Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 73

Chapter 73

Unit 216 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 73Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 731 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 73

Source

अथ त्रिसप्ततितमोध्यायः नारायण उवाच अथ कृष्णश्च सानन्दं नन्दं तं पितरं बलः । बोधयामास शोकार्तं दिव्यैराध्यात्मिकादिभिः ।। १ ।। उच्चै रुदन्तं निश्चेष्टं पुत्रविच्चेदकातरम् । दत्त्वा तस्मै मणिश्रेष्ठमित्युवाच जगत्पतिः ।। २ ।। श्रीभगवानुवाच निबोध नन्द सानन्दं त्यज शोकं मुदं लभ । ज्ञानं गृहाण मद्दत्तं यद्दतं ब्रह्मणे पुरा ।। ३ ।। यद्यद्दत्तं च शोषाय गणेशायेश्वराय च । दिनेशाय मुनीशाय योगीशाय च पुष्करे ।। ४ ।। कःकस्य पुत्रः कस्तातः का माता कस्यचित्कुतः। आयान्ति यान्ति संसारं परं स्वकृतकर्मणा ।। ५ ।। कर्मानुसाराज्जन्तुश्च जायते स्थानभेदतः । कर्मणा कोऽपि जन्तुश्च योगीन्द्राणां नृपस्त्रियाम् ।। ६ ।। द्विजापत्न्यां क्षत्रियाणां वैश्यायां शूद्रयोनिषु । तिर्यग्योनिषु कश्चिच्च कश्चित्पश्वादियोनिषु ।। ७ ।। ममैव मायया सर्वे सानन्दा विषयेषु च । देहत्यामे विषण्णाश्च विच्छेदे बान्धवस्य च ।। ८ ।। प्रजाभूमिधनादीनां विच्छेदो मरणाधिकः । नित्यं भवति मूढश्च न च विद्वाञ्छुचा युतः ।। ९ ।। मद्भक्तो भक्तियुक्तश्च मद्याजी विजितेन्द्रियः । मन्मन्त्रोपासकश्चैव मत्सेवानिरतः शुचिः ।। १० ।। मद्भयाद्वाति वातोऽयं रविर्भाति च नित्यशः । भाति चन्द्रो महेन्द्रश्च कालभेदे च वर्षति ।। ११ ।। वह्निर्वहति मृत्युश्च चरत्येव हि जन्तुषु । बिभर्ति वृक्षः कालेन पुष्पापि च फलानि च ।। १२ ।। निराधारश्च वायुश्च वाय्वाधारश्च कच्चिपः । शेषश्च कच्छपाधारः शेषाधारश्च पर्वतः ।। १३ ।। तदाधाराश्च पातालाः सप्त एव हि पङ्क्तितः । निश्चलं च जलं तस्माज्जलस्था च वसुंधरा ।। १४ ।। सप्तस्वर्ग धराधारं ज्योतिश्चकं ग्रहाश्रयम् । निराधारश्च वैकुण्ठो ब्रह्माण्डेम्यः परो वरः ।। १५ ।। तत्परश्चापि गोलोकः पञ्चाशत्को टियोजनात् । ऊर्ध्व निराश्रयश्चापि रत्नसारविनिर्मितः ।। १६ ।। सप्तद्वारः सप्तसारः परिखासप्तसंयुतः । लक्षप्राकारयुक्तश्च नद्या विरजया युतः ।। १७ ।। वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा । योजनायुतमानं च यस्यैकं शृङ्गमुज्ज्वलम् ।। १८ ।। शतकोटियोजनश्च शैल उच्छ्रित एव च । दैर्ध्यं तस्य शतगुणं प्रस्थं च लक्षयोजनम् ।। १९ ।। योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः । अमूल्यरत्ननिर्माणो वर्तुलश्चन्द्रबिम्बवतु ।। २० ।। पारिजातवनेनैव पुष्पितेन च वेव्टितः । कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च ।। २१ ।। नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा । त्रिकोटिरत्नभवनो गोपीलक्षैश्च रक्षितः ।। २२ ।। रत्नप्रदीपयुक्तश्च रत्नतल्पसमन्वितः । नानाभोगसमायुक्तो सधुवापीशतैर्वृतः ।। २३ ।। पीयूषवापीयुक्तश्च कामभोगसमन्वितः । गोलोकगृहसंख्यानवर्णने वा विशारदः ।। २४ ।। न कोऽपि वेद विद्वान्वा वेदविद्वान्व्रजेश्वरः । अमूल्यरत्ननिर्माणभवनानां त्रिकोटिभिः ।। २५ ।। शोभितं सुन्दरं रम्यं राधाशिविरमुत्तमम् । अमूल्यरत्नकलशैरुज्ज्वलं रत्नदर्पणैः ।। २६ ।। असूल्यरत्नस्तमभानां राजिभिश्च विराजितम् । नानाचित्रविचित्रैश्च चित्रितं श्वेतचामरैः ।। २७ ।। माणिक्यमुक्तासंसक्तं हीरावारसमन्वितम् । रत्नप्रदीपसंसक्तं रत्नसोपानसुन्दरम् ।। २८ ।। अमूल्यरत्नपत्रैश्च तल्पराजिविराजितम् । अमूल्यरत्नचित्रैश्च त्रिभिश्चित्रविचित्रितैः ।। २९ ।। तिसृभिः परिखाभिश्च त्रिभिर्द्वारैश्च दुर्गमैः । युक्तं षोडशकक्षाभिः प्रतिद्वारेषु वाऽन्तरम् ।। ३० ।। गोपीषोडशलक्षैश्च संनियुक्तैरितस्ततः । वह्निशुद्धांशुकाधानै रत्नभूषणभूषितैः ।। ३१ ।। तप्तकाञ्चनवर्णाभैः शतचन्द्रसमन्वितैः । राधिकारिंकरीवर्गैर्युक्तमभ्यन्तरं वरम् ।। ३२ ।। अमूल्यरत्ननिर्माणप्रङ्गणं