Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 67

Chapter 67

Unit 210 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 67Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 671 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 67

Source

अथा सप्तषष्टितमोऽध्यायः नारायण उवाच विरहव्याकुलां दृष्ट्वा मामिनीं काममोहनः । कृत्वा वक्षसि तां कृष्णो ययौ क्रीडासरोवरम् ।। १ ।। राजराजेश्वरी राधा कृष्णवक्षसि राजते । सौदामिनीव जलदे नदीने गगने मुने ।। २ ।। रेमे स रमया सार्धं कृपया च कृपानिधिः । द्वयोर्द्वयोर्यथा स्वर्णंमण्योर्मारकतो मणिः ।। ३ ।। रत्ननिर्माणपर्यङ्के रत्नेन्द्रसारनिर्मिते । नत्नप्रदीपे ज्वलति रत्नभूषणभूषितः ।। ४ ।। रत्नभूषाभूषितया रासरत्नश्च कौतुकात् । रसरत्नाकरे रम्ये निमग्नो रसिकेश्वरः ।। ५ ।। रासे रासेश्वरी राधा रामेश्वरमुवाच सा । सुरतौ विरतौ सत्यां विरते न मनोरथे ।। ६ ।। राधिकोवाच प्रफुल्लाऽहं त्वया नाथ मृता म्लाना च त्वां विना । यथा महौषधिगणः प्रभाते भाति भास्करे ।। ७ ।। नक्तं दीपशिखेवाहं त्वया सार्धं त्वया विना । दिने दिने यथा क्षीणा कृष्णपक्षे विधोः कला ।। ८ ।। तव वक्षसि मे दीप्तिः पूर्णंचन्द्रप्रभासमा । सद्यो मृता त्वया त्यक्ता कुह्वां चन्द्रकला यथा ।। ९ ।। ज्वलदग्निशिखेवाहं घृताहुत्या त्वया सह । त्वया विनाऽहं निर्वाणा शिशिरे पद्मिनी यथा ।। १० ।। चिन्ताज्वरजराग्रस्ता मत्तस्त्वयि गतेऽप्यहम् । अस्तंगते रवौ चन्द्रे ध्वान्दग्रस्ता धरा यथा ।। ११ ।। भ्रष्टो वेषस्त्वां विना मे रुपयौवनचेतनम् । तारावली परिभ्रष्टा सूर्यसूतोदये यथा ।। १२ ।। त्वमेवाऽऽत्मा च सर्वेषां मम नाथो विशेषतः । तनुर्यथाऽऽत्मना त्यक्ता तथाऽहं च त्वया विना ।। १३ ।। पञ्चप्राणात्मकस्त्वं मे मृताऽहं च त्वया विना । दृष्टेश्च गोलकौ जद्वद्दृष्टिः पुत्तलिकां विना ।। १४ ।। स्थलं यथा चित्रयुक्तं त्वया सार्धमहं तथा । असंस्कृता त्वया हीना तृणाच्छन्ना यथा मही ।। १५ ।। त्वया सार्धमहं कृष्ण चित्रयुक्तेव मृन्मयी । त्वां विना जलधौताऽहं विरूपा मृन्मयीव च ।। १६ ।। गोपाङ्गनानां शोभा च त्वया रासेश्वरेण च । हारे स्वर्णविकारे च श्वेतेन मणिना सह ।। १७ ।। व्रजराज त्वया सार्ध राजन्ते राजराजयः । यथा चन्द्रेण नभसि ताराराजिर्विराजते ।। १८ ।। त्वया शोभा यशोदाया नन्दस्य नन्दनन्दन । यथा शाखाफलस्कन्धैस्तरुराजिर्विराजते ।। १९ ।। त्वया कार्ध गोकुलेश सोभा गोकुलवासिनाम् । यथा सर्वा लोकराजी राजेन्द्रेण विराजते ।। २० ।। रामस्यापि च रासेश त्वया शोभा मनोहरा । राजते देवराजेन यथा स्वर्गेऽमरावती ।। २१ ।। वृन्दावनस्य वृक्षाणां त्वं च शोभा