Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 70

Chapter 70

Unit 213 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 70Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 701 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 70

Source

अथ सप्ततितमोऽध्यायः नारायण उवाच अथाक्रूरः स्वशरणं गत्वा कंसेन प्रेषितः । चकार शयनं तल्पे भुक्त्वा मीष्टान्नमुत्तमम् ।। १ ।। सकर्पूरं च ताम्बूलं चखाद वासितं जलम् । जगाम निद्रां सुखतः सुखसंभोगमात्रतः ।। २ ।। ततो ददर्श सुस्वप्नं पुराणश्रुतिसंमतम् । निशावशेषसमये बाधादिपरिवर्जितः ।। ३ ।। अरोगी बद्धकेशश्च वस्त्रयुग्मसमन्वितः । सुतल्पशायी सुस्निग्धश्चिन्ताशोकविवर्जितः ।। ४ ।। किशोरवयसं श्यामं द्विभुजं मुरलीधरम् । पीतवस्त्रपरीधानं वनमालाविभूषितम् ।। ५ ।। चन्दनोक्षितसर्वाङ्गं मालतीमाल्यशोभितम् । भूषितं भूषणार्हं च सद्रत्नमणिभूषणैः ।। ६ ।। मयूरपिच्छचूडं च सस्मितं पद्मलोचनम् । एवंभूतं द्विचशिशुं ददर्श प्रथमं मुने ।। ७ ।। ततो ददर्श रुचिरां पतिपुत्रवतीं सतीम् । पीतवस्त्रपरीधानां रत्नभूषणभूषिताम् ।। ८ ।। ज्वलत्प्रदीपहस्तां च शुक्लधान्यकरां वराम् । शरच्चन्द्रनिभास्यां च सस्मितां वरदां शुभाम ।। ९ ।। ततो ददर्श विप्रं च प्रकुर्वन्तं शुभाशिषम् । श्वेतपद्मगतं हंसं तुरगं च सरोवरम् ।। १० ।। ददर्श चित्रितं चारु फलितं पुष्पितं शुभम् । आम्रनिम्बनारिकेलगुर्वर्ककदलीतरुम् ।। ११ ।। दशन्तं श्वेतसर्पं च स्वात्मानं पर्वतस्थितम् । वृक्षस्थं च गजस्थं च तरिस्थं तुरगस्थितम् ।। १२ ।। वीणां वादितवन्तं च भुक्तवन्तं च पायसम् । दधिक्षीरयुतान्नं च पद्मपत्रस्थमीप्सितम् ।। १३ ।। कृमिविट्सहिताङ्गं च रुदन्तं मोहितं तदा । शुक्लधान्यपुष्पकरं क्षणं चन्दनचर्चितम् ।। १४ ।। प्रासादस्थं समुद्रस्थमात्मानं च सलोहितम् । छिन्नभिन्नं क्षताङ्गं च मेदपूयसमन्वितम् ।। १५ ।। ततो ददर्श रजतं मणिं शुभ्रं च काञ्चनम् । सुक्तामाणिक्यरत्नं च पूर्णकुम्भजलं शुभम् ।। १६ ।। सुरभिं च सवत्सां च वृषभेन्द्रं मयूरकम् । शुकं च सारसं हंसं चिल्लं खञ्जनमेव च ।। १७ ।। ताम्बूलं पुष्पमाल्यं च ज्वलदग्निं सुरार्चनम् । पार्वतीप्रतिमां कृष्णप्रतिमां शिवलिङ्गकम् ।। १८ ।। विप्रबालां च बालं च सुपक्वफलितां कृषिम् । देवस्थलीं च राजेन्द्रं सिंहं व्याघ्रं गुरुं सुरम् ।। १९ ।। दृष्ट्वा स्वप्नं समुत्तस्थौ चकाराऽऽह्निकमीप्सितम् । उद्धवं कथयामास सर्वं वृत्तान्तमेव च ।। २० ।। उद्धवाज्ञां समादाय कृत्वा गुरुसुरार्चनम् । यात्रां चकार श्रीकृष्णं ध्यात्वा मनसि नारद ।। २१ ।। ददर्श वर्त्मन्येवं च मङ्गलार्हं शुभप्रदम् । वाञ्छाफलप्रदं रम्यं पुरो मङ्गलसूचकम् ।। २२ ।। वामे शैवं शिवां पूर्णकुम्भं नकुलचाषकम् । पतिपुत्रवतीं साध्वीं दिव्याभरणभूषिताम् ।। २३ ।। शुक्लपुष्पं च माल्यं च धान्यं च खञ्जनं शुभम् । दक्षिणे ज्वलदग्रिं च विप्रं च वृषभं गजम् ।। २४ ।। वत्सप्रयुक्तां धेरुं च श्वेताश्वं राजहंसकम् । वेश्यां च पुष्पमालां च पताकां दधि पायसम् ।। २५ ।। मणिं सुवर्ण रचतं मुक्तामाणिक्यमीप्सितम् । मद्यं मांकं चन्दनं च माध्वीकं घृतमुत्तमम् ।। २६ ।। कृष्णशारं फलं लाजाः सिद्धान्नं दर्पणं तथा । विचित्रितं विमानं च सुदीप्तां प्रतिमां तथा ।। २७ ।। शुक्लोत्पलं पद्मवनं शङ्खचिल्लं च कीरकम् । मार्जारं पर्वतं मेघं मयूरं शुकसारसम् ।। २८ ।। शङ्खकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् । विचित्रकृष्णसंगीतं हरिशब्दं जयध्वनिम् ।। २९ ।। एवंभूतं शुभं दृष्टवा श्रुत्वा प्रहृष्टमानसः । प्रविवेश हरिं स्मृत्वा पुण्यं वृन्दावनं वनम् ।। ३० ।। ददर्श पुरतो रम्यं रासमण्डलमीप्सितम् । चन्दनागुरुकस्तूरीपुष्पचन्दनवायुना ।। ३१ ।। वासितं मङ्गलघटै रम्भास्तमभैर्विराजितम् । आम्रपल्लवसंघैश्च पट्टसूत्रविचित्रितैः ।। ३२ ।। शोभितैः परितः शश्वत्पद्मरागविनिर्मितम् । शोभितं शोभनार्हं च त्रिकोटिरत्नमन्दिरैः ।। ३३ ।। रम्यैः कुञ्जकुटीरैश्च राजितं शतकोटिभिः । रासं वृन्दावनं दृष्ट्वा कियद्दूरं ययौ च सः ।। ३४ ।। ददर्श पुरतो रम्यं नन्दव्रजमनुत्तमम् । परं वेकुण्ठसंकाशं वैकुण्ठ निलयं शुभम् ।। ३५ ।। रत्नसोपानसंयुक्तं रत्नस्तम्भैर्विराजितम् । नानाचित्रविचित्राढ्यं सद्रत्नवलयान्वितम् ।। ३६ ।। खचितं मणिसारेण रचितं विश्वकर्मणा । द्वारि दृष्टेन मार्गेण राजद्वारं विवेश सः ।। ३७ ।। पताकारत्नजालाढ्यं सुक्तामाणिक्यभूषितम् । रत्नदर्पणशोभाढ्यं रत्नचित्रविचित्रितम् ।। ३८ ।। रत्नविथीविरचितं मङ्गलं मङ्गरैर्घटैः । अक्रूरागमनं श्रुत्वा साङ्लादो नन्द एव च ।। ३९ ।। सहितो रामकृष्णाभ्यां जगामानुव्रजाय वै । वृषभान्वादिभिर्युक्तः कृत्वा वेश्यां पुरःसरम् ।। ४० ।। पूर्णकुम्भं गजेन्द्रं च कृत्वाऽग्रे शुक्लधान्यकम् । कृष्णां गां मधुपर्कं च पाद्यं रत्नासनादिकम् ।। ४१ ।। गृहीत्वा सादरः शान्तः सस्मितो विनतस्था । आनन्दयुक्तो नन्दश्च सगणः सहबालकः ।। ४२ ।। दृष्ट्वाऽक्रूरं महाभागं तूर्णमालिङ्गनं ददौ । प्रणेमुः शिरमा सर्वै गोपा जगृहुराशिषम् ।। ४३ ।। परस्परं च संयोगो बभूव गुणत्रान्मुने । क्रोडे चकाराक्रूरश्च कृष्णं रामं क्रमेण च ।। ४४ ।। चुचुम्ब गण्डयुगुले पुलकाञ्यितविग्रहः । साश्रुनेत्रोऽतिसाह्लादः कृतार्थः सिद्धवाञ्छितः ।। ४५ ।। ददर्श कृष्णं द्विभुजं क्षणं श्यामलसुन्दरम् । पीतवस्त्रपरीधानं मालतीमाल्यभूषितम् ।। ४६ ।। चन्दनोक्षितसर्वाङ्गं परं वंशीधरं वरम् । स्तुतं ब्रह्मेशशेषाद्यैर्मुनीन्द्रैः सनकादिभिः ।। ४७ ।। वीक्षितं गोपकन्याभिः परिबूर्णतमं विभुम् । क्षणं ददर्श क्रोडस्थं सस्मितं च चतुर्भुजम् ।। ४८ ।। लक्ष्मींसरस्वतीयुक्तं वनमालाविभूषितम् । सुनन्दनन्दकुमुदैः पार्षदैः परिसेवितम् ।। ४९ ।। सेवितं सिद्धसंघैश्च भक्तिनम्रैः परात्परम् । क्षणं ददर्श देवं तं पञ्चवक्त्रं त्रिलोचनम् ।। ५० ।। शुद्धस्फटिकसंकाशं नागराजैर्विराजितम् । दिगम्बरं परं ब्रह्म भस्माङ्गं च जटायुतम् ।। ५१ ।। जपमालाकरं ध्याननिष्ठं श्रेष्ठं च योगिनम् । क्षणं चतुर्मुखं ध्याननिष्ठं श्रेष्ठं मनीषिणाम् ।। ५२ ।। क्षणं धर्मस्वरूपं च शेषरुपं क्षणं क्षणम् । क्षणं भास्कररूपं च ज्योतीरूपं सनातनम् ।। ५३ ।। क्षणं परमशोभाढ्यं कोटिकन्दर्पनिन्दितम् । कामिनीकमनीयं च कामुकं कामसंयुतम् ।। ५४ ।। एवंभूतं शिशुं दृष्ट्वा स्थापयामास वक्षसि । रत्नमिंहासने रम्ये नन्ददत्ते च नारद ।। ५५ ।। कृत्वा प्रदक्षिणं भक्त्या पुलकाञ्चितविग्रहः । प्रणम्य शिरसा भूमौ तुष्टाव पुरुषोत्तमम् ।। ५६ ।। अक्रूर उवाच नमः कारणरूपाय परमात्मस्वरूपिणे सर्वेषामपि विश्वानामीश्वराय नमो नमः । पराय प्रकृतेरीश परात्परतराय च ।। ५७ ।। निर्गुणाय निरीहाय नीरूपाय स्वरूपिणे । सर्वदेवस्वरूपाय सर्वदेवेश्वराय च ।। ५८ ।। सर्वदेवाधिदेवाय विश्वादिभूतरूपिणे । असंश्येषु च विश्वेषु