Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 69
Sourceअथैकोनसप्ततितमोऽध्यायः नारद उवाच अतः परं किं रहस्यं राधाकेशवयोर्वद । निगूढतत्वामस्पष्टं तन्मे व्याख्यातुमर्हसि ।। १ ।। नारायण उवाच शृणु नारद वक्ष्यामि रहस्यं परमाद्भुतम् । गोपनीयं च वेदेषु पुराणेषु पुराविदाम् ।। २ ।। पुनः सकामो भगवान्कृष्णः स्वेच्छामयो विभुः । रेमे स रमया सार्धं विदग्धश्च विदग्धया ।। ३ ।। चतुःषष्टिकलाशक्त्या यथा कान्ता कलावती । कामशास्त्रेषु निपुणा विदग्धा रसिकेश्वरी ।। ४ ।। शृङ्गारलीलानिपुणा शश्वत्कामा च कामुकी । सुन्दरी सुन्दरीष्वेव शश्वत्सुस्थिरयौवना ।। ५ ।। पितणां मानसी कन्या धन्या मान्या च मानिनी । शंभोः शिष्या ज्ञानयुता शतकल्पान्तजीविनी ।। ६ ।। वेदवेदाङ्गनिपुणा योगनीतिविशारदा । नानारूपधरा साध्वी प्रसिद्धा सिद्धयोगिनी ।। ७ ।। तत्कन्या राधिका देवी मातृतुल्या च कामुकी । चकार नानाभावं सा सुशीला स्वामिनं प्रति ।। ८ ।। चतुःषष्टिकलामानं श्रृङ्गारं च चकार सः । त्या विशिष्टया साकं रासे रामरसोत्सुकः ।। ९ ।। तां नखाग्रक्षतश्रोणीं नखक्षतपयोधराम् । लुप्तचन्दनसिंदूरां कबरीशिथिलां सतीम् ।। १० ।। सुखसंभोगमग्नां च नग्नां च शोकमूर्च्छिताम् । पुलकाञ्चितसर्पाङ्गीं निद्रादेवी समाययौ ।। ११ ।। दृष्ट्वा तां निद्रितां कृष्णःकृपया च कृपानिधिः । रुरोद मायया मायी मयेशो लोकशिक्षया ।। १२ ।। कृत्वा वक्षसि राधां च चुचुम्ब च पुनः पुनः । स्नातां च नेत्रसलिलैः प्राणाधिष्ठातृदेवताम् ।। १३ ।। प्राणाधिकां प्रियतमां धारयामास वाससी । वह्निशुद्धेऽतिसूक्ष्मे चामूल्ये विश्वमुदुर्लभे ।। १४ ।। कबरीं च ददौ कुङ्कुमचन्दनम् । तद्गात्रे च गले हारममूल्यं रत्ननिर्मितम् ।। १५ ।। सिन्दूरं च ददौ तस्याः सीमन्ताधःस्थलेऽमले । दाडिमीकुसुमाकारं युक्तं चन्दनबिन्दुभि ।। १६ ।। चकार पद्मकं गण्डे नानाचित्रविचित्रकम् । ददौ तत्पादपद्मे च रत्नमञ्जीररञ्जितम् ।। १७ ।। पादाङ्गुलिनखागे च सुन्दरालक्तकं ददौ । नानासुवेषोज्ज्वलितां तां निद्राकुलितां विभुः ।। १८ ।। पुनश्चकार मोहेन गाढालिङ्गनमीप्सितम् । पुनश्च चुम्बनं कृत्वा निवेश्य च स्ववक्षसि ।। १९ ।। सुष्वाप जगतां स्वामी कान्ताविरहकातरः । एतस्मिन्नन्तरे काने ब्रह्मा लोकपितामहः ।। २० ।। शिवशेषादिभिर्देवैर्मुनीन्द्रैः सार्धमाययौ । आगत्य नत्वा सिरसा तुष्टाव संपुटाञ्जलिः ।। २१ ।। सामवेदोक्तस्तोत्रेण परिपूर्णतमं विभुम् ।। २२ ।। ब्रह्मोवाच जय जय जगदीश वन्दितचरण निर्गुण निराकार स्वेच्छामय भक्तानुग्रह नित्यविग्रह ।। २३ ।। गोपवेष मायया मायेश सुवेष सुशील शान्त सर्वकान्त दान्त नितान्तज्ञानानन्द परात्परतर प्रकृतेः पर सर्वान्तरात्मरूप निर्लिप्त साक्षिस्वरूप व्यक्ताव्यक्त निरञ्जन भारावतारण करुणार्णव शोकसेतापग्रसन जरामृत्युभयादिहरण शरणपञ्जर भक्तानुग्रहकारक भक्तवत्सल भक्तसंचितधन ओं नमोऽस्तु ते ।। २४ ।। सर्पाधिष्ठातृदेवायेत्युक्त्वा वै प्रीणनाय च । पुनःपुनःरुवाचेदं मूर्च्छितश्च बभूव ह ।। २५ ।। इति ब्रह्मकृतं स्तोत्रं यः शृणोति समाहितः । तत्सर्पाभीष्टसिद्धिश्च भवत्येव न संशयः ।। २६ ।। अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् । निर्धनो लभते सत्यं परिपूर्णतमं धनम् ।। २७ ।। इह लोके सुखं भुक्त्वा चान्ते दास्यं लभेद्धरेः । अचलां भक्तिमाप्नोति मुक्तेरपि सुदुर्लभाम् ।। २८ ।। स्तुत्वा च जगतां धाता प्रणम्य च पुनः पुनः । शनैः शनैः समुत्थाय भक्त्या पुनरुवाच ह ।। २९ ।। ब्रह्मोवाच उत्तिष्ठ देवदेवेश परमानन्दकारण । नन्दनन्दन सानन्द नित्यानन्द नमोऽस्तु ते ।। ३० ।। व्रज नन्दालयं नाथ त्यज वृन्दावनं वनम् । स्मर सृदामशापं च शतवर्षनिबन्धनम् ।। ३१ ।। भक्तशापानृरोधेन शतवर्ष प्रियां त्यज । पुनरेनां च संप्राप्य गोलोकं च गमिष्यसि ।। ३२ ।। गत्वा पितृगृहं देव पश्याकूरं समागतम् । पितृव्यमतिथिं मान्यं धन्यं वैष्णवमीश्वर ।। ३३ ।। तेन सार्धं मधुपुरीं भगवान् गच्छ संप्रतम् । कुरु शंभोर्धनुर्भङ्गं भग्नं वैरिगणं हरे ।। ३४ ।। हन कंसं दुरात्मानं तातं बोधय मातरम् । निर्माणं द्वारकायाश्च भारावतरणं भुवः ।। ३५ ।। दह वाराणसीं शंभोः शक्रस्य सदनं विभो । शिवस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।। ३६ ।। रुक्मिणीहरणं नाथ घातनं नरकस्य च । षोडशानां सहस्रं च स्त्रीणां पाणिग्रहं कुरु ।। ३७ ।। त्यज प्रियां प्राणसमां व्रजेश्वर व्रजं व्रज । उत्तिष्ठोत्तिष्ठ भद्रं ते यावद्राधा न जाग्रति ।। ३८ ।। त्येवमुक्त्वा ब्रह्मा च सेन्द्रैर्देवगणैः सह । जगाम ब्रह्मलोकं च शेषश्च शंकरस्तथा ।। ३९ ।। पुष्पचन्दनवृष्टिं च कुष्णस्योपरि देवताः । चक्रुः प्रीत्या च भक्त्या च वाग्बभूवाशरीरिणी ।। ४० ।। बध कंसं वथार्ह च स्वपित्रोर्मोक्षणं कुरु । क्षयं कुरुभुवो भारं नारदेत्येवमेव च ।। ४१ ।। इत्येवं तद्वचः श्रुत्वा भगवान् भूतभावनः । राधा भगवतीं त्यक्त्वा समुत्तस्थौ शनैः शनैः ।। ४२ ।। ययौ हरिः कियद्दूरं निरीक्ष्य च पुनः पुनः । क्षणं तस्थौ चन्दनानां वने वाससमीपतः ।। ४३ ।। विहाय राधा निन्द्रां सा समुत्तस्थौ स्वतल्पतः । न निरीक्ष्य हरीं शान्तं कान्तं च प्राणवल्लभम् ।। ४४ ।। हा नाथ रमण प्रेष्ठ प्राणेश प्राणवल्लभ । प्राणचोर प्रियतम क्व गतोऽसीत्युवाच ह ।। ४५ ।। क्षणमन्वेषणं कृत्वा बभ्राम मालतीवनम् । उवास क्षणमुत्तस्थौ क्षणं सुष्वाप भूतले ।। ४६ ।। रुरोद क्षणमत्युच्चैर्विललाप मुहुर्मुहुः । आगच्छाऽऽगच्छ हे नाथेत्येवसुक्त्वा पुनः पुनः ।। ४७ ।। मूर्च्छां संप्राप संतापात्संप्तता विरहानलैः । भूतले च तृणाच्छन्ने पपात च यथा मृता ।। ४८ ।। आययुस्तत्र गोप्यश्च ब्रह्मञ्छतसहस्रशः । काश्चिच्चामरहस्ताश्च गृहीत्वा चन्दनद्रवम् ।। ४९ ।। तासां मध्ये प्रिया लीला कृत्वा राधां स्ववक्षसि । मृतामिव प्रियां दृष्ट्वा रुरोद प्रेमविह्वला ।। ५० ।। सजलं पङ्कजदलं पङ्कोपरि निधाय च । स्थापयामास तां राधां निश्चेष्टां च मृतामिव ।। ५१ ।। गोपीभिः सेवितां तत्र रुचिरैः श्वेतचामरैः । चन्दनद्रवयुक्तां च स्निग्धवस्त्रान्वितां सतीम् ।। ५२ ।। ददर्श कृष्णस्तत्रैत्य तामेव प्राणवल्लभाम् । निवारितश्च गोपीभिर्बलिष्ठाभिश्च नारद ।। ५३ ।। यथा नीतः सापराधो दण्डथो राजभटादिभिः । चकार राधां क्रोडे च समागत्य कृपानिधिः ।। ५४ ।। चेतनां कारयामास बोधयामास बोधनैः । संप्राप्य चेतनां देवी ददर्श प्राणवल्लाभाम् ।। ५५ ।। बभूव सुस्थिरा देवी तत्याज विरहज्वरम् । चकार कान्तं सा कान्ता गात्रालिङ्गनमीप्सितम् ।। ५६ ।। नानाप्रकारशृङ्गारं चकार मधुसूदनः । उवास रत्नतल्पे च राधां कृत्वा स्ववक्षसि ।। ५७ ।। राधासखी रत्नमाला विदग्धा सर्वपूजिता । उवाच कृष्णं मधुरं नीतिसारमनुत्तमम् ।। ५८ ।। रत्नमारोवाच शृणु कृष्ण प्रवक्ष्यामि परिणामसुखावहम् । हितं तथ्यं नीतिसारं दंपत्योः प्रीतिकारणम् ।। ५९ ।। संमतं कामशास्त्रेषु नीतौ वेदपुराणयोः । लौकिकव्यवरारेषु प्रशस्यं सुयशस्करम् ।। ६० ।। नारीणां च प्रिया माता प्रियो भ्राता च वन्धुषु । ततः प्रियश्च पुत्रश्च पुत्रादेव प्रियः पतिः ।। ६१ ।। शतपुत्रात्प्रियः स्वामी साध्वीनां साधुसंमतः । रसिकानां विदग्धानां न हि भर्तुः परः प्रियः ।। ६२ ।। यदि भर्ता विदग्धश्च विदग्धानां सुखावहः । अन्यथा विषतुल्यश्च विषमश्चेत्खलः खलु ।। ६३ ।। संसारे चानृते वत्स दंपत्योः प्रीतिरेव च । परस्परं च समता प्रियसौभाग्यमीप्सितम् ।। ६४ ।। दंपत्योः समता नास्ति यत्र-यत्र हि मन्तिरे । अलक्ष्मीस्तत्र तत्रैव विफलं जीवनं तयोः ।। ६५ ।। सुस्वामिनां विभेदश्च परं दुःखं च योषिताम् । शोकसंतापबीजं च जीवितं मरणाधिकम् ।। ६६ ।। स्वप्ने जागरणे चापि पतिः प्राणाश्च योषितः । पतिरेव गुरुः स्त्रीणामिह लोके परत्र च ।। ६७ ।। अस्मात्तवयि गते नाथे मूर्च्छां संप्राप राधिका । पपात सहसा भूमौ तृणाच्छन्ने च भूतले ।। ६८ ।। मया दत्तं मुखेऽस्याश्च शीतलं जलमुत्तमम् । तदा श्वासो बभूवास्याश्चेतनं बाल्यमेव च ।। ६९ ।। क्षणं वदति हे नाथ हे कृष्णेति क्षणं सखी । क्षणं रोदिति संतप्ता मूर्च्छां प्राप्नोति तत्क्षणम् ।। ७० ।। राधिकायाः शरीरं च संतप्तं विरहानलैः । दग्धलोहयष्टिसममस्पृश्यमनलोपमम् ।। ७१ ।। स्वप्ने जागनणे रात्रौ दिवसे च गृहे वने । जले स्थले चान्तरिक्षेऽभ्युदये चन्द्रसूर्ययोः ।। ७२ ।। नास्ति भेदश्च राधाया मृततुल्या जडाकृतिः । शश्वत्पश्यति स्थानस्था सर्वं विष्णुमयं जगत् ।। ७३ ।। स्निग्धपङ्के पङ्कजानां सजलानि दलानि च । निपत्य तत्कृते तल्पे सुष्वाप विरहातुरा ।। ७४ ।। सेविता सा प्रियालीभिः संततं श्वेतचामरैः । चन्दनद्रवसंसिक्ता स्निग्धवस्त्रसमन्विता ।। ७५ ।। राधाङ्गस्पर्शमात्रेण पङ्कः संप्राप शुष्कताम् । स्निग्धानि पद्मपत्राणि बभूवुर्भस्मसात्क्षणम् ।। ७६ ।। चन्दनं शुष्कतां प्राप वर्णश्चम्पकसंनिभः । बभुव कज्जलाकारः केशस्य वर्णतो हरे ।। ७७ ।। सिन्दूरबिन्दू रुचिरः श्यामतां प्राप तत्क्षणम् । वेषो विलासो लीला च क्रीडा त्यक्ता बभूव ह ।। ७८ ।। रत्नमाला तु तां दृष्ट्वा गत्वा कृष्णान्तिकं तदा । उवाच मधुरं वाक्यं राधाहितकरं परम् ।। ७९ ।। रत्नमालोवाच हे कृष्ण कमलाकान्त त्वद्वियोगेन मत्सखी । प्राणांस्त्यक्ष्यति शीघ्रं सा यदि नाऽऽयास्यसि ध्रुवम् ।। ८० ।। विचार्य मनसा कृष्ण यत्तत्समृचितं कुरु । न भवेत्कामिनीहत्या येन नीतिविशारद ।। ८१ ।। रत्नमालावाचः श्रुत्वा प्रहस्योवाच माधवः । हितं सत्यं नीतिसारं परिणमसुखावहम् ।। ८२ ।। श्रीभगवानुवाच ईशो यद्यपि शक्तोऽहं निषेकं खण्डितुं प्रिये । तथाऽपि न क्षमो रत्ने नियतेर्नं करोम्यहम् ।। ८३ ।। ब्रह्माण्डेषु च सर्वेषु मर्यादा स्थापिता मया । तया कर्म प्रकुर्वन्ति मुनयश्च सुरा नराः ।। ८४ ।। सुदामशापाद्विच्छेदः शतवर्षमनीप्सितः । भविष्यत्येव दंपत्योरावयोरेव सुन्दरि ।। ८५ ।। भेदो जागरणेऽस्याश्च मया सह सुमध्यमे । संश्लेषः संततं स्वप्ने मद्वरेण भविष्यति ।। ८६ ।। आध्यात्मिकी मया दत्ता शोकच्छेदो भविष्यति । राधां बोधय भद्रं ते यास्यामि नन्दमन्दिरम् ।। ८७ ।। इत्युक्त्वा जगतां नाथो ययौ नन्दालयं प्रति । राधिकां बोधयामासुरालिसंघाश्च नारद ।। ८८ ।। गत्वा गृहं च पितरं ननाम मातरं तथा । चकार माता क्रोडे च नवनीतं च नूतनम् ।। ८९ ।। मातृदत्तं च ताम्बूलं चखाद शीतलं जलम् । उवास तत्र जगतां नाथो मातृसमीपतः ।। ९० ।। सर्वैर्गोपसमूहैश्च सेवितः श्वेतचामरैः । माल्यचन्दनताम्बूलं ते च तस्मै ददुर्मुदा ।। ९१ ।। इति श्रीब्रह्मo महाo श्रीकृष्णचन्मखo उत्तo नारदनाo श्रीकृष्णागमनं नामैकोनसप्ततितमोऽध्यायः ।। ६९ ।।
athaikonasaptatitamo'dhyāyaḥ nārada uvāca ataḥ paraṃ kiṃ rahasyaṃ rādhākeśavayorvada | nigūḍhatatvāmaspaṣṭaṃ tanme vyākhyātumarhasi || 1 || nārāyaṇa uvāca śṛṇu nārada vakṣyāmi rahasyaṃ paramādbhutam | gopanīyaṃ ca vedeṣu purāṇeṣu purāvidām || 2 || punaḥ sakāmo bhagavānkṛṣṇaḥ svecchāmayo vibhuḥ | reme sa ramayā sārdhaṃ vidagdhaśca vidagdhayā || 3 || catuḥṣaṣṭikalāśaktyā yathā kāntā kalāvatī | kāmaśāstreṣu nipuṇā vidagdhā rasikeśvarī || 4 || śṛṅgāralīlānipuṇā śaśvatkāmā ca kāmukī | sundarī sundarīṣveva śaśvatsusthirayauvanā || 5 || pitaṇāṃ mānasī kanyā dhanyā mānyā ca māninī | śaṃbhoḥ śiṣyā jñānayutā śatakalpāntajīvinī || 6 || vedavedāṅganipuṇā yoganītiviśāradā | nānārūpadharā sādhvī prasiddhā siddhayoginī || 7 || tatkanyā rādhikā devī mātṛtulyā ca kāmukī | cakāra nānābhāvaṃ sā suśīlā svāminaṃ prati || 8 || catuḥṣaṣṭikalāmānaṃ śrṛṅgāraṃ ca cakāra saḥ | tyā viśiṣṭayā sākaṃ rāse rāmarasotsukaḥ || 9 || tāṃ nakhāgrakṣataśroṇīṃ nakhakṣatapayodharām | luptacandanasiṃdūrāṃ kabarīśithilāṃ satīm || 10 || sukhasaṃbhogamagnāṃ ca nagnāṃ ca śokamūrcchitām | pulakāñcitasarpāṅgīṃ nidrādevī samāyayau || 11 || dṛṣṭvā tāṃ nidritāṃ kṛṣṇaḥkṛpayā ca kṛpānidhiḥ | ruroda māyayā māyī mayeśo lokaśikṣayā || 12 || kṛtvā vakṣasi rādhāṃ ca cucumba ca punaḥ punaḥ | snātāṃ ca netrasalilaiḥ prāṇādhiṣṭhātṛdevatām || 13 || prāṇādhikāṃ priyatamāṃ dhārayāmāsa vāsasī | vahniśuddhe'tisūkṣme cāmūlye viśvamudurlabhe || 14 || kabarīṃ ca dadau kuṅkumacandanam | tadgātre ca gale hāramamūlyaṃ ratnanirmitam || 15 || sindūraṃ ca dadau tasyāḥ sīmantādhaḥsthale'male | dāḍimīkusumākāraṃ yuktaṃ candanabindubhi || 16 || cakāra padmakaṃ gaṇḍe nānācitravicitrakam | dadau tatpādapadme ca ratnamañjīrarañjitam || 17 || pādāṅgulinakhāge ca sundarālaktakaṃ dadau | nānāsuveṣojjvalitāṃ tāṃ nidrākulitāṃ vibhuḥ || 18 || punaścakāra mohena gāḍhāliṅganamīpsitam | punaśca cumbanaṃ kṛtvā niveśya ca svavakṣasi || 19 || suṣvāpa jagatāṃ svāmī kāntāvirahakātaraḥ | etasminnantare kāne brahmā lokapitāmahaḥ || 20 || śivaśeṣādibhirdevairmunīndraiḥ sārdhamāyayau | āgatya natvā sirasā tuṣṭāva saṃpuṭāñjaliḥ || 21 || sāmavedoktastotreṇa paripūrṇatamaṃ vibhum || 22 || brahmovāca jaya jaya jagadīśa vanditacaraṇa nirguṇa nirākāra svecchāmaya bhaktānugraha nityavigraha || 23 || gopaveṣa māyayā māyeśa suveṣa suśīla śānta sarvakānta dānta nitāntajñānānanda parātparatara prakṛteḥ para sarvāntarātmarūpa nirlipta sākṣisvarūpa vyaktāvyakta nirañjana bhārāvatāraṇa karuṇārṇava śokasetāpagrasana jarāmṛtyubhayādiharaṇa śaraṇapañjara bhaktānugrahakāraka bhaktavatsala bhaktasaṃcitadhana oṃ namo'stu te || 24 || sarpādhiṣṭhātṛdevāyetyuktvā vai prīṇanāya ca | punaḥpunaḥruvācedaṃ mūrcchitaśca babhūva ha || 25 || iti brahmakṛtaṃ stotraṃ yaḥ śṛṇoti samāhitaḥ | tatsarpābhīṣṭasiddhiśca bhavatyeva na saṃśayaḥ || 26 || aputro labhate putraṃ priyāhīno labhetpriyām | nirdhano labhate satyaṃ paripūrṇatamaṃ dhanam || 27 || iha loke sukhaṃ bhuktvā cānte dāsyaṃ labheddhareḥ | acalāṃ bhaktimāpnoti mukterapi sudurlabhām || 28 || stutvā ca jagatāṃ dhātā praṇamya ca punaḥ punaḥ | śanaiḥ śanaiḥ samutthāya bhaktyā punaruvāca ha || 29 || brahmovāca uttiṣṭha devadeveśa paramānandakāraṇa | nandanandana sānanda nityānanda namo'stu te || 30 || vraja nandālayaṃ nātha tyaja vṛndāvanaṃ vanam | smara sṛdāmaśāpaṃ ca śatavarṣanibandhanam || 31 || bhaktaśāpānṛrodhena śatavarṣa priyāṃ tyaja | punarenāṃ ca saṃprāpya golokaṃ ca gamiṣyasi || 32 || gatvā pitṛgṛhaṃ deva paśyākūraṃ samāgatam | pitṛvyamatithiṃ mānyaṃ dhanyaṃ vaiṣṇavamīśvara || 33 || tena sārdhaṃ madhupurīṃ bhagavān gaccha saṃpratam | kuru śaṃbhordhanurbhaṅgaṃ bhagnaṃ vairigaṇaṃ hare || 34 || hana kaṃsaṃ durātmānaṃ tātaṃ bodhaya mātaram | nirmāṇaṃ dvārakāyāśca bhārāvataraṇaṃ bhuvaḥ || 35 || daha vārāṇasīṃ śaṃbhoḥ śakrasya sadanaṃ vibho | śivasya jṛmbhaṇaṃ yuddhe bāṇasya bhujakṛntanam || 36 || rukmiṇīharaṇaṃ nātha ghātanaṃ narakasya ca | ṣoḍaśānāṃ sahasraṃ ca strīṇāṃ pāṇigrahaṃ kuru || 37 || tyaja priyāṃ prāṇasamāṃ vrajeśvara vrajaṃ vraja | uttiṣṭhottiṣṭha bhadraṃ te yāvadrādhā na jāgrati || 38 || tyevamuktvā brahmā ca sendrairdevagaṇaiḥ saha | jagāma brahmalokaṃ ca śeṣaśca śaṃkarastathā || 39 || puṣpacandanavṛṣṭiṃ ca kuṣṇasyopari devatāḥ | cakruḥ prītyā ca bhaktyā ca vāgbabhūvāśarīriṇī || 40 || badha kaṃsaṃ vathārha ca svapitrormokṣaṇaṃ kuru | kṣayaṃ kurubhuvo bhāraṃ nāradetyevameva ca || 41 || ityevaṃ tadvacaḥ śrutvā bhagavān bhūtabhāvanaḥ | rādhā bhagavatīṃ tyaktvā samuttasthau śanaiḥ śanaiḥ || 42 || yayau hariḥ kiyaddūraṃ nirīkṣya ca punaḥ punaḥ | kṣaṇaṃ tasthau candanānāṃ vane vāsasamīpataḥ || 43 || vihāya rādhā nindrāṃ sā samuttasthau svatalpataḥ | na nirīkṣya