kanvas'akha, the bad dreams and the good dreams which bestow merit have been described.

father, I am highlighting all of them, you kindly listen to me attentively. I am narrating to you the chapter on good dreams which bestows immense merit. By listening to the chapter on great dreams one earns the merit of taking a bath in Ganga.

The dream is witnessed during the first Prahara of the night bestows the reward in a year; the dream witnessed in the second Prahara produces the result in eight months and the one witnessed in the third Prahara bestows the result in three months and the dream witnessed in the fourth Prahara of the night can produce the result in fifteen days. The dream which is witnessed during the dawn produces the result in ten days. And in case a dream is witnessed in the early morning it gives the result instantaneously.

Whatever is seen is thought during the day and is reflected in the dream. O father, when a person who is infatuated with worry and disease, witnesses a dream it becomes of no consequence.

The one who is lying motionless and is suffering from the force of urine and refuse or is infatuated with fear, is naked or with dishevelled hair, the witnessing of a dream by such a person is of no consequence. In case a sleeping person after witnessing a dream or narrates it to someone in the night itself, he does not have to get a reward for it.

oarfyy-iTird i i If a person of Kasyapa gotra witnesses a dream, he surely invites misfortune. In case the dream is told to an unfortunate person, one has to face misfortune; by speaking the same to a degraded person one invites ailment; by speaking out the same to an enemy, one invites fear; by narrating it to a foolish person, one invites quarrel; by speaking to a damsel one is deprived of the riches and when one narrates it during the night, one has to face the danger of theft.

If one, after witnessing a dream, again goes to sleep he meets with grief and if the dream is retold to an intellectual, the desire is fulfilled.

Therefore, O lord of Vraja, the intellectuals should not discuss about the dream with persons of Kasyapa gotra.

O lord of Vraja, one gets food and cries if one witnesses in the dream a cow, an elephant, a horse, palaces, climbing on the mountains. By receiving vlnd one gets enough of paddy and land. If the limbs are out with the attack of weapons or one gets wounded or having been bitten by insects or touching the refuse and blood, one gets wealth.

The one who enjoys the pleasure of the company of an unchaste woman, he achieves a good wife. By getting soaked in urine, drinking semen, entering a city or the hell, drinking of blood, water of the ocean or the nectar, one gets good news besides enormous riches.

By witnessing in a dream an elephant, gold, bull, cow, lamp, cereal, fruit, flower, girl, umbrella, the glory is increase besides getting immense riches. One achieves immense riches by witnessing in a dream a pitcher full of water, a Brahmana^ flower, fire, betel, temple, white paddy and actor and a whore. By witnessing in the dream a cow, milk and ghee, one achieves merit besides riches. In case one witnesses in the dream rice with milk on the leaf of the lotus flowers, the curd, milk, ghee, honey, Svastika- sweet he surely becomes a king in the near The one who consumes the meat of the birds and the human flesh in a dream he earns enough of riches, good news and his desire is fulfilled. If one who gets a chatra or a sandal, he achieves enough of cereals and by getting a spotless and sharp sword, he gets the appropriate reward.

The one who swims over the water play-fully, such a person becomes a minister, If one witnesses a tree laiden with fruits, the person surely gets enough of riches; he who is bitten by snakes, earns enough of fortune. The one who witnesses in a dream, the sun or the moon he is relieved of all the ailments.

The one who witnesses a mare, a hen and a female crane bird, he obtains a beautiful wife.

The one who is bound in fetters in a dream he achieves enough of glory and a son. If anyone consumes rice with milk on a lotus leaf seated on the bank of a river, he surely becomes a king.

g fwi 3f%T gr 1? 11 By witnessing a leech, a scorpion and a snake one achieves enough of riches, son, victory and glory. If one witnesses animals with long horns and big teeth or tusks like those of pigs and getting troubled by monkeys, one becomes a king and achieves enormous riches.

The one who witnesses fish, meat, ornaments with Jewels, samkha, sandal-paste and diamond, one achieves enough of riches. If one witnesses wine, blood and gold, one gets food and treasures. By looking at the image of a god or goddess or Sivalihga, one achieves enough of rT SR gfis I? ^ I If one witnesses a creeper laden with flowers and fruits beside the mangoes and burning fire, one achieves enough of riches, intelligence, wealth. By witnessing the myrobalan fruit, mango fruits and lotus, one achieves enough of profits. If one witnesses god, a Brahmana, ancestors and a BrahmacSrl, whatever is seen in the dream becomes true. Clad in white garment, plastered with white sandal-paste, holding a white rosary if a damsel embraces a person, he enjoys the pleasures which always surround hipi.

If a damsel clad in yellow garments, holding a yellow rosary and sandal-paste embraces a person, he meets with much welfare.

Except ashes, bones and cotton if anything else which is white is seen in a dream it is considered to be quite fortunate. Similarly except the cow, the elephant, the horse, a Brahmana and the god, all the black things witnessed in the dream are denounced; the one who meets a divine woman, wearing a smile on her face adorned with all the gem-studded ornament, belonging to the Brahmana caste or arrives in the house of anyone, he surely achieves great profits.