ब्रह्मविष्णुशिवात्मक ।। ५९ ।। स्वरूपायाऽऽदिबीजाय तदीशविश्वरूपिणे । नमो गोपाङ्गनेशाय गणेशेश्वररूपिणे ।। ६० ।। नमः सुरगणेशाय राधेशाय नमो नमः । राधारमणरूपाय राधारूपधराय च ।। ६१ ।। राधाराध्याय राधायाः प्राणाधिकतराय च । राधासाध्याय राधाधिदेवप्रियतमाय च ।। ६२ ।। राधाप्राणाधिदेवाय विश्वरूपाय ते नमः । वेदस्तुतात्मवेदज्ञरूपिणे सर्ववेदिने ।। ६३ ।। वैदाधिष्ठातृदेवाय वेदबीजाय ते नमः । यस्य लोमसु विश्वानि चासंख्यानि च नित्यशः ।। ६४ ।। महद्विष्णोरीश्वराय विश्वेशाय नमो नमः । स्वयं प्रकृतिरूपाय प्राकृताय नमोo ।। ६५ ।। प्रकृतीश्वररूपाय प्रधानपुरूषाय च । इत्येवं स्तवनं कृत्वा मूर्च्छामाप सभातले ।। ६६ ।। पपात सहसा भूमौ पुनरीशं ददर्श सः । बहिःस्थं हृदयस्थं च परमात्मानमीश्वरम् ।। ६७ ।। परितः श्यामरूपं च विश्वस्थं विश्वमेव च । अक्रूरं मूर्च्छितं दृष्ट्वा नन्दः सादरपूर्वकम् ।। ६८ ।। रत्नसिंहासने रम्ये वासयामास नारद । पप्रच्छ सर्ववृत्तान्तं किंस्विद्दृष्टमिति त्वया ।। ६९ ।। मिष्टान्नं भोजयामाय कुशलं च पुनः पुनः । अक्रूरेः कथयामस कंसवृत्तान्तमीप्सितम् ।। ७० ।। स्वपित्रोर्मोक्षणार्थं च गमनं रामकृष्णयोः । इत्यक्रूरकृतं स्तोत्रं यः पठेत्सुसमाहितः ।। ७१ ।। अपुत्रो लभते पुत्रमभार्यों लभते प्रियम् । अधनो धनमाप्नोति निर्भूमिरुर्वरां महीम् ।। ७२ ।। हतप्रजः प्रजालाभं प्रतिष्ठां चाप्रतिष्ठितः । यशः प्राप्नोति विपुलमयशस्वी च लीलया ।। ७३ ।। अथ सुष्वाप समये परं संहृष्टमानसः । रम्ये चम्पकतल्पे च कृष्णं कृत्वा स्ववक्षसि ।। ७४ ।। प्रातरुथाय सहसा कृत्वाऽऽङ्निकमनुत्तमम् । स्वरथे स्थापयामास रामं कृष्णं जगत्पतिम् ।। ७५ ।। गव्यं पञ्चप्रकारं च नानाद्रव्यं सुदुल्रभम् । वृषभानं च नन्दं च सुनन्दं चन्दभानकम् ।। ७६ ।। नानाप्रकारं वाद्यं च मृदङ्गमुरजादिकम् । पटहं पणवं चैव ढक्कां दुंदुभिमानकम् ।। ७७ ।। सज्जां संनहनीं कास्यपट्टमर्दलमण्डवीम् । वादयामास सानन्दं नन्दगोपो व्रजेश्वरः ।। ७८ ।। श्रुत्वा वाद्यं च गोप्यश्च गमनं रामकृष्णयोः । दृष्ट्वा कृष्णं रथस्थं तमाययुः कोपपीडिताः ।। ७९ ।। कृष्णेन वारिताः सर्वाः प्रेरिता राधाया द्विजः । बभञ्जुरीश्वररथं पादाघातेन लीलया ।। ८० ।। तत्र सर्वेषु गोपेश हाहाकारं कृतेषु च । प्रययुर्बलवत्यश्च कृष्णं कृत्वा स्ववक्षसि ।। ८१ ।। काचित्क्रूरं तमक्रूरं भर्त्सयामास कोपतः । काश्चिद्वद्ध्वा च वस्त्रेण चाकूरं प्रययुस्ततः ।। ८२ ।। काचित्तं ताडयामास कङ्कणेन करेण च । तद्वस्त्रं हारयामास कृत्वा विवसनं मुने ।। ८३ ।। क्षतविक्षतसर्वाङ्गं दृष्ट्वाऽक्रूरं च माधवः । जगाम राधानिकटं बोधयामास तां पुनः ।। ८४ ।। आध्यात्मिकेन योगेन विनयेन च सादरम् । अक्रूरं बोधयामास वोधयामास तां पुनः ।। ८५ ।। आकाशात्पतितं दिव्यं सन्त्रप्रस्थापितं रथम् । विचित्रवस्त्रसंयुक्तं ददर्श पुरतो हरिः ।। ८६ ।। खचितं मणिराजेन रचितं विश्वकर्मणा । तं दृष्ट्वा मातृभवनमाजगाम जगत्पतिः ।। ८७ ।। भुक्त्वा पीत्वा सुखं सुप्त्वा भगवान्सहबान्धवः । तस्थौ मुनीन्द्रदेवेन्द्रब्रह्मेशशेषवन्दितः ।। ८८ ।। मुषुपुर्गोंपिकाः सर्वाः परं संहृष्टमानसाः । पुष्पतल्पे च रम्ये च राधया सह नारद ।। ८९ ।। सर्वे चाऽऽनन्दयुक्ताश्च जना गोकुलवासिनः । केचिद्गोपाश्च ननृतुः केचित्संगीततत्पराः ।। ९० ।। इति शीब्रह्मo श्रिकृष्णजन्मखo उत्तo नारदनाo गोपीविषयो नाम सप्ततितमोऽध्यायः ।। ७० ।।