सुमनोहरम् । अमूल्यरत्नस्तम्भानां समूरैश्च सुशोभितम् ।। ३३ ।। रत्नमङ्गलकुम्भैश्च फलपल्लवसंयुतैः । संयुतं रत्नवेदीभिर्मुक्ता युक्ताभिरीप्सितम् ।। ३४ ।। अमूल्यरत्नमुकुरैः शोभितं सुन्दरैरहो । अमूल्यरत्ननिर्माणं भवनानां वरं गृहम् ।। ३५ ।। रत्नसिंहासनस्था च गोपीलक्षैश्च सेविता । कोटिपूर्णेन्दुशोभाढ्या श्वेतचम्पकसंनिभा ।। ३६ ।। अमूल्यरत्ननिर्माणभूषणैश्च विभूषिता । अमूल्यरत्नवसना बिभ्रती रत्नदर्पणम् ।। ३७ ।। रत्नपद्मं च रुचिरं सव्यदक्षिणहस्ततः । दाडिम्बकुसुमाकारं सिन्दूरं सुमनोहरम् ।। ३८ ।। सुशोभितं सृगमदैरिष्टैश्चन्दनबिन्दुभिः । दधती कबरीभारं मालतीमल्यमण्डितम् ।। ३९ ।। रचितं वामभगेन मुनीन्द्राणां मनोहरम् । एवंभूतं (ता) तत्र राधा गोपीभिः परिसेविता ।। ४० ।। श्वेतचामरहस्ताभिस्तत्तुल्याभिश्च सर्वतः । अमूल्यरत्ननिर्माणैर्भूषिताभिश्च भूषणैः ।। ४१ ।। मत्प्राणाधिष्ठातृदेवी देवीनां प्रवरा वरा । सुदाम्नः सा च शापेन वृषभानसुताऽधुना ।। ४२ ।। शताब्दिको हि विच्छेदो भविष्यति मया सह । तेन भारावतरणं करिष्यसि भुवः पितः ।। ४३ ।। तदा यास्यामि गोलोकं तया सार्धं सुनिश्चतम् । त्वया यशोदया चाऽपि गोबैर्गोपीभिरेव च ।। ४४ ।। वृषभानेन तत्पत्न्या कलावत्या च बान्धवैः । एवं च नन्दं सानन्दं यशोदां कथयिष्यसि ।। ४५ ।। त्यज शोक्रं महाभाग व्रजैः सार्धं व्रजं व्रज । अहमात्मा च साक्षी च निर्लिप्तः सर्वजीविषु ।। ४६ ।। जीवो मत्प्रतिबिम्बश्च इत्येवं सर्वसंमतम् । प्रकृतिर्मद्विकारा च साऽप्यहं प्रकृतिः स्वयम् ।। ४७ ।। यथा दुग्धे च धावल्यं न तर्योर्भैद एव च । यथा जले तथा शैत्यं यथा वह्नौ च दाहिका ।। ४८ ।। यथाऽऽकाशे तथा शब्दो भूमौ गन्धो यथा नृप । यथा शोभा च चन्द्रे च यथा दिनकरे प्रभा ।। ४९ ।। यथा दीवस्तथाऽऽत्माहं तथैव राधया सह । त्यज त्वं गोपिकाबुद्धिं राधायां मयि पुत्रताम् ।। ५० ।। अहं सर्वस्य प्रभावः सा च प्रकृतिनीश्वरी । श्रूयतां नन्द सानन्दं मद्विभूतिं सुखावहाम् ।। ५१ ।। पुरा या कथिता तात ब्रह्मणे व्यक्तजन्मने । कृष्णोऽहं देवतानां च गोलोके द्विभुजः स्वयम् ।। ५२ ।। चतुर्भुजोऽहं वैकुण्ठे शिवलोके शिवः स्वयम् । ब्रह्मलोके च ब्रह्माऽहं सूयस्तेजस्विनामहम् ।। ५३ ।। पवित्राणामहं वह्निर्जलमेव द्रवेषु च । इन्द्रियाणां मनश्चास्मि समीरः शीघ्रगामिनाम् ।। ५४ ।। यमोऽहं दण्डकर्त णां कालः कलयतामहम् । अक्षराणामकारोऽस्मि साम्नां च साम एव च ।। ५५ ।। इन्द्रश्चतुर्दशेन्द्रेषु कुबेरो धनिनामहम् । ईशानोऽहं दिमीशानां व्यापकानां नभस्तथा ।। ५६ ।। सर्वान्तरात्मा जीवेषु ब्राह्मणश्चाऽऽश्रमेषु च । धनानां च रत्नमहममूल्यं सर्वदुर्लभम् ।। ५७ ।। तैजसानां सुवर्णोऽहं मणीनां कौस्तुभः स्वयम् । वैष्णवानां कुमारोऽहं योगीन्द्राणां गणेश्वरः ।। ५८ ।। पुष्पाणां पारिजातोऽहं तीर्थानां पुष्करः स्वयम् । शालग्रामस्तथाऽर्च्यानां पत्राणां तुलसीति च ।। ५९ ।। सेनापतीनां स्कन्दोऽहं लक्ष्मणोऽहं धनुष्मताम् । राजेन्द्राणां च रामोऽहं नक्षत्राणामहं शशी ।। ६० ।। मासानां मर्गशीर्षोऽहमृतूनामस्मि माधवः । वारेष्वादित्यवारोऽहं तिथिष्वेकादशीति च ।। ६१ ।। सहिष्णूनां च पृथिवी माताऽहं बान्धवेषु च । अमृतं भक्ष्यवस्तूनां गव्येष्वाज्यमहं तथा ।। ६२ ।। कल्पवृक्षश्च वृक्षाणां सुरभिः कामधेनुषु । गङ्गाऽहं सरितां मध्ये कृतपापविनाशिनी ।। ६३ ।। वाणीति पण्डितानां च मन्त्राणां प्रणवस्तथा । विद्यासु बीजरूपोऽहं सस्यानां धान्यमेव च ।। ६४ ।। अश्वत्थः फलिनामेव गुरूणां मन्त्रदः स्वयम् । कश्यपश्च प्रजेशानां गरुडः पक्षिणां तथा ।। ६५ ।। अनन्तोऽहं च नागानां नराणां च नराधिपः । ब्रह्मर्षीणां भृगुरहं देवर्षीणां च नारदः ।। ६६ ।। राजर्षीणां च जनको महर्षीणां शुकस्तथा । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनीः ।। ६७ ।। बृहस्पतिर्बुद्धिमतां कवीनां शुक्र एव च । ग्रहाणां च शनिरहं विश्वकर्मा च शिल्पिनाम् ।। ६८ ।। मृगाणां च मृगेन्दोऽहं वृषाणां शिववाहनम् । ऐरावतो गजेन्द्राणां गायत्री छन्दसामहम् ।। ६९ ।। वेदाश्च सर्वशास्त्राणां वरुणो यादसामहम् । उर्वश्यप्सरसामेव समुद्राणां जलार्णवः ।। ७० ।। सुमेरुः पर्वतानां च रत्नवत्सु हिमालयः । दुर्गा च प्रकृतीनां च देवीनां कमलालया ।। ७१ ।। शतरूपा च नारीणां मत्प्रियाणां च राधिका । साध्वीनामपि सावित्री वेदमाता च निश्चितम् ।। ७२ ।। प्रह्लादश्चापि दैत्यानां बलिष्ठानां बलिः स्वयाम् । नारायणर्षिर्भगवाञ्ज्ञानिनां मध्य एव च ।। ७३ ।। हनूमान्वानराणां च पाण्डवानां धनंजयः । मनसा नागकन्यानां वसूनां द्रोण एव च ।। ७४ ।। द्रोणो जलधराणां च वर्षाणां भारतं तथा । कामिनां कामदेवोऽहं रम्भा च कामुकीषु च ।। ७५ ।। गोलोकश्चास्मि लोकानासुत्तमः सर्वतः परः । मातृकासु शान्तिरहं रतिश्च सुन्दरीषु च ।। ७६ ।। धर्मोऽहं साक्षिणां मध्ये संध्या च वासरेषु च । देवेष्वहं च माहेन्दो राक्षसेषु विभीषणः ।। ७७ ।। कालाग्निरुद्रो रुद्राणां संहारो भैरवेषु च । शङ्खेषु पाञ्चजन्योऽहमङ्गेष्वपि च मस्तकः ।। ७८ ।। परं पुराणसूत्रेषु चाहं भागवतं वरम् । भारतं चेतिहासेषु पञ्चरात्रेषु कापिलम् ।। ७९ ।। स्वायंभुवो मनूनां च मुनीनां व्यासदेवकः । स्वधाऽहं पितृपत्नीषु स्वाहा वङ्निप्रियासु च ।। ८० ।। यज्ञानां नाजसूयोऽहं यज्ञपत्नीषु दक्षिणा । शस्त्रास्त्रज्ञेषु रामोऽहं जमदग्निसुतो महान् ।। ८१ ।। पौराणिकेषु सूतोऽहं नीतिमत्स्वङ्गिरा मुनिः । विष्णुव्रतं व्रतानां च बलानां दैवमेव च ।। ८२ ।। ओषधीनामहं दूर्वा तृणानां कुशमेव च । धर्मकर्मसु सत्यं च स्नेहपात्रेषु पुत्रकः ।। ८३ ।। अहं व्याधिश्च शत्रूणां ज्वरो व्याधिष्वहं तथा । मद्भक्तिष्वपि मद्दास्यं वरेषु च वरः स्मृतः ।। ८४ ।। आश्रमाणां गृहस्थोऽहं संन्यासी च विवेकिनाम् । सुदर्शनं च शस्त्राणां कुशलं च शुभाशिषाम् ।। ८५ ।। एश्वर्याणां महाज्ञानं वैराग्यं च सुखेष्वहम् । मि (इ) ष्टवाक्यं प्रीतिदेषु दानेषु चाऽऽत्मदानकम् ।। ८६ ।। संचयेषु धर्मकर्म कर्मणां च मदर्चनम् । कठोरेषु तपश्चाहं फलेषु मोक्ष एव च ।। ८७ ।। अष्टसिद्धिषु प्राकाम्यमहं काशीपुरीषु च । नगरेषु तथा काञ्ची स देशो यत्र वैष्णवः ।। ८८ ।। सर्वाधारेषु स्थूलेषु अहमेव महान्विराट् । परमाणुरहं विश्वे महासूक्ष्मेषु नित्यशः ।। ८९ ।। वैद्यानामश्विनीपुत्रौ जौषधीषु रसायनम् । धन्वन्तरीर्मन्त्रविदां विषादः क्षयकारिणाम् ।। ९० ।। रागाणां मेघमल्लारः कामोदस्तत्प्रियासु च । मत्पार्षदेषु श्रीदामा मद्वन्वुष्वहमुद्धवः ।। ९१ ।। पशुजन्तुषु गौश्चहं चन्दनं काननेषु च । तीर्थपूतश्च पूतेषु निःशङ्केषु च वैष्णवः ।। ९२ ।। न वैष्णवात्परः प्राणी मन्मन्त्रोपासकश्च यः । वृक्षेष्वङ्कुररूपोऽहमाकारः सर्ववस्तुषु ।। ९३ ।। अहं च सर्वभूतेषु मयि सर्वे च संततम् । यथा वृक्षे फलान्येव फलेषु चाङ्कुरस्तरोः ।। ९४ ।। सर्वकारणरूपोऽहं न च मत्कारणं परम् । सर्वेशीऽहं न मेऽपीशो ह्यहं कारणकारणम् ।। ९५ ।। सर्वेषां सर्वबीजानां प्रवदन्ति मनीषिणः । मन्मायामोहितजना मां न जानन्ति पापिनः ।। ९६ ।। पापग्रस्तेन दुर्बुद्ध्या विधिना वञ्चितेन च । स्वात्माऽहं सर्वजन्तूनां स्वाम्यहं नादृतः स्वयम् ।। ९७ ।। यत्राहं शक्तयस्तत्र क्षुत्पिपासादयस्तथा । गते मयि तथा यान्ति नरदेहे (वे) यथाऽनुगाः ।। ९८ ।। हे व्रजेश नन्द तात ज्ञानं ज्ञात्वा व्रजं व्रज । कथयस्व च तां राधां यशोदां ज्ञानमेव च ।। ९९ ।। ज्ञात्वा ज्ञानं व्रजेशश्च जगाम स्वानुगैः सह । गत्वा च कथयामास ते द्वे च योषितां वरे ।। १०० ।। ते च सर्वे जहः शोकं महाज्ञानेन नारद । कृष्णो यद्यपि निर्लिप्तो मायेशो मायया रतः ।। १०१ ।। यशोदया प्रेरितश्च पुनरागत्य माधवम् । तुष्टाव परमानन्दं नन्दश्च नन्दनन्दनम् ।। १०२ ।। सामवेदोक्तस्तोत्रेण कृतेन ब्रह्मणा पुरा । पुत्रस्य पुरतः स्थित्वा रुरोद च पुनः पुनः ।। १०३ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo नन्दादि- णोकप्रमोचनं नाम त्रिसप्ततितमोऽध्यायः ।। ७३ ।।