A Brahmana, a god, a Brahman!, the daughter of the god or a Brahmana couple when seen in a happy mood as in dream they bestow the reward on anyone who surely gets a son. O Nanda, the one who is bestowed with the blessing of a Brahmana in the dream and whatever he speaks, it comes out to be true and his riches and horses go on increasing.

In case a Brahmana getting immensely pleased visits the house of a person in a dream, in such a house Narayana, Siva and Brahma enter, as a result of which there is an increase in his fortune, glory and lustre.

In a dream if someone suddenly gets a cow then he gets land and a chaste wife. The one who is lifted up by an elephant with his trunk over its head, he surely becomes a king. This has been ordained in the Vedas.

O lord of Vraja, in a dream if a Brahmana embraces a person, he surely achieves riches beside having a bath in the holy place. In case a Brahmana in a dream offers some flowers to an auspicious person, be becomes victorious besides achieving enough of riches, animals and I rlll'ifd II By visiting the sacred places besides palaces, the gems and the house, in a dream, one gets enough of riches. The one who takes a bath in the holy places in a dream or if someone presents him with a pitcher filled with water, such a person surely obtains a son and enough of riches.

In case a person arrives in the house of a person carrying wine, he surely achieves enormous riches. In case a divine woman arrives in the house of someone and drops refuse, he surely achieves riches and his poverty In case, in a dream, a Brahmana couple arrives in the house of someone in that case Siva and Parvatl or Laksmm^ayana arrive in that house.

In case a Brahmana couple offers some paddy or a bunch of flowers, he achieves all-round riches.

O lord of Vraja, in case a Brahmana offers a garland of gems to a person besides a garland of flowers or sandal-paste, he meets with all-round glory. By receiving gorocanUy a flag, turmeric, sugar-cane and food, in the dream one receives success all round.

In case a Brahmana couple places a chatra or some white paddy on the head of someone, he surely becomes a king. The one who wears a white garland of flowers in the dream and the body is plastered with sandal-paste and is then seated on the chariot or when he consumes curd or rice with milk, he surely becomes a king.

In a dream, when a Brahmana or a BrahmanI placing nectar or curd in a vase, offers to a person, such a person surely becomes a king.

The maid of eight years adorned with all the ornaments when appears in the dream before someone, she becomes a poet or an intellectual.

In case in the dream she offers a book to someone, he becomes a world renowned poet and the best of intellectuals. In case in the dream.

Sarasvatl teaches a son like the mother, be becomes the son of Sarasvatl and no one can compete with him in wisdom In case a Brahmana teaches someone in the dream with much effort or offer him a book lovingly, he also is turned as a great intellectual.

In the dream, if someone meets with a book while walking on the way, he also becomes a great writer well known in the universe.

In case a Brahmana bestows a Mahdmantra to a Brahmana, such a person achieves great wisdom, wealth, qualities and becomes an intellectual. In case a Brahmana presents another Brahmana with an image or of a mantra, he achieves success in the mantra In case someone in the dream goes before a Brahmana or a group of Brahmanas and receives their blessings, such a person surely becomes a great king or a great poet. Getting immensely pleased in a dream, if a Brahmana gives away land to someone, he surely becomes a lord on In case a Brahmana getting someone mounted on the chariot, shows round various heavens, he becomes immensely rich and enjoys a long life.

In case, in a dream, a BrShmana gives away his daughter to another BrShmana, such a person becomes immensely rich and a king.

In the dream, if one witnesses a pool and a ocean, a river, rivulet, a white snake and a white mountain, he surely achieves wealth. The one who witnesses a dead body, gains long life, he feels painful while coming across a sick person and feels delighted when he comes across a arrt'Tl TlPiui gtgf gfia-i w i g#rajr TillraiT tTTTivsmi cowherdess, surely stands for Radhika my beloved and the cowherds are the form of the cowherds of Goloka. This has been ordained by those well-versed in the dreams. O Nanda, I have thus narrated to you everything about dreams; what else do you want to listen to from me?

What more should I speak.

In case, in the dream, if a divine damsel comes and speaks to a person, "You are my lord". And he wakes up at the same time then he surely becomes a king. In the dream in case, the goddess Kalika" appears and offers a rosary of crystal beads or the vajra of Indra or the bow, such a person surely achieves great glory. In case a Brahmana tells somebody, "You are my slave," he becomes devoted to lord Hari and achieving my slavehood he is called a Vaisnava. In the dream a Brahmana is represented in the form of Visnu and Siva. The BrahmanI represents Laks ml and Parvati, the white complexioned woman represents the mother of the gods, Gahga or Sarasvati, the one who takes to the form of the

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122407 (2017-09-17T14:15:36Z); Shanti Lal Nagar English scan pages n1390–n1396: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1390/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.