Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 72

Chapter 72

Unit 215 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 72Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 721 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 72

Source

अथ द्विसप्ततितमोऽध्यायः नारायण उवाच अथ कृष्णो गुरुं नत्वा निर्गम्य शिबिरान्मुने । आरुह्य स्वर्गयानं च शुभां मधुपुरीं ययौ ।। १ ।। विवेश मथुरां रम्यां सहाक्रूरगणैः समम् । निर्जित्य शक्रनगरी शोभायुक्तां मनोहराम् ।। २ ।। रत्नश्रेष्ठेन खचितां रचितां विश्वकर्मणा । अमूल्यरत्नकलशो राजितैश्च विराजनाम् ।। ३ ।। राजमर्गशतैरिष्टैर्वैष्टितां रुचिरैर्वरैः । चन्द्राकारैश्चन्द्रसारैर्मणिमिः परिसंस्कृतैः ।। ४ ।। विचित्रैर्मणिसारैश्च वीथीशतविनिर्मितैः । शोभितैर्वणिजैः श्रेष्ठैः पुण्यवस्तुसमन्वितैः ।। ५ ।। सरोवरसहस्रैश्च परितः परिशोभितम् । शुध्धस्फटिसंकाशैः पद्मरागविराजितैः ।। ६ ।। रत्नालंकारभूषाढ्यैः शोभितां पद्मिनीगणैः । स्यिरयौवनसंयुक्तैर्निमेषरहितैः परैः ।। ७।। शाक्षरैरूर्ध्ववदनैः कृष्णदर्शनलालसैः । भ्रूभङ्गलीलालोलैश्च शश्वच्चञ्चललोचनैः ।। ८ ।। शश्वत्कामसमायुक्तैः पीनश्रोणिपयोधरेः । कोमलाङ्गैर्मध्यकूपै रतिरासविशारदैः ।। ९ ।। रत्ननिर्माणयानानां कोटिभिः परिशोभिताम् । भूषणैर्भूषिताभिश्च चित्रेताभिश्च चित्रकैः ।। १० ।। नानाप्रकारश्रीयुक्तां पुष्पोद्यानत्रिकोटिभिः । नानापुष्पैः पुष्पिताभिर्युक्ताभिर्मधुसूदनैः ।। ११ ।। माधुर्यमधुसंयुक्तैर्मधुलुब्धैर्मुदाऽन्वितैः । माध्वीकमधुमत्तैश्च युक्तैर्मंधुकरीचयैः ।। १२ ।। नानाप्रकारदुर्गेश्च दुर्गम्यां वैरिणां गणैः । रणितां रणकैः शाश्चद्रक्षाशास्त्रविशारदैः ।। १३ ।। त्रिकोट्ट्याट्टालिकाभिश्च संयुक्तां सुमनोहराम् । रचितां किल सद्रत्नैर्विचित्रैर्विश्वकर्मणा ।। १४ ।। एवंभूतां च मथुरां दृष्ट्वा कमललोचनः । ददर्श पथि कुब्जां तां वृद्धामतियरादुराम् ।। १५ ।। यान्तों दण्डसहायेन चातिनम्रां नमद्वलीम् । रूक्षितां विकृताकारां बिभ्रतीं चन्दनद्रवम् ।। १६ ।। कस्तूरीकुङ्कुमाक्तं च स्पर्शमात्रेण नारद । सुगन्धिमकरन्देन गन्धाढ्यं सुमनोहरम् ।। १७ ।। सादृष्ट्वा सस्मिता वृद्धा श्रीकान्तं शान्तमीश्वरम् । श्रीयुक्तं श्रीनिवासं तं श्रीबीजं श्रीनिकेतनम् ।। १८ ।। प्रणम्य सहसा मूधर्ना भक्तिनम्रा पुटाञ्जलिः । प्रददौ चन्दनं तस्य गात्रेश्यामलसुन्दरे ।। १९ ।। गात्रेषु तद्गणानां च स्वर्णपात्रकरा वरा । कृत्वा प्रदक्षिणं कृष्णं प्रणनाम पुनः पुनः ।। २० ।। श्रीकृष्णदृष्टिमात्रेण श्रीयुक्ता सा बभूव ह । सहसा श्रीसमा रम्या रूपेण यौवनेन च ।। २१ ।। वहिशुद्धांशुवसना रत्नभूषणभूषिता । यथा द्वादशवर्षोया कन्या धन्या मनोहरा ।। २२ ।। बिम्बोष्ठी सस्मिता श्यामा तप्तकाञ्चनसंनिभा । सुश्रोणी सुदती बिल्वफलतुल्यपयोधरा ।। २३ ।। अमूल्यरत्ननिर्माणहारसारविराजिता । गजेन्द्रराजगमना रत्नमञ्जीररञ्जिता ।। २४ ।। बिभ्रती कबरीभारं मालतीमाल्यवेष्टितम् । रक्षितं वामभागेन रुचिरं वर्तुलाकृतिम् ।। २५ ।। सिन्दूरबिन्दुं दधतों दाडिमीकुसुमाकृतिम् । कस्तूरी बिन्दुमुपरि सार्ध चन्दनबिन्दुभिः ।। २६ ।। रन्नदर्पणाहस्ता च प्रशस्ता रतिकर्मसु । श्रीकृष्णं वरयामास लोललोचनकोणतः ।। २७ ।। श्रीवासस्तां समाश्वस्य ययौ स्थानान्तरं परम् । कृतार्थरूपा सा प्रीत्या ययौ पद्मयथाऽऽलयम् ।। २८ ।। स ददर्श स्वभवनं यया पद्यालयालयम् । रत्नशय्याविरचितं सद्रत्नसारनिर्मितम् ।। २९ ।। रत्नप्रदीपराजीभी राजिताभिश्च राजितम् । रत्नदर्पणराजैश्च राजितं परितस्ततः ।। ३० ।। सिन्दूरवस्त्रताम्बूलं श्चेतचामरमाल्यकम् । बिभ्रतीभिश्च दासीभिर्वेष्टितं दाससंघकैः ।। ३१ ।। तत्र गत्वा च भुक्त्वा च मिष्टान्नं परमं मुदा । सुष्वाप रत्नपर्यङ्के सा दासीभिश्च सेविता ।। ३२ ।। सकर्पूरं च ताम्बूलं कस्तूरीकुङ्कुमान्वितम् । चन्दनं स्थापयामास स्वतल्पे हरये सती ।। ३३ ।। मालतीमाल्ययुगलं कर्पूरादिसुवासितम् । शीतलं सलिलं स्वादु मिष्टान्नं स्वसमीपतः ।। ३४ ।। कर्मणा मनसा वाचा चिन्तयन्ती हरेः पदम् । हरेरागमनं चापि मुखचन्द्रं मनोहरम् ।। ३५ ।। जगत्कृष्णमयं शश्वत्पश्यन्ती कामुकी मुने । कोटिकन्दर्पलीलाभं कामसक्तं च कामुकम् ।। ३६ ।। ततो तदर्श श्रीकृष्णो मालाकारं मनोहरम् । मालासमूहं बिभ्रन्तं गच्छन्तं राजमन्दिरम् ।। ३७ ।। सोऽपि दृष्ट्वा च श्रीकान्तं प्रणम्य शिरशा भुवि । ददौ माल्यसमूहं च कृष्णाय परमात्मने ।। ३८ ।। कृष्णस्तस्मै वरं दत्तवा स्वदास्यमतिदुर्लभम् । माल्यं गृहीत्वा प्रययौ राजमार्गे वरं वरः ।। ३९ ।। ततो ददर्श रजकं बिभ्रतं वस्त्रपुञ्जकम् । अहंकृतिबलिष्ठं च सततं योवनोद्वतम् ।। ४० ।। वस्त्रं ययाचे तं कृष्णो विनयेन महामुने । स तस्मै न ददौ वस्त्रं तमुवाच च निष्ठुरम् ।। ४१ ।। गोरक्षकाणां त्वद्योग्यं वस्त्रमेतत्सुदुर्लभम् । राजयोग्यं च हे मूढ हे गोपजनवल्लभ ।। ४२ ।। गृहीत्वा गोपकन्याश्च कन्यालोलुप लम्पट । यद्विहारः कृतस्तत्र वृन्दारण्येऽप्यराजके ।। ४३ ।। न चात्र तादृशं कर्म राज्ञः कंसस्य वर्त्मंनि । विद्यमानोऽत्र राजेन्द्रः शास्ता दुष्टस्य तत्क्षणम् ।। ४४ ।। रजकस्य वचः श्रुत्वा जहास मधुसूदनः । जहास बलदेवश्च साक्रूरो गोपवर्गकः ।। ४५ ।। तं निहत्य चपेटेन जग्राह वस्त्रपुञ्जकम् । वस्त्रं संधारयामास श्रीकृष्णः सगणस्तथा ।। ४६ ।। रत्नयानेन गोनोकं पार्षदेर्वेष्टितेन च । ययौ रजकराजश्च धृत्वा दिव्यकलेवरम् ।। ४७ ।। शश्वद्यौवनयुक्तं च जरामृत्युहरं वरम् । पीतवस्त्रसमायुक्तं सस्मितं श्यामसुन्दरम् ।। ४८ ।। बभूव सोऽपि गोलोके पार्षदेषु च पार्षदः । कृष्णस्याऽऽगमनं तत्र सस्मार सततं वशी ।। ४९ ।। अस्तं गतो दिनकरोऽप्यक्रूरः स्वगृहं ययौ । कृष्णस्यानुमतिं प्राप्य कृष्णोऽपि कस्यचिद्गृहम् ।। ५० ।। वैष्णवस्य कुविन्दस्य तस्मिन्नस्तधनस्य च । सानन्दो नन्दसहितो बलदेवादिभिर्युतः ।। ५१ ।। स भक्तः पूजयामास प्रणम्य श्रीनिकेतनम् । तस्मै ददौ स्वदास्यं च वरं ब्रह्मादिदुर्लभम् ।। ५२ ।। पर्यङ्के सुषुपुः सर्वे भुक्त्वा मिष्टान्नसुत्तमम् । निद्रां च लेभे सा कुब्जा निद्रेशोऽपिययौ मुदा ।। ५३ ।। गत्वा ददर्श कुब्जां तां रत्नतल्पे च निद्रिताम् । दासीगणैः परिवृतां सुन्दरीं कमलामिव ।। ५४ ।। बोधयामास तां कृष्णो न दासीस्वपि निद्रिताः । तामुवाच जगन्नाथो जगन्नाथप्रियां सतीम् ।। ५५ ।। श्रीभगवानुवाच त्यज निद्रां महाभागे शृङ्गारं देहि सुन्दरि । पुरा शूर्पणखा त्वं च भगिनीं रावणस्य च ।। ५६ ।। रामजन्मनि मद्धेतोस्त्वया कान्ते तपः कृतम् । तपःप्रभावान्मां कान्तं भज श्रीकृष्णजन्मनि ।। ५७ ।। अधुना सुखसंयोगं कृत्वा गच्छ ममाऽऽलयम् । सुदुर्लभं च गोलोकं जरासृत्युहरं परम् ।। ५८ ।। इत्युकत्वा श्रीनिवासश्च कृत्वातामेव वक्षसि । नग्नां चकार शृङ्गारं चुम्बनं चापि कामुकीम् ।। ५९ ।। स सस्मिता च श्रीकृष्णं नवसंगमलज्जिता । चुचुम्ब गण्डे क्रोडे तं चकार कमला यथा ।। ६० ।। सुरतेर्विरतिर्नास्ति दंपती रतिपण्डितौ । नानाप्रकारसुरतं बभूव तत्र नारद ।। ६१ ।। स्तनश्रोणियुगं तस्या विक्षतं च चकार ह । भगवान्नखरैस्तीक्ष्णैर्दशनैरधरं वरम् ।। ६२ ।। निशावसानसमये वीर्याधानं चकार सः । सुखसंभोगभोगेन मूर्च्छामाप च सुन्दरी ।। ६३ ।। तत्राऽऽजगामतां तन्द्रा कृष्णवक्षःस्थलस्थिताम् । बुबुधे न दिवारात्रं स्वर्ग मर्त्य जलं स्थलम् ।। ६४ ।। सुप्रभाता च रजनी बभूव रजनीपतिः । पत्युर्व्यतिक्रमेणैव लज्जयेव मलीमसः ।। ६५ ।। अथाजगाम गोलोकाद्रथो रत्नविनिर्मितः । जगाम तेन तं लोकं धृत्वा दिव्यकलेवरम् ।। ६६ ।। वह्निशुद्धां शुकाधानं रत्नभूषणभूषितम् । प्रतप्तकाञ्चनाभासं नित्यं जन्मादिवर्जितम् ।। ६७ ।। सा बभूव च तत्रैव गोपी चन्द्रमुखी मुने । गोप्यः कतिविधास्तस्या बभूवुः परिचारिकाः ।। ६८ ।। भगवानपि तत्रैव क्षणं स्थित्वा स्वमन्दिरम् । जगाम यत्र नन्दश्च सानन्दो नन्दनन्दनः ।। ६९ ।। अथ कंसो निशायां च निद्रायां भयविह्वलः । ददर्श दुःखदुःस्वप्नमात्मनो मृत्युसूचकम् ।। ७० ।। ददर्श सूर्यं भूमिस्थं चतुःखण्डं नभश्च्युतम् । दशखण्डे चन्द्रबिम्बं भूमिस्थं खाच्च्युतं मुने ।। ७१ ।। पुरुषान्विकृताकारान्रज्जुहस्तान्दिगम्बरान् । विधवां शूद्रपत्नीं च नग्नां च च्छिन्ननासिकाम् ।। ७२ ।। हसन्तीं चूर्णतिलकां श्वेतकृष्णोच्चमूर्धजाम् । खड्गखर्परहस्तां च लोलजिह्वां च बिभ्रतीम् ।। ७३ ।। रुण्डमालासमायुक्तां गर्दभं महिषं वृषम् । भल्लूकं सूकरं काकं गृध्रं कह्कं च वानरम् ।। ७४ ।। विरजं कुक्कुरं नक्रं शृगालं भस्मपुञ्जकम् । अस्थिराशिं तालफलं केशं कार्पासमुल्बणम् ।। ७५ ।। निर्वाणाङ्गारमिल्कां च शवं सर्त्यं चिताश्रितम् । कुलालतैलकाराणां चक्रं वक्रं कपर्दकम् ।। ७६ ।। श्मशानं दग्धकाष्ठं च शुष्ककाष्ठं कुणं तृणाम् । गच्छन्तं च कबन्धं च नदन्तं मृतमस्तकम् ।। ७७ ।। दग्धस्थानं भस्मयुतं तडागं जलवर्जितम् । दग्धमत्स्यं च लोहं च निर्वाणदग्धकाननम् ।। ७८ ।। गलत्कुष्ठं च वृषलं नग्नं च सुक्तसूर्धचम् । अतीव रूपटं विप्रं च शपन्तं गुरुमीदृशाम् ।। ७९ ।। अतीवरुष्टं भिक्षुं च योगिनं वैष्णवं नरम् । एवं दृष्ट्वा समुत्थाय कथयामास मातरम् ।। ८० ।। पितरं भ्रातरं पत्नीं रुदतीं प्रेमविह्वलम् ।। मञ्चकान्कारयामस स्थापयामास हस्तिनम् ।। ८१ ।। मल्लसैन्यं च योद्धारं कारयामास मङ्गलम् । सभां च कारयामास पुण्यं स्वस्त्ययनं शिवम् ।। ८२ ।। यत्नेन योजयामास योगे युक्तं पुरोहितम् । उवास मञ्चके रम्ये धृत्वा खड्गं विलक्षणम् ।। ८३ ।। रणे नियोजयामास योद्धारं युद्धकोविदम् । वासयामास राजेन्द्रान्ब्राह्मणांश्च मुनीश्वरान् ।। ८४ ।। ब्राह्मणाश्च सुहृद्वर्गान्धर्मिष्ठान्रणकोविदान् । अथाऽऽजगम गोविन्दो रामेण सह नारद ।। ८५ ।। महेशस्य धनुर्मध्यं बभञ्ज तत्र लीलया । शब्देन तस्य मथुरा बधिरा च बभूव ह ।। ८६ ।। विषादं प्राप कंसश्च मुदं च देवकीसुतः । उपस्थितः सभामद्धे गजं मल्लं निहत्य च ।। योगी ददर्श तं देवं परमात्मानमीश्वरम् ।। ८७ ।। यथा हृत्पद्ममध्यस्थं तादृशं बहिरेव च । राजेन्द्ररूपं राजानः शास्तारं दण्डधारिणा म् ।। ८८ ।। पिता माता दुग्धमुखं स्तनान्धं बालकं यथा । कामिन्यः कोटिकन्दर्पलीलालावप्यधारिणम् ।। ८९ ।। कंसश्च कालपुरुषं वैरिणं तस्य बान्धवाः । मल्ला मृत्युप्रदं चैव प्राणतुल्यं च यादवाः ।। ९० ।। नमस्कृत्य मुनीन्विप्रान्पितरं मातरं गुरुम् । जगाम मञ्चकाम्याशं हस्ते कृत्वा सुदर्शनम् ।। ९१ ।। दृष्टावा भक्तं भक्तबन्धुः कृपया च कृपानिधिः । आकृष्य मञ्चकात्कंकं जघान लीलया मुने ।। ९२ ।। राजा ददर्श विश्वं च सर्वं कृष्णमयं परम् । पुरतो रत्नयानं च हीरकाहारभूषितम् ।। ९३ ।। ययौ विष्णुपदं स्फीतो दिब्यरूपं विधाय च । तेजो विवेश परमं कृष्णपादाम्बुजे मुने ।। ९४ ।। निवृत्य तस्य सत्कारं ब्राह्मणेम्यो धरं ददौ । ददौ राज्यं राजछत्रमुग्रसेनाय धीमते ।। ९५ ।। स बभूव नृपेन्द्रश्च चन्द्रवंशसमुद्भवः । विललाप कंसमाता पत्नीवर्गश्च तत्पिता ।। ९६ ।। बान्धवा मातृवर्गश्च भगिनी भ्रातृकामिनी । दर्शनं देहि राजेन्द्र समुत्तिष्ठ नृपासने ।। ९७ ।। राज्यं रक्ष धनं रक्ष बान्धवं बलमेव च । क्व यासि बान्धवान्हित्वा त्वमनाथान्महाबल ।। ९८ ।। ब्रह्मादिस्तम्बपर्यन्तमसंख्यं विश्वमेव च । सर्वं चराचराधारं यः सृजत्येव लीलया ।। ९९ ।। ब्रह्मेशशेषधर्माश्च दिनेशश्च गणेश्वरः । मुनीन्द्रवर्गो देवेन्द्रो ध्यायते यमहर्निशम् ।। १०० ।। वेदाः स्तुपन्ति यं कृष्णं स्तौति भीता सरस्वती । स्तौति यं प्रकृतिर्हृष्टा प्राकृतं प्रकृतेः परम् ।। १०१ ।। स्वेच्छामयं निरीहं च निर्गुणं च निरञ्जनम् । परात्परतरं ब्रह्म परमात्मानमीश्वरम् ।। १०२ ।। नित्यं ज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् । नित्यानन्दं च नित्यं च नित्यमक्षरविग्रहम् ।। १०३ ।। सोऽवतीर्णों हि भगवान्भारावतरणाय च । गोपालबालवेषश्च मायेशो मायया प्रभुः ।। १०४ ।। स यं हन्ति च सर्वेशो रक्षिता तस्य कः पुमान् । स यं रक्षति सर्वात्मा तस्य हन्ता न कोऽपि च ।। १०५ ।। इत्येवमुक्त्वा सर्वश्च विरराम महामुने । ब्राह्मणान्भोजयामास तेभ्यः सर्वं धनं ददौ ।। १०६ ।। भगवानपि सर्वात्मा जगाम पितुरन्तिकम् । छित्तवा च लोहनिगडं तयोर्मोक्षं चकार सः ।। १०७ ।। ननाम दण्डवद्भमौ मातरं पितरं तथा । तुष्टाव भक्त्तया देवेशो भक्तिनम्रात्मकंधरः ।। १०८ ।। श्रीभगवानुवाच पितरं मातरं विद्यामन्त्रदं गुरुमेव च । यो न पुष्णाति पुरुषो यावज्जीवं च सोऽशुचिः ।। १०९ ।। सर्वेषामपि पूज्यानां पिता वन्द्यो महान् गुरुः । पितुः शतगुणैर्माता गर्भधारणपोषणात् ।। ११० ।। माता च पृथिवीरूपा सर्वेभ्यश्च हिरैषिणी । नास्ति मातुः परो बन्धुः सर्वेषां जगतीतले ।। १११ ।। विद्यामन्त्रप्रदः कत्यं मातुः परतनो गुरुः । न हि तस्मात्परः कौऽपि वन्द्यः पूज्यश्च वेदतः ।। ११२ ।। इत्येवमुक्त्वा श्रीकृष्णो बलभद्रो ननाम च । माता चकारतौ क्रोडे पिता च सादरं मुने ।। ११३ ।। मिष्टान्नं परमं तौ च भोजयामास ब्राह्मणान् । वसुर्वसुसमूहं च ब्राह्मणेभ्यो ददौ मुदा ।। ११४ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo कंसवधवसुदेव- देवकीमोक्षणं नाम द्विसप्ततितमोध्यायः ।। ७२ ।।

