Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 76

Chapter 76

Unit 219 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 76Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 761 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 76

Source

अथ षट्सप्ततितमोऽध्यायः नन्द उवाच येषां च दर्शने पुण्यं पापं यस्य च दर्शने । तत्सर्व वद सर्वेश श्रोतुं कौतूहरं मम ।। १ ।। श्रीभगवानुवाच सुब्राह्मणानां तीर्थानां वैष्णवानां च दर्शने । देवताप्रतिमादर्शी तीर्थस्नायी भवेन्नरः ।। २ ।। सूर्यस्य दर्शने भक्त्या मतीनां दर्शने तथाः । संन्यासिनां यतीनां च तथैव ब्रह्मचारिणाम् ।। ३ ।। भक्त्या गवां च वह्नीनां गुरूणां च विशेषतः । गजेन्द्राणां च सिंहानां श्वेताश्वानां तथैव च ।। ४ ।। शुकानां च पिकानां च खञ्जनानां तथैव च । हंसानां च मयूराणां चाषाणां शङ्खपक्षिणाम् ।। ५ ।। वत्सप्रयुक्तधेनूनासश्वत्थानां तथैव च । पतिपुत्रवतीनां च नराणां तीन्थयायिनाम् ।। ६ ।। प्रदीपानां सुवर्णानां मणीनां च विशेषतः । णुक्तानां हीरकाणां च माणिक्यानां महाशय ।। ७ ।। तुलसीशुक्लपुष्पाणां दर्शनं पापनाशम् । फलानि शुक्लधान्यानि घृतं दधि मधूनि च ।। ८ ।। पूर्णकुम्भं च लाजांश्च राजेन्द्रं दर्पणं जलम् । मालां च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः ।। ९ ।। गोरोचनं च कर्पूरं रजतं च सरोवरम् । पुष्पोद्यानं पुष्पितां च दृष्ट्वा पुण्यं लभेन्नरः ।। १० ।। शुक्लपक्षस्य चन्द्रं च पीयूषं चन्दनं तथा । कस्तूरीं कुङ्कुमं दृष्ट्वा नन्द पुण्यं ।। ११ ।। पताकामक्षयवटं तरुं देवोत्थितं शुभम् । देवालयं देवखातं दृष्ट्वा पुण्यं लभेन्नरः ।। १२ ।। देवाक्षितां देवद्यटं सुगन्धिपवनं तथा । शङ्खं च दुंदुभिं दृष्ट्वा सद्यः पुण्यं लभेन्नरः ।। १३ ।। शुकिंत प्रवालं रजतं स्फटिकं कुशमूलकम् । गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यं लभेन्नरः ।। १४ ।। पुराणपुस्तकं शुद्धं सबीजं विष्णुयन्त्रकम् । स्निग्धदूर्वाक्षते रत्नं दृष्ट्वा पुण्यं लभेन्नरः।। १५ ।। तपस्विनां सिद्धमन्त्रं मसुद्रं कृष्णसारकम् । यज्ञं महोत्सवं दृष्ट्वा स पुण्यं लभते नरः ।। १६ ।। गोमूत्रं गोमयं दुग्धं गोधूलिं गोष्ठगोष्पदम् । पक्वसस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेद्ध्रुवम् ।। १७ ।। रुचिरां पद्मिनीं श्यामां न्यग्रोधपरिमण्डलाम् । सुवेषकां सुवसनां दिव्यभूषणभूषिताम् ।। १८ ।। वेश्यां क्षेमकरीं गन्धं सुदूर्वाक्षततण्डुलम् । सिद्धान्नं परमान्नं च दृष्ट्वा पुण्यं लभेन्नरः ।। १९ ।। कान्तिक्यां पूर्णिमायां च राधिकाप्रतिमां शुभाम् । संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम् ।। २० ।। हिङ्गुलायां तथाऽष्टम्यामिषे मासि सिते शुभे । श्रीदुर्गाप्रतिमां दृष्ट्वा करोति जन्मखण्डनम् ।। २१ ।। शिवरात्रौ च काश्यां च विश्वनाथस्य दर्शनम् । कृत्वोपवासं पूजां च करोति जन्मखण्डनम्।। २२ ।। जन्माष्टमीदिने भक्तो दृष्ट्वा मां बिन्दुमाधवम् । प्रणम्य पूजां कृत्वा च करोति जन्मखण्डनम् ।। २३ ।। पौषे मासि शुक्लरात्रौ यत्र यत्र स्थले नरः । पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम् ।। २४ ।। सप्तजन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः । उपोष्यैकादशीं स्नात्वा प्रभाते द्वादशीदिने ।। २५ ।। दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् । चैत्रै मासि चतुर्दश्यां कामरूपेषु पुण्यदे ।। २६ ।। दृष्ट्वा नत्वा भद्रकालीं करोति जन्मखण्डनम् । अयोध्यायां च रामं च श्रीरामनवमीदिने ।। २७ ।। संपूज्य नत्वा दृष्ट्वा च करोति जन्मखण्डनम् । उपोष्य पुष्करे स्नात्वा किंवा बदरिकाश्रमे ।। २८ ।। मंपूज्य दृष्ट्वा मामेकं करोति जन्मखण्डनम् । दत्तवा तिष्णुपदे पिण्डं विष्णुं यश्च प्रपूज्येत् ।। २९ ।। पितणां स्वात्मनश्चैव करोति जन्मखण्डनम् । प्रयागे मुण्डनं कृत्वा दानं च कुरुते यदि ।। ३० ।। उपोष्य नैमिषारण्ये करोति जन्मखण्डनम् । सिद्धिं कृत्वा च वदरींभुङ्क्ते बदरिकाश्रमे ।। ३१ ।। दृष्टवा मत्प्रतिमां नन्द करोति जन्मखण्डनम् । देलायमानं गोविन्दं पुण्ये वृन्दावने च माम् ।। ३२ ।। दृष्टवा संपूज्य नत्वा च करोति जन्मखण्डनम् । भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम् ।। ३३ ।। संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम् । रथस्थं च जगन्नाथं यो द्रक्ष्यति कलौ नरः ।। संपूज्य नत्वा भक्त्या च करोति जन्मखण्डनम् ।। ३४ ।। उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् । संपूज्य नत्वा मामेव करोति जन्मखण्डनम् ।। ३५ ।। कार्तिक्यां पूर्णिमायां च दृष्ट्वा मत्प्रतिमां शुभाम् । उपोष्य पूजरं कृत्वा करोति जन्मखण्डनम् ।। ३६ ।। चन्द्रभागासमीपे च माध्यां च मां नमेत्सुधीः । राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम् ।। ३७ ।। रामेश्वरं सेतुबन्ध अषाणीपूर्णिमादिने । उपेष्य दृष्ट्वा संपूज्य करोति जन्मखण्डनम् ।। ३८ ।। स्वर्गे विद्याधरा रात्रौ नृत्यन्ति च सुहुर्मुहुः। प्रणामं कर्तुमीशं तं समायाति विभीषणः ।। ३९ ।। गायन्ति किंनरा रात्रौ गन्धर्वाश्च मनोहरम् । प्रणामं कर्तुमीशं त समायाति य माधवः ।। ४० ।। दृष्ट्वा साक्षाद्वसन्तं च सर्वेशं चन्द्रशेखरम् । जीवन्मुक्तो भवेदन्ते प्रयाति हरिमन्दिरम् ।। ४१ ।। दीननाथं दिनकरं कोणार्के चोत्तरायणे । उपोष्य दृष्ट्वा संपूज्य करोति जन्मखण्डनम् ।। ४२ ।। कृषिकोष्ठे सुवसने कलर्विके वसुंधरे । विस्पन्दके राजकोष्ठे नन्दके पुष्पभद्रके ।। ४३ ।। पार्वतीप्रतिमां दृष्ट्वा कार्तिकेयं गणेश्वरम् । नन्दिनं शंकरं दृष्ट्वा करोति जन्मनः क्षयम् ।। ४४ ।। उपोष्य प्रातः संपूज्य दृष्ट्वा स्तुत्वा स्तुतौ नतः । पारणं च दधि प्राश्य करोति जन्मखण्डनम् ।। ४५ ।। त्रिकूटे मणिभद्रे च पश्चिमोदधिसंनिधौ । समुपोष्य दधि प्रश्य मां दृष्ट्वा मुक्तिमाप्नुयात् ।। ४६ ।। प्रतिमासु मदीयासु पार्वतीप्रतिमासु च । जीवं संन्यस्य संपूज्य करोति जन्मखण्डनम् ।। ४७ ।। शिवदुर्गालयं कृत्वा मदीयं च विशेषतः । शिवसंस्थापनं कृत्वा करोति जन्मखण्डनम् ।। ४८ ।। पुष्पोद्यानं च शंकुं च सेतुं खातं सरोवरम् । विप्रसंस्थापनं कृत्वा करोति जन्मखण्डनम् ।। ४९ ।। न च वेदाः पुराणानि ब्रह्मसंस्थापनं फलम् । जानन्ति सन्तो मुनयः सुरा विप्रादयः पितः ।। ५० ।। गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः । न गण्यते विधात्राऽपि विप्रसंस्थापने फलम् ।। ५१ ।। कृत्वोपजींयं विप्रस्य जीवन्मुक्तो भवेन्नरः । अचलां श्रीयमाप्नोति परे सुक्तिचतुष्टयम् ।। ५२ ।। मद्दास्यभक्तिं स लभेद्वैकुण्ठे मोदके चिरम् । न हि पातो भवेत्तस्य यथा मे परमात्मनः ।। ५३ ।। कुमारीमष्टवर्षोयां सुविप्रय ददाति यः । संपूज्य सर्वाभरणां दुर्गादानफलं लभेत् ।। ५४ ।। सर्व स्वर्ग्य समालोक्य ब्रह्मलोकेषु पूजितः । लभते मम दास्यं च वैसुण्ठे मोदते चिरम् ।। ५५ ।। विवाहदर्शने कोटिस्वर्णदानफलं लभेत् । अन्ते स्वर्गे प्रयात्येवमिहैव निश्चलां श्रियम् ।। ५६ ।। यः सुविप्रमनाथं च दरिद्रं च सुपण़्डितम् । दृष्ट्वा कुर्यात्तद्विवाहं स मोक्षं लभते ध्रुवम् ।। ५७ ।। यच्छत्रपादुकादानं शालग्रामस्य योषितः । करोति भक्त्या पुण्याहे पृथ्वीदानफलं लभेत् ।। ५८ ।। गजचदाने च तल्लोममानवर्ष श्रुतौ श्रुतम् । चतुर्गुणं गजेन्द्रं च मोदते मम मन्दिरे ।। ५९ ।। गजर्ध श्वेततुरगे तदर्ध चेतने पितः । गजतुल्यं कृष्णगवां दाने च तत्फलं लभेत् ।। ६० ।। तत्तुल्यं धेनुदाने च ह्यर्धं सामान्यगोस्तथा । लभेद्वत्सप्रसूतानां दाने दाने फलं भुवः ।। ६१ ।। भूमिदाने रेणुमानवर्ष स्थानं च मत्पदे । ज्ञानदाने महत्पुण्यं वैकुण्ठे मोदते चिरम् ।। ६२ ।। श्रियं लभेत्स्वर्णदाने राजत्वं रजतेन च । अन्नदाने फलं गहं कथं जानामि पै शुतम् ।। ६३ ।। लभते सर्वदानस्य फलं ब्रह्मणभोजने । अन्नदानात्परं दानं न भूतं न भविष्यति ।। ६४ ।। नात्र पात्रपरीक्षाऽस्ति न कालनियमः क्वचित् । अन्नदाने शुभं पुण्यं दातुः पात्रं त्वपातकी ।। ६५ ।। अन्नदानं च धन्यं स्याद्भूमौ वैकुण्ठहेतुकम् । वस्त्रं ददाति विप्रय दरिद्राय कुटुम्बिने ।। ६६ ।। वस्त्रंसूत्रमानवर्ष वैकुण्ठे मोदते चिरम् । सुरम्ये चन्द्रलोके च वारुणे च तथैव च ।। ६७ ।। कृत्वा लोहप्रदीपं च स्वर्णवर्तिसमन्वितम् । दत्तवा घृतप्रदीपं च हरये परमात्मने ।। ६८ ।। अन्धकारं च न गृहं यमदूतं यमं तथा । न हि पश्यति दाता च प्रयाति मम मन्दिरम् ।। ६९ ।। ब्रह्मणाय च दत्तवैव न याति यमयातनाम् । दिव्यवर्षसहश्रं च मोदते शक्रमन्दिरे ।। ७० ।। आसनं लभते स्वर्गे वस्तुमात्रानुरूपतः । उत्तमे लक्षवर्षे च तदर्ध चेतरे व्रजेत् ।। ७१ ।। ताम्पूलेन लभेद्भोगं स्वर्गे वर्षशतं व्रजेत् । माल्यदाने प्रियं स्वर्ग वस्तुमात्रानुरूपतः ।। ७२ ।। फलदानफलं स्वर्ग लभते नात्र संशयः । सामान्यशय्यादानेन स्वर्ग वर्षशतं व्रजेत् ।। ७३ ।। चतुर्गुणं प्रकृष्टायां गुणलक्षं दिलक्षणे । अनाथाय सुविप्राय यदि गेहं प्रदीयते ।। ७४ ।। अत्रैव मानवर्ष च शक्रलोके महीयते । दृष्ट्वा बुभुक्षितं विप्रमन्नं तस्मै प्रदीयते ।। ७५ ।। अयलां श्रियमाप्नोति पुत्रपौत्रविवर्धिनीम् । व्रजनाथ व्रजं गत्वा व्रजभूमौ व्रजाधुना ।। ७६ ।। व्रज भोजय विपांश्च व्रज सर्व व्रजे व्रजे । गोकुले गोकुले वत्स वत्स वत्स निराकुले ।। ७७ ।। व्याकुलानां गोकुलानां संकुले च व्रजे व्रजे । एतत्ते कथितं नन्द सानन्दं पुण्यवर्धनम् ।। सुस्वप्नदर्शनं पुण्यं यदि नीचं न वक्ति च ।। ७८ ।। काश्यपं दुर्भगं नीचं शत्रुमज्ञानिनं स्त्रेयम् । त्यक्त्वा रात्रिं च दिवसे वक्ति विप्रं मुपण्डितम् ।। ७९ ।। देवालये च देवं वाऽप्यश्वत्थतुलशीवटम् । उक्त्वा तद्द्विगुणं पुण्यमप्रकाश्य चतुर्गुणम् ।। ८० ।। सुस्वप्नदर्शने प्राज्ञो गंगास्नानफलं लभेत् । अर्थं वित्तं च भार्या च भूमिं पुत्रं लभेत्प्रजाम् ।। ८१ ।। मोक्षं च परमैश्वर्यं लभते सर्ववाञ्छितम् । इत्येवं कथितं तात किं भूयः श्रोतुमिच्छसि ।। ८२ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo षट्सप्ततितमोऽध्यायः ।। ७६ ।।