harīṃ śāntaṃ kāntaṃ ca prāṇavallabham || 44 || hā nātha ramaṇa preṣṭha prāṇeśa prāṇavallabha | prāṇacora priyatama kva gato'sītyuvāca ha || 45 || kṣaṇamanveṣaṇaṃ kṛtvā babhrāma mālatīvanam | uvāsa kṣaṇamuttasthau kṣaṇaṃ suṣvāpa bhūtale || 46 || ruroda kṣaṇamatyuccairvilalāpa muhurmuhuḥ | āgacchā''gaccha he nāthetyevasuktvā punaḥ punaḥ || 47 || mūrcchāṃ saṃprāpa saṃtāpātsaṃptatā virahānalaiḥ | bhūtale ca tṛṇācchanne papāta ca yathā mṛtā || 48 || āyayustatra gopyaśca brahmañchatasahasraśaḥ | kāściccāmarahastāśca gṛhītvā candanadravam || 49 || tāsāṃ madhye priyā līlā kṛtvā rādhāṃ svavakṣasi | mṛtāmiva priyāṃ dṛṣṭvā ruroda premavihvalā || 50 || sajalaṃ paṅkajadalaṃ paṅkopari nidhāya ca | sthāpayāmāsa tāṃ rādhāṃ niśceṣṭāṃ ca mṛtāmiva || 51 || gopībhiḥ sevitāṃ tatra ruciraiḥ śvetacāmaraiḥ | candanadravayuktāṃ ca snigdhavastrānvitāṃ satīm || 52 || dadarśa kṛṣṇastatraitya tāmeva prāṇavallabhām | nivāritaśca gopībhirbaliṣṭhābhiśca nārada || 53 || yathā nītaḥ sāparādho daṇḍatho rājabhaṭādibhiḥ | cakāra rādhāṃ kroḍe ca samāgatya kṛpānidhiḥ || 54 || cetanāṃ kārayāmāsa bodhayāmāsa bodhanaiḥ | saṃprāpya cetanāṃ devī dadarśa prāṇavallābhām || 55 || babhūva susthirā devī tatyāja virahajvaram | cakāra kāntaṃ sā kāntā gātrāliṅganamīpsitam || 56 || nānāprakāraśṛṅgāraṃ cakāra madhusūdanaḥ | uvāsa ratnatalpe ca rādhāṃ kṛtvā svavakṣasi || 57 || rādhāsakhī ratnamālā vidagdhā sarvapūjitā | uvāca kṛṣṇaṃ madhuraṃ nītisāramanuttamam || 58 || ratnamārovāca śṛṇu kṛṣṇa pravakṣyāmi pariṇāmasukhāvaham | hitaṃ tathyaṃ nītisāraṃ daṃpatyoḥ prītikāraṇam || 59 || saṃmataṃ kāmaśāstreṣu nītau vedapurāṇayoḥ | laukikavyavarāreṣu praśasyaṃ suyaśaskaram || 60 || nārīṇāṃ ca priyā mātā priyo bhrātā ca vandhuṣu | tataḥ priyaśca putraśca putrādeva priyaḥ patiḥ || 61 || śataputrātpriyaḥ svāmī sādhvīnāṃ sādhusaṃmataḥ | rasikānāṃ vidagdhānāṃ na hi bhartuḥ paraḥ priyaḥ || 62 || yadi bhartā vidagdhaśca vidagdhānāṃ sukhāvahaḥ | anyathā viṣatulyaśca viṣamaścetkhalaḥ khalu || 63 || saṃsāre cānṛte vatsa daṃpatyoḥ prītireva ca | parasparaṃ ca samatā priyasaubhāgyamīpsitam || 64 || daṃpatyoḥ samatā nāsti yatra-yatra hi mantire | alakṣmīstatra tatraiva viphalaṃ jīvanaṃ tayoḥ || 65 || susvāmināṃ vibhedaśca paraṃ duḥkhaṃ ca yoṣitām | śokasaṃtāpabījaṃ ca jīvitaṃ maraṇādhikam || 66 || svapne jāgaraṇe cāpi patiḥ prāṇāśca yoṣitaḥ | patireva guruḥ strīṇāmiha loke paratra ca || 67 || asmāttavayi gate nāthe mūrcchāṃ saṃprāpa rādhikā | papāta sahasā bhūmau tṛṇācchanne ca bhūtale || 68 || mayā dattaṃ mukhe'syāśca śītalaṃ jalamuttamam | tadā śvāso babhūvāsyāścetanaṃ bālyameva ca || 69 || kṣaṇaṃ vadati he nātha he kṛṣṇeti kṣaṇaṃ sakhī | kṣaṇaṃ roditi saṃtaptā mūrcchāṃ prāpnoti tatkṣaṇam || 70 || rādhikāyāḥ śarīraṃ ca saṃtaptaṃ virahānalaiḥ | dagdhalohayaṣṭisamamaspṛśyamanalopamam || 71 || svapne jāganaṇe rātrau divase ca gṛhe vane | jale sthale cāntarikṣe'bhyudaye candrasūryayoḥ || 72 || nāsti bhedaśca rādhāyā mṛtatulyā jaḍākṛtiḥ | śaśvatpaśyati sthānasthā sarvaṃ viṣṇumayaṃ jagat || 73 || snigdhapaṅke paṅkajānāṃ sajalāni dalāni ca | nipatya tatkṛte talpe suṣvāpa virahāturā || 74 || sevitā sā priyālībhiḥ saṃtataṃ śvetacāmaraiḥ | candanadravasaṃsiktā snigdhavastrasamanvitā || 75 || rādhāṅgasparśamātreṇa paṅkaḥ saṃprāpa śuṣkatām | snigdhāni padmapatrāṇi babhūvurbhasmasātkṣaṇam || 76 || candanaṃ śuṣkatāṃ prāpa