Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 75

Chapter 75

Unit 218 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 75Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 751 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 75

Source

अथ पञ्चसप्ततितमोऽध्यायः श्रीभगवानुवाच शृणु नन्द प्रवक्ष्यामि ज्ञानं च परमाद्भुतम् । सुगोपनीयं वेदेषु पुराणेषु च दुर्लभम् ।। १ ।। न विश्वासो हि नारीषु संततं कुलटासु च । मोक्षमार्गार्गलास्वेव भ्रममायास्वमूषु च ।। २ ।। हरिभक्तेरसाध्वीनां विरुद्धासु युतासु च । बीजरूपासु नाशानां प्रमदासु व्रजेश्वर ।। ३ ।। नित्यं च प्रातरुत्थाय रात्रिवासो विहाय च । अभीष्टदेवं हृत्पद्मे ब्रह्मरन्ध्रे गृरुं परम् ।। ४ ।। विचिन्त्य मनसा प्रातःकृत्यं कृत्वा सुनिश्चितम् । स्नानं करोति सुप्राज्ञो निर्मलेषु जलेषु च ।। ५ ।। न संकल्पं च कुरुते भक्तः कर्मनिकृन्तनः । स्नात्वा हरिं स्मरेत्संध्यां कृत्वा याति गृहं प्रति ।। ६ ।। प्रक्षाल्य पादौ प्रविशेन्निधाय धौतवाससी । पूजयोत्परमात्मानं मामेव मुक्तिकारणम् ।। ७ ।। शालग्रामे मणौ यन्त्रे प्रतिमायां जलेऽपि च । तथा च विप्रे गवि च गुरुष्वेवं विशेषतः ।। ८ ।। घटिऽष्टदलपद्मे च पात्रे चन्दननिर्मिते । आवाहनं च सर्वत्र शालग्रामे जलेन च ।। ९ ।। मन्त्रानुरूपध्यानेन ध्यात्वा मां पूजयेद्व्रती । षोडशोपचारद्रव्याणि दद्यान्मूलेन भक्तितः ।। १० ।। श्रीदामानं मुदामानं वसुदामानमेव च । वीरभानुं शूरभानुं गोपान्पञ्च प्रपूजयेत् ।। ११ ।। सुनन्दनन्दकुमुदं पार्षदं मे सुदर्शनम् । लक्ष्मीं सरस्वतीं दुर्गां राधां गङ्गां वसुंधराम् ।। १२ ।। गुरुं च तुलसीं शंभुं कार्तिकेयं विनायकम् । नवग्रहांश्च दिक्पालान्परितः पूजयेत्सुधीः ।। १३ ।। देवषट्कं च संपूज्य सर्वादौ विघ्नविघ्नतः । गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवम् ।। १४ ।। श्रुतौ विनिर्मितान्देवान्मोक्षदान्कर्मकृन्तनान् । गणेशं विघ्ननाशाय सूर्यं व्याधिविनाशिने ।। १५ ।। वह्निं प्राप्तिनिमित्तेन शान्तौ शुद्धौ भवेद्ध्रुवम् । विष्णुं मोक्षनिमित्तेन ज्ञानदानाय शंकरम् ।। १६ ।। बुद्धिमुक्तिनिमित्तेन पार्वतीं पूजयेत्सुधीः । पुष्पाञ्जलित्रयं दत्त्वा स्वस्तोत्रं कवचं पठेत् ।। १७ ।। गुरुं प्रणम्य संपूज्य तत्पश्चात्प्रणमेत्सुरम् । कृत्वाऽऽह्रिकं च संपूज्य यथासुखमुदीरितम् ।। १८ ।। समाचरेत्स्वकर्मैतद्वेदोक्तं स्वात्मशुद्धये । विष्ठां न पश्येत्प्राज्ञश्च व्याधिबीजस्वरूपिणीम् ।। १९ ।। मूत्रं च व्याधिबीजं च परं नरककारणम् । लिङ्गंयोनिं पापदुःखव्याधिदारिद्र्यदायिनीम् ।। २० ।। उरुं मुखं स्तनं स्त्रीणां कटाक्षं हास्यमेव च । विनाशबीजं रूपं च विपदां कारणं सदा ।। २१ ।। दिवाभोगं च स्वस्त्रीणां स्वालापं परिवर्जयेत् । रोगाणो कारणं चैव चक्षुषोः कर्णयोस्तथा ।। २२ ।। एकतारं च गगनं न पश्येत्तु रुजां भयात् । दैवाद्दृष्ट्वा हरिं स्मृत्वा सप्तधा नारदं जपेत् ।। २३ ।। अस्तकाले रविं चन्द्रं न पश्येद् व्याधिकारणम् । खण्डं मसुदितं चन्द्रं न पश्येद् व्याधिकारणम् ।। २४ ।। जलस्थं च रविं चन्द्रं दृष्ट्वा शोकं लभेन्नरः । बन्धुविच्छेदहेतुं च न पश्येत्परमैथुनम् ।। २५ ।। एकत्र शयनं स्थानं भोजनं च गतिं तथा । न कुर्यात्पापिना सार्धं सर्वं नाशस्य लक्षणम् ।। २६ ।। आलापाद्गात्रसंस्पर्शाच्छयनाश्रयभोजनात् । संचरन्ति ध्रुवं पापास्तैलविन्दुरिवाम्भसा ।। २७ ।। हिंस्रजन्तुसमीपं च न गच्छेद्दुःखकारणम् । खलेन सार्ध मिलनं न कुर्याच्छोककारणम् ।। २८ ।। ब्राह्मणानां गवां चैव वैष्णवानां विशेषतः । न कुर्याद्धिंसनं हानिं सर्वनाशस्य कारणम् ।। २९ ।। देवदेवलविप्राणां वैष्णवानां तथैव च । वित्तं धनं च नहरेत्सर्वनाशस्य कारणम् ।। ३० ।। स्वदत्तं परदत्तं वा ब्रह्मवित्तं हरेत्तु यः । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ।। ३१ ।। गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः । श्वापदः शतजन्मानि गण्डकः सप्तजन्मनि ।। ३२ ।। घोटकः सप्तजन्मानि कुम्भीरः पञ्चजन्मसु । पुंश्चलीनां योनिकीटं शतजन्मसु निश्चितम् ।। ३३ ।। व्रणकीटं च तेषां शतजन्मसु नारद । गोधिका सप्तजन्मानि गर्दभः सप्तजन्मसु ।। ३४ ।। सप्तजन्मानि मार्जारो नकुलश्त्रेषु जन्मसु । उच्चैःश्रवा जन्मशतं खरश्चापि तथैव च ।। ३५ ।। क्रूरसर्पश्च शार्दूलो महिषः सप्तजन्मसु । भेकश्च शतजन्मानि च्छागलः सप्तजन्मसु ।। ३६ ।। भल्लूकः शतजन्मानि शृगालो लक्षजन्मसु । ततो जलौका भवति ब्रह्मस्वहरणाद्ध्रुवम् ।। ३७ ।। कुम्भीपाके च पच्यन्ते पापिनो ब्रह्मणः शतम् । दक्षिणां विप्रमुद्दिश्य तत्कालं चैन्न दीयते ।। ३८ ।। एकरात्रे व्यतीते तु तद्दानं द्विगुणं भवेत् । मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम् ।। ३९ ।। संवत्सरे व्यतीते तु स दाता नरकं व्रजेत् । दात्रा न दीयते मूर्खो ग्रहीता च न याचते ।। ४० ।। उभौ तौ नरकं यातो दाता व्याधियुतो भवेत् । विप्राणां हिसनं कृत्वा वंशहानिं लभेद्ध्रुवम् ।। ४१ ।। धनं लक्ष्मीं परित्यज्य भिक्षुकश्च भवेद्व्रजन् । देवं च ब्रह्मणं दृष्ट्वा न नमेद्यो लभेच्छुचम् ।। ४२ ।। न कुर्याद्गुरुभक्तिं यो लभते रौरवं शुचम् । य स्त्री मूढा दुराचारा स्वपतिं हरिरूपिणम् ।। ४३ ।। न पश्येत्तर्जनं कृत्वा कुम्भीपाके व्रजेद्ध्रुवम् । वाक्तर्जनाद्भवेत्काको हिंसनात्सूकरो भवेत् ।। ४४ ।। सर्पो भवति कोपैन दर्पेण गर्दभो भवेत् । कुक्कुरी च कुवाक्येनाप्यन्धश्च विषदर्शनात् ।। ४५ ।। पतिव्रता च वैकुण्ठं पत्या सह व्रजेद्ध्रुवम् । शिवं दुर्गां गणपतिं सूर्य विप्रं च वैष्णवम् ।। ४६ ।। विष्णुं निन्दति यो मूढः स महारौरवं व्रजेत् । पितरं मातरं पुत्रं सतीं भार्यां गुरुं तथा ।। ४७ ।। अनाथां भगिनीं कन्यां विनिन्द्य नरकं व्रजेत् । विप्रभक्तिविहीनाश्च क्षत्रविट्शूद्रयोनिजा ।। ४८ ।। हरिभक्तिविहीनाश्च पच्यन्ते नरमे ध्रुवम् । पतिभक्तिविहीनाश्च युवत्यश्च नराधमाः ।। ४९ ।। शालग्रामजलं विष्णुप्रसादं ये च भुञ्जते । तीर्य पुनन्ति ते विप्राः शतं पुंसां वसुंधराम् ।। ५० ।। पितृन्देवान्समम्यर्च्य खादन्मासं द्विजः शुचिः । यो भक्षति वृथा मांसं स महारौरवं व्रजेत् ।। ५१ ।। मत्स्यांश्च कामतो जग्ध्वा चोपवासं वसेद्द्विजः । प्रायश्चित्तं ततः कुर्याद्व्रतं चान्द्रायणं चरेत् ।। ५२ ।। कामतो ब्राह्मणो मत्स्यं भुङ्क्ते यो ज्ञानदुर्बलः । सोऽशुचिः सततं नन्द हन्ति पुण्यं पुराकृतम् ।। ५३ ।। विष्णोरुच्चिष्टभोजी यो मत्स्यं मांसं न खादति । पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ।। ५४ ।। एकादशीं ये कुर्वन्ति कृष्णजन्माष्टमीव्रतम् । शतजन्मकृतात्पापान्मुच्यन्ते नात्र संशयः ।। ५५ ।। यद्बालये यच्च कौमारे वार्धके यच्च यौवने । भस्मीभूतानि कुर्वन्ति पातकानि कृतानि च ।। ५६ ।। एकादशीदिने भुङ्क्ते कृष्णजन्माष्टमीव्रते । त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः ।। ५७ ।। आतुरे नियमो न स्यादपि वृद्धे च बालके । भक्तस्य द्विगुणं दत्त्वा ब्राह्मणाय शुचिर्भवेत् ।। ५८ ।। यो भुङ्क्ते शिवरात्रौ च श्रीरामनवमीदिने । उपवासे समर्थश्च स महारौरवं व्रजेत् ।। ५९ ।। कुहूपूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च । नरश्चाण्डालयोनिः स्यात्स्त्रीतैलमांससेवनात् ।। ६० ।। मत्स्यं मांसं मसूरं च कांस्यपात्रे च भोजनम् । आर्द्रकं रक्तशाकं च रवौ च परिवर्जयेत् ।। ६१ ।। अन्यथा नरकं याति कुम्भीपाकं न संशयः । रजस्वरान्नं वेश्यान्नं मदिरान्नं व्रजेश्वर ।। ६२ ।। यो भुङ्क्ते ब्राङ्मणो दैवाद्विड्भोजी स भवेद्ध्रुवम् । यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ।। ६३ ।। स भवेदशुचिर्नित्यं भस्मान्तं तस्य सूतकम् । नारी वेश्या प्रतिज्ञेया चतुष्पुरुषगामिनी ।। ६४ ।। पाके च पितृदेवानामधिकारो न तद्भवेत् । यद्ग्रामयाजिनामन्नं शूद्रश्राद्धान्नभोजनम् ।। ६५ ।। भुक्त्वा च नरकं याति यावच्चन्द्रदिवाकरौ । शूद्राणां श्राद्धदिवसे तदन्नं भुञ्जते द्धिजाः ।। ६६ ।। कुम्भीपाके च पच्यन्ते यावद्वै ब्रह्मणः शतम् । यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते श्राद्धदिनेऽन्यतः ।। ६७ ।। सुरापीति स विज्ञेयः सर्वधर्मबहिष्कृतः । असिजीवी मषीजीवी देवलो वृषवाहकः ।। ६८ ।। शूद्राणां शवदाही च यो हि शूद्रापतिद्धिजः । स शूद्रवद्वहिष्कार्यस्तदन्नं विट्समं सताम् ।। ६९ ।। नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् । स शूद्रवद्बहिष्कार्यः