atha saptatitamo'dhyāyaḥ nārāyaṇa uvāca athākrūraḥ svaśaraṇaṃ gatvā kaṃsena preṣitaḥ | cakāra śayanaṃ talpe bhuktvā mīṣṭānnamuttamam || 1 || sakarpūraṃ ca tāmbūlaṃ cakhāda vāsitaṃ jalam | jagāma nidrāṃ sukhataḥ sukhasaṃbhogamātrataḥ || 2 || tato dadarśa susvapnaṃ purāṇaśrutisaṃmatam | niśāvaśeṣasamaye bādhādiparivarjitaḥ || 3 || arogī baddhakeśaśca vastrayugmasamanvitaḥ | sutalpaśāyī susnigdhaścintāśokavivarjitaḥ || 4 || kiśoravayasaṃ śyāmaṃ dvibhujaṃ muralīdharam | pītavastraparīdhānaṃ vanamālāvibhūṣitam || 5 || candanokṣitasarvāṅgaṃ mālatīmālyaśobhitam | bhūṣitaṃ bhūṣaṇārhaṃ ca sadratnamaṇibhūṣaṇaiḥ || 6 || mayūrapicchacūḍaṃ ca sasmitaṃ padmalocanam | evaṃbhūtaṃ dvicaśiśuṃ dadarśa prathamaṃ mune || 7 || tato dadarśa rucirāṃ patiputravatīṃ satīm | pītavastraparīdhānāṃ ratnabhūṣaṇabhūṣitām || 8 || jvalatpradīpahastāṃ ca śukladhānyakarāṃ varām | śaraccandranibhāsyāṃ ca sasmitāṃ varadāṃ śubhāma || 9 || tato dadarśa vipraṃ ca prakurvantaṃ śubhāśiṣam | śvetapadmagataṃ haṃsaṃ turagaṃ ca sarovaram || 10 || dadarśa citritaṃ cāru phalitaṃ puṣpitaṃ śubham | āmranimbanārikelagurvarkakadalītarum || 11 || daśantaṃ śvetasarpaṃ ca svātmānaṃ parvatasthitam | vṛkṣasthaṃ ca gajasthaṃ ca taristhaṃ turagasthitam || 12 || vīṇāṃ vāditavantaṃ ca bhuktavantaṃ ca pāyasam | dadhikṣīrayutānnaṃ ca padmapatrasthamīpsitam || 13 || kṛmiviṭsahitāṅgaṃ ca rudantaṃ mohitaṃ tadā | śukladhānyapuṣpakaraṃ kṣaṇaṃ candanacarcitam || 14 || prāsādasthaṃ samudrasthamātmānaṃ ca salohitam | chinnabhinnaṃ kṣatāṅgaṃ ca medapūyasamanvitam || 15 || tato dadarśa rajataṃ maṇiṃ śubhraṃ ca kāñcanam | suktāmāṇikyaratnaṃ ca pūrṇakumbhajalaṃ śubham || 16 || surabhiṃ ca savatsāṃ ca vṛṣabhendraṃ mayūrakam | śukaṃ ca sārasaṃ haṃsaṃ cillaṃ khañjanameva ca || 17 || tāmbūlaṃ puṣpamālyaṃ ca jvaladagniṃ surārcanam | pārvatīpratimāṃ kṛṣṇapratimāṃ śivaliṅgakam || 18 || viprabālāṃ ca bālaṃ ca supakvaphalitāṃ kṛṣim | devasthalīṃ ca rājendraṃ siṃhaṃ vyāghraṃ guruṃ suram || 19 || dṛṣṭvā svapnaṃ samuttasthau cakārā''hnikamīpsitam | uddhavaṃ kathayāmāsa sarvaṃ vṛttāntameva ca || 20 || uddhavājñāṃ samādāya kṛtvā gurusurārcanam | yātrāṃ cakāra śrīkṛṣṇaṃ dhyātvā manasi nārada || 21 || dadarśa vartmanyevaṃ ca maṅgalārhaṃ śubhapradam | vāñchāphalapradaṃ ramyaṃ puro maṅgalasūcakam || 22 || vāme śaivaṃ śivāṃ pūrṇakumbhaṃ nakulacāṣakam | patiputravatīṃ sādhvīṃ divyābharaṇabhūṣitām || 23 || śuklapuṣpaṃ ca mālyaṃ ca dhānyaṃ ca khañjanaṃ śubham | dakṣiṇe jvaladagriṃ ca vipraṃ ca vṛṣabhaṃ gajam || 24 || vatsaprayuktāṃ dheruṃ ca śvetāśvaṃ rājahaṃsakam | veśyāṃ ca puṣpamālāṃ ca patākāṃ dadhi pāyasam || 25 || maṇiṃ suvarṇa racataṃ muktāmāṇikyamīpsitam | madyaṃ māṃkaṃ candanaṃ ca mādhvīkaṃ ghṛtamuttamam || 26 || kṛṣṇaśāraṃ phalaṃ lājāḥ siddhānnaṃ darpaṇaṃ tathā | vicitritaṃ vimānaṃ ca sudīptāṃ pratimāṃ tathā || 27 || śuklotpalaṃ padmavanaṃ śaṅkhacillaṃ ca kīrakam | mārjāraṃ parvataṃ meghaṃ mayūraṃ śukasārasam || 28 || śaṅkhakokilavādyānāṃ dhvaniṃ śuśrāva maṅgalam | vicitrakṛṣṇasaṃgītaṃ hariśabdaṃ jayadhvanim || 29 || evaṃbhūtaṃ śubhaṃ dṛṣṭavā śrutvā prahṛṣṭamānasaḥ | praviveśa hariṃ smṛtvā puṇyaṃ vṛndāvanaṃ vanam || 30 || dadarśa purato ramyaṃ rāsamaṇḍalamīpsitam | candanāgurukastūrīpuṣpacandanavāyunā || 31 || vāsitaṃ maṅgalaghaṭai rambhāstamabhairvirājitam | āmrapallavasaṃghaiśca paṭṭasūtravicitritaiḥ || 32 || śobhitaiḥ paritaḥ śaśvatpadmarāgavinirmitam | śobhitaṃ śobhanārhaṃ ca trikoṭiratnamandiraiḥ || 33 || ramyaiḥ kuñjakuṭīraiśca rājitaṃ śatakoṭibhiḥ | rāsaṃ vṛndāvanaṃ dṛṣṭvā kiyaddūraṃ yayau ca saḥ || 34 || dadarśa purato ramyaṃ nandavrajamanuttamam | paraṃ vekuṇṭhasaṃkāśaṃ vaikuṇṭha nilayaṃ śubham || 35 || ratnasopānasaṃyuktaṃ ratnastambhairvirājitam | nānācitravicitrāḍhyaṃ sadratnavalayānvitam || 36 || khacitaṃ maṇisāreṇa racitaṃ viśvakarmaṇā | dvāri dṛṣṭena mārgeṇa rājadvāraṃ viveśa saḥ || 37 || patākāratnajālāḍhyaṃ suktāmāṇikyabhūṣitam | ratnadarpaṇaśobhāḍhyaṃ ratnacitravicitritam || 38 || ratnavithīviracitaṃ maṅgalaṃ maṅgarairghaṭaiḥ | akrūrāgamanaṃ śrutvā sāṅlādo nanda eva ca || 39 || sahito rāmakṛṣṇābhyāṃ jagāmānuvrajāya vai | vṛṣabhānvādibhiryuktaḥ kṛtvā veśyāṃ puraḥsaram || 40 || pūrṇakumbhaṃ gajendraṃ ca kṛtvā'gre śukladhānyakam | kṛṣṇāṃ gāṃ madhuparkaṃ ca pādyaṃ ratnāsanādikam || 41 || gṛhītvā sādaraḥ śāntaḥ sasmito vinatasthā | ānandayukto nandaśca sagaṇaḥ sahabālakaḥ || 42 || dṛṣṭvā'krūraṃ mahābhāgaṃ tūrṇamāliṅganaṃ dadau | praṇemuḥ śiramā sarvai gopā jagṛhurāśiṣam || 43 || parasparaṃ ca saṃyogo babhūva guṇatrānmune | kroḍe cakārākrūraśca kṛṣṇaṃ rāmaṃ krameṇa ca || 44 || cucumba gaṇḍayugule pulakāñyitavigrahaḥ | sāśrunetro'tisāhlādaḥ kṛtārthaḥ siddhavāñchitaḥ || 45 || dadarśa kṛṣṇaṃ dvibhujaṃ kṣaṇaṃ śyāmalasundaram | pītavastraparīdhānaṃ mālatīmālyabhūṣitam || 46 || candanokṣitasarvāṅgaṃ paraṃ vaṃśīdharaṃ varam | stutaṃ brahmeśaśeṣādyairmunīndraiḥ sanakādibhiḥ || 47 || vīkṣitaṃ gopakanyābhiḥ paribūrṇatamaṃ vibhum | kṣaṇaṃ dadarśa kroḍasthaṃ sasmitaṃ ca caturbhujam || 48 || lakṣmīṃsarasvatīyuktaṃ vanamālāvibhūṣitam | sunandanandakumudaiḥ pārṣadaiḥ parisevitam || 49 || sevitaṃ siddhasaṃghaiśca bhaktinamraiḥ parātparam | kṣaṇaṃ dadarśa devaṃ taṃ pañcavaktraṃ trilocanam || 50 || śuddhasphaṭikasaṃkāśaṃ nāgarājairvirājitam | digambaraṃ paraṃ brahma bhasmāṅgaṃ ca jaṭāyutam || 51 || japamālākaraṃ dhyānaniṣṭhaṃ śreṣṭhaṃ ca yoginam | kṣaṇaṃ caturmukhaṃ dhyānaniṣṭhaṃ śreṣṭhaṃ manīṣiṇām || 52 || kṣaṇaṃ dharmasvarūpaṃ ca śeṣarupaṃ kṣaṇaṃ kṣaṇam | kṣaṇaṃ bhāskararūpaṃ ca jyotīrūpaṃ sanātanam || 53 || kṣaṇaṃ paramaśobhāḍhyaṃ koṭikandarpaninditam | kāminīkamanīyaṃ ca kāmukaṃ kāmasaṃyutam || 54 || evaṃbhūtaṃ śiśuṃ dṛṣṭvā sthāpayāmāsa vakṣasi | ratnamiṃhāsane ramye nandadatte ca nārada || 55 || kṛtvā pradakṣiṇaṃ bhaktyā pulakāñcitavigrahaḥ | praṇamya śirasā bhūmau tuṣṭāva puruṣottamam || 56 || akrūra uvāca namaḥ kāraṇarūpāya paramātmasvarūpiṇe sarveṣāmapi viśvānāmīśvarāya namo namaḥ | parāya prakṛterīśa parātparatarāya ca || 57 || nirguṇāya nirīhāya nīrūpāya svarūpiṇe | sarvadevasvarūpāya sarvadeveśvarāya ca || 58 || sarvadevādhidevāya viśvādibhūtarūpiṇe | asaṃśyeṣu ca viśveṣu brahmaviṣṇuśivātmaka || 59 || svarūpāyā''dibījāya tadīśaviśvarūpiṇe | namo gopāṅganeśāya gaṇeśeśvararūpiṇe || 60 || namaḥ suragaṇeśāya rādheśāya namo namaḥ | rādhāramaṇarūpāya rādhārūpadharāya ca || 61 || rādhārādhyāya rādhāyāḥ prāṇādhikatarāya ca | rādhāsādhyāya rādhādhidevapriyatamāya ca || 62 || rādhāprāṇādhidevāya viśvarūpāya te namaḥ | vedastutātmavedajñarūpiṇe sarvavedine || 63 || vaidādhiṣṭhātṛdevāya vedabījāya te namaḥ | yasya lomasu viśvāni cāsaṃkhyāni ca nityaśaḥ || 64 || mahadviṣṇorīśvarāya viśveśāya namo namaḥ | svayaṃ prakṛtirūpāya prākṛtāya namoo || 65 || prakṛtīśvararūpāya pradhānapurūṣāya ca | ityevaṃ stavanaṃ kṛtvā mūrcchāmāpa sabhātale || 66 || papāta sahasā bhūmau punarīśaṃ dadarśa saḥ | bahiḥsthaṃ hṛdayasthaṃ ca paramātmānamīśvaram || 67 || paritaḥ śyāmarūpaṃ ca viśvasthaṃ viśvameva ca | akrūraṃ mūrcchitaṃ dṛṣṭvā nandaḥ sādarapūrvakam || 68 || ratnasiṃhāsane ramye vāsayāmāsa nārada | papraccha sarvavṛttāntaṃ kiṃsviddṛṣṭamiti tvayā || 69 || miṣṭānnaṃ bhojayāmāya kuśalaṃ ca punaḥ punaḥ | akrūreḥ kathayāmasa kaṃsavṛttāntamīpsitam || 70 || svapitrormokṣaṇārthaṃ ca gamanaṃ rāmakṛṣṇayoḥ | ityakrūrakṛtaṃ stotraṃ yaḥ paṭhetsusamāhitaḥ || 71 || aputro labhate putramabhāryoṃ labhate priyam | adhano dhanamāpnoti nirbhūmirurvarāṃ mahīm || 72 || hataprajaḥ prajālābhaṃ pratiṣṭhāṃ cāpratiṣṭhitaḥ | yaśaḥ prāpnoti vipulamayaśasvī ca līlayā || 73 || atha suṣvāpa samaye paraṃ saṃhṛṣṭamānasaḥ | ramye campakatalpe ca kṛṣṇaṃ kṛtvā svavakṣasi || 74 || prātaruthāya sahasā kṛtvā''ṅnikamanuttamam | svarathe sthāpayāmāsa rāmaṃ kṛṣṇaṃ jagatpatim || 75 || gavyaṃ pañcaprakāraṃ ca nānādravyaṃ sudulrabham | vṛṣabhānaṃ ca nandaṃ ca sunandaṃ candabhānakam || 76 || nānāprakāraṃ vādyaṃ ca mṛdaṅgamurajādikam | paṭahaṃ paṇavaṃ caiva ḍhakkāṃ duṃdubhimānakam || 77 || sajjāṃ saṃnahanīṃ kāsyapaṭṭamardalamaṇḍavīm | vādayāmāsa sānandaṃ nandagopo vrajeśvaraḥ || 78 || śrutvā vādyaṃ ca gopyaśca gamanaṃ rāmakṛṣṇayoḥ | dṛṣṭvā kṛṣṇaṃ rathasthaṃ tamāyayuḥ kopapīḍitāḥ || 79 || kṛṣṇena vāritāḥ sarvāḥ preritā rādhāyā dvijaḥ | babhañjurīśvararathaṃ pādāghātena līlayā || 80 || tatra sarveṣu gopeśa hāhākāraṃ kṛteṣu ca | prayayurbalavatyaśca kṛṣṇaṃ kṛtvā svavakṣasi || 81 || kācitkrūraṃ tamakrūraṃ bhartsayāmāsa kopataḥ | kāścidvaddhvā ca vastreṇa cākūraṃ prayayustataḥ || 82 || kācittaṃ tāḍayāmāsa kaṅkaṇena kareṇa ca | tadvastraṃ hārayāmāsa kṛtvā vivasanaṃ mune || 83 || kṣatavikṣatasarvāṅgaṃ dṛṣṭvā'krūraṃ ca mādhavaḥ | jagāma rādhānikaṭaṃ bodhayāmāsa tāṃ punaḥ || 84 || ādhyātmikena yogena vinayena ca sādaram | akrūraṃ bodhayāmāsa vodhayāmāsa tāṃ punaḥ || 85 || ākāśātpatitaṃ divyaṃ santraprasthāpitaṃ ratham | vicitravastrasaṃyuktaṃ dadarśa purato hariḥ || 86 || khacitaṃ maṇirājena racitaṃ viśvakarmaṇā | taṃ dṛṣṭvā mātṛbhavanamājagāma jagatpatiḥ || 87 || bhuktvā pītvā sukhaṃ suptvā bhagavānsahabāndhavaḥ | tasthau munīndradevendrabrahmeśaśeṣavanditaḥ || 88 || muṣupurgoṃpikāḥ sarvāḥ paraṃ saṃhṛṣṭamānasāḥ | puṣpatalpe ca ramye ca rādhayā saha nārada || 89 || sarve cā''nandayuktāśca janā gokulavāsinaḥ | kecidgopāśca nanṛtuḥ kecitsaṃgītatatparāḥ || 90 || iti śībrahmao śrikṛṣṇajanmakhao uttao nāradanāo gopīviṣayo nāma saptatitamo'dhyāyaḥ || 70 ||