atha dvisaptatitamo'dhyāyaḥ nārāyaṇa uvāca atha kṛṣṇo guruṃ natvā nirgamya śibirānmune | āruhya svargayānaṃ ca śubhāṃ madhupurīṃ yayau || 1 || viveśa mathurāṃ ramyāṃ sahākrūragaṇaiḥ samam | nirjitya śakranagarī śobhāyuktāṃ manoharām || 2 || ratnaśreṣṭhena khacitāṃ racitāṃ viśvakarmaṇā | amūlyaratnakalaśo rājitaiśca virājanām || 3 || rājamargaśatairiṣṭairvaiṣṭitāṃ rucirairvaraiḥ | candrākāraiścandrasārairmaṇimiḥ parisaṃskṛtaiḥ || 4 || vicitrairmaṇisāraiśca vīthīśatavinirmitaiḥ | śobhitairvaṇijaiḥ śreṣṭhaiḥ puṇyavastusamanvitaiḥ || 5 || sarovarasahasraiśca paritaḥ pariśobhitam | śudhdhasphaṭisaṃkāśaiḥ padmarāgavirājitaiḥ || 6 || ratnālaṃkārabhūṣāḍhyaiḥ śobhitāṃ padminīgaṇaiḥ | syirayauvanasaṃyuktairnimeṣarahitaiḥ paraiḥ || 7|| śākṣarairūrdhvavadanaiḥ kṛṣṇadarśanalālasaiḥ | bhrūbhaṅgalīlālolaiśca śaśvaccañcalalocanaiḥ || 8 || śaśvatkāmasamāyuktaiḥ pīnaśroṇipayodhareḥ | komalāṅgairmadhyakūpai ratirāsaviśāradaiḥ || 9 || ratnanirmāṇayānānāṃ koṭibhiḥ pariśobhitām | bhūṣaṇairbhūṣitābhiśca citretābhiśca citrakaiḥ || 10 || nānāprakāraśrīyuktāṃ puṣpodyānatrikoṭibhiḥ | nānāpuṣpaiḥ puṣpitābhiryuktābhirmadhusūdanaiḥ || 11 || mādhuryamadhusaṃyuktairmadhulubdhairmudā'nvitaiḥ | mādhvīkamadhumattaiśca yuktairmaṃdhukarīcayaiḥ || 12 || nānāprakāradurgeśca durgamyāṃ vairiṇāṃ gaṇaiḥ | raṇitāṃ raṇakaiḥ śāścadrakṣāśāstraviśāradaiḥ || 13 || trikoṭṭyāṭṭālikābhiśca saṃyuktāṃ sumanoharām | racitāṃ kila sadratnairvicitrairviśvakarmaṇā || 14 || evaṃbhūtāṃ ca mathurāṃ dṛṣṭvā kamalalocanaḥ | dadarśa pathi kubjāṃ tāṃ vṛddhāmatiyarādurām || 15 || yāntoṃ daṇḍasahāyena cātinamrāṃ namadvalīm | rūkṣitāṃ vikṛtākārāṃ bibhratīṃ candanadravam || 16 || kastūrīkuṅkumāktaṃ ca sparśamātreṇa nārada | sugandhimakarandena gandhāḍhyaṃ sumanoharam || 17 || sādṛṣṭvā sasmitā vṛddhā śrīkāntaṃ śāntamīśvaram | śrīyuktaṃ śrīnivāsaṃ taṃ śrībījaṃ śrīniketanam || 18 || praṇamya sahasā mūdharnā bhaktinamrā puṭāñjaliḥ | pradadau candanaṃ tasya gātreśyāmalasundare || 19 || gātreṣu tadgaṇānāṃ ca svarṇapātrakarā varā | kṛtvā pradakṣiṇaṃ kṛṣṇaṃ praṇanāma punaḥ punaḥ || 20 || śrīkṛṣṇadṛṣṭimātreṇa śrīyuktā sā babhūva ha | sahasā śrīsamā ramyā rūpeṇa yauvanena ca || 21 || vahiśuddhāṃśuvasanā ratnabhūṣaṇabhūṣitā | yathā dvādaśavarṣoyā kanyā dhanyā manoharā || 22 || bimboṣṭhī sasmitā śyāmā taptakāñcanasaṃnibhā | suśroṇī sudatī bilvaphalatulyapayodharā || 23 || amūlyaratnanirmāṇahārasāravirājitā | gajendrarājagamanā ratnamañjīrarañjitā || 24 || bibhratī kabarībhāraṃ mālatīmālyaveṣṭitam | rakṣitaṃ vāmabhāgena ruciraṃ vartulākṛtim || 25 || sindūrabinduṃ dadhatoṃ dāḍimīkusumākṛtim | kastūrī bindumupari sārdha candanabindubhiḥ || 26 || rannadarpaṇāhastā ca praśastā ratikarmasu | śrīkṛṣṇaṃ varayāmāsa lolalocanakoṇataḥ || 27 || śrīvāsastāṃ samāśvasya yayau sthānāntaraṃ param | kṛtārtharūpā sā prītyā yayau padmayathā''layam || 28 || sa dadarśa svabhavanaṃ yayā padyālayālayam | ratnaśayyāviracitaṃ sadratnasāranirmitam || 29 || ratnapradīparājībhī rājitābhiśca rājitam | ratnadarpaṇarājaiśca rājitaṃ paritastataḥ || 30 || sindūravastratāmbūlaṃ ścetacāmaramālyakam | bibhratībhiśca dāsībhirveṣṭitaṃ dāsasaṃghakaiḥ || 31 || tatra gatvā ca bhuktvā ca miṣṭānnaṃ paramaṃ mudā | suṣvāpa ratnaparyaṅke sā dāsībhiśca sevitā || 32 || sakarpūraṃ ca tāmbūlaṃ kastūrīkuṅkumānvitam | candanaṃ sthāpayāmāsa svatalpe haraye satī || 33 || mālatīmālyayugalaṃ karpūrādisuvāsitam | śītalaṃ salilaṃ svādu miṣṭānnaṃ svasamīpataḥ || 34 || karmaṇā manasā vācā cintayantī hareḥ padam | harerāgamanaṃ cāpi mukhacandraṃ manoharam || 35 || jagatkṛṣṇamayaṃ śaśvatpaśyantī kāmukī mune | koṭikandarpalīlābhaṃ kāmasaktaṃ ca kāmukam || 36 || tato tadarśa śrīkṛṣṇo mālākāraṃ manoharam | mālāsamūhaṃ bibhrantaṃ gacchantaṃ rājamandiram || 37 || so'pi dṛṣṭvā ca śrīkāntaṃ praṇamya śiraśā bhuvi | dadau mālyasamūhaṃ ca kṛṣṇāya paramātmane || 38 || kṛṣṇastasmai varaṃ dattavā svadāsyamatidurlabham | mālyaṃ gṛhītvā prayayau rājamārge varaṃ varaḥ || 39 || tato