सवंस्माद्द्विजकर्मणः ।। ७० संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदह्नाकुरुते कर्म न तस्य फलभाग्भवेत् ।। ७१ ।। वाममन्त्रोपासकश्च ब्राह्माणो नरकं व्रजेत् । नदीगर्भे च गर्ते च दृक्षमूले जलान्तिके ।। ७२ ।। देवान्तिके सस्यभूमौ पुरीषं नोत्सृजेद्बुधः । वल्मीकमूषकोत्खातां मृदमन्तर्जलां तथा ।। ७३ ।। शौचावशिष्टां गेहाच्च नाऽऽदद्याल्लेपसंभवाम् । अन्तःप्राणिपिपील्यां च हलोत्खातां व्रजेश्वर ।। ७४ ।। आलवालोत्थितां चैव सस्यक्षेत्रोत्थितां तथा । वृक्षमूलोत्थितां नन्द नदीगर्भोत्थितां तथा ।। ७५ ।। परित्यजेन्मृदस्त्वेताः सकलाः शौचसाधने । कूष्माण्डघातिका या स्त्री दीवनिर्वाणकः पुमान् ।। ७६ ।। सप्तजन्म भवेद्रोगी दरिद्रो जन्मजन्मनि । प्रदीपं शिवलिङ्गंच शालग्रामं मणिंतथा ।। ७७ ।। प्रतिमां यज्ञसूत्रं च सुवर्ण शङ्खमेव च । हीरकं च तथा मुक्तां गोमूत्रं गोमयं घृतम् ।। ७८ ।। शालग्रामशिलातोयं भूमौ त्यक्त्वा व्रजेदधः । दरिद्रः कृपणः कुष्ठी वंशहीनोऽप्यभार्यकः ।। ७९ ।। भूमिहीनः प्रजाहीनो बन्धुहीनश्च कुत्सितः । अन्धः पङ्गुर्वा खर्वश्च खञ्जश्चैवाङ्गहीनकः ।। ८० ।। भवेत्कमेण पापी स ह्येतान्भूमौ त्यजेतु यः । दिवसे संध्ययोर्निद्रां स्त्रीसंभोगं करोति यः ।। ८१ ।। सप्तजन्म भवेद्रोगी दरिद्रः सप्तजन्मसु । उदिते जगतीनाथे यः कुर्याद्दन्तधावनम् ।। ८२ ।। स पापिष्ठः कथं ब्रूते पूजयामि जनार्दनम् । मृद्भस्मगोसकृत्विण्डैस्तथा बालुकयाऽपि वा ।। ८३ ।। कृत्वा लिङ्कं सकृत्पूजय वसेत्कल्पशतं दिवि । सहस्रपूजनात्सोऽपि लभते वाञ्छितं फलम् ।। ८४ ।। लक्षं च पूजयेद्यस्तु शिवत्वं लभते ध्रुवम् । जीवन्मुक्तो भवेद्विप्रो लिङ्गमभ्यर्चयेतु यः ।। ८५ ।। शिवपूजाविहीनश्च ब्राह्मणो नरकं व्रजेत् । मत्पूजितं प्रियतमं शिवं निन्दन्ति ये नराः ।। ८६ ।। पच्यन्ते निरये तावद्यावद्वै ब्रह्मणः शतम् । पूजिते शिवलिङ्गे च यदि स्यात्केशवालुका ।। ८७ ।। स महान्धो वालुकया केशेन यवनो भवेत् । क्षुद्रो दरिद्रः कृपणो व्याधिः स्यात्कुत्सिते यथा ।। ८८ ।। सर्वेभ्यो मानहानिः स्याज्जायते नीचयोनिषु । सर्वेषु प्रियपात्रेषु ब्रह्मणश्च मम प्रियः ।। ८९ ।। ब्रह्मणाच्च प्रिया लक्ष्मीः सततं वक्षसि स्थिता । ततोऽधिका प्रिया राधा प्रिया भक्तास्ततोऽधिकाः ।। ९० ।। ततोऽधिकः शंकरो मे नास्ति मे शंकरात्प्रियः । महादेव महादेव महादेवेति वादिरः ।। ९१ ।। पश्चाद्यामि च संतृप्तो नामश्रवणलोभतः । मनो मे भक्तमूले च प्राणा राधात्मका ध्रुवम् ।। ९२ ।। आत्मा मे शंकरस्थानं शिवः प्राणाधिकश्च यः । आद्या नारायणी शक्तिः सृष्टिस्थित्यन्तकानिणी ।। ९३ ।। कनोमि च यथा सृष्टिं यया ब्रह्मादिदेवताः । यया जयति विश्वं च यया सृष्टिःप्रजायते ।। ९४ ।। यया विना जगन्नाश्ति मया दत्ता शिवाय सा । दया निद्रा च क्षुत्तृप्तिस्तृष्ण श्रद्धा क्षमा धृतिः ।। ९५ ।। तुष्टिः पुष्टिस्तथा शान्तिर्लज्जाधिदेवता हि सा । वैसुण्ठे सा महालक्ष्मीर्गोलोके राधिका सती ।। ९६ ।। मर्त्ये लक्ष्मीश्च क्षीरोदे दक्षकन्या सती य सा । सा दुर्गा मेनकाकन्या दैत्यदुर्गतिनाशिनी ।। ९७ ।। स्वर्गलक्ष्मीश्च दुर्गा सा शक्रादीनां गृहे गृहे । सा वाणी सा च सावित्री विद्याधिष्ठातृदेवता ।। ९८ ।। वह्नौ स दाहिकाशक्तिः प्रभाशक्तिश्च भास्करे । शोभाशक्तिः पूर्णचन्द्रे जले शक्तिश्च शीतता ।। ९९ ।। सस्यप्रसूता शक्तिश्च धारणा च धरासु सा । ब्राह्मण्यशक्तिर्विप्रेषु देवशक्तिःसुरेषु सा ।। १०० ।। तपस्विनां तपस्या का गृहिणां गृहदेवता । मुक्तिशक्तिश्च मुक्तानामाशा सांसारिकस्य सा ।। १०१ ।। मद्भक्तानां भक्तिशक्तिर्मयि भक्तिप्रदा सदा । नृपाणां राज्यलक्ष्मीश्च वणिजां लभ्यरूपिणी ।। १०२ ।। परि संसारसिन्धूनां त्रयीतत्त्वा तु तारिणी । सत्सु सद्बुद्धिरूपा सा मेधाशक्तिस्वरूपिणी ।। १०३ ।। व्याख्याशक्तिः श्रुतौ शास्त्रे दातृशक्तिश्च दातृषु । क्षत्त्रादीनां विप्रभक्तिः पतिभक्तिः सतीसु च ।। १०४ ।। एवं रूपा च या शक्तिर्मया दत्ता शिवाय सा । एवं ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।। प्रश्नं करोषि यद्यन्मां तत्सर्वं कथयामि ते ।। १०५ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भसवन्नन्दसंo पञ्चसप्ततितमोध्यायः ।। ७५ ।।