पतिर्गतिः । अन्योषां च वनानां च बलवान्केसरी यथा ।। २२ ।। त्वया विना यशोदा य निमग्ना शोकसागरे । अप्राप्य वत्सं मुरभिः क्रोशन्ती व्याकुला यथा ।। २३ ।। आन्दोलयन्ति नन्दस्य प्राणा दग्धं च मानसम् । त्वया विना तप्तपात्रे यथा धान्यसमूहकः ।। २४ ।। इत्युक्त्वा परमप्रेम्णा सा पतन्ती हरेः पदे । पुनराध्यात्मिकेनैव बोधयामास तां विभुः ।। २५ ।। आध्यात्मिको महायोगी मोहसंछेदकारणम् । यथा पर्शुश्च वृक्षाणां तीक्ष्णधारश्च नारद ।। २६ ।। नारद उवाच आध्यात्मिकं महायोगं वद वेदविदां वर । शोकच्छेदं च लोकानां श्रोतुं कौतुहलं मम ।। २७ ।। नारायण उवाच आध्यात्मिको महायोगो न ज्ञातो योगिनामवि । स च नानाप्रकारश्च सर्वं वेत्ति हरिः स्वयम् ।। २८ ।। किंचिदाध्यात्मिकं चैव गोनोके राधिकेश्वरः । सुप्रीतः कथायामास त्रिपुरारिं यथा मुने ।। २९ ।। सहस्रेन्द्रनिपातान्तं तपः कुर्वन्तमीश्वरम् । श्रेष्ठं ज्येष्ठं वैष्णवानां वरिष्ठं च तपस्विनाम् ।। ३० ।। पुष्करे दुष्करं तप्त्वा पाद्मे पाद्मं च पद्मजः । दृष्ट्वा तं सादरं कृष्ण उवाच किंचिदेवतम् ।। ३१ ।। शतेन्द्रपातपर्यन्तं कठोरेण कृशोदरम् । निश्चेष्टमस्थिसारं च कृपया च कृपानिधिः ।। ३२ ।। सिंहक्षेत्रे पुरा धर्मं मत्तातं धर्मिणां वरम् । चतुर्दशेन्द्रावच्छिन्नं तपस्तप्त्वा कृशोदरम् ।। ३३ ।। पपाठाऽऽयात्मिकं किंचित्कृपया च कृपानिधिः । किचिच्छतेन्द्रावच्छिन्नं मां तपन्तमुवाच सः ।। ३४ ।। किंचित्सनत्कुमारं च तपन्तं सुचिरं परम् । सुतपन्तमनन्तं च किंचिच्चोवाच नारद ।। ३५ ।। चिरं तपन्तं कपिलं हिमशैले तपस्विनम् । पुष्करे भास्करे किंचित्तपन्तं दुष्करं तपः ।। ३६ ।। उवाच किंचित्प्रह्लादं किंचिद्दुर्वाससं भृगुम् । एवं निगूढं भक्तं च कृप्या भक्तवत्सलः ।। ३७ ।। क्रीडाकनोवरे रम्ये यदुवाच कृपानिधिः । शोकार्तां राधिकां तच्च कथायामि निशामय ।। ३८ ।। विरसं रसिकां दृष्ट्वा वासयित्वा च वक्षसि । उवाचाऽऽध्यात्मिकं किंचिद्योगिनीं योगिनां गुरुः ।। ३९ ।। श्रीकृष्ण उवाच जातिस्मरे स्मराऽऽत्मानं कथं विस्मरसि प्रिये । सर्वं गोलोकवृत्तान्तं सुदाम्नः शापमेव च ।। ४० ।। शापात्किंचिद्दिनं दीने त्वद्विच्छेदो मया सह । भविष्यति महाभागे मेलनं पुनरावयोः ।। ४१ ।। पुनरेव गमिष्यामि गोलोकं तं निजालयम् । गत्वा गोपाङ्गनाभिश्च गोपैर्गोलोकवासिभिः ।। ४२ ।। अधुनाऽऽध्यात्मिकं किंचित्तवां वदामि निशामय । शोकध्नं हर्षदं सारं सुखदं मानसस्य च ।। ४३ ।। अहं सर्वान्तरात्मा च निर्लिप्तः सर्वकर्मसु । विद्यमानश्च सर्वेषु सर्वत्रादृष्ट एव च ।। ४४ ।। वायुश्चरति सर्वत्र यथैव सर्ववस्तुषु । न च लिप्तस्तथैवाहं साक्षी च सर्वकर्मणाम् ।। ४५ ।। जीवो मत्प्रतिबिम्बश्च