dadarśa rajakaṃ bibhrataṃ vastrapuñjakam | ahaṃkṛtibaliṣṭhaṃ ca satataṃ yovanodvatam || 40 || vastraṃ yayāce taṃ kṛṣṇo vinayena mahāmune | sa tasmai na dadau vastraṃ tamuvāca ca niṣṭhuram || 41 || gorakṣakāṇāṃ tvadyogyaṃ vastrametatsudurlabham | rājayogyaṃ ca he mūḍha he gopajanavallabha || 42 || gṛhītvā gopakanyāśca kanyālolupa lampaṭa | yadvihāraḥ kṛtastatra vṛndāraṇye'pyarājake || 43 || na cātra tādṛśaṃ karma rājñaḥ kaṃsasya vartmaṃni | vidyamāno'tra rājendraḥ śāstā duṣṭasya tatkṣaṇam || 44 || rajakasya vacaḥ śrutvā jahāsa madhusūdanaḥ | jahāsa baladevaśca sākrūro gopavargakaḥ || 45 || taṃ nihatya capeṭena jagrāha vastrapuñjakam | vastraṃ saṃdhārayāmāsa śrīkṛṣṇaḥ sagaṇastathā || 46 || ratnayānena gonokaṃ pārṣaderveṣṭitena ca | yayau rajakarājaśca dhṛtvā divyakalevaram || 47 || śaśvadyauvanayuktaṃ ca jarāmṛtyuharaṃ varam | pītavastrasamāyuktaṃ sasmitaṃ śyāmasundaram || 48 || babhūva so'pi goloke pārṣadeṣu ca pārṣadaḥ | kṛṣṇasyā''gamanaṃ tatra sasmāra satataṃ vaśī || 49 || astaṃ gato dinakaro'pyakrūraḥ svagṛhaṃ yayau | kṛṣṇasyānumatiṃ prāpya kṛṣṇo'pi kasyacidgṛham || 50 || vaiṣṇavasya kuvindasya tasminnastadhanasya ca | sānando nandasahito baladevādibhiryutaḥ || 51 || sa bhaktaḥ pūjayāmāsa praṇamya śrīniketanam | tasmai dadau svadāsyaṃ ca varaṃ brahmādidurlabham || 52 || paryaṅke suṣupuḥ sarve bhuktvā miṣṭānnasuttamam | nidrāṃ ca lebhe sā kubjā nidreśo'piyayau mudā || 53 || gatvā dadarśa kubjāṃ tāṃ ratnatalpe ca nidritām | dāsīgaṇaiḥ parivṛtāṃ sundarīṃ kamalāmiva || 54 || bodhayāmāsa tāṃ kṛṣṇo na dāsīsvapi nidritāḥ | tāmuvāca jagannātho jagannāthapriyāṃ satīm || 55 || śrībhagavānuvāca tyaja nidrāṃ mahābhāge śṛṅgāraṃ dehi sundari | purā śūrpaṇakhā tvaṃ ca bhaginīṃ rāvaṇasya ca || 56 || rāmajanmani maddhetostvayā kānte tapaḥ kṛtam | tapaḥprabhāvānmāṃ kāntaṃ bhaja śrīkṛṣṇajanmani || 57 || adhunā sukhasaṃyogaṃ kṛtvā gaccha mamā''layam | sudurlabhaṃ ca golokaṃ jarāsṛtyuharaṃ param || 58 || ityukatvā śrīnivāsaśca kṛtvātāmeva vakṣasi | nagnāṃ cakāra śṛṅgāraṃ cumbanaṃ cāpi kāmukīm || 59 || sa sasmitā ca śrīkṛṣṇaṃ navasaṃgamalajjitā | cucumba gaṇḍe kroḍe taṃ cakāra kamalā yathā || 60 || suraterviratirnāsti daṃpatī ratipaṇḍitau | nānāprakārasurataṃ babhūva tatra nārada || 61 || stanaśroṇiyugaṃ tasyā vikṣataṃ ca cakāra ha | bhagavānnakharaistīkṣṇairdaśanairadharaṃ varam || 62 || niśāvasānasamaye vīryādhānaṃ cakāra saḥ | sukhasaṃbhogabhogena mūrcchāmāpa ca sundarī || 63 || tatrā''jagāmatāṃ tandrā kṛṣṇavakṣaḥsthalasthitām | bubudhe na divārātraṃ svarga martya jalaṃ sthalam || 64 || suprabhātā ca rajanī babhūva rajanīpatiḥ | patyurvyatikrameṇaiva lajjayeva malīmasaḥ || 65 || athājagāma golokādratho ratnavinirmitaḥ | jagāma tena taṃ lokaṃ dhṛtvā divyakalevaram || 66 || vahniśuddhāṃ śukādhānaṃ ratnabhūṣaṇabhūṣitam | prataptakāñcanābhāsaṃ nityaṃ janmādivarjitam || 67 || sā babhūva ca tatraiva gopī candramukhī mune | gopyaḥ katividhāstasyā babhūvuḥ paricārikāḥ || 68 || bhagavānapi tatraiva kṣaṇaṃ sthitvā svamandiram | jagāma yatra nandaśca sānando nandanandanaḥ || 69 || atha kaṃso niśāyāṃ ca nidrāyāṃ bhayavihvalaḥ | dadarśa duḥkhaduḥsvapnamātmano mṛtyusūcakam || 70 || dadarśa sūryaṃ bhūmisthaṃ catuḥkhaṇḍaṃ nabhaścyutam | daśakhaṇḍe candrabimbaṃ bhūmisthaṃ khāccyutaṃ mune || 71 || puruṣānvikṛtākārānrajjuhastāndigambarān | vidhavāṃ śūdrapatnīṃ ca nagnāṃ ca cchinnanāsikām || 72 || hasantīṃ cūrṇatilakāṃ śvetakṛṣṇoccamūrdhajām | khaḍgakharparahastāṃ ca lolajihvāṃ ca bibhratīm || 73 || ruṇḍamālāsamāyuktāṃ gardabhaṃ mahiṣaṃ vṛṣam | bhallūkaṃ sūkaraṃ kākaṃ gṛdhraṃ kahkaṃ ca vānaram || 74 || virajaṃ kukkuraṃ nakraṃ śṛgālaṃ bhasmapuñjakam | asthirāśiṃ tālaphalaṃ keśaṃ kārpāsamulbaṇam || 75 || nirvāṇāṅgāramilkāṃ ca śavaṃ sartyaṃ citāśritam | kulālatailakārāṇāṃ cakraṃ vakraṃ kapardakam || 76 || śmaśānaṃ dagdhakāṣṭhaṃ ca śuṣkakāṣṭhaṃ kuṇaṃ tṛṇām | gacchantaṃ ca kabandhaṃ ca nadantaṃ mṛtamastakam || 77 || dagdhasthānaṃ bhasmayutaṃ taḍāgaṃ jalavarjitam | dagdhamatsyaṃ ca lohaṃ ca nirvāṇadagdhakānanam || 78 || galatkuṣṭhaṃ ca vṛṣalaṃ nagnaṃ ca suktasūrdhacam | atīva rūpaṭaṃ vipraṃ ca śapantaṃ gurumīdṛśām || 79 || atīvaruṣṭaṃ bhikṣuṃ ca yoginaṃ vaiṣṇavaṃ naram | evaṃ dṛṣṭvā samutthāya kathayāmāsa mātaram || 80 || pitaraṃ bhrātaraṃ patnīṃ rudatīṃ premavihvalam || mañcakānkārayāmasa sthāpayāmāsa hastinam || 81 || mallasainyaṃ ca yoddhāraṃ kārayāmāsa maṅgalam | sabhāṃ ca kārayāmāsa puṇyaṃ svastyayanaṃ śivam || 82 || yatnena yojayāmāsa yoge yuktaṃ purohitam | uvāsa mañcake ramye dhṛtvā khaḍgaṃ vilakṣaṇam || 83 || raṇe niyojayāmāsa yoddhāraṃ yuddhakovidam | vāsayāmāsa rājendrānbrāhmaṇāṃśca munīśvarān || 84 || brāhmaṇāśca suhṛdvargāndharmiṣṭhānraṇakovidān | athā''jagama govindo rāmeṇa saha nārada || 85 || maheśasya dhanurmadhyaṃ babhañja tatra līlayā | śabdena tasya mathurā badhirā ca babhūva ha || 86 || viṣādaṃ prāpa kaṃsaśca mudaṃ ca devakīsutaḥ | upasthitaḥ sabhāmaddhe gajaṃ mallaṃ nihatya ca || yogī dadarśa taṃ devaṃ paramātmānamīśvaram || 87 || yathā hṛtpadmamadhyasthaṃ tādṛśaṃ bahireva ca | rājendrarūpaṃ rājānaḥ śāstāraṃ daṇḍadhāriṇā m || 88 || pitā mātā dugdhamukhaṃ stanāndhaṃ bālakaṃ yathā | kāminyaḥ koṭikandarpalīlālāvapyadhāriṇam || 89 || kaṃsaśca kālapuruṣaṃ vairiṇaṃ tasya bāndhavāḥ | mallā mṛtyupradaṃ caiva prāṇatulyaṃ ca yādavāḥ || 90 || namaskṛtya munīnviprānpitaraṃ mātaraṃ gurum | jagāma mañcakāmyāśaṃ haste kṛtvā sudarśanam || 91 || dṛṣṭāvā bhaktaṃ bhaktabandhuḥ kṛpayā ca kṛpānidhiḥ | ākṛṣya mañcakātkaṃkaṃ jaghāna līlayā mune || 92 || rājā dadarśa viśvaṃ ca sarvaṃ kṛṣṇamayaṃ param | purato ratnayānaṃ ca hīrakāhārabhūṣitam || 93 || yayau viṣṇupadaṃ sphīto dibyarūpaṃ vidhāya ca | tejo viveśa paramaṃ kṛṣṇapādāmbuje mune || 94 || nivṛtya tasya satkāraṃ brāhmaṇemyo dharaṃ dadau | dadau rājyaṃ rājachatramugrasenāya dhīmate || 95 || sa babhūva nṛpendraśca candravaṃśasamudbhavaḥ | vilalāpa kaṃsamātā patnīvargaśca tatpitā || 96 || bāndhavā mātṛvargaśca bhaginī bhrātṛkāminī | darśanaṃ dehi rājendra samuttiṣṭha nṛpāsane || 97 || rājyaṃ rakṣa dhanaṃ rakṣa bāndhavaṃ balameva ca | kva yāsi bāndhavānhitvā tvamanāthānmahābala || 98 || brahmādistambaparyantamasaṃkhyaṃ viśvameva ca | sarvaṃ carācarādhāraṃ yaḥ sṛjatyeva līlayā || 99 || brahmeśaśeṣadharmāśca dineśaśca gaṇeśvaraḥ | munīndravargo devendro dhyāyate yamaharniśam || 100 || vedāḥ stupanti yaṃ kṛṣṇaṃ stauti bhītā sarasvatī | stauti yaṃ prakṛtirhṛṣṭā prākṛtaṃ prakṛteḥ param || 101 || svecchāmayaṃ nirīhaṃ ca nirguṇaṃ ca nirañjanam | parātparataraṃ brahma paramātmānamīśvaram || 102 || nityaṃ jyotiḥsvarūpaṃ ca bhaktānugrahavigraham | nityānandaṃ ca nityaṃ ca nityamakṣaravigraham || 103 || so'vatīrṇoṃ hi bhagavānbhārāvataraṇāya ca | gopālabālaveṣaśca māyeśo māyayā prabhuḥ || 104 || sa yaṃ hanti ca sarveśo rakṣitā tasya kaḥ pumān | sa yaṃ rakṣati sarvātmā tasya hantā na ko'pi ca || 105 || ityevamuktvā sarvaśca virarāma mahāmune | brāhmaṇānbhojayāmāsa tebhyaḥ sarvaṃ dhanaṃ dadau || 106 || bhagavānapi sarvātmā jagāma piturantikam | chittavā ca lohanigaḍaṃ tayormokṣaṃ cakāra saḥ || 107 || nanāma daṇḍavadbhamau mātaraṃ pitaraṃ tathā | tuṣṭāva bhakttayā deveśo bhaktinamrātmakaṃdharaḥ || 108 || śrībhagavānuvāca pitaraṃ mātaraṃ vidyāmantradaṃ gurumeva ca | yo na puṣṇāti puruṣo yāvajjīvaṃ ca so'śuciḥ || 109 || sarveṣāmapi pūjyānāṃ pitā vandyo mahān guruḥ | pituḥ śataguṇairmātā garbhadhāraṇapoṣaṇāt || 110 || mātā ca pṛthivīrūpā sarvebhyaśca hiraiṣiṇī | nāsti mātuḥ paro bandhuḥ sarveṣāṃ jagatītale || 111 || vidyāmantrapradaḥ katyaṃ mātuḥ paratano guruḥ | na hi tasmātparaḥ kau'pi vandyaḥ pūjyaśca vedataḥ || 112 || ityevamuktvā śrīkṛṣṇo balabhadro nanāma ca | mātā cakāratau kroḍe pitā ca sādaraṃ mune || 113 || miṣṭānnaṃ paramaṃ tau ca bhojayāmāsa brāhmaṇān | vasurvasusamūhaṃ ca brāhmaṇebhyo dadau mudā || 114 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo kaṃsavadhavasudeva- devakīmokṣaṇaṃ nāma dvisaptatitamodhyāyaḥ || 72 ||