atha pañcasaptatitamo'dhyāyaḥ śrībhagavānuvāca śṛṇu nanda pravakṣyāmi jñānaṃ ca paramādbhutam | sugopanīyaṃ vedeṣu purāṇeṣu ca durlabham || 1 || na viśvāso hi nārīṣu saṃtataṃ kulaṭāsu ca | mokṣamārgārgalāsveva bhramamāyāsvamūṣu ca || 2 || haribhakterasādhvīnāṃ viruddhāsu yutāsu ca | bījarūpāsu nāśānāṃ pramadāsu vrajeśvara || 3 || nityaṃ ca prātarutthāya rātrivāso vihāya ca | abhīṣṭadevaṃ hṛtpadme brahmarandhre gṛruṃ param || 4 || vicintya manasā prātaḥkṛtyaṃ kṛtvā suniścitam | snānaṃ karoti suprājño nirmaleṣu jaleṣu ca || 5 || na saṃkalpaṃ ca kurute bhaktaḥ karmanikṛntanaḥ | snātvā hariṃ smaretsaṃdhyāṃ kṛtvā yāti gṛhaṃ prati || 6 || prakṣālya pādau praviśennidhāya dhautavāsasī | pūjayotparamātmānaṃ māmeva muktikāraṇam || 7 || śālagrāme maṇau yantre pratimāyāṃ jale'pi ca | tathā ca vipre gavi ca guruṣvevaṃ viśeṣataḥ || 8 || ghaṭi'ṣṭadalapadme ca pātre candananirmite | āvāhanaṃ ca sarvatra śālagrāme jalena ca || 9 || mantrānurūpadhyānena dhyātvā māṃ pūjayedvratī | ṣoḍaśopacāradravyāṇi dadyānmūlena bhaktitaḥ || 10 || śrīdāmānaṃ mudāmānaṃ vasudāmānameva ca | vīrabhānuṃ śūrabhānuṃ gopānpañca prapūjayet || 11 || sunandanandakumudaṃ pārṣadaṃ me sudarśanam | lakṣmīṃ sarasvatīṃ durgāṃ rādhāṃ gaṅgāṃ vasuṃdharām || 12 || guruṃ ca tulasīṃ śaṃbhuṃ kārtikeyaṃ vināyakam | navagrahāṃśca dikpālānparitaḥ pūjayetsudhīḥ || 13 || devaṣaṭkaṃ ca saṃpūjya sarvādau vighnavighnataḥ | gaṇeśaṃ ca dineśaṃ ca vahniṃ viṣṇuṃ śivaṃ śivam || 14 || śrutau vinirmitāndevānmokṣadānkarmakṛntanān | gaṇeśaṃ vighnanāśāya sūryaṃ vyādhivināśine || 15 || vahniṃ prāptinimittena śāntau śuddhau bhaveddhruvam | viṣṇuṃ mokṣanimittena jñānadānāya śaṃkaram || 16 || buddhimuktinimittena pārvatīṃ pūjayetsudhīḥ | puṣpāñjalitrayaṃ dattvā svastotraṃ kavacaṃ paṭhet || 17 || guruṃ praṇamya saṃpūjya tatpaścātpraṇametsuram | kṛtvā''hrikaṃ ca saṃpūjya yathāsukhamudīritam || 18 || samācaretsvakarmaitadvedoktaṃ svātmaśuddhaye | viṣṭhāṃ na paśyetprājñaśca vyādhibījasvarūpiṇīm || 19 || mūtraṃ ca vyādhibījaṃ ca paraṃ narakakāraṇam | liṅgaṃyoniṃ pāpaduḥkhavyādhidāridryadāyinīm || 20 || uruṃ mukhaṃ stanaṃ strīṇāṃ kaṭākṣaṃ hāsyameva ca | vināśabījaṃ rūpaṃ ca vipadāṃ kāraṇaṃ sadā || 21 || divābhogaṃ ca svastrīṇāṃ svālāpaṃ parivarjayet | rogāṇo kāraṇaṃ caiva cakṣuṣoḥ karṇayostathā || 22 || ekatāraṃ ca gaganaṃ na paśyettu rujāṃ bhayāt | daivāddṛṣṭvā hariṃ smṛtvā saptadhā nāradaṃ japet || 23 || astakāle raviṃ candraṃ na paśyed vyādhikāraṇam | khaṇḍaṃ masuditaṃ candraṃ na paśyed vyādhikāraṇam || 24 || jalasthaṃ ca raviṃ candraṃ dṛṣṭvā śokaṃ labhennaraḥ | bandhuvicchedahetuṃ ca na paśyetparamaithunam || 25 || ekatra śayanaṃ sthānaṃ bhojanaṃ ca gatiṃ tathā | na kuryātpāpinā sārdhaṃ sarvaṃ nāśasya lakṣaṇam || 26 || ālāpādgātrasaṃsparśācchayanāśrayabhojanāt | saṃcaranti dhruvaṃ pāpāstailavindurivāmbhasā || 27 || hiṃsrajantusamīpaṃ ca na gacchedduḥkhakāraṇam | khalena sārdha milanaṃ na kuryācchokakāraṇam || 28 || brāhmaṇānāṃ gavāṃ caiva vaiṣṇavānāṃ viśeṣataḥ | na kuryāddhiṃsanaṃ hāniṃ sarvanāśasya kāraṇam || 29 || devadevalaviprāṇāṃ vaiṣṇavānāṃ tathaiva ca | vittaṃ dhanaṃ ca naharetsarvanāśasya kāraṇam || 30 || svadattaṃ paradattaṃ vā brahmavittaṃ harettu yaḥ | ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ || 31 || gṛdhraḥ koṭisahasrāṇi śatajanmāni sūkaraḥ | śvāpadaḥ śatajanmāni gaṇḍakaḥ saptajanmani || 32 || ghoṭakaḥ saptajanmāni kumbhīraḥ pañcajanmasu | puṃścalīnāṃ yonikīṭaṃ śatajanmasu niścitam || 33 || vraṇakīṭaṃ ca teṣāṃ śatajanmasu nārada | godhikā saptajanmāni gardabhaḥ saptajanmasu || 34 || saptajanmāni mārjāro nakulaśtreṣu janmasu | uccaiḥśravā janmaśataṃ kharaścāpi tathaiva ca || 35 || krūrasarpaśca śārdūlo mahiṣaḥ saptajanmasu | bhekaśca śatajanmāni cchāgalaḥ saptajanmasu || 36 || bhallūkaḥ śatajanmāni śṛgālo lakṣajanmasu | tato jalaukā bhavati brahmasvaharaṇāddhruvam || 37 || kumbhīpāke ca pacyante pāpino brahmaṇaḥ śatam | dakṣiṇāṃ vipramuddiśya tatkālaṃ cainna dīyate || 38 || ekarātre vyatīte tu taddānaṃ dviguṇaṃ bhavet | māse śataguṇaṃ proktaṃ dvimāse tu sahasrakam || 39 || saṃvatsare vyatīte tu sa dātā narakaṃ vrajet | dātrā na dīyate mūrkho grahītā ca na yācate || 40 || ubhau tau narakaṃ yāto dātā vyādhiyuto bhavet | viprāṇāṃ hisanaṃ kṛtvā vaṃśahāniṃ labheddhruvam || 41 || dhanaṃ lakṣmīṃ parityajya bhikṣukaśca bhavedvrajan | devaṃ ca brahmaṇaṃ dṛṣṭvā na namedyo labhecchucam || 42 || na kuryādgurubhaktiṃ yo labhate rauravaṃ śucam | ya strī mūḍhā durācārā svapatiṃ harirūpiṇam || 43 || na paśyettarjanaṃ kṛtvā kumbhīpāke vrajeddhruvam | vāktarjanādbhavetkāko hiṃsanātsūkaro bhavet || 44 || sarpo bhavati kopaina darpeṇa gardabho bhavet | kukkurī ca kuvākyenāpyandhaśca viṣadarśanāt || 45 || pativratā ca vaikuṇṭhaṃ patyā saha vrajeddhruvam | śivaṃ durgāṃ gaṇapatiṃ sūrya vipraṃ ca vaiṣṇavam || 46 || viṣṇuṃ nindati yo mūḍhaḥ sa mahārauravaṃ vrajet | pitaraṃ mātaraṃ putraṃ satīṃ bhāryāṃ guruṃ tathā || 47 || anāthāṃ bhaginīṃ kanyāṃ vinindya narakaṃ vrajet | viprabhaktivihīnāśca kṣatraviṭśūdrayonijā || 48 || haribhaktivihīnāśca pacyante narame dhruvam | patibhaktivihīnāśca yuvatyaśca narādhamāḥ || 49 || śālagrāmajalaṃ viṣṇuprasādaṃ ye ca bhuñjate | tīrya punanti te viprāḥ śataṃ puṃsāṃ vasuṃdharām || 50 || pitṛndevānsamamyarcya khādanmāsaṃ dvijaḥ śuciḥ | yo bhakṣati vṛthā māṃsaṃ sa mahārauravaṃ vrajet || 51 || matsyāṃśca kāmato jagdhvā copavāsaṃ vaseddvijaḥ | prāyaścittaṃ tataḥ kuryādvrataṃ cāndrāyaṇaṃ caret || 52 || kāmato brāhmaṇo matsyaṃ bhuṅkte yo jñānadurbalaḥ | so'śuciḥ satataṃ nanda hanti puṇyaṃ purākṛtam || 53 || viṣṇorucciṣṭabhojī yo matsyaṃ māṃsaṃ na khādati | pade pade'śvamedhasya labhate niścitaṃ phalam || 54 || ekādaśīṃ ye kurvanti kṛṣṇajanmāṣṭamīvratam | śatajanmakṛtātpāpānmucyante nātra saṃśayaḥ || 55 || yadbālaye yacca kaumāre vārdhake yacca yauvane | bhasmībhūtāni kurvanti pātakāni kṛtāni ca || 56 || ekādaśīdine bhuṅkte kṛṣṇajanmāṣṭamīvrate | trailokyajanitaṃ pāpaṃ so'pi bhuṅkte na saṃśayaḥ || 57 || āture niyamo na syādapi vṛddhe ca bālake | bhaktasya dviguṇaṃ dattvā brāhmaṇāya śucirbhavet || 58 || yo bhuṅkte śivarātrau ca śrīrāmanavamīdine | upavāse samarthaśca sa mahārauravaṃ vrajet || 59 || kuhūpūrṇendusaṃkrānticaturdaśyaṣṭamīṣu ca | naraścāṇḍālayoniḥ syātstrītailamāṃsasevanāt || 60 || matsyaṃ māṃsaṃ masūraṃ ca kāṃsyapātre ca bhojanam | ārdrakaṃ raktaśākaṃ ca ravau ca parivarjayet || 61 || anyathā narakaṃ yāti kumbhīpākaṃ na saṃśayaḥ | rajasvarānnaṃ veśyānnaṃ madirānnaṃ vrajeśvara || 62 || yo bhuṅkte brāṅmaṇo daivādviḍbhojī sa bhaveddhruvam | yadahnā kurute karma na tasya phalabhāgbhavet || 63 || sa bhavedaśucirnityaṃ bhasmāntaṃ tasya sūtakam | nārī veśyā pratijñeyā catuṣpuruṣagāminī || 64 || pāke ca pitṛdevānāmadhikāro na tadbhavet | yadgrāmayājināmannaṃ śūdraśrāddhānnabhojanam || 65 || bhuktvā ca narakaṃ yāti yāvaccandradivākarau | śūdrāṇāṃ śrāddhadivase tadannaṃ bhuñjate ddhijāḥ || 66 || kumbhīpāke ca pacyante yāvadvai brahmaṇaḥ śatam | yaḥ śūdreṇābhyanujñāto bhuṅkte śrāddhadine'nyataḥ || 67 || surāpīti sa vijñeyaḥ sarvadharmabahiṣkṛtaḥ | asijīvī maṣījīvī devalo vṛṣavāhakaḥ || 68 || śūdrāṇāṃ śavadāhī ca yo hi śūdrāpatiddhijaḥ | sa śūdravadvahiṣkāryastadannaṃ viṭsamaṃ satām || 69 || nopatiṣṭhati yaḥ pūrvāṃ nopāste yastu paścimām | sa śūdravadbahiṣkāryaḥ savaṃsmāddvijakarmaṇaḥ || 70 saṃdhyāhīno'śucirnityamanarhaḥ sarvakarmasu | yadahnākurute karma na tasya phalabhāgbhavet || 71 || vāmamantropāsakaśca brāhmāṇo narakaṃ vrajet | nadīgarbhe ca garte ca dṛkṣamūle jalāntike || 72 || devāntike sasyabhūmau purīṣaṃ notsṛjedbudhaḥ | valmīkamūṣakotkhātāṃ mṛdamantarjalāṃ tathā || 73 || śaucāvaśiṣṭāṃ gehācca nā''dadyāllepasaṃbhavām | antaḥprāṇipipīlyāṃ ca halotkhātāṃ vrajeśvara || 74 || ālavālotthitāṃ caiva sasyakṣetrotthitāṃ tathā | vṛkṣamūlotthitāṃ nanda nadīgarbhotthitāṃ tathā || 75 || parityajenmṛdastvetāḥ sakalāḥ śaucasādhane | kūṣmāṇḍaghātikā yā strī dīvanirvāṇakaḥ pumān || 76 || saptajanma bhavedrogī daridro janmajanmani | pradīpaṃ śivaliṅgaṃca śālagrāmaṃ maṇiṃtathā || 77 || pratimāṃ yajñasūtraṃ ca suvarṇa śaṅkhameva ca | hīrakaṃ ca tathā muktāṃ gomūtraṃ gomayaṃ ghṛtam || 78 || śālagrāmaśilātoyaṃ bhūmau tyaktvā vrajedadhaḥ | daridraḥ kṛpaṇaḥ kuṣṭhī vaṃśahīno'pyabhāryakaḥ || 79 || bhūmihīnaḥ prajāhīno bandhuhīnaśca kutsitaḥ | andhaḥ paṅgurvā kharvaśca khañjaścaivāṅgahīnakaḥ || 80 || bhavetkameṇa pāpī sa hyetānbhūmau tyajetu yaḥ | divase saṃdhyayornidrāṃ strīsaṃbhogaṃ karoti yaḥ || 81 || saptajanma bhavedrogī daridraḥ saptajanmasu | udite jagatīnāthe yaḥ kuryāddantadhāvanam || 82 || sa pāpiṣṭhaḥ kathaṃ brūte pūjayāmi janārdanam | mṛdbhasmagosakṛtviṇḍaistathā bālukayā'pi vā || 83 || kṛtvā liṅkaṃ sakṛtpūjaya vasetkalpaśataṃ divi | sahasrapūjanātso'pi labhate vāñchitaṃ phalam || 84 || lakṣaṃ ca pūjayedyastu śivatvaṃ labhate dhruvam | jīvanmukto bhavedvipro liṅgamabhyarcayetu yaḥ || 85 || śivapūjāvihīnaśca brāhmaṇo narakaṃ vrajet | matpūjitaṃ priyatamaṃ śivaṃ nindanti ye narāḥ || 86 || pacyante niraye tāvadyāvadvai brahmaṇaḥ śatam | pūjite śivaliṅge ca yadi syātkeśavālukā || 87 || sa mahāndho vālukayā keśena yavano bhavet | kṣudro daridraḥ kṛpaṇo vyādhiḥ syātkutsite yathā || 88 || sarvebhyo mānahāniḥ syājjāyate nīcayoniṣu | sarveṣu priyapātreṣu brahmaṇaśca mama priyaḥ || 89 || brahmaṇācca priyā lakṣmīḥ satataṃ vakṣasi sthitā | tato'dhikā priyā rādhā priyā bhaktāstato'dhikāḥ || 90 || tato'dhikaḥ śaṃkaro me nāsti me śaṃkarātpriyaḥ | mahādeva mahādeva mahādeveti vādiraḥ || 91 || paścādyāmi ca saṃtṛpto nāmaśravaṇalobhataḥ | mano me bhaktamūle ca prāṇā rādhātmakā dhruvam || 92 || ātmā me śaṃkarasthānaṃ śivaḥ prāṇādhikaśca yaḥ | ādyā nārāyaṇī śaktiḥ sṛṣṭisthityantakāniṇī || 93 || kanomi ca yathā sṛṣṭiṃ yayā brahmādidevatāḥ | yayā jayati viśvaṃ ca yayā sṛṣṭiḥprajāyate || 94 || yayā vinā jagannāśti mayā dattā śivāya sā | dayā nidrā ca kṣuttṛptistṛṣṇa śraddhā kṣamā dhṛtiḥ || 95 || tuṣṭiḥ puṣṭistathā śāntirlajjādhidevatā hi sā | vaisuṇṭhe sā mahālakṣmīrgoloke rādhikā satī || 96 || martye lakṣmīśca kṣīrode dakṣakanyā satī ya sā | sā durgā menakākanyā daityadurgatināśinī || 97 || svargalakṣmīśca durgā sā śakrādīnāṃ gṛhe gṛhe | sā vāṇī sā ca sāvitrī vidyādhiṣṭhātṛdevatā || 98 || vahnau sa dāhikāśaktiḥ prabhāśaktiśca bhāskare | śobhāśaktiḥ pūrṇacandre jale śaktiśca śītatā || 99 || sasyaprasūtā śaktiśca dhāraṇā ca dharāsu sā | brāhmaṇyaśaktirvipreṣu devaśaktiḥsureṣu sā || 100 || tapasvināṃ tapasyā kā gṛhiṇāṃ gṛhadevatā | muktiśaktiśca muktānāmāśā sāṃsārikasya sā || 101 || madbhaktānāṃ bhaktiśaktirmayi bhaktipradā sadā | nṛpāṇāṃ rājyalakṣmīśca vaṇijāṃ labhyarūpiṇī || 102 || pari saṃsārasindhūnāṃ trayītattvā tu tāriṇī | satsu sadbuddhirūpā sā medhāśaktisvarūpiṇī || 103 || vyākhyāśaktiḥ śrutau śāstre dātṛśaktiśca dātṛṣu | kṣattrādīnāṃ viprabhaktiḥ patibhaktiḥ satīsu ca || 104 || evaṃ rūpā ca yā śaktirmayā dattā śivāya sā | evaṃ te kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotumicchasi || praśnaṃ karoṣi yadyanmāṃ tatsarvaṃ kathayāmi te || 105 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo bhasavannandasaṃo pañcasaptatitamodhyāyaḥ || 75 ||