सर्वत्र सर्वजीविषु । भोक्ता शुभाशुभानां च कर्ता च कर्मणां सदा ।। ४६ ।। यथा चलघटेष्वेव मण्डलं चन्द्रमुर्ययोः । भग्नेषु तेषु संश्लिष्टस्तयोरेव तथा मयि ।। ४७ ।। जीवः श्लिष्टस्तथा काले मृतेषु जीविषु प्रिये । आवां च विद्यमानौ च सततं सर्वजन्तुषु ।। ४८ ।। आधारश्चाहमाधेयं कार्य च कारणं विना । अये सर्वाणि द्रव्याणि नश्वराणि च सुन्दरि ।। ४९ ।। आविर्भावाधिकाः कुत्र कुत्रचिन्न्यूनमेव च । ममांशाः केऽपि देवाश्च केचिद्देवाःकलास्तथा ।। ५० ।। केचित्कलाः कलांशांशास्तदंशांशाश्च केचन । मदंशा प्रकृतिः सूक्ष्मा साच मूर्त्याच पञ्चधा ।। ५१ ।। सरस्वती च कमला दुर्गा त्वं चापि वेदसूः । सर्वे देवाः प्राकृतिका यावन्तो मूर्तिधारिणः ।। ५२ ।। अहमात्मा नित्यदेही भक्तध्यानानुरोधतः । ये ये प्रकृतिका राधे ते नष्टाः प्राकृते लये ।। ५३ ।। अहमेवाऽऽसमेवाग्रे पश्चादप्यहमेव च । यथाऽहं च तथा त्वं च यथा धावल्यदुग्धयोः ।। ५४ ।। भेदः कदाऽपि न भवेन्निश्चितं च तथाऽऽवयोः । अहं महान्विराट् सुषटौ विश्वानि यस्य लोमसु ।। ५५ ।। अंशस्त्वं तत्र महती स्वांशेन तस्य कामिनी । आहं क्षुद्रविराट् सृष्टौ विश्वं यन्नाभिपद्मतः ।। ५६ ।। अयं विष्णोर्लोमकूपे वासो मे चांशतः सति । तस्य स्त्री त्वं च बृहती स्वाशने सुभगा तथा ।। ५७ ।। तस्य विश्वे च प्रत्येकं ब्रह्मविष्णुशिवादयः । ब्रह्मविष्णुशिवा अंशाश्चान्ये चापि च मत्कलाः ।। ५८ ।। मत्कलांशांशकलया सर्वे देवि चराचराः । वैकुण्ठे त्वं महालक्ष्मीरहं तत्र चतुर्भुजः ।। ५९ ।। स च विश्वाद्बहिश्चोर्ध्वं यथा गोलोक एव च । सरस्वती त्वं सत्ये च सावित्री ब्रह्मणः प्रियाः ।। ६० ।। शिवलोके शिवा त्व्रं च मूलप्रकृतिरीश्वरी । विनाश्य दुर्गं दुर्गा च सर्वदुर्गतिनाशिनी ।। ६१ ।। स एव दक्षकन्या च सा एव शैलकन्यका । कैलासे पार्वती तेन सौभाग्या शिववक्षसि ।। ६२ ।। स्वांशेन त्वं सिन्धुकन्या क्षीरोदे विष्णुवक्षसि । अहं स्वाशेन सृष्टौ च ब्रह्मविष्णुमहेश्वराः ।। ६३ ।। त्वं च लक्ष्मी शिवा धात्री सावित्री च पृथक्पृथक् । गोलोके च स्वयं राधा रासे रासेश्वरी सदा ।। ६४ ।। वृन्दा दृन्दावने रम्ये विरजा विरजातटे । सा त्वं सुदामशापेन भारतं पुण्यमागता ।। ६५ ।। पूतं कर्तुं भारतं च वृन्दारण्यं च सुन्दरि । त्वत्कलांशांशकलया विश्वेषु सर्वयोषितः ।। ६६ ।। यायोषित्सा च भवती यः पुमान्सोऽहमेव च । अहं च कलया वह्निस्त्वं स्वाहा दाहिका प्रिया ।। ६७ ।। त्वया सह समर्थोऽहं नालं दग्धुं च त्वां विना । अहं दीप्तिमतां सूर्यः कलया त्वं प्रभाकरी ।। ६८ ।। संज्ञा त्वं च त्वया भामि त्वां विनाऽहं न दीप्तिमान् । अहं च कलया चन्द्रस्त्वं च शोभा च रोहिणी ।। ६९ ।। मनोहरस्त्वया सार्धं