English translation

The plight of Akrura and departure of for Vraja stM ct4dyiqyMrcid:i Narayana said- Thereafter Akrura who was dispatched by Karhsa, went to his abode and took food including sweets mixed with camphor, scented betel and fragrant water and comfortably slept on the bed. Towards the end of the night, he witnessed a dream which was described in the Vedas and the Puranas. He found that the Brahmana boy who was quite healthy, his hair tied in a knot, clad in two garments was sleeping on the bed. He had a beautiful complexion and his face was devoid of any worry or grief. He was in tender age, having a dark complexion and two hands, holding a flute in hand, clad in pltdmbara, adorned with a garland of forest flowers, having the body plastered with sandal- paste, wearing the garland of jasmine flowers, adorned with the best of the ornaments studded with gems, having peacock feathers on his head, wearing a serene smile on the face and having

the eyes like lotus flowers. O sage, he witnessed that beautiful boy in his dream for the first time.

Thereafter he saw a chaste lady whose husband and son were alive. She was clad in yellow garments adorned with the ornament of gems, holding a burning lamp in one hand and white paddy in the other. She had beautiful limbs and the face was like that of the beautiful moon of the winter season. She was wearing a serene smile on her face and was anxious to shower a Thereafter pronouncing a blessing she looked at the Brahmana together with the goose on the white lotus besides a horse and a pool.

He also witnessed trees blossoming with flowers and fruits, beautiful and auspicious trees of mango, neem, coconut, a huge sun-tree and a He found himself having been bitten by a white serpent and also found himself seated on a mountain, a tree, an elephant, as a boat and himself mounted on the horse.

Thereafter he found himself playing vlnd and consuming milk with rice, Tood with curd and milk placed on the lotus leaves. He witnessed that his limbs had become dirty because of insects and dirt. He then found himself crying infatuated with illusion, then carrying the flowers and white paddy in his hands. In a moment his body was plastered with sandal-paste, in a moment he found himself seated on a roof, in the ocean filled with blood, with his wounded limbs and filled himself with blood and puss.

He then found the silver, the gems, gold, finger rings, jewels, gems, welfare pitcher filled with water, cow with calves, the big bull, the peacock, parrot, crane, kite, wagtail bird, betel, garland of flowers, fire in flames, adoration of gods, the image of Parvati and of Krsna, Sivalihga, Brahmana's daughter, a child, the ripened crops, the temple, the king, the lion, the tiger, the teacher and the gods, Thus after witnessing the dream he performed his daily routine and then narrated the entire dream to Uddhava.

O Narada, getting permission from Uddhava, adorning his teacher and the gods, with his mind set at the feet of lord Krsna, he travelled to the abode of Krsna. At the time of tlie start of his journey, he met with various auspicious symbols which bestowed welfare. He found the he-jackal and she-jackal on his left, a vase filled with water, the mangoos, Nllakantha bird, a beautiful chaste woman adorned with divine onianients whose husband and son were alive, white flowers, garland of flowers, fried paddy, a wagtail bird. On the right side he met with the burning fire fiames, a Brahmana, a bull, an elephant, a cow with calf, a white horse, a goose, a garland of flower, the flag, gem, gold, silver, pearls, ruby, wine, flesh, sandal, wine of Bassia latifolia trees, ghee, black deer skin, fruit, fried paddy, mirror, painted plane, beautiful image, a white lotus flower, a forest of lotus flowers,

Sarhkha, kite, cat, mountain, clouds, peacock, parrot and crane.

Thereafter he met with snake, cuckoo, welfare sound of the musical instruments, recital of the music of Krsna, reciting of the name of Hari and sound of victory. Thus witnessing the auspicious symbols and hearing of auspicious sound, Akrura delightfully remembered the name of the lord and entered Vmdavana.