varṇaścampakasaṃnibhaḥ | babhuva kajjalākāraḥ keśasya varṇato hare || 77 || sindūrabindū ruciraḥ śyāmatāṃ prāpa tatkṣaṇam | veṣo vilāso līlā ca krīḍā tyaktā babhūva ha || 78 || ratnamālā tu tāṃ dṛṣṭvā gatvā kṛṣṇāntikaṃ tadā | uvāca madhuraṃ vākyaṃ rādhāhitakaraṃ param || 79 || ratnamālovāca he kṛṣṇa kamalākānta tvadviyogena matsakhī | prāṇāṃstyakṣyati śīghraṃ sā yadi nā''yāsyasi dhruvam || 80 || vicārya manasā kṛṣṇa yattatsamṛcitaṃ kuru | na bhavetkāminīhatyā yena nītiviśārada || 81 || ratnamālāvācaḥ śrutvā prahasyovāca mādhavaḥ | hitaṃ satyaṃ nītisāraṃ pariṇamasukhāvaham || 82 || śrībhagavānuvāca īśo yadyapi śakto'haṃ niṣekaṃ khaṇḍituṃ priye | tathā'pi na kṣamo ratne niyaternaṃ karomyaham || 83 || brahmāṇḍeṣu ca sarveṣu maryādā sthāpitā mayā | tayā karma prakurvanti munayaśca surā narāḥ || 84 || sudāmaśāpādvicchedaḥ śatavarṣamanīpsitaḥ | bhaviṣyatyeva daṃpatyorāvayoreva sundari || 85 || bhedo jāgaraṇe'syāśca mayā saha sumadhyame | saṃśleṣaḥ saṃtataṃ svapne madvareṇa bhaviṣyati || 86 || ādhyātmikī mayā dattā śokacchedo bhaviṣyati | rādhāṃ bodhaya bhadraṃ te yāsyāmi nandamandiram || 87 || ityuktvā jagatāṃ nātho yayau nandālayaṃ prati | rādhikāṃ bodhayāmāsurālisaṃghāśca nārada || 88 || gatvā gṛhaṃ ca pitaraṃ nanāma mātaraṃ tathā | cakāra mātā kroḍe ca navanītaṃ ca nūtanam || 89 || mātṛdattaṃ ca tāmbūlaṃ cakhāda śītalaṃ jalam | uvāsa tatra jagatāṃ nātho mātṛsamīpataḥ || 90 || sarvairgopasamūhaiśca sevitaḥ śvetacāmaraiḥ | mālyacandanatāmbūlaṃ te ca tasmai dadurmudā || 91 || iti śrībrahmao mahāo śrīkṛṣṇacanmakhao uttao nāradanāo śrīkṛṣṇāgamanaṃ nāmaikonasaptatitamo'dhyāyaḥ || 69 ||
English translation
of a cowherd because of his illusion, how can I really know about you who is envious of you.
O lord I have committed innumerable sins improperly and whatever I had spoken to you taking you as my husband in arrogance. You kindly forgive me.
My pride has been shattered and the goal has been left behind, what more can I speak in order to know about my fortune? In spite of knowing about the truth, about you from the mouth of Garga, I am still infatuated with the illusion, therefore getting over-powered with love and devotion, I am unaWe to speak out anything but in case you are going, leaving me alone then you will earn a blemish and all your sons, and grandsons would be destroyed in the fire of the You are the lord of my life and without you even a moment is spent by me like a yuga.
Therefore, O lord how can I remain alive getting separated from you for a hundred years.
O sage thus speaking Radhika fell down on the ground in anger and fainted losing Thereafter the all merciful Kirsna finding her fainted, brought her back to senses and embraced In spite of the face that he had bestowed the divine knowledge of the yogic practices on her which could remove the grief but in spite of that Radhika, who always had a smiling face could not be relieved of the grief.
When the separation from ordinary things creates grief for a person then how could the separation from the body and the soul be The lord of Vraja could not go to Vraja on that day. He took Radha to the lake of the love-sport.
cR W fT: sfiter iT W Wl Reaching there he again had the divine play with Radha as a result of which the burning sensation of the mind of the goddess of the divine dance was subsided.