त्वां न च सुन्दरः । अहमिन्द्रश्च कलया स्वर्गलक्ष्मीश्च त्वं शची ।। ७० ।। त्वया सार्धं देवराजो हतश्रीश्च त्वया विना । अहंधर्मश्च कलया त्वं च मूर्तिश्च धर्मिणी ।। ७१ ।। नाहं शक्तो धर्मकृत्यो त्वां च धर्मक्रियां विना । अहं यज्ञश्च कलया त्वं च स्वांशेन दक्षिणा ।। ७२ ।। त्वया सार्धं च फलदोऽप्यकमर्थस्त्वया विना । कलया पिदृलोकोऽहं स्वांशेन त्वं स्वधा सती ।। ७३ ।। त्वयाऽलं कव्यदाने च सदा नालं त्वया विना । अहं पुमांस्त्वं प्रकृतिर्न स्रष्टाऽहं त्वया विना ।। ७४ ।। त्वं च संवत्स्वरूपाऽहमीश्वरश्च त्वया सह । लक्ष्मीयुक्तस्त्वया लक्ष्मया निः श्रीकश्च त्वया दिना ।। ७५ ।। यथा नालं कुलालश्च घटं कर्तुं मृदा विना । अहं शेषश्च कलया स्वांशेन त्वं वसुंधरा ।। ७६ ।। त्वां सस्यरत्नाधारां च बिभर्मि मूर्ध्नि सुन्दरि । त्वं च कान्तिश्च शान्तिश्च भूतिर्मूर्तिमती सती ।। ७७ ।। तुष्टिः पुष्टिः क्षमा लज्जा क्षुधा तृष्णा परा दया । निद्रा श्रद्धा च तन्द्रा च मूर्च्छा च संनतिः क्रिया ।। ७८ ।। मूर्तिरूपा भक्तिरूपा देहिनां देहरूपिणी । ममाऽऽधारा सदा त्वं च तवाऽत्माऽहं परस्परम् ।। ७९ ।। यथा त्वं च तथाऽहं च समौ प्रकृतिपूरुषौ । न हि सृष्टिर्भवेद्देवि द्वयोरेकतरं विना ।। ८० ।। इत्युक्त्वा परमात्मा च राधां प्राणाधिकां प्रियाम् । कृत्वा वक्षसि सुप्रीतो बोधयामास नारद ।। ८१ ।। स च कीडानियुक्तश्च बभूव रत्नमन्दिरे । तथा च राधाया सार्धं कामुक्या सह कामुकः ।। ८२ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo आध्यत्मिक- योगकथनं नाम सप्तषष्टितमोऽध्यायः ।। ६७ ।।

athā saptaṣaṣṭitamo'dhyāyaḥ nārāyaṇa uvāca virahavyākulāṃ dṛṣṭvā māminīṃ kāmamohanaḥ | kṛtvā vakṣasi tāṃ kṛṣṇo yayau krīḍāsarovaram || 1 || rājarājeśvarī rādhā kṛṣṇavakṣasi rājate | saudāminīva jalade nadīne gagane mune || 2 || reme sa ramayā sārdhaṃ kṛpayā ca kṛpānidhiḥ | dvayordvayoryathā svarṇaṃmaṇyormārakato maṇiḥ || 3 || ratnanirmāṇaparyaṅke ratnendrasāranirmite | natnapradīpe jvalati ratnabhūṣaṇabhūṣitaḥ || 4 || ratnabhūṣābhūṣitayā rāsaratnaśca kautukāt | rasaratnākare ramye nimagno rasikeśvaraḥ || 5 || rāse rāseśvarī rādhā rāmeśvaramuvāca sā | suratau viratau satyāṃ virate na manorathe || 6 || rādhikovāca praphullā'haṃ tvayā nātha mṛtā mlānā ca tvāṃ vinā | yathā mahauṣadhigaṇaḥ prabhāte bhāti bhāskare || 7 || naktaṃ dīpaśikhevāhaṃ tvayā sārdhaṃ tvayā vinā | dine dine yathā kṣīṇā kṛṣṇapakṣe vidhoḥ kalā || 8 || tava vakṣasi me dīptiḥ pūrṇaṃcandraprabhāsamā | sadyo