atha trisaptatitamodhyāyaḥ nārāyaṇa uvāca atha kṛṣṇaśca sānandaṃ nandaṃ taṃ pitaraṃ balaḥ | bodhayāmāsa śokārtaṃ divyairādhyātmikādibhiḥ || 1 || uccai rudantaṃ niśceṣṭaṃ putraviccedakātaram | dattvā tasmai maṇiśreṣṭhamityuvāca jagatpatiḥ || 2 || śrībhagavānuvāca nibodha nanda sānandaṃ tyaja śokaṃ mudaṃ labha | jñānaṃ gṛhāṇa maddattaṃ yaddataṃ brahmaṇe purā || 3 || yadyaddattaṃ ca śoṣāya gaṇeśāyeśvarāya ca | dineśāya munīśāya yogīśāya ca puṣkare || 4 || kaḥkasya putraḥ kastātaḥ kā mātā kasyacitkutaḥ| āyānti yānti saṃsāraṃ paraṃ svakṛtakarmaṇā || 5 || karmānusārājjantuśca jāyate sthānabhedataḥ | karmaṇā ko'pi jantuśca yogīndrāṇāṃ nṛpastriyām || 6 || dvijāpatnyāṃ kṣatriyāṇāṃ vaiśyāyāṃ śūdrayoniṣu | tiryagyoniṣu kaścicca kaścitpaśvādiyoniṣu || 7 || mamaiva māyayā sarve sānandā viṣayeṣu ca | dehatyāme viṣaṇṇāśca vicchede bāndhavasya ca || 8 || prajābhūmidhanādīnāṃ vicchedo maraṇādhikaḥ | nityaṃ bhavati mūḍhaśca na ca vidvāñchucā yutaḥ || 9 || madbhakto bhaktiyuktaśca madyājī vijitendriyaḥ | manmantropāsakaścaiva matsevānirataḥ śuciḥ || 10 || madbhayādvāti vāto'yaṃ ravirbhāti ca nityaśaḥ | bhāti candro mahendraśca kālabhede ca varṣati || 11 || vahnirvahati mṛtyuśca caratyeva hi jantuṣu | bibharti vṛkṣaḥ kālena puṣpāpi ca phalāni ca || 12 || nirādhāraśca vāyuśca vāyvādhāraśca kaccipaḥ | śeṣaśca kacchapādhāraḥ śeṣādhāraśca parvataḥ || 13 || tadādhārāśca pātālāḥ sapta eva hi paṅktitaḥ | niścalaṃ ca jalaṃ tasmājjalasthā ca vasuṃdharā || 14 || saptasvarga dharādhāraṃ jyotiścakaṃ grahāśrayam | nirādhāraśca vaikuṇṭho brahmāṇḍemyaḥ paro varaḥ || 15 || tatparaścāpi golokaḥ pañcāśatko ṭiyojanāt | ūrdhva nirāśrayaścāpi ratnasāravinirmitaḥ || 16 || saptadvāraḥ saptasāraḥ parikhāsaptasaṃyutaḥ | lakṣaprākārayuktaśca nadyā virajayā yutaḥ || 17 || veṣṭito ratnaśailena śataśṛṅgeṇa cāruṇā | yojanāyutamānaṃ ca yasyaikaṃ śṛṅgamujjvalam || 18 || śatakoṭiyojanaśca śaila ucchrita eva ca | dairdhyaṃ tasya śataguṇaṃ prasthaṃ ca lakṣayojanam || 19 || yojanāyutavistīrṇastatraiva rāsamaṇḍalaḥ | amūlyaratnanirmāṇo vartulaścandrabimbavatu || 20 || pārijātavanenaiva puṣpitena ca vevṭitaḥ | kalpavṛkṣasahasreṇa puṣpodyānaśatena ca || 21 || nānāvidhaiḥ puṣpavṛkṣaiḥ puṣpitena ca cāruṇā | trikoṭiratnabhavano gopīlakṣaiśca rakṣitaḥ || 22 || ratnapradīpayuktaśca ratnatalpasamanvitaḥ | nānābhogasamāyukto sadhuvāpīśatairvṛtaḥ || 23 || pīyūṣavāpīyuktaśca kāmabhogasamanvitaḥ | golokagṛhasaṃkhyānavarṇane vā viśāradaḥ || 24 || na ko'pi veda vidvānvā vedavidvānvrajeśvaraḥ | amūlyaratnanirmāṇabhavanānāṃ trikoṭibhiḥ || 25 || śobhitaṃ sundaraṃ ramyaṃ rādhāśiviramuttamam | amūlyaratnakalaśairujjvalaṃ ratnadarpaṇaiḥ || 26 || asūlyaratnastamabhānāṃ rājibhiśca virājitam | nānācitravicitraiśca citritaṃ śvetacāmaraiḥ || 27 || māṇikyamuktāsaṃsaktaṃ hīrāvārasamanvitam | ratnapradīpasaṃsaktaṃ ratnasopānasundaram || 28 || amūlyaratnapatraiśca talparājivirājitam | amūlyaratnacitraiśca tribhiścitravicitritaiḥ || 29 || tisṛbhiḥ parikhābhiśca tribhirdvāraiśca durgamaiḥ | yuktaṃ ṣoḍaśakakṣābhiḥ pratidvāreṣu vā'ntaram || 30 || gopīṣoḍaśalakṣaiśca saṃniyuktairitastataḥ | vahniśuddhāṃśukādhānai ratnabhūṣaṇabhūṣitaiḥ || 31 || taptakāñcanavarṇābhaiḥ śatacandrasamanvitaiḥ | rādhikāriṃkarīvargairyuktamabhyantaraṃ varam || 32 || amūlyaratnanirmāṇapraṅgaṇaṃ sumanoharam | amūlyaratnastambhānāṃ samūraiśca suśobhitam || 33 || ratnamaṅgalakumbhaiśca phalapallavasaṃyutaiḥ | saṃyutaṃ ratnavedībhirmuktā yuktābhirīpsitam || 34 || amūlyaratnamukuraiḥ śobhitaṃ sundarairaho | amūlyaratnanirmāṇaṃ bhavanānāṃ varaṃ gṛham || 35 || ratnasiṃhāsanasthā ca gopīlakṣaiśca sevitā | koṭipūrṇenduśobhāḍhyā śvetacampakasaṃnibhā || 36 || amūlyaratnanirmāṇabhūṣaṇaiśca vibhūṣitā | amūlyaratnavasanā bibhratī ratnadarpaṇam || 37 || ratnapadmaṃ ca ruciraṃ savyadakṣiṇahastataḥ | dāḍimbakusumākāraṃ sindūraṃ sumanoharam || 38 || suśobhitaṃ sṛgamadairiṣṭaiścandanabindubhiḥ | dadhatī kabarībhāraṃ mālatīmalyamaṇḍitam || 39 || racitaṃ vāmabhagena munīndrāṇāṃ manoharam | evaṃbhūtaṃ (tā) tatra rādhā gopībhiḥ parisevitā || 40 || śvetacāmarahastābhistattulyābhiśca sarvataḥ | amūlyaratnanirmāṇairbhūṣitābhiśca bhūṣaṇaiḥ || 41 || matprāṇādhiṣṭhātṛdevī devīnāṃ pravarā varā | sudāmnaḥ sā ca śāpena vṛṣabhānasutā'dhunā || 42 || śatābdiko hi vicchedo bhaviṣyati mayā saha | tena bhārāvataraṇaṃ kariṣyasi bhuvaḥ pitaḥ || 43 || tadā yāsyāmi golokaṃ tayā sārdhaṃ suniścatam | tvayā yaśodayā cā'pi gobairgopībhireva ca || 44 || vṛṣabhānena tatpatnyā kalāvatyā ca bāndhavaiḥ | evaṃ ca nandaṃ sānandaṃ yaśodāṃ kathayiṣyasi || 45 || tyaja śokraṃ mahābhāga vrajaiḥ sārdhaṃ vrajaṃ vraja | ahamātmā ca sākṣī ca nirliptaḥ sarvajīviṣu || 46 || jīvo matpratibimbaśca ityevaṃ sarvasaṃmatam | prakṛtirmadvikārā ca sā'pyahaṃ prakṛtiḥ svayam || 47 || yathā dugdhe ca dhāvalyaṃ na taryorbhaida eva ca | yathā jale tathā śaityaṃ yathā vahnau ca dāhikā || 48 || yathā''kāśe tathā śabdo bhūmau gandho yathā nṛpa | yathā śobhā ca candre ca yathā dinakare prabhā || 49 || yathā dīvastathā''tmāhaṃ tathaiva rādhayā saha | tyaja tvaṃ gopikābuddhiṃ rādhāyāṃ mayi putratām || 50 || ahaṃ sarvasya prabhāvaḥ sā ca prakṛtinīśvarī | śrūyatāṃ nanda sānandaṃ madvibhūtiṃ sukhāvahām || 51 || purā yā kathitā tāta brahmaṇe vyaktajanmane | kṛṣṇo'haṃ devatānāṃ ca goloke dvibhujaḥ svayam || 52 || caturbhujo'haṃ vaikuṇṭhe śivaloke śivaḥ svayam | brahmaloke ca brahmā'haṃ sūyastejasvināmaham || 53 || pavitrāṇāmahaṃ vahnirjalameva draveṣu ca | indriyāṇāṃ manaścāsmi samīraḥ śīghragāminām || 54 || yamo'haṃ daṇḍakarta ṇāṃ kālaḥ kalayatāmaham | akṣarāṇāmakāro'smi sāmnāṃ ca sāma eva ca || 55 || indraścaturdaśendreṣu kubero dhanināmaham | īśāno'haṃ dimīśānāṃ vyāpakānāṃ nabhastathā || 56 || sarvāntarātmā jīveṣu brāhmaṇaścā''śrameṣu ca | dhanānāṃ ca ratnamahamamūlyaṃ sarvadurlabham || 57 || taijasānāṃ suvarṇo'haṃ maṇīnāṃ kaustubhaḥ svayam | vaiṣṇavānāṃ kumāro'haṃ yogīndrāṇāṃ gaṇeśvaraḥ || 58 || puṣpāṇāṃ pārijāto'haṃ tīrthānāṃ puṣkaraḥ svayam | śālagrāmastathā'rcyānāṃ patrāṇāṃ tulasīti ca || 59 || senāpatīnāṃ skando'haṃ lakṣmaṇo'haṃ dhanuṣmatām | rājendrāṇāṃ ca rāmo'haṃ nakṣatrāṇāmahaṃ śaśī || 60 || māsānāṃ margaśīrṣo'hamṛtūnāmasmi mādhavaḥ | vāreṣvādityavāro'haṃ tithiṣvekādaśīti ca || 61 || sahiṣṇūnāṃ ca pṛthivī mātā'haṃ bāndhaveṣu ca | amṛtaṃ bhakṣyavastūnāṃ gavyeṣvājyamahaṃ tathā || 62 || kalpavṛkṣaśca vṛkṣāṇāṃ surabhiḥ kāmadhenuṣu | gaṅgā'haṃ saritāṃ madhye kṛtapāpavināśinī || 63 || vāṇīti paṇḍitānāṃ ca mantrāṇāṃ praṇavastathā | vidyāsu bījarūpo'haṃ sasyānāṃ dhānyameva ca || 64 || aśvatthaḥ phalināmeva gurūṇāṃ mantradaḥ svayam | kaśyapaśca prajeśānāṃ garuḍaḥ pakṣiṇāṃ tathā || 65 || ananto'haṃ ca nāgānāṃ narāṇāṃ ca narādhipaḥ | brahmarṣīṇāṃ bhṛgurahaṃ devarṣīṇāṃ ca nāradaḥ || 66 || rājarṣīṇāṃ ca janako maharṣīṇāṃ śukastathā | gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo munīḥ || 67 || bṛhaspatirbuddhimatāṃ kavīnāṃ śukra eva ca | grahāṇāṃ ca śanirahaṃ viśvakarmā ca śilpinām || 68 || mṛgāṇāṃ ca mṛgendo'haṃ vṛṣāṇāṃ śivavāhanam | airāvato gajendrāṇāṃ gāyatrī chandasāmaham || 69 || vedāśca sarvaśāstrāṇāṃ varuṇo yādasāmaham | urvaśyapsarasāmeva samudrāṇāṃ jalārṇavaḥ || 70 || sumeruḥ parvatānāṃ ca ratnavatsu himālayaḥ | durgā ca prakṛtīnāṃ ca devīnāṃ kamalālayā || 71 || śatarūpā ca nārīṇāṃ matpriyāṇāṃ ca rādhikā | sādhvīnāmapi sāvitrī vedamātā ca niścitam || 72 || prahlādaścāpi daityānāṃ baliṣṭhānāṃ baliḥ svayām | nārāyaṇarṣirbhagavāñjñānināṃ madhya eva ca || 73 || hanūmānvānarāṇāṃ ca pāṇḍavānāṃ dhanaṃjayaḥ | manasā nāgakanyānāṃ vasūnāṃ droṇa eva ca || 74 || droṇo jaladharāṇāṃ ca varṣāṇāṃ bhārataṃ tathā | kāmināṃ kāmadevo'haṃ rambhā ca kāmukīṣu ca || 75 || golokaścāsmi lokānāsuttamaḥ sarvataḥ paraḥ | mātṛkāsu śāntirahaṃ ratiśca sundarīṣu ca || 76 || dharmo'haṃ sākṣiṇāṃ madhye saṃdhyā ca vāsareṣu ca | deveṣvahaṃ ca māhendo rākṣaseṣu vibhīṣaṇaḥ || 77 || kālāgnirudro rudrāṇāṃ saṃhāro bhairaveṣu ca | śaṅkheṣu pāñcajanyo'hamaṅgeṣvapi ca mastakaḥ || 78 || paraṃ purāṇasūtreṣu cāhaṃ bhāgavataṃ varam | bhārataṃ cetihāseṣu pañcarātreṣu kāpilam || 79 || svāyaṃbhuvo manūnāṃ ca munīnāṃ vyāsadevakaḥ | svadhā'haṃ pitṛpatnīṣu svāhā vaṅnipriyāsu ca || 80 || yajñānāṃ nājasūyo'haṃ yajñapatnīṣu dakṣiṇā | śastrāstrajñeṣu rāmo'haṃ jamadagnisuto mahān || 81 || paurāṇikeṣu sūto'haṃ nītimatsvaṅgirā muniḥ | viṣṇuvrataṃ vratānāṃ ca balānāṃ daivameva ca || 82 || oṣadhīnāmahaṃ dūrvā tṛṇānāṃ kuśameva ca | dharmakarmasu satyaṃ ca snehapātreṣu putrakaḥ || 83 || ahaṃ vyādhiśca śatrūṇāṃ jvaro vyādhiṣvahaṃ tathā | madbhaktiṣvapi maddāsyaṃ vareṣu ca varaḥ smṛtaḥ || 84 || āśramāṇāṃ gṛhastho'haṃ saṃnyāsī ca vivekinām | sudarśanaṃ ca śastrāṇāṃ kuśalaṃ ca śubhāśiṣām || 85 || eśvaryāṇāṃ mahājñānaṃ vairāgyaṃ ca sukheṣvaham | mi (i) ṣṭavākyaṃ prītideṣu dāneṣu cā''tmadānakam || 86 || saṃcayeṣu dharmakarma karmaṇāṃ ca madarcanam | kaṭhoreṣu tapaścāhaṃ phaleṣu mokṣa eva ca || 87 || aṣṭasiddhiṣu prākāmyamahaṃ kāśīpurīṣu ca | nagareṣu tathā kāñcī sa deśo yatra vaiṣṇavaḥ || 88 || sarvādhāreṣu sthūleṣu ahameva mahānvirāṭ | paramāṇurahaṃ viśve mahāsūkṣmeṣu nityaśaḥ || 89 || vaidyānāmaśvinīputrau jauṣadhīṣu rasāyanam | dhanvantarīrmantravidāṃ viṣādaḥ kṣayakāriṇām || 90 || rāgāṇāṃ meghamallāraḥ kāmodastatpriyāsu ca | matpārṣadeṣu śrīdāmā madvanvuṣvahamuddhavaḥ || 91 || paśujantuṣu gauścahaṃ candanaṃ kānaneṣu ca | tīrthapūtaśca pūteṣu niḥśaṅkeṣu ca vaiṣṇavaḥ || 92 || na vaiṣṇavātparaḥ prāṇī manmantropāsakaśca yaḥ | vṛkṣeṣvaṅkurarūpo'hamākāraḥ sarvavastuṣu || 93 || ahaṃ ca sarvabhūteṣu mayi sarve ca saṃtatam | yathā vṛkṣe phalānyeva phaleṣu cāṅkurastaroḥ || 94 || sarvakāraṇarūpo'haṃ na ca matkāraṇaṃ param | sarveśī'haṃ na me'pīśo hyahaṃ kāraṇakāraṇam || 95 || sarveṣāṃ sarvabījānāṃ pravadanti manīṣiṇaḥ | manmāyāmohitajanā māṃ na jānanti pāpinaḥ || 96 || pāpagrastena durbuddhyā vidhinā vañcitena ca | svātmā'haṃ sarvajantūnāṃ svāmyahaṃ nādṛtaḥ svayam || 97 || yatrāhaṃ śaktayastatra kṣutpipāsādayastathā | gate mayi tathā yānti naradehe (ve) yathā'nugāḥ || 98 || he vrajeśa nanda tāta jñānaṃ jñātvā vrajaṃ vraja | kathayasva ca tāṃ rādhāṃ yaśodāṃ jñānameva ca || 99 || jñātvā jñānaṃ vrajeśaśca jagāma svānugaiḥ saha | gatvā ca kathayāmāsa te dve ca yoṣitāṃ vare || 100 || te ca sarve jahaḥ śokaṃ mahājñānena nārada | kṛṣṇo yadyapi nirlipto māyeśo māyayā rataḥ || 101 || yaśodayā preritaśca punarāgatya mādhavam | tuṣṭāva paramānandaṃ nandaśca nandanandanam || 102 || sāmavedoktastotreṇa kṛtena brahmaṇā purā | putrasya purataḥ sthitvā ruroda ca punaḥ punaḥ || 103 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo nandādi- ṇokapramocanaṃ nāma trisaptatitamo'dhyāyaḥ || 73 ||