atha ṣaṭsaptatitamo'dhyāyaḥ nanda uvāca yeṣāṃ ca darśane puṇyaṃ pāpaṃ yasya ca darśane | tatsarva vada sarveśa śrotuṃ kautūharaṃ mama || 1 || śrībhagavānuvāca subrāhmaṇānāṃ tīrthānāṃ vaiṣṇavānāṃ ca darśane | devatāpratimādarśī tīrthasnāyī bhavennaraḥ || 2 || sūryasya darśane bhaktyā matīnāṃ darśane tathāḥ | saṃnyāsināṃ yatīnāṃ ca tathaiva brahmacāriṇām || 3 || bhaktyā gavāṃ ca vahnīnāṃ gurūṇāṃ ca viśeṣataḥ | gajendrāṇāṃ ca siṃhānāṃ śvetāśvānāṃ tathaiva ca || 4 || śukānāṃ ca pikānāṃ ca khañjanānāṃ tathaiva ca | haṃsānāṃ ca mayūrāṇāṃ cāṣāṇāṃ śaṅkhapakṣiṇām || 5 || vatsaprayuktadhenūnāsaśvatthānāṃ tathaiva ca | patiputravatīnāṃ ca narāṇāṃ tīnthayāyinām || 6 || pradīpānāṃ suvarṇānāṃ maṇīnāṃ ca viśeṣataḥ | ṇuktānāṃ hīrakāṇāṃ ca māṇikyānāṃ mahāśaya || 7 || tulasīśuklapuṣpāṇāṃ darśanaṃ pāpanāśam | phalāni śukladhānyāni ghṛtaṃ dadhi madhūni ca || 8 || pūrṇakumbhaṃ ca lājāṃśca rājendraṃ darpaṇaṃ jalam | mālāṃ ca śuklapuṣpāṇāṃ dṛṣṭvā puṇyaṃ labhennaraḥ || 9 || gorocanaṃ ca karpūraṃ rajataṃ ca sarovaram | puṣpodyānaṃ puṣpitāṃ ca dṛṣṭvā puṇyaṃ labhennaraḥ || 10 || śuklapakṣasya candraṃ ca pīyūṣaṃ candanaṃ tathā | kastūrīṃ kuṅkumaṃ dṛṣṭvā nanda puṇyaṃ || 11 || patākāmakṣayavaṭaṃ taruṃ devotthitaṃ śubham | devālayaṃ devakhātaṃ dṛṣṭvā puṇyaṃ labhennaraḥ || 12 || devākṣitāṃ devadyaṭaṃ sugandhipavanaṃ tathā | śaṅkhaṃ ca duṃdubhiṃ dṛṣṭvā sadyaḥ puṇyaṃ labhennaraḥ || 13 || śukiṃta pravālaṃ rajataṃ sphaṭikaṃ kuśamūlakam | gaṅgāmṛdaṃ kuśaṃ tāmraṃ dṛṣṭvā puṇyaṃ labhennaraḥ || 14 || purāṇapustakaṃ śuddhaṃ sabījaṃ viṣṇuyantrakam | snigdhadūrvākṣate ratnaṃ dṛṣṭvā puṇyaṃ labhennaraḥ|| 15 || tapasvināṃ siddhamantraṃ masudraṃ kṛṣṇasārakam | yajñaṃ mahotsavaṃ dṛṣṭvā sa puṇyaṃ labhate naraḥ || 16 || gomūtraṃ gomayaṃ dugdhaṃ godhūliṃ goṣṭhagoṣpadam | pakvasasyānvitaṃ kṣetraṃ dṛṣṭvā puṇyaṃ labheddhruvam || 17 || rucirāṃ padminīṃ śyāmāṃ nyagrodhaparimaṇḍalām | suveṣakāṃ suvasanāṃ divyabhūṣaṇabhūṣitām || 18 || veśyāṃ kṣemakarīṃ gandhaṃ sudūrvākṣatataṇḍulam | siddhānnaṃ paramānnaṃ ca dṛṣṭvā puṇyaṃ labhennaraḥ || 19 || kāntikyāṃ pūrṇimāyāṃ ca rādhikāpratimāṃ śubhām | saṃpūjya dṛṣṭvā natvā ca karoti janmakhaṇḍanam || 20 || hiṅgulāyāṃ tathā'ṣṭamyāmiṣe māsi site śubhe | śrīdurgāpratimāṃ dṛṣṭvā karoti janmakhaṇḍanam || 21 || śivarātrau ca kāśyāṃ ca viśvanāthasya darśanam | kṛtvopavāsaṃ pūjāṃ ca karoti janmakhaṇḍanam|| 22 || janmāṣṭamīdine bhakto dṛṣṭvā māṃ bindumādhavam | praṇamya pūjāṃ kṛtvā ca karoti janmakhaṇḍanam || 23 || pauṣe māsi śuklarātrau yatra yatra sthale naraḥ | padmāyāḥ pratimāṃ dṛṣṭvā karoti janmakhaṇḍanam || 24 || saptajanma bhavettasya putraḥ pautro dhaneśvaraḥ | upoṣyaikādaśīṃ snātvā prabhāte dvādaśīdine || 25 || dṛṣṭvā kāśyāmannapūrṇāṃ karoti janmakhaṇḍanam | caitrai māsi caturdaśyāṃ kāmarūpeṣu puṇyade || 26 || dṛṣṭvā natvā bhadrakālīṃ karoti janmakhaṇḍanam | ayodhyāyāṃ ca rāmaṃ ca śrīrāmanavamīdine || 27 || saṃpūjya natvā dṛṣṭvā ca karoti janmakhaṇḍanam | upoṣya puṣkare snātvā kiṃvā badarikāśrame || 28 || maṃpūjya dṛṣṭvā māmekaṃ karoti janmakhaṇḍanam | dattavā tiṣṇupade piṇḍaṃ viṣṇuṃ yaśca prapūjyet || 29 || pitaṇāṃ svātmanaścaiva karoti janmakhaṇḍanam | prayāge muṇḍanaṃ kṛtvā dānaṃ ca kurute yadi || 30 || upoṣya naimiṣāraṇye karoti janmakhaṇḍanam | siddhiṃ kṛtvā ca vadarīṃbhuṅkte badarikāśrame || 31 || dṛṣṭavā matpratimāṃ nanda karoti janmakhaṇḍanam | delāyamānaṃ govindaṃ puṇye vṛndāvane ca mām || 32 || dṛṣṭavā saṃpūjya natvā ca karoti janmakhaṇḍanam | bhādre dṛṣṭvā ca mañcasthaṃ māmeva madhusūdanam || 33 || saṃpūjya natvā bhaktaśca karoti janmakhaṇḍanam | rathasthaṃ ca jagannāthaṃ yo drakṣyati kalau naraḥ || saṃpūjya natvā bhaktyā ca karoti janmakhaṇḍanam || 34 || uttarāyaṇasaṃkrāntyāṃ prayāge snānamācaret | saṃpūjya natvā māmeva karoti janmakhaṇḍanam || 35 || kārtikyāṃ pūrṇimāyāṃ ca dṛṣṭvā matpratimāṃ śubhām | upoṣya pūjaraṃ kṛtvā karoti janmakhaṇḍanam || 36 || candrabhāgāsamīpe ca mādhyāṃ ca māṃ nametsudhīḥ | rādhayā saha māṃ dṛṣṭvā karoti janmanaḥ kṣayam || 37 || rāmeśvaraṃ setubandha aṣāṇīpūrṇimādine | upeṣya dṛṣṭvā saṃpūjya karoti janmakhaṇḍanam || 38 || svarge vidyādharā rātrau nṛtyanti ca suhurmuhuḥ| praṇāmaṃ kartumīśaṃ taṃ samāyāti vibhīṣaṇaḥ || 39 || gāyanti kiṃnarā rātrau gandharvāśca manoharam | praṇāmaṃ kartumīśaṃ ta samāyāti ya mādhavaḥ || 40 || dṛṣṭvā sākṣādvasantaṃ ca sarveśaṃ candraśekharam | jīvanmukto bhavedante prayāti harimandiram || 41 || dīnanāthaṃ dinakaraṃ koṇārke cottarāyaṇe | upoṣya dṛṣṭvā saṃpūjya karoti janmakhaṇḍanam || 42 || kṛṣikoṣṭhe suvasane kalarvike vasuṃdhare | vispandake rājakoṣṭhe nandake puṣpabhadrake || 43 || pārvatīpratimāṃ dṛṣṭvā kārtikeyaṃ gaṇeśvaram | nandinaṃ śaṃkaraṃ dṛṣṭvā karoti janmanaḥ kṣayam || 44 || upoṣya prātaḥ saṃpūjya dṛṣṭvā stutvā stutau nataḥ | pāraṇaṃ ca dadhi prāśya karoti janmakhaṇḍanam || 45 || trikūṭe maṇibhadre ca paścimodadhisaṃnidhau | samupoṣya dadhi praśya māṃ dṛṣṭvā muktimāpnuyāt || 46 || pratimāsu madīyāsu pārvatīpratimāsu ca | jīvaṃ saṃnyasya saṃpūjya karoti janmakhaṇḍanam || 47 || śivadurgālayaṃ kṛtvā madīyaṃ ca viśeṣataḥ | śivasaṃsthāpanaṃ kṛtvā karoti janmakhaṇḍanam || 48 || puṣpodyānaṃ ca śaṃkuṃ ca setuṃ khātaṃ sarovaram | viprasaṃsthāpanaṃ kṛtvā karoti janmakhaṇḍanam || 49 || na ca vedāḥ purāṇāni brahmasaṃsthāpanaṃ phalam | jānanti santo munayaḥ surā viprādayaḥ pitaḥ || 50 || gaṇyante pāṃsavo bhūmergaṇyante vṛṣṭibindavaḥ | na gaṇyate vidhātrā'pi viprasaṃsthāpane phalam || 51 || kṛtvopajīṃyaṃ viprasya jīvanmukto bhavennaraḥ | acalāṃ śrīyamāpnoti pare sukticatuṣṭayam || 52 || maddāsyabhaktiṃ sa labhedvaikuṇṭhe modake ciram | na hi pāto bhavettasya yathā me paramātmanaḥ || 53 || kumārīmaṣṭavarṣoyāṃ suvipraya dadāti yaḥ | saṃpūjya sarvābharaṇāṃ durgādānaphalaṃ labhet || 54 || sarva svargya samālokya brahmalokeṣu pūjitaḥ | labhate mama dāsyaṃ ca vaisuṇṭhe modate ciram || 55 || vivāhadarśane