mṛtā tvayā tyaktā kuhvāṃ candrakalā yathā || 9 || jvaladagniśikhevāhaṃ ghṛtāhutyā tvayā saha | tvayā vinā'haṃ nirvāṇā śiśire padminī yathā || 10 || cintājvarajarāgrastā mattastvayi gate'pyaham | astaṃgate ravau candre dhvāndagrastā dharā yathā || 11 || bhraṣṭo veṣastvāṃ vinā me rupayauvanacetanam | tārāvalī paribhraṣṭā sūryasūtodaye yathā || 12 || tvamevā''tmā ca sarveṣāṃ mama nātho viśeṣataḥ | tanuryathā''tmanā tyaktā tathā'haṃ ca tvayā vinā || 13 || pañcaprāṇātmakastvaṃ me mṛtā'haṃ ca tvayā vinā | dṛṣṭeśca golakau jadvaddṛṣṭiḥ puttalikāṃ vinā || 14 || sthalaṃ yathā citrayuktaṃ tvayā sārdhamahaṃ tathā | asaṃskṛtā tvayā hīnā tṛṇācchannā yathā mahī || 15 || tvayā sārdhamahaṃ kṛṣṇa citrayukteva mṛnmayī | tvāṃ vinā jaladhautā'haṃ virūpā mṛnmayīva ca || 16 || gopāṅganānāṃ śobhā ca tvayā rāseśvareṇa ca | hāre svarṇavikāre ca śvetena maṇinā saha || 17 || vrajarāja tvayā sārdha rājante rājarājayaḥ | yathā candreṇa nabhasi tārārājirvirājate || 18 || tvayā śobhā yaśodāyā nandasya nandanandana | yathā śākhāphalaskandhaistarurājirvirājate || 19 || tvayā kārdha gokuleśa sobhā gokulavāsinām | yathā sarvā lokarājī rājendreṇa virājate || 20 || rāmasyāpi ca rāseśa tvayā śobhā manoharā | rājate devarājena yathā svarge'marāvatī || 21 || vṛndāvanasya vṛkṣāṇāṃ tvaṃ ca śobhā patirgatiḥ | anyoṣāṃ ca vanānāṃ ca balavānkesarī yathā || 22 || tvayā vinā yaśodā ya nimagnā śokasāgare | aprāpya vatsaṃ murabhiḥ krośantī vyākulā yathā || 23 || āndolayanti nandasya prāṇā dagdhaṃ ca mānasam | tvayā vinā taptapātre yathā dhānyasamūhakaḥ || 24 || ityuktvā paramapremṇā sā patantī hareḥ pade | punarādhyātmikenaiva bodhayāmāsa tāṃ vibhuḥ || 25 || ādhyātmiko mahāyogī mohasaṃchedakāraṇam | yathā parśuśca vṛkṣāṇāṃ tīkṣṇadhāraśca nārada || 26 || nārada uvāca ādhyātmikaṃ mahāyogaṃ vada vedavidāṃ vara | śokacchedaṃ ca lokānāṃ śrotuṃ kautuhalaṃ mama || 27 || nārāyaṇa uvāca ādhyātmiko mahāyogo na jñāto yogināmavi | sa ca nānāprakāraśca sarvaṃ vetti hariḥ svayam || 28 || kiṃcidādhyātmikaṃ caiva gonoke rādhikeśvaraḥ | suprītaḥ kathāyāmāsa tripurāriṃ yathā mune || 29 || sahasrendranipātāntaṃ tapaḥ kurvantamīśvaram | śreṣṭhaṃ jyeṣṭhaṃ vaiṣṇavānāṃ variṣṭhaṃ ca tapasvinām || 30 || puṣkare duṣkaraṃ taptvā pādme pādmaṃ ca padmajaḥ | dṛṣṭvā