Thereafter, G Narada, getting decorated with flowers and sandal-paste, Radha enjoyed the company of her husband Krsna on the bed of Narada said- Thereafter what is the extremely secret and secret tattva of Radha and Krsna and what was their other tattva you kindly tell me.
NarSyana said- O Narada, I will speak to you the extremely secretive tattva which the ancient people describe as quite secret in the Vedas and other scriptures. You please listen to me.
Thereafter, the passionate, moving at will, all- pervading and clever lord Krsna enjoyed the love-sport with beautiful Radha.
Oil'll I Radha was completely like the figure of her mother Kalavatl. Kalavatl had the strength of sixty-four arts, quite attractive, well-versed in the sports of love, extremely intelligent, passionate, well-versed in passionate advances, always filled with passionate desires, completely passionate, most beautiful of woman, having quite stable youth-fullness and was the mind-bom daughter of the manes, was quite fortunate, arrogant, the pupil of Siva, possessed all knowledge, who lived for a hundred kalpas, well-versed in the Vedas and post-Vedic literature, well-versed in yogic practices and polity, the one who could change to many forms, quite chaste and was the well-known Siddhayogim, Her daughter named Radhika was also like her mother and quite passionate. The noble Radhika displayed several types of dispositions in the divine dance for lord Krsna who was always anxious to perform for the sake of his beloved
and particularly Radha who was quite dear to him, enjoyed sixty-four types of asanas, by which the pelvic region and the breasts were injured with the nails, the painting of the sandal¬ wood paste and the vermilion was shattered and the hair-do was disarranged. She enjoyed everlasting pleasure by getting unrobed and fainted with grief Her entire body was filled with emotions and she was overwhelmed. She went to sleep in the same position.
Thereafter, finding her enjoying the sleep, the compassionate lord Krsna who is the lord of illusion also, just for educating people getting filled with illusion cried aloud.
W R JT: gT:l Embracing the great goddess Radha he kissed her again and again. She was bathed with the waters of his tears.
Krsna then clad his beloved with the garments sanctified by fire which were quite fine and were invaluable besides being difficult to get in the He made a knot of her hair, plastered her body with saffron and sandal-paste, adorned her neck with garlands of invaluable gems and applied vermilion on the head at the point of the parting of the hair; her cheeks were decorated with various types of flowers like lotus and others and her feet were adorned with the gem-studded anklets, beautiful red paint was applied over her feet and the toes. Thus the lord decorated his beloved when she was fast asleep by applying various types of cosmetics.
Thereafter infatuated with love, he embraced her and implanted kisses on her repeatedly, he then laid her against his chest and then went to sleep himself In the meantime the grandsire Brahma, Siva, Sesa and the gods arrived there together with the sages. They saluted before him bowing their heads and with folded hands started offering prayers as prescribed in the Samaveda.
Brahma said- O lord of the universe, victory to you, all of us adore your sacred feet. You are beyond the gunas like sattva, rajas and tamas you are formless, moving at will, graceful to the devotees, having the eternal form, taking to the form of a cowherd by illusion, lord of the illusion, clad in the best of garments, having the best nature, peaceful, loveable by all, can subjugate all, possessing eternal knowledge, quite blissful, beyond everything, beyond Prakrti, residing in the heart of everyone, unattached witness of the deeds of all the people; you are formless as well as with form, spotless, remover of the burden of earth, ocean of mercy, destroyer of the grief and sufferings of the people, destroyer of old age, death and fear, serving as a sage for those who take refuge in you, graceful and compassionate to the devotees and are the immense treasure of the devotees, we bow in reverence to you. You are the great god of all,
we bow in reverence to you. Whatever was spoken by Brahma again and again to please the god, was spoken with utmost devotion, after which he fainted.
Whosoever recited the stotra composed by Brahma or listens to it with an attentive mind, all his desires get fulfilled, there is no doubt about it.
A man without son gets a son, without a wife, gets a wife and a pauper receives immense riches Enjoying all the pleasures in this world, he achieves the slavehood of the lord ultimately and, achieves his everlasting abode.
He was thus eulogised by Brahma who prostrated before him again and again with his mind filled with devotion.
Brahma said- O lord of the gods, O blissful one, the delight of Nanda, you are filled with bliss, are all blissful, I bow in reverence to you.
O lord, leaving Vmdavana you go to the abode of Nanda. You remember the curse of Sudama in which you have to remain separated from your beloved for a hundred years.
W WdTi;i Because of the curse of your devotees, you have to get separated from your beloved for a hundred years. You will get back again and go to Goloka but O lord, presently you go and reach the abode of your father and meet Akrura who happens to be your uncle and has arrived here.
He is quite adorable, graceful and a great Vais nava. O lord, you go to Mathura accompanied by him. O Hari, reaching there you break the bow of Siva and destroy the enemies.
You free yourself from your parents from the bondage, killing the wicked Kamsa. Thereafter you build the city of Dvaraka and relieve the earth of her burden.
gg ciKiunft ngg f^i O virtuous one, destroying the city of KasI of lord Siva you have to destroy the abode of Indra also, engaging Siva in a trance, you destroy the arms of Banasura.
O lord, kidnapping Rukmini, you kill Narakasura and marry the sixty thousand girls O lord of Vraja, disowning your beloved who is dearer to you than your life, you proceed to Vraja. Till such time as Radha does not wake up, you get up at once. You will meet with welfare.
Thus speaking Indra together with the gods like Brahma went back to Brahmaloka. The serpent Sesa and Siva also retired to their Thereafter filled with devotion the god showered the flowers soaked with sandal-paste on the lord and they heard a divine voice from the sky which said, "Karhsa is fit for killing. By killing him relieve your parents of bondage and then relieve the earth of her burden.”.