English translation

He should also adore Sridama, Sudani^, Vasudama, Virabhanu and Stlrabhanu, the five cowherds and then should adore my courtiers named, Nanda, Sunanda, Kumuda and Sudarsana Vasundhara, the teacher, Tulasi, Siva, Karttikeya, Ganesa, the nine planets, Dikpalas, in a proper manner. It would be appropriate for an intellectual to adore first of all, Ganesa, Surya, Agni, Siva and Parvatl In the Vedas these gods have been described as the destroyer of the deeds and bestower of moksa. For the removal of obstruction, Ganesa should be adored; for the removal of the ailments the sun and Agni; for achieving peace and purity, Visnu; Siva for achieving moksa, knowledge and wisdom and Parvati for achieving wisdom. After adoring them, one should offer three hand cups full of flowers and should recite the relevant stotra and kavaca. Bowing in reverence to the teacher and adoring him, one should offer his salutation to the gods. Thus after performing the

daily routine, one should adore the gods according to one's convenience. For self-, purification, one should perform the adoration as i prescribed in the Vedas. Similarly one should pay attention to the words which are forbidden, I should not look at refuse which could be the j cause of ailments. Looking at urine also one i attracts ailment and one has to fall into the hell.'

By looking at the male and female organs, one attiacts sin, pain, ailment and poverty.

One should not look at the thighs, heart, breasts, side-glances and smiles of the other women because indulging in such an action attracts misfortune. One should not cohabit with his own wife during the day time because it is harmful and one attracts the ailment of eyes and ears. Similarly a star should not be looked at in the sky which could result in ailment and fear. It per chance one has a look at the stars he should recite the name of Hari and also the name of Narada seven times. In the evening the sun and the moon should not be seen because by doing so one attracts ailment and fear. At the time of the rising of the moon if one looks at it, one attracts Similarly if one looks at the reflection of the sun and moon in the water, he meets with grief.

By looking at the conjugal pleasures of others one gets separated from his relatives; by sleeping, eating and travelling with a wicked person, one attracts complete destruction. By talking to him, touching his body, sleeping with him or eating with him, all his sins are transferred to the noble person. One should not approach the terrific animal for fear of injury.

And one should not keep company with a wicked person which could attract grief and fear, wsFnft- TTssriRTf I WiFRf I One should not indulge in the killing of a cow, a Brahmana and especially a Brahmana which attracts total destruction. One should not steal the riches of the gods, the temples, Brahmanas and the Vaisnavas. By doing so, one attracts total destruction. The one who snatches away the livelihood given by himself or others and one who does so, has to be bom as the insect of refuse for sixty thousand years. Thereafter for a hundred crores of births, he has to bom as a pig; for a hundred years, he has to be bom as a wild animal; for seven births, he has to be bom as a Rhinoceros and horse; for seven births, he is to be bom as a deformed person, for births the insect of the pelvic region of the wicked woman for a hundred births and for another hundred births he has to be bom as an insect of a boil. O

Narada, for seven births he has to be bom as a lizard, a donkey for seven births, a cat for seven births, a monkey for three births, a horse for a hundred years, a terrific serpent for seven births, a tiger and buffalo for seven births, a frog for a hundred births, a he-goat for seven births, a bear for seven births, a jackal for a lakh of births.

Thereafter because of the stealing of those riches he becomes a leech. For a hundred lives of Brahma he has to fall into the kumbhipaka hell where the sinners are boiled. The one who refuses to give immediately the daksind to a Brahmana after pronouncing the same, the charity after the lapse of a night is doubled and after the expiry of a month it multiplies to a hundred times after a lapse of two months, it multiplies to a thousand times and after the expiry of a year, the donor has to fall into the hell. In case the donor is unable to pay and the receiver is unable to demand the same, both of them fall into hell. By killing a Brahmana, the race of the killer is destroyed and after getting deprived of the wealth and riches he becomes a pauper or a beggar. He feels grief-stricken when no one offers salutation to him in spite of his being a Brahmana or a god.