taṃ sādaraṃ kṛṣṇa uvāca kiṃcidevatam || 31 || śatendrapātaparyantaṃ kaṭhoreṇa kṛśodaram | niśceṣṭamasthisāraṃ ca kṛpayā ca kṛpānidhiḥ || 32 || siṃhakṣetre purā dharmaṃ mattātaṃ dharmiṇāṃ varam | caturdaśendrāvacchinnaṃ tapastaptvā kṛśodaram || 33 || papāṭhā''yātmikaṃ kiṃcitkṛpayā ca kṛpānidhiḥ | kicicchatendrāvacchinnaṃ māṃ tapantamuvāca saḥ || 34 || kiṃcitsanatkumāraṃ ca tapantaṃ suciraṃ param | sutapantamanantaṃ ca kiṃciccovāca nārada || 35 || ciraṃ tapantaṃ kapilaṃ himaśaile tapasvinam | puṣkare bhāskare kiṃcittapantaṃ duṣkaraṃ tapaḥ || 36 || uvāca kiṃcitprahlādaṃ kiṃciddurvāsasaṃ bhṛgum | evaṃ nigūḍhaṃ bhaktaṃ ca kṛpyā bhaktavatsalaḥ || 37 || krīḍākanovare ramye yaduvāca kṛpānidhiḥ | śokārtāṃ rādhikāṃ tacca kathāyāmi niśāmaya || 38 || virasaṃ rasikāṃ dṛṣṭvā vāsayitvā ca vakṣasi | uvācā''dhyātmikaṃ kiṃcidyoginīṃ yogināṃ guruḥ || 39 || śrīkṛṣṇa uvāca jātismare smarā''tmānaṃ kathaṃ vismarasi priye | sarvaṃ golokavṛttāntaṃ sudāmnaḥ śāpameva ca || 40 || śāpātkiṃciddinaṃ dīne tvadvicchedo mayā saha | bhaviṣyati mahābhāge melanaṃ punarāvayoḥ || 41 || punareva gamiṣyāmi golokaṃ taṃ nijālayam | gatvā gopāṅganābhiśca gopairgolokavāsibhiḥ || 42 || adhunā''dhyātmikaṃ kiṃcittavāṃ vadāmi niśāmaya | śokadhnaṃ harṣadaṃ sāraṃ sukhadaṃ mānasasya ca || 43 || ahaṃ sarvāntarātmā ca nirliptaḥ sarvakarmasu | vidyamānaśca sarveṣu sarvatrādṛṣṭa eva ca || 44 || vāyuścarati sarvatra yathaiva sarvavastuṣu | na ca liptastathaivāhaṃ sākṣī ca sarvakarmaṇām || 45 || jīvo matpratibimbaśca sarvatra sarvajīviṣu | bhoktā śubhāśubhānāṃ ca kartā ca karmaṇāṃ sadā || 46 || yathā calaghaṭeṣveva maṇḍalaṃ candramuryayoḥ | bhagneṣu teṣu saṃśliṣṭastayoreva tathā mayi || 47 || jīvaḥ śliṣṭastathā kāle mṛteṣu jīviṣu priye | āvāṃ ca vidyamānau ca satataṃ sarvajantuṣu || 48 || ādhāraścāhamādheyaṃ kārya ca kāraṇaṃ vinā | aye sarvāṇi dravyāṇi naśvarāṇi ca sundari || 49 || āvirbhāvādhikāḥ kutra kutracinnyūnameva ca | mamāṃśāḥ ke'pi devāśca keciddevāḥkalāstathā || 50 || kecitkalāḥ kalāṃśāṃśāstadaṃśāṃśāśca kecana | madaṃśā prakṛtiḥ sūkṣmā sāca mūrtyāca pañcadhā || 51 || sarasvatī ca kamalā durgā tvaṃ cāpi vedasūḥ | sarve devāḥ prākṛtikā yāvanto mūrtidhāriṇaḥ || 52 || ahamātmā nityadehī bhaktadhyānānurodhataḥ | ye ye prakṛtikā rādhe te