koṭisvarṇadānaphalaṃ labhet | ante svarge prayātyevamihaiva niścalāṃ śriyam || 56 || yaḥ suvipramanāthaṃ ca daridraṃ ca supaṇa़ḍitam | dṛṣṭvā kuryāttadvivāhaṃ sa mokṣaṃ labhate dhruvam || 57 || yacchatrapādukādānaṃ śālagrāmasya yoṣitaḥ | karoti bhaktyā puṇyāhe pṛthvīdānaphalaṃ labhet || 58 || gajacadāne ca tallomamānavarṣa śrutau śrutam | caturguṇaṃ gajendraṃ ca modate mama mandire || 59 || gajardha śvetaturage tadardha cetane pitaḥ | gajatulyaṃ kṛṣṇagavāṃ dāne ca tatphalaṃ labhet || 60 || tattulyaṃ dhenudāne ca hyardhaṃ sāmānyagostathā | labhedvatsaprasūtānāṃ dāne dāne phalaṃ bhuvaḥ || 61 || bhūmidāne reṇumānavarṣa sthānaṃ ca matpade | jñānadāne mahatpuṇyaṃ vaikuṇṭhe modate ciram || 62 || śriyaṃ labhetsvarṇadāne rājatvaṃ rajatena ca | annadāne phalaṃ gahaṃ kathaṃ jānāmi pai śutam || 63 || labhate sarvadānasya phalaṃ brahmaṇabhojane | annadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 64 || nātra pātraparīkṣā'sti na kālaniyamaḥ kvacit | annadāne śubhaṃ puṇyaṃ dātuḥ pātraṃ tvapātakī || 65 || annadānaṃ ca dhanyaṃ syādbhūmau vaikuṇṭhahetukam | vastraṃ dadāti vipraya daridrāya kuṭumbine || 66 || vastraṃsūtramānavarṣa vaikuṇṭhe modate ciram | suramye candraloke ca vāruṇe ca tathaiva ca || 67 || kṛtvā lohapradīpaṃ ca svarṇavartisamanvitam | dattavā ghṛtapradīpaṃ ca haraye paramātmane || 68 || andhakāraṃ ca na gṛhaṃ yamadūtaṃ yamaṃ tathā | na hi paśyati dātā ca prayāti mama mandiram || 69 || brahmaṇāya ca dattavaiva na yāti yamayātanām | divyavarṣasahaśraṃ ca modate śakramandire || 70 || āsanaṃ labhate svarge vastumātrānurūpataḥ | uttame lakṣavarṣe ca tadardha cetare vrajet || 71 || tāmpūlena labhedbhogaṃ svarge varṣaśataṃ vrajet | mālyadāne priyaṃ svarga vastumātrānurūpataḥ || 72 || phaladānaphalaṃ svarga labhate nātra saṃśayaḥ | sāmānyaśayyādānena svarga varṣaśataṃ vrajet || 73 || caturguṇaṃ prakṛṣṭāyāṃ guṇalakṣaṃ dilakṣaṇe | anāthāya suviprāya yadi gehaṃ pradīyate || 74 || atraiva mānavarṣa ca śakraloke mahīyate | dṛṣṭvā bubhukṣitaṃ vipramannaṃ tasmai pradīyate || 75 || ayalāṃ śriyamāpnoti putrapautravivardhinīm | vrajanātha vrajaṃ gatvā vrajabhūmau vrajādhunā || 76 || vraja bhojaya vipāṃśca vraja sarva vraje vraje | gokule gokule vatsa vatsa vatsa nirākule || 77 || vyākulānāṃ gokulānāṃ saṃkule ca vraje vraje | etatte kathitaṃ nanda sānandaṃ puṇyavardhanam || susvapnadarśanaṃ puṇyaṃ yadi nīcaṃ na vakti ca || 78 || kāśyapaṃ durbhagaṃ nīcaṃ śatrumajñāninaṃ streyam | tyaktvā rātriṃ ca divase vakti vipraṃ mupaṇḍitam || 79 || devālaye ca devaṃ vā'pyaśvatthatulaśīvaṭam | uktvā taddviguṇaṃ puṇyamaprakāśya caturguṇam || 80 || susvapnadarśane prājño gaṃgāsnānaphalaṃ labhet | arthaṃ vittaṃ ca bhāryā ca bhūmiṃ putraṃ labhetprajām || 81 || mokṣaṃ ca paramaiśvaryaṃ labhate sarvavāñchitam | ityevaṃ kathitaṃ tāta kiṃ bhūyaḥ śrotumicchasi || 82 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo bhagavannandasaṃo ṣaṭsaptatitamo'dhyāyaḥ || 76 ||