He found there the desirable Rdsamandala which was quite pleasant and was decorated with sandal-paste, agiiru, kasturl, flowers and where the fragrant cool breeze was blowing. It had several welfare pitchers, trunks of banana tree, tender leaves of the mango trees tied to a cord and spread everywhere. The place was decorated with several gems and three crores of beautiful | diamonds, studded in the temple and a hundred j crores of charming kuhja-cottages. Looking at the divine dance he walked in Vmdavana up to a Thereafter he came across the beautiful and charming Vraja of Nanda. It was quite charming like Vaikuntha, having many beautiful houses and steps besides the pillars which were decorated with various types of creepers and gems; it was built by Vis'vakarma, using the best of gems. By the visible road he entered the royal gate, having a number of banners and decorated with a large number of gems. It was decorated

with pearls and rubies beside the mirrors made of the gems; if had a number of matigala kalasas made of gems.

Tr yf rorr a it When Nanda came to know about the arrival of AkiHra he was immensely delighted.

Accompanied by Balarama and Krsna, he went to welcome him. Vrsabhanu and other cowherds and dancers were moving ahead. Placing the pitchers filled with water and the elephant to the fore besides black cow, they could with them madhuparka, pddya, the asanas of gems. Nanda went to him with a delightful and humble face.

The boys and the servants then saw the virtuous Akrura there. He was immediately embraced and all the cowherds offered their salutation to him bowing their heads on the feat of Akrura who blessed them all.

Akrura said- You are the form of cause, form of the lord I offer my salutation to you. You are the lord of all the globes and I offer my salutation to you, the one who is beyond Prakrti and also the lord, is without qualities, unattached, without foiTH, with form, the form of all the gods, the lord of all the gods, the only supreme god of all the gods, the beginning of the universe, Brahma in innumerable globes beside being Vis nu and Siva, you are the seed of all the form.

You are the lord of the universe, the lord of the cowherdesses and lord of all the Gangs, I offer my salutation to you.

You are the lord of all the gods I offer my salutation to you. You are the lord of Radha, I offer my salutation to you. You are husband of Radha I offer my salutation to you. I offer my salutation to the one who takes to the form of Radha, you are adorable by Radha, you are dearer to Radha than her life, you are adored by Radha. You are the only god of Radha and her beloved, the life of Radha, salutation to you. You are the one who is adored by the Vedas, you are all knowledgeable and the sole god of the Vedas being the seed of the Vedas. I offer my salutation I to you, in the hair pits of whom always innumerable globes are enshrined, I offer my: salutation to him. | I offer my salutation to you again and again to Mahavisnu, Isvara and the lord of the universe, you are yourself, the form of Prakrti, the form of Isvarl, the foremost among the humans, I offer my salutation again and again. Thus offering

prayer Akrura fainted in the court of Nanda.

He suddenly fell down on the ground. He again saw that the lord who was standing outside was also in his heart, was the soul of all, being Isvara, was found in dark complexion, all round, was established in the universe and the from of the universe. O Narada, finding Akrura having fainted, Nanda lifted him up and seated him honourably on the gem-studded lion-throne. He then enquired of him about the news and also said, ''What is there being visible.” Thereafter he served him with delicious sweet food and enquired about his welfare again and again.

Akrura on his part conveyed the news of Karhsa He also advised him to send Krsna and Balarama to Mathura for getting their parents released from the bondage. Thus whosoever recites the stotras composed by Akrura, with devotion, he would get a son if he has a none, a wife if he has no wife, riches if he has no riches, land if he has no land, the one having lost children would get children, a disgraced person would be graceful and inglorious person would achieve immense glory. Thereafter he slept on the bed of campaka flowers.

Thereafter getting up early in the morning he completed his daily routine and made Balarama and Krsna to take their seats in the chariot. He carried five types of eatables like milk, curd, ghee, butter and butter milk with him and other valuable eatables. Accompanied by Vrsabhanu, Nanda, Sunanda and Candrabhanu, they got ready for the journey. Nanda the lord of Vraja made several of the musical instruments to be panavas, damaru, big drums and several other Listening to the sound of musical instruments and coming to know of the departure of Balarama and Krsna to Mathura, the cowherdesses were extremely enraged and they arrived there finding Krsna having mounted on the chariot. O Brahman, thereafter, inspired by Radha the cowherdesses in anger, in spite of dissuading lord Krsna not to do so, broke the royal chariot with their kicks.

All the cowherds cried in panic but the powerful cowherdesses embraced Krsna and took him away. Some of them called Akrura in anger to be quite cruel and denounced him. Some of them bound Akrura with clothes.

O sage, some of the cowherdesses removed the costumes of Akrura and tried to break his armlets with their hands. Thereafter, Madhava found Akrura having been so injured he went to Radha and tried to convince her.

The lord then humbly enlightened her about the divine yoga and also to Akrura. Again for convincing Radha, Krsna went to her. In the meantime, they found a divine chariot moving in the sky which was decorated with beautiful costumes besides the gems and was built by Visvakarma. At the sight of the chariot, the lord of the universe went to the palace of his mother.

He took his food together with all his relatives and slept there. Then the lord was surrounded by the sages Indra, Brahma, Siva, Sesa and other ascetics. O Narada, thereafter Radha together

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122400 (2017-09-17T13:52:51Z); Shanti Lal Nagar English scan pages n1349–n1356: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1349/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.