English translation

Killing of Karasa and release of Vasudeva and DevakI Narayana said- O sage, lord Krsna bowing in reverence to his teacher moved out of the camp and mounted the chariot that had arrived from heaven and moved towards the city of Mathura.

He entered in the beautiful city of Mathura together with Akrura and other attendants. The city of Mathura was more beautiful than Amaravatl, was quite charming, shining and studded with gems. It was constructed by VisVakarma and was invaluable, extremely beautiful, decorated with gem-studded pitchers, having hundreds of royal roads which were decorated with the best of gems and diamonds like the moon on all sides. It had many lanes which were numberless and was filled with many auspicious things, the best of the business people and thousands of lakes so abundantly found in the city. The damsels of the city were adorned with the best of the costumes and the ornaments studded with gems. The beautiful damsels were quite youthful and were raising their heads with the desire of having a look at the lotus-like face of lord Krsna. They were looking at him with unstable eyes, their eye-brows were moving and

roving. They were always feeling passionate, with the stiff pelvic region and the breasts, soft limbs, beautiful slender-waist and were well- versed in the love-sport.

iRmt fer I Vi 11 The city of Amaravatl had crores of vehicles studded with gems which were decorated with various types of ornaments and painted with paintings, variously decorated and were lodged in three crores of gardens. There were different types of fragrant flowers, in which the black wasps, greedy for the honey, were roaming about over the Bassia Latifolia trees attracting a large number of bees as well. The city had several types of forts which were invincible for the enemies and were filled by those well-versed in the scriptures on the military. Having a large number of valorous soldiers lodged in three crores of mansions, the city was quite pleasant and was built by Visvakarma with the best of Looking at such a type of the city of Mathura, the lotus-eyed lord was moving ahead. In the meantime he met with Kubja (hunch back) who was quite old and was moving with the help of a staff, bending forward considerably. She was

quite dry and was deformed and was carrying kasturl and saffron in her hands. O Narada, with her touch the sandal-paste and the flowers had become more fragrant.

The old women looked at lord Krsna with a delightful mind, who was peaceful, full of lustre, abode of LaksmT, lord of Sri and the abode of Sri. The hunch-back suddenly folded her hands bowing in devotion. Bowing in devotion, lowering her head, she applied sandal-paste over the body of the lord and also on the attendants surrounding him. Holding the golden vase filled with sandal-paste, the old woman circumambulated lord Krsna and offered her salutation to him again and again.

rT (TO-Ff wt Thereafter at the sight of lord Krsna, the old woman was filled with grace achieving youthfulness, beauty and a well-buih body.

Suddenly she appeared like beautiful and charming like Laksml who was clad gem- studded in beautiful garments. Sanctified by fire and was adorned with several types of gem- studded ornaments having a youthful age of twelve years. She was quite pleasant and her lips appeared like ripe wood-apples. She was wearing a serene smile on her face, having a complexion like that of molten gold, beautiful pelvic region and teeth, the breasts like the fruit of wood- apple, wearing a garland of beautiful gems, walking slowly like an elephant adorned with the anklets of gems and the hair was well arranged in a knot which was adorned with a garland of jasmine flowers. The knot was filled towards the left in a roundish manner. The hunch-back had applied a spot of kasturi on the forehead and above that there appeared a spot of sandal-paste.

She was also adorned with a spot of vermilion like the flower of a pomegranate fruit. She was holding a mirror of gems in her hand. She was well-versed in the love-sport. She, looking with side-glances accepted lord Krsna as her husband.

The lord, on his part, also assured her and left for another place, getting gratified, Kubja also delightfully went back to her abode like Laksml.

She looked at her palace which had been turned like that of Laksml having the bed of gems and studded with the best of diamonds. A line of gems was inlaid in the same, the mirrors of gems were displayed on all sides which added to the grandeur. The red garments, betel, white fly- whisks and garland were held by the attendants appearing in large numbers in her abode.

Reaching there delightfully, she consumed the sweet food and rested herself on the beautiful bed served by a number of female attendants.

Then she went to sleep.

Thereafter the chaste lady placed on her bed the betel, camphor, kasturi saffron and sandal- paste and nearby she placed the garland of jasmine flowers. She also arranged the cool drinking water, scented with camphor and also arranged for delicious sweets. Thereafter she physically, mentally and by actions devoted her mind at the feet of the lord. 0 sage, visualising about the arrival of lord Krsna and devoting her mind to his lotus-like face, th& passionate women looked at the universe in the form of Krsna who was all passionate and filled with passion, moving a delightful mind, Thereafter lord Krsna looked at the gardener who was carrying the flower garlands in the royal palace. The gardener looking at the lord bowed in reverence over the ground and offered all the garlands to lord Kr§na.

The lord on his part bestowed his inaccessible slavehood on the gardener and moved forward along the royal road. He then found a washerman carrying a heap of clothes who was quite strong, youthful and proud.

O sage, the lord humbly begged from him some clothes. The washerman, however, did not part with the clothes and on the other hand spoke some very harsh words.

The washerman said- O foolish one, O lord of the cowherds, the costumes are not meant for cowherds like you because they are meant for the You are greedy for girls and you are extremely wicked, the way in which you have behaved with the cowherd girl in Vmdavana, you cannot behave like that in the region of Karhsa, because the king who punishes the wicked is available On hearing the words of the washerman, MadhusQdana laughed with Baladeva and together with all the cowherds. Thereafter lord Krsna, administered a slap on the face of the washerman and snatched away all the costumes and wore them all with all the cowherds.

v i vdalctHgcM w The chief of the washerman surrounded by his courtiers mounted a plane and turning to a divine form left for Goloka, having everlasting youthfulness, devoid of death and old age and the best. They were clad in yellow garments, wearing a serene smile on the faces and looked f i tur^q i jMfd mi fiOTTtsft o n The self-disciplined washerman reached Goloka and was turned into an attendant of the lord and started waiting there for the return of Kfsna. At sun-set Akrura also went to his abode with the permission of lord Krsna and Nanda.

Baladeva, accompanied by Krsna, went to a Vai^ nava Kuvinda who was very poor. The devoted Kuvinda bowed at the feet of the lord and adored him. The lord felt delighted and bestowed on him his slavehood which is beyond the reach of the gods like Brahma and others.

After consuming the best of the sweets, all the people slept on the beds. At that point of time the lord left for the abode of Kubja who was sleeping on the bed. Reaching there he looked at Kubja who lying on the gem-studded bed and appeared like Laksml, served by the female attendants on all sides.

Instead of waking all the attendants of Kubja, lord woke her up alone and spoke to the chaste lady. Lord Krsna said, ”0 virtuous one, O beautiful one, wake up and let me enjoy the love- sport with you because in earlier birth you happened to be Surpanakha, the sister of Ravana.

O damsel, during my incarnation as Rama you had performed the tapas for me. Influenced by those tapas I have taken to this form and have come to you as your beloved. Therefore, you serve me. Presently you enjoy all the pleasures with me and then proceed on to Goloka which destroys birth and death.