Hearing all these words, for the welfare of the people, lord Krsna leaving aside Radha got up grwiftgg; I u? 11 Looking at Radha again and again the lord went up to a distance and he stopped for a moment in his abode in the Candana-vana.
TM gj iggggg:i Radha on the other hand woke up and get up from her bed. She was peaceful, beautiful but finding her lord missing who was beautiful and peaceful, she said, ”0 lord, the extremely dear one, O lord of my life, the chief of my life, O beloved one, where have you gone.
After searching for him for a moment she went to the Malatl-vana. She rested there for a while and again got up and then slept on the floor. She started crying in a moment saying, "O Repeating these words again and again, she started lamenting loudly.
Burning with the fire of separation she fainted and she lay there on the grassy land like a dead O Brahman, at that point of time a lakh of cowherdesses arrived there to serve her, some of whom were carrying in their hands the fly- whisks and sandal-paste.
Lila has been the most favourable of the cowherdesses of Radha who picked her up and embraced her. Finding her friend like a dead person, she was upset and started crying.
She spread the lotus leaves on the ground and then she placed the body of Radha on the same who was sleeping without any movement.
The cowherdesses holding beautiful white fly- whisks started serving her and applying sandal- paste on her body and then clad her in a thick garment. In the meantime, lord Krsna also arrived there and found Radha there who was dearer to him than his life. O Narada, at that point. of time the strong and powerful cowherdesses were preventing the entry of Krsna towards the place of Radha like the soldiers of the king. But the compassionate Krsna, reaching there lifted Radha and took her in his lap and enlightened her With various types of divine knowledge. On regaining consciousness, Radha looked at the lord of her life and getting composed, she shed away the pain of separation.
Thereafter, the beautiful Radha embraced her beloved and MadhusUdana on his part carried Radha to the bed of gems and enjoyed the love- sport with her.
Thereafter Ratnamala, the dearest friend of Radha, spoke to Krsna in sweet tone the words which were very appropriate.
Ratnamala said- O Krsna, you listen to me, I am going to talk to you that which would be quite pleasant, beneficial, truthful and the tattva of polity besides being the cause of immense love of a couple. It is strictly according to the scriptures on love, polity, Vedas, Puranas and human behaviour. These words also bestow great Of all the women the mother is extremely lovable of all the relatives, the brothers is lovable and the son is more lovable than him. A husband is more lovable than the son.
The chaste lady loves her husband more than a hundred sons. This is well-known. The passionate woman and the one who is well versed in the art of making love is devoted to her husband the most and no one can equal the In case the husband is also well-versed in the art of making love, in spite of that for the ladies he is quite pleasant and in case a husband is wicked and foolish, he is treated like poison and is always troublesome.
O Krsna, the love of a couple is considered to be quite important in the universe. The equality of a couple is the biggest fortune and is also The household in which the couple is not treated with equality, poverty dwells there and the life of both of them becomes of no It is extremely painful for the woman to get separated from a meritorious husband. This separation could be the seed of grief and lamenting. And they have to suffer from it throughout the life.
Whether sleeping or awake, the husband happens to be the life of the women. He is also considered to be their teacher in this as well as in the future life.
It is because of this that Radhika fainted after your departure and fell down suddenly on the I poured the cool and best water over her after which she regained consciousness and she started breathing again and again she regained her glow.
Another cowherdesses spoke again, "O lord, O she then started crying in a moment and in a moment she fell down and fainted. As the iron rod becomes untouchable having been burnt in fire similarly the body of Radha became untouchable with the fire of separation.
While sleeping or awake, during day or night in the house or in the forest on land or in water, in the sun and the moon shining in the sky, Radha became motionless like a dead person.
She was unable to distinguish anything. Lying on the ground she thought everything in the from of Krsna, 0 well-versed in polity, you think on the matter carefully in your mind and do something by which the life of a damsel could be Collecting the petals of lotus flowers, a bed was made for her on the wet land Radha suffering from the pain of separation slept on that bed, the sandal-paste was applied on the thick gannents and her female friends started serving her by moving the fly-whisks of white colour but with the touch of the limbs of Radha, the mud dried up and the leaves of the lotus flower were also bum out. 0 Hari, the sandal-paste was dried up and the complexion of the body was turned into the colour of black hair.
The spot of vermilion was turned into black.
The costumes, the divine dance and the divine people were discarded. Ratnamala finding Radha in such a condition went to Kr|na and spoke sweet words which were quite beneficial for Ratnamala said- O Krsna, O lord of Kamala, in separation from you, my friend would surely meet the end of her life. In case you do not arrive, she is sure to die.
WTMrarer: Tirag:i Hearing the words of Ratnamala, the lord smiled and spoke to her the words which were tmthful, O gist of polity and could be quite Lord Kr$na said- O P^atnamala, since I am the lord on to myself I am quite competent to remove the cause of her suffering but I am not competent enough to shatter the twin of the destiny.
In all the Brahmapdas I have prescribed the decorum by which the sages, the gods and the humans perform the actions.
O beautiful one, we are going to face separation for a hundred years because of the curse of Sudama though it is not desired by either of us, but O slender waisted, one because of my boon, she will get separated from me only when she is awake but when in sleep she would always be united with me.
I have already bestowed on her the divine knowledge as a result of which the grief would disappear. Therefore, you wake up Radha, you will meet with all the welfare. I shall now go to the abode of Nanda.
O Narada, thus speaking lord Krsna went to the abode of Nanda and the group of cowherdesses woke up Radha.
Reaching home Krsna offered his salutation to his parents; thereafter the mother took Krsna in his lap and offered him the fresh butter.
The mother then offered him the cool water and the betel, consuming which Sri Krsna dwelt in this house of the mother.
All the Gopas offered him delightfully the garlands, sandal-paste and the betels, serving him with the white fly-whisks.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122399 (2017-09-17T13:52:30Z); Shanti Lal Nagar English scan pages n1340–n1349: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1340/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.