English translation

The Description of Visible Things Nanda said- O supreme lord you tell me the things by looking at which one earns merits and those by looking at which one earns sins. I am quite anxious to know about them.

Kxsna said- The best of Brahmanas, the holy places, the images of Visnu and other gods are quite appropriate for looking at and by doing so one earns the merit of taking a bath at a holy Similarly, the sight of Surya with devotion, chaste woman, a mendicant, a yogi, a Brahmacdrl, a cow, a fire, a teacher, an elephant, a lion, a white horse, a parrot, a cuckoo, a wagtail bird, a goose, a peacock, a Nllkantha, a Sahkha bird, a cow with a calf, a pipala tree, a woman whose son and husband are alive, a traveller going to the holy places, a lamp, a gold, a gem, a jewel, a diamond, a ruby, a Tulasl and a white flower remove the sins. O great king, one earns merit by looking at a flute, white paddy, ghee, curd, honey, a pitcher filled with water, paddy, a mirror, water, a garland and white flowers. A person also earns merit by looking at gorocana, camphor, silver, pools and an orchard with blossoming flowers.

O Nanda, a person also attains merit by looking at the moon of the bright fortnight, nectar sandal-paste, kastiin and saffron beside the banner, the banyan tree, auspicious abode of the gods, temple of the gods and the caves.

And the sight of the divine kalasa in a temple, inhaling fragrant breeze, blowing of the samkha and the beating of drums also bestow merit on the people. In case one looks at sakti, gem, silver, crystal, kusamula, earth of Gahga, kusa grass and copper, he surely achieves merit.

One earns great merit by looking at the spotless book of the Ptiranas, Visnu-mantra with seed, i/nrva-grass and an unbroken gem. One earns merit also with the reciting of siddha- mantra of the tapasvis, the buck and the xT qrqgTi3qq;i I? o 11 In case one looks at the urine of a cow, the cowdung, the milk, cowdust, the abode of a cow, a place having the foot prints of a cow and ripe crop, he surely achieves merit. Looking at a beautiful damsel, a girl of sixteen years clad in beautiful costumes and adorned with divine ornaments, chaste woman, the best of durva- grass, unbroken rice and the best of food also provides one the merits. The one who performs the adoration of the image of Radha on the full moon day in the Kartika month and offers her his adoration, he is relieved of the bondages of birth and death.

A person is relieved of the bondages of birth and death if one looks at the image of Durga on the eight day of the bright fortnight in the month of Asvin. The one who looks at Kasivisvanatha on the day of Sivaratri observing the fast is also relieved of the bondage of birth and death.

qrfq m gg qT:i Looking at Bindumadhava on the Janmastami day the one who performs piijd with devotion, is also relieved of the cycle of birth or death. In the bright fortnight of the month of Pausa, one who witnesses the image of Laksml, is relieved of all the sins and future births.

He enjoys all the riches like Kubera for seven births enjoying the company of his sons and grandsons. The one who observes fast on Ekadasi day and breaks the fast on Dvadasi day, after getting up early in the morning taking a bath and visiting the image of Annapurna on KasI he is relieved of the cycle of birth and death. On the fourteenth day of bright fortnight of the month of Caitra, the one who visits the temple of BhadrakalT at Kamarupa and offers his salutation to her, is also relieved of the cycle of birth and death.

On the day of RamanavamI one who performs the adoration of Rama and worships him bowing in reverence he is relieved of the cycle of birth and death. The one who worships the lord in the Puskara-ksetra or B?idrikdsmma and worships the god after taking a bath and observing fast he is surely relieved of the cycle of birth death. The one who performs the pindadana at Visnupada and adores lord Visnu, he is relieved of the cycle of birth and death together with his ancestors; the one who shaving his head in Prayaga and goes to Naimisaranya observing fast, he is relieved of the cycle of birth and death.

O Nanda, after achieving success in Badrikasrama, one who consumes the jujubi fruit and worships my image, he is relieved of the cycle of birth and death. The one who worships me seated in the auspicious Vmdavana and adoring me offers his salutation to me, he is relieved of the cycle of birth and death.

The one who adores Madhusudana placing him on the auspicious pedestal and offers his salutation with devotion, he is relieved of the cycle of birth and death. In the age of Kaliyuga the one who adores lord Jagannatha seated on the chariot and who perfonns his puja with devotion, he is relieved of the cycle of birth and death.

On the first day of the month when the sun is in northward movement, if one takes a bath at Prayaga and adores me, offering salutation, he is relieved of the cycle of birth and death. On the full moon day of KMika one who adores my image observing fast, he is relieved of the cycle of birth and death.

On the full moon day of the month of Magha, the one who adores me with Radha on the bank of Candrabhaga river, he is relieved of the cycle of birth and death. On the full moon day of Asadha, whosoever takes a bath at Rames'vara and obsc;ving the fast, adores me, is relieved of the cycle of birth and death.

gnnq gjfqtF g ^gwnfg ^ grag; I o 11 The Vidyadharas adore me perfoiTning divine dance in heaven and at the same time Vibhisana arrived there for bowing in reverence to Siva.

The Gandharvas and Kinnaras beautifully sing at night and at the same time Madhava also arrived for adoring Siva. Adoring Siva having the crescent on his head, being lord of all, the god dwells there. A person is relieved of birth and death after adoring him there and ultimately arrives in the abode of Siva, When the sun is on the southward movement the one who adored Surya at Konarka, after observing fast, he is relieved of birth and death.

The one who adores the images of Parvatl, Karttikeya, Ganesa, Nandi and Siva in the holy place of Krsikostha, Suvasana, Kalavinka, Puspabhadrka, he is surely relieved of the cycle of birth and death. By fasting there one has to adore the gods offering prayers and one has to break the fast by consuming curd, only then the fast is considered to be successful. At Citrakuta mountain close to the western ocean, there is a mountain known as Manibhadra, the one who adores the lord thereafter observing fast which has to be broken after consuming curd, one The one who consecrates my image and also of Parvati, he is relieved of the cycle of birth and death. The one who builds temples for Siva, Durga, my temples and the place of Siva, he achieves salvation from the universe.