In case someone who is competent to observe a fast on iSivarStri and RamanavamI day, but takes his food, he falls into the terrific hell. The one who cohabits with his wife on a moonless night or on a full moon night, first day of the month, on the fourteenth and eighth day of the moon and also consumes oil and meat, he is surely bom as a Candala. One should not eat the fish, meat, small grained pulse in a vase of bronze; ginger and the red vegetables should not be taken on Sundays otherwise one has to fall in the kumbhlpdka hell. There is no doubt about it.

O lord of Vraja, the food served by a woman in period, the food of a loose woman and the food mixed with wine, in case it is consumed by a Brahmana, he surely consumes refuse. Whatever deeds are performed by him during the day, he is deprived of the reward for 'the same and he always remains impure. He is deprived of the impurity only when his body is burnt in fire.

Such of woman who enjoys the company of four men has to be treated as a whore; she is not entitled to receive any share cooked for gods and the manes. The one who performs yajna from village to village and food during the srdddha performed by Shdras have to fall in the hell till the life of the sun and the moon. Such of the Brahamans who take sraddha food with the they have to fall in the kumbhlpdka hell up to the life of with some one else at the instance of a ^udra, he should be considered as a dmnkard and should be excommunicated from performing seven religious deeds. Similarly the soldiers, the writers, those performing piijd in the temples, earning their livelihood from the bullocks, burning the dead bodies of the SOdras, the Brahmana who is the husband of a SQdra woman should also be excommunicated because the food of such a person is like refuse for the noble people. Similarly the one who does not

perform sandhyd during the morning or the evening and neglects all the Brahmana practices should be excommunicated like a SQdra.

The one who does not perform sandhyd such a Brahmana is always considered to be impure and unfit for all the religious performances. Because of this, whatever actions are performed by him, he is deprived of the reward. The Vdmamdrgl Brahmana falling into hell surely has to face pain. The Intellectuals could not drop refuse at the places like the starting point of a river, the pits at the root of trees, near water, near god and green crops. O lord of Vraja, one should not rub his hand for purification with the dust from a heap of white ants, the earth dug by rats, the earth inside water and the earth with remnant from the one already used for washing the hands, the earth from the mud meant for plastering the walls of the houses. The earth from the place of white ants, the plough land is not fit for use in purifying the hands because by rubbing the hands with dust, the hands cannot be purified.

O Nanda, similarly the earth from around the trees, green crops, the earth dug from under the tree or taken out of the water of the river are unfit for purification. Similarly the one who cuts the melon and the one who extinguishes the lamp, has to be bom with ailment and is always bom a pauper. The one who places a lamp, Sivalihga, Sdlagrdma, gems, image of the gods, yajnopavlta, the gold, samkha jewels, diamonds, urine of the cow, cowdung, ghee^ the water of the Sdlagrdma, on the ground has to fall in the hell. Ultimately he is bom as a pauper, miser, suffering from leprosy, having no issues, without land, without a wife, without the people, without relatives, a degraded one, blind, hunchback, lame, without feet and is bom as deformed. The one who sleeps during the time of performing sandhydy thrice a day and cohabits with his wife, has to face the ailment for seven births together with poverty. When someone bmshes his teeth,

sunrise who is the lord of the universe, such a sinner can say that I am performing the adoration of lord Janardana. In case one adores Siva by making a Sivalihga in earth, ashes, cowdung or sand, even once he resides in the heaven for a hundred kalpas. In case, one adores a thousand Sivalihgas, all his desires are fulfilled.

w jnun'TTsncw I 111 TlfiraiT -Rcftl I ^ 11 By adoring a lakh of Sivalihgas one achieves the position of Siva. Thus a Brahmana who adores Sivalihga, is deprived of the future birth.

A Brahmana who does not adore Siva, he is sure to fall in the hell. Such of the people who denounce me for adoring Siva, they fall in the hell and remain there up to the life of a hundred Brahmas. In case at the time of adoration, sand is found with the Sivalihga in that case the devotee becomes blind and in case of any hair having been found there with the Sivalihga, the devotee is bom as Yavana besides being degraded, as a pauper, miser and suffering from horrible ailment. He has to face great losses and is reborn in degraded yonis. Of ail the people in the universe, Brahmanas are dear to me. Laksmi is dearer to me than the Brahmanas who always reside in my heart. Radha is dearer to me than Laksmi and my devotees are dearer to me than Radha and Siva happens to be the dearest of all.

No one else is dearer to me than Siva because whosoever recites the name of Mahadeva, while walking I at once follow him. My mind is always devoted towards the devotees. Radha happens to be my life while Siva happens to be my soul, who is dearer to me than my life. I create the universe through NarayanI, the eternal force, who preserves the universe as well and is also responsible for its destruction. The gods like Brahma and others are bom out of her. With her influence the entire universe is victorious, she starts creation and without her the universe cannot survive. She is the form of mercy, sleep, nectar, satisfaction, lust, faith, forgiveness, patience, maintenance, peace and shyness. She happens to be MahalaksmI in Vaikuntha, the chaste Radhika in Goloka, Laksmi in the ocean of milk and Sati, the daughter of Daksa, she is also known as Durga who destroys misfortune, ParvatT the daughter of Menaka, SvaraglaksmI in

the house of Indra beside Sarasvati, Savitrl and the great goddess of knowledge with Brahma.

She happens to be the power of burning with Agni, the lustre of Surya, the rays of the moon, the coolness of water, the producer of greenery and cereals and the divine sakti of the gods.

She is the tapas of the mendicant, the family deity of the house-holders, the salvation for those seeking salvation, the hope for the worldly people, the devotion for my devotees and she always remains alive and devoted to me. She happens to be the Rajyalaksm! of the kings, the income of the Vaisyas and the three-fold force which enables the people to cross over the ocean of the universe. She is the intelligence of the wise people, the commentary on the Vedas and other scriptures, the power of giving charity with the donors for Brahmanas with the Ksatriyas and with the chaste woman she is the form of devotion for husband. I have handed over this type of NarayanI to Siva. I have thus explained to you everything; what more do you want to listen to from me? You tell me. I will surely reveal the truth to you.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122405 (2017-09-17T14:14:45Z); Shanti Lal Nagar English scan pages n1376–n1384: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1376/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.