English translation

Nanda and others relieved of Grief NarSyana said-'Lord Krsna imparted spiritual knowledge to Panda who was suffering from the grief of separation of the son and feeling helpless was crying aloud, getting fainted. Thereafter, the lord of the universe offered him the best of gems and said.

Krsna said- O Nanda, shed away the grief and feel delighted and blissful, hearing my words. I am imparting divine knowledge to you which you kindly receive. The divine knowledge was imparted by me in earlier times at Puskara-k^etra to Brahma, Sesa, Ganes'a, Siva, Sflrya, the ascetics and the great yogis.

The people continue to come and go in this universe according to the result of their actions.

Therefore who is the father of whom and who is the son of whom?.

Everyone takes birth at a particular place according to his karmas. Someone takes birth with the great yogis, someone with the queen, some with Brahmana woman, someone with Ks atriyas, Vaisyas and ^udra women. Thus someone is bom as a bird, someone as an animal.

Influenced by my illusion, all the people feel delight in the various types of worldly pleasures and feel painful at heart with the departure of their relatives.

For them the loss of their sons and daughter, the land and the riches is more painful than even death. Because of this, these foolish people suffer form grief but the intelligent never do so.

My devotees who is filled with my devotion is self-disciplined and adores by the reciting of the mantras and because of his being always devoted to me, he always remains.spotless and without Feeling panicky from me the wind blows, \the sun rises and illumines the universe, the moon rises with all the rays and Indra pours timely rains, the fire bums, the death takes sway the lives of the people, the trees blossom timely with flowers and fmits.

The wind has no base but it earries the tortoise, the tortoise carries Sesa and Sesa carries the mountains, the seven nether worlds stand in a line. The waters of the nether worlds are quite static and the earth is floating on the water.

The heaven and other seven lokas are based on earth, the Jyotiscahra and the constellation stand on the bases of the planets but the Vaikuntha stands with out any base and is beyond the globe.

Goloka is situated at a distance of fifty crores of yojanas beyond that, which is floating. The Goloka having no base is built with the best of gems having seven gates, having seven substances, seven moats and lakhs of boundary walls, A river named Viraja flows there. Goloka is surrounded by the mountains of hundred peaks covered with gems, a single peak of which spreads over an area of ten thousand yojanas and is filled with lustre.

That mountain is spread over an area of a hundred yojanas and is more than hundred times in length and a lakh of yojanas in width. A j Rdsamandala is spread over ten thousand yojanas in Goloka which is built with invaluable gems and is circular like the lunar disc, It is surrounded by the blossoming Pdrijata flowers a thousand kalpavrksa and a hundred flower orchards in which several types of flowers are blossoming. There are three crores of gem- studded houses, a lakh of cowherdesses who reside there well guarded, the lamps are made of gems, the beds are made of gems and several types of eatables are stored there. It has a hundred step-wells of honey. Similarly there are several step-wells filled with nectar and are also filled with several types of cosmetics and other articles required during love-sport. O lord of Vraja, thus I am narrating to you the number of the buildings of Goloka which are unknown even

to the best of intellectuals. It has three crores of palaces which are studded with gems beside the charming and beautiful Bhavana of Radha. This palace of Radh^ is decorated with invaluable pitchers of gems and the mirrors of gems which illumine. There are lines of gem-studded pillars, has a large number of white fly whisks which are quite astonishing. The handles of the fly-whisks were decorated with the best of gems and rubies.

The lamps of gems illumined the area. The steps are decorated with gems and the vases are also made of gems. The beds are also decorated with lines of gems and painted with three types of paintings with three moats. There are difficult entrance gates, there are sixteen apartments. At the gates of these apartments, sixteen lakhs of cowherdesses are deputed to guard them who are clad in the best of garments sanctified by fire and adorned with the best of gem-studded ornaments.

They have the complexion of molten gold and illumine like hundreds of moons. The attendants of Radhika are lodged there The court-yard of that palace is inlaid with beautiful gems, which is decorated with the best of the pillars studded with gems, the tree, the leaves and the fruits besides the welfare pitchers made of gems and the pedestals made with rubies. They have innumerable beautiful mirrors made of gems. Thus the palace is decorated with invaluable gems and happen to be the best of all the palaces on which Radhika is seated attended by a lakh of cowherdesses. She illumines like crores of full moons, having a complexion of white campaka flowers, adorned with all the beautiful ornaments and is clad in gem-studded costumes, holding in her hands a mirror and a beautiful lotus of gems; she applies a spot of vermilion of the size of the flowers of pomegranate and also spots of kasturi and

sandal-wood. She wears round her neck the garland of jasmine flowers and her hair is tied in a knot. The knot is tilted towards the left which attracts even the sages. Thus Radha is served by the cowherdesses all round. All the cowherdesses carry in their hands white fly-whisks and are adorned with the best of gem-studded ornaments.

Radha happens to be the best of the goddesses of my life. She is currently reborn as the daughter of Vrsabhanu, because of the curse of Sudama.

father, I have to be separated from her for a hundred years during which period, I shall relieve the earth of her burden and thereafter 1 shall proceed to Goloka. This is certain. You yourself, Yasoda, all the cowherds and cowherdesses, Vrsabhanu his wife Kalavatl and all other relatives will proceed with me. O Nanda, you convey all this to Yasoda also.

Therefore, O virtuous one, now you shed away the grief and move to Vraja. I happen to be the soul of all, the witness of all, pervade in all, but still I remain uninvolved.

Soul is my reflection, this is admitted by all, Prakrti is my deformed form and I alone happen to be the form of Prakrti. O king, as the whiteness cannot be separated from milk and the coolness of the water cannot be separated from it, the instinct of burning cannot be separated from fire, the sound cannot be separated from the sky, the fragrance cannot be separated from the earth, the lustre cannot be separated from the sun or the moon, the soul cannot be separated from the great soul since there is no difference between them. Similarly Radha and myself are inseparable. Therefore you shed away the feeling of being a cowherdess in Radha and myself being a son to you.

O Nanda, both of us, myself and Radha who represent Prakrti or the cause of everything.

Therefore I am going to reveal to you my pleasant grandeur. You kindly listen to me, O father, in the earlier times, I have displayed the same grandeur to Brahma. In the earlier times I happened to be Krsna among the gods who appears in Goloka with two arms.