naṣṭāḥ prākṛte laye || 53 || ahamevā''samevāgre paścādapyahameva ca | yathā'haṃ ca tathā tvaṃ ca yathā dhāvalyadugdhayoḥ || 54 || bhedaḥ kadā'pi na bhavenniścitaṃ ca tathā''vayoḥ | ahaṃ mahānvirāṭ suṣaṭau viśvāni yasya lomasu || 55 || aṃśastvaṃ tatra mahatī svāṃśena tasya kāminī | āhaṃ kṣudravirāṭ sṛṣṭau viśvaṃ yannābhipadmataḥ || 56 || ayaṃ viṣṇorlomakūpe vāso me cāṃśataḥ sati | tasya strī tvaṃ ca bṛhatī svāśane subhagā tathā || 57 || tasya viśve ca pratyekaṃ brahmaviṣṇuśivādayaḥ | brahmaviṣṇuśivā aṃśāścānye cāpi ca matkalāḥ || 58 || matkalāṃśāṃśakalayā sarve devi carācarāḥ | vaikuṇṭhe tvaṃ mahālakṣmīrahaṃ tatra caturbhujaḥ || 59 || sa ca viśvādbahiścordhvaṃ yathā goloka eva ca | sarasvatī tvaṃ satye ca sāvitrī brahmaṇaḥ priyāḥ || 60 || śivaloke śivā tvraṃ ca mūlaprakṛtirīśvarī | vināśya durgaṃ durgā ca sarvadurgatināśinī || 61 || sa eva dakṣakanyā ca sā eva śailakanyakā | kailāse pārvatī tena saubhāgyā śivavakṣasi || 62 || svāṃśena tvaṃ sindhukanyā kṣīrode viṣṇuvakṣasi | ahaṃ svāśena sṛṣṭau ca brahmaviṣṇumaheśvarāḥ || 63 || tvaṃ ca lakṣmī śivā dhātrī sāvitrī ca pṛthakpṛthak | goloke ca svayaṃ rādhā rāse rāseśvarī sadā || 64 || vṛndā dṛndāvane ramye virajā virajātaṭe | sā tvaṃ sudāmaśāpena bhārataṃ puṇyamāgatā || 65 || pūtaṃ kartuṃ bhārataṃ ca vṛndāraṇyaṃ ca sundari | tvatkalāṃśāṃśakalayā viśveṣu sarvayoṣitaḥ || 66 || yāyoṣitsā ca bhavatī yaḥ pumānso'hameva ca | ahaṃ ca kalayā vahnistvaṃ svāhā dāhikā priyā || 67 || tvayā saha samartho'haṃ nālaṃ dagdhuṃ ca tvāṃ vinā | ahaṃ dīptimatāṃ sūryaḥ kalayā tvaṃ prabhākarī || 68 || saṃjñā tvaṃ ca tvayā bhāmi tvāṃ vinā'haṃ na dīptimān | ahaṃ ca kalayā candrastvaṃ ca śobhā ca rohiṇī || 69 || manoharastvayā sārdhaṃ tvāṃ na ca sundaraḥ | ahamindraśca kalayā svargalakṣmīśca tvaṃ śacī || 70 || tvayā sārdhaṃ devarājo hataśrīśca tvayā vinā | ahaṃdharmaśca kalayā tvaṃ ca mūrtiśca dharmiṇī || 71 || nāhaṃ śakto dharmakṛtyo tvāṃ ca dharmakriyāṃ vinā | ahaṃ yajñaśca kalayā tvaṃ ca svāṃśena dakṣiṇā || 72 || tvayā sārdhaṃ ca phalado'pyakamarthastvayā vinā | kalayā pidṛloko'haṃ svāṃśena tvaṃ svadhā satī || 73 || tvayā'laṃ kavyadāne ca sadā nālaṃ tvayā vinā | ahaṃ pumāṃstvaṃ prakṛtirna sraṣṭā'haṃ tvayā vinā || 74 || tvaṃ ca saṃvatsvarūpā'hamīśvaraśca tvayā saha