Thus speaking lord Krsna embraced her and unrobing her, enjoyed her passionate advances.

With a serene smile on her face, the passionate damsel felt shy at the first union but implanted a kiss on the lord. The lord took her in his lap like O Narada, the lord was well-versed in the art of making love and both of them did not rest during the physical union and they enjoyed the love-sport in various ways. Lord Krsna scratched her breasts and the pelvic region with the nails and also sucked her nectar-like lips.

At the end of the night the lord implanted the semen in her womb after which the beautiful damsel fainted. In the lap of lord Krsna she lost the consciousness about day and night, heaven or earth, water or earth.

Thus the time of day-break arrived and it appeared that moon had become dirty getting enraged with the husband. Thereafter the plane from Goloka arrived and she attaining the divine form went to Goloka. She was clad in the divine garments sanctified by Agni and adorned with the gem-studded ornament. She was having the complexion of molten gold becoming eternal and devoid of birth and death, O sage, she was known in the Goloka as the cowherdess CandramukhI and several types of cowherdesses became her attendants.

The lord also remaining there for a while went back to the palace where Nanda was staying delightfully. Kaihsa on the other hand was enjoying a sound sleep in the night when he felt terrified and started witnessing frightening dreams. O sage, he saw the sun had fallen frorn the sky breaking into four pieces on earth and the moon also after falling from the sky had broken into ten pieces. A.terrific unrobed man holding a terrific noose in his hand and besides, there also appeared a widow the wife of a Sudra, who was also unrobed and had her nose cut off She was smiling and was using the line of ashes as tilakam, her white and black hair was turned upwards; she was holding a sword in one hand and a skull cup in the other, her tongue was protruding and was moving. She wore a garland of skulls round her neck. Similarly he also saw a donkey, a he-buffalo, a pig, a bear, a crow, a vulture, a white kite, a monkey, a white dog, a

crocodile, a jackal, a heap of ashes, a heap of bones, a fruit of tala tree, hair, cotton, coal, burning wood, a dead body over the burning fire, the wheel of the potter, the oil mill, the cremation I ground, burnt wood, dry wood, tea-grass, straw, the moving headless body of a human, a crying dead body, the dry pool filled with ashes, the burnt fish, iron, the burnt out forest, Sudra suffering from leprosy, a naked Brahmana having dishevelled hair pronouncing a horrible curse in anger, an enraged mendicant, an ascetic and a Vaisnava. Thus witnessing a horrible dream he got up and spoke to his parents, brothers and the wife who was crying, infatuated with love. Thereafter he got the stage prepared and an elephant was made to stand there. He arranged for a terrific army of wrestlers. To start the welfare ceremony, he summoned the assembly and performed auspicious and welfare deeds reciting the welfare mantras. He cautioned

his family priest.

Holding an astonishing sword in his hand, he seated himself on the stage and deputed the very strong warriors on duty. He made the kings, Brahmanas, the mendicant, the relatives, people and the warrior to sit on the stage.

O Narada, thereafter lord Krsna together with Balarama arrived there and playfully picked up the bow of Siva. A thundering sound was created with the breaking of the bow. The entire city looked like having become deaf; looking at this Kaihsa was immensely disturbed but lord Krsna, the son of DevakT, was immensely delighted.

Killing the elephant and the wrestler he entered the assembly. At that point of time, all the ascetics with their delightful mind were looking at the lord. The gods were looking at the lord with a delightful mind, while the kings on the other hand, looked at him in the form of a great lord who was the ruler of the kings.

The parents looked at them like an infant, while the damsels looked at them like the beautiful god of love. Kaihsa on the other hand looked at Krsna and Balarama as his own enemies as well as the enemies of his relatives.

The wrestler looked at them like the god of death and all the Yadavas looked at them like their own lives.

Lord Krsna holding the Sudarsana-cakra in his hand bowed in reverence to the sage, the Brahmanas, his parents and the teacher and moved towards the stage and reached close to Kailisa. O sage, the all merciful lord who is attached to his devotees and bestowing his grace on the devotees dragged Karhsa from the platform and killed him without much difficulty.

At the time of the death, Kaihsa looked at the entire universe like Krsna and also found, the arrival of the plane studded with gems. O sage, taking to the divine form, he mounted on the plane and went to Visnuloka and his lustre was merged into the lotus-like feet of lord Krsna, Thus after killing Kamsa he distributed riches to Brahmanas and bestowed the kingship to the intelligent Ugrasena who was bom in the lunar race. On the other hand the mother of Kamsa, his wives, the father, the brothers, the mother, the sisters and the wives or brothers started lamenting. They cried "O Rajendra, you appear before us, get up and occupy the royal lion- throne and mle over the country protecting the riches and the relatives besides the army. O valorous person, where have you gone leaving us like orphans, the people said. The one who could create and preserve all the creatures from Brahma to the least blade of grass playfully and

who is adored by Brahma, Sesa, Siva, Dharma, Surya, Ganesa, Gahga, the group of sages and the gods continuously during day and night, the same lord Krsna is adored in the Vedas.

Sarasavtl recites his name feeling panicky while Prakrti offers prayers to him delightfully. He is beyond Prakrti and in the form of eternal Brahma and is adored by all. He moves at will unattached, without qualities, without blemish, beyond everyone, eternal Brahma, the great soul, the great lord, eternal, the form of eternal flame, the one who takes to a definite form for the sake of his devotees, always blissful, eternal and imperishable, the same lord, under the influence of illusion and in order to relieve the earth of her burden, has incarnated on earth together with the cowherds. He is the lord of illusion. He is lord of all and in case he kills someone, no one on earth can protect him. The one who is protected by the eternal soul, who on earth can kill him?.

O sage, all the people thus spoke among themselves and then kept quiet. Thereafter they served the Brahmanas with food and distributed riches to them.

On the other hand lord Krsna who happens to be the soul of all went to his parents and he cut off the falters of iron and freed them. He prostrated before his parents and humbly offered prayers to them.

Krsna said- The one who does not maintain his father, mother, the teacher who bestows knowledge, the teacher who bestows mantra, such a person always remains impure throughout the world because, of all the people in the world the father is quite adorable besides the teacher and the mother who carries a child in her womb. The parents who bring up the child are therefore adorable a hundred times more.

tTWTrtR: gjl-sfr ipirvT:i Because they bestow welfare, of all those who bestow welfare to all are also treated as the mother. Therefore, there is no other relative closer than the mother in the universe but the teacher who bestows knowledge is more glorious than the mother because, according to the Vedas, there is no one else more adorable than him. O sage, thus speaking lord Krsna and BalarSma offered their salutation to them. Thereafter the parents also embraced their children and were served with sweet food. Vasudeva getting delighted performed the welfare ceremonies and serving the Brahmanas with food, distributed wealth among them.

qm i ivs q 11

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122402 (2017-09-17T14:10:23Z); Shanti Lal Nagar English scan pages n1358–n1366: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1358/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.