Similarly in Vaikuntha I reside as Visnu having four arms, in Sivaloka I reside as Siva, in Brahmaloka reside as Brahma. Among those having the lustre, I represent the sun, Agni in all the auspicious things, water in all the things which flow, the mind among the organs of senses, Vayu among these moving with speed, Yama among those who provide punishment, Kala among those which cannot be counted, in the letters Samaveda in the Vedas, Indra among the fourteen Indras, Kubera among the rich people, Isana among the Dikpalas, sky among those who are all-pervading, the soul among the creatures and Brahmana among the varnas. In the riches I happen to be the best of gems, gold in the glittering articles, the kaustubha gem among the gems, Sanatkumara among the Vais navas, Ganapati among the Yogmdras, Parijata among the flowers, Puskara among the holy places, Sdlagrama among those who are unthinkable, Tulasi leaf among the leaves,

Skanda among the army commanders, Laksmana among the archers, Rama among the great kings and the moon among the constellation.

qrmqt wnt w TTTfinT:i I happen to be the Margas'Irsa among the months, the spring season among the seasons, Sunday among the days, Ekddas'i among the tithis, the earth among those who passionately bear everything, mother among all the relatives.

Amrta (nectar) among the consumable, ghee among the articles produced from the milk of the cow, kalpavrksa among the trees, KSmadhenu among the cows, Gahga among the rivers which removes the sins of all, the speech among the intellectuals, the pranava among the mantras, the form of seed among the vidyas, the paddy among the crops, plpala among the trees, the one who bestows the mantra among the teachers, Kasyapa among the PrajSpati, Garuda among the birds, Ananta among the snakes, the king among the people, Bhrgu among the Brahmarsis, NSrada among the sages of the gods, Janaka among the royal sages, ^ukra among the great sages, Citraratha among the Gandharvas, Kapila among the siddhas, Brhaspati among the wise people, Sukra among the poets, Saturn among the planets, Visvakarma among the architects, lion among the wild animals, Nandlsvara among the bulls, Airavata among the elephants, Gayatrl

among the metres, Vedas among the scriptures, Varuna among the aquatics, UrvasI among the apsards, Jalasagara among the waters.

RRraj; 1i 11 Sumeru among the mountains, Himalaya among the stores of gems, Durga among the Prakrtis, LaksmI among the goddesses, ^atarQpa among the women, Radhika of all my beloved's, Savitri among the chaste woman, Prahlada among the daityas, Bali among the valorous people, the sage Narayana among the intellectuals, Hanuman among the monkeys, Arjuna among the Pandavas, Manasa among the daughters of the serpents, Drona among the Vasus, Bharata among the varsas, Kamadeva among the passionate people, Rambha among the passionate women, Goloka among the lakes, which is the best of all. Similarly I happen to be Santi among the matrkas, Rati among the beautiful women, Dharma among the witnesses, Sandhya among the Vasaras, Mahendra among the gods, Vibhisana among the demons, Kalagni- rudra among the Rudras, Saihhara among the Bhairavas, Pancajanya among the conches, forehead among the limbs, Bhagavata among the

Puranas, Mahabharata among the history books, Kapila among the Pancaratras, Svayambhuva among the Manus, Vyasadeva among the Munis, Svadha among the spouse and the manes, Svaha among the beloved's of Agni.

tfiTTftrrlg gft'-.i qcrfiHui TrRi;i did ^Irdl 5l'jf 5l'dl Rajasiiya among the yajnas, daksind among the spouses of yajna and Parasurama among those well-versed in the use of weapons who had been the son of Jamadagni. I am Suta among the composers of the Puranas, sage Ahgira among the those well-versed in polity, Visnuvrata among the vratas, Daivabala among the forces, Durvd among the ausdhl, kusa among the straws, truthfulness among the religious people, the son among those who are bestowed with affection, ailment among the enemies, fever among the ailments, my slavehood of all the types of adoration which best of all and the Grhastha among all the dsramas, Samnyasis among the prudent, Sudarsana among the weapons, welfare among the blessing, great knowledge among the fortunes, Vairagya among all the pleasures, sweet words among those which increase love, self realisation among the charities, the noble deed of

all the things which are to be collected, tapas among all the hard labours, moksa among the fruits, prdkdmya among the siddhas, Kasi among the Purls (towns), Kahcl among the cities, inhabited by the Vaisnavas. I am Mahavirat among all the solid foundations. I happen to be the atom of all the tiny things in the world Asvinikumara of all the physicians, Rasayana among the Osadhis, Dhanvantari among those well-versed in the mantras, grief among those which consume a person, Meghamalldra among the Rdgas and Kamoda among the beloved's, Sridama among the courtiers, Uddhava among my relatives, cow among the animals, sandal among the forest trees, the holy places among all the tirthas and Vaisnava among the devotees who always recite my mantras. There is no one dearer to me than my own devotees; In the trees I happen to be the sprouting leaves and I happen to be the form of all the things. I pervade in all the

creatures who also dwell in me. As the fruit remains in a tree and the tree in the fruit, similarly I am the cause of everything. There is no other greater cause than myself; I am the lord of everything, I have no lord. I am myself the cause of all the deeds. This is what has been ordained by the intellectuals, the sinners are influenced by my illusion and are unaware of me because they are influenced by the destiny indulging in sinful ways and evil advice. I am the soul of all the creatures and their lord. Wherever I stay, the hunger, thirst and all other saktis remain there and when I leave that place all those also disappear as the attendants of the king disappear with the king. Therefore, O lord of Vraja, O Nanda, O father, you go to Vraja with this knowledge and impart the same to Radh^ and Yasoda. Thereafter Nanda the lord of Vraja together with his attendants left for Vraja and reaching there he narrated the words of Krsi>a to

all the ladies.

O NSrada, with the imparting of the great knowledge they also were relieved of the grief and though lord is uninvolved and the lord of illusion but still he loves someone under the influence of the illusion. Yasoda inspired Nanda who go to Mathura again. Reaching there, they eulogised all blissful Madhava by reciting the stotra composed by Brahma and prescribed in Sdmaveda. Both of them started crying standing before their son.

of separation, getting upset and had arrived from

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122403 (2017-09-17T14:10:50Z); Shanti Lal Nagar English scan pages n1366–n1374: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1366/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.