The one who builds a flower orchard, a bridge, a wdl, a pool and the abodes of Brahmanas his life meets with success. O father, no one knows about the merit one earns by constructing the abodes of the sages, the mendicant, the gods and the Brahmanas because the particles of the dust on the earth can be counted as also the drops of rains but in case an abode is provided for a Brahmana its merit is beyond description. The one who provides livelihood to a Brahmana, he is relieved of the cycle of birth and death and achieves the eternal LaksmI. Thereafter, by achieving salvation he achieves my slavehood and devotion and then proceeds to Vaikuntha and he never falls from Vaikuntha like me. The one who gives away a girl of eight years adorned with ornaments to a Brahmana, he achieves the merit of donation to goddess Durga.

He witnesses all the divine articles, is adored in Brahmaloka, achieves my slavehood and enjoys all the pleasures of Vaikuntha. Anyone who witnesses the marriage, he earns the merit of donating crores of gold coins. Ultimately he achieves heaven and the indestructible Laksmi.

TTgrTT IT qr4 ITTqFTqtiTWTI The one who looking at a helpless pauper Brahmana of high family and marries him, he achieves moksa definitely The one who on an auspicious day, donates with devotion a chatra or sandals to TulasT, the beloved of the lord Sdlagrdma, he earns the merit of donating land.

If one gives away in charity an elephant, he enjoys the dwelling in heaven up to the number of years equivalent to the hair on his body and the one who donates a great elephant, he earns four times the merit described earlier. He enjoys all the pleasures in my abode. This has been described in the Vedas. Similarly by giving away a white horse in charity, one earns half the merit of donating an elephant and by donating several types of horses, one earns one-fourth of the merit. O father, by donating a black cow one earns the merit equivalent to the donating of an elephant. He does not get the same merit by donating another cow and by giving away in charity an ordinary cow one earns half the merit.

O virtuous one, he who donates a cow with a calf earns the merit of donating land. He who donates land, has to remain in my abode till the number of years equivalent to the particles of dust of that land. One earns great merit by donating knowledge and he enjoys pleasure in Vaikuntha for a long time.

Similarly by donating gold one gets riches and by donating silver one achieves kingship. The merit one earns by donating food is beyond description. By serving food to a Brahmana one earns great merit. This is the reason why no charity is considered to be bigger than of serving the food to the needy persons. While giving away food in charity, one remains unmindful of the receiver and there is no other rule specially applicable to this purpose. Thus the one, who serves food in charity, he earns the merit and the person who receives the food also does not earn sin. This is the reason why the giving away of food in charity has been considered to be quite graceful and leads one to Vaikuntha. In case a cloth is given to a poor Brahmana, the donor earns to stay in Vaikuntha delightfully till the number of years equivalent to the number of threads of the cloth. Thereafter he stays in Candraloka and Varunaloka with great pleasure.

By placing a wick in an iron lamp, whosoever offers it to lord Visnu, his house always remains lighted and even Yama, the god of death, cannot create darkness in his house. He ultimately achieves my abode. In case a similar type of lamp is given away in charity to a Brahmana, the donor does not have to face the torture of Yama and ultimately he achieves great pleasure up to a divine thousand years in the abode of Indra.

Thus one gets a seat in heaven according to the number and quantity of things donated by him. By donating the best of things one enjoys his stay in heaven for a lakh of years and by donating medium type of things his stay is reduced to half and by donating a betel one enjoys the best of pleasure in heaven for a hundred years and by donating a garland one achieves whatever he desires; thus one achieves a place in heaven according the things donated by him and the person who receives such a donation. The one who donates an ordinary bed, he resides in heaven for a hundred years. By donating an excellent bed he enjoys his stay in heaven for four times more the number of years and by donating and extraordinary bed one enjoys his stay in heaven for three lakhs of years.

Similarly, by donating a house to a helpless Brahmana one enjoys his stay in heaven up to the life of Indra. By serving food to a hungry Brahmana one achieves imperishable wealth and an increase of his sons and grandsons. Therefore, O lord of Vraja, you proceed to Vraja at the' moment and after reaching there you advise all i the people of Vraja to behave accordingly. O I lord in the Gokula, the cows and the cowherds are getting upset because of my absence; you reassure them all and remain gracefully, O Nanda, I have made you aware of the merit one i earns by giving away in charities. This should not be discussed among the degraded people; only then one earns the result of having good The unfortunate person of Kasyapa gotra, a degraded person, an enemy, a foolish person and woman should not be told about this and the same should be told to an intelligent BrShmana.

By speaking the same in the temple of the god, a pipala tree or TulasI plant or a banyan tree, one gets double the merit. In case it is not revealed to any person, one gets four times the merit.

By witnessing a good dream an intellectual gets the merit of taking a bath in the Gahga, besides riches, wealth, wife, land, sons and people besides salvation. He achieves all types of pleasures and his desires are fulfilled. Thus, O lord, I have spoken to you whatever I had heard

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 368045 (2023-02-18T03:04:08Z); Shanti Lal Nagar English scan pages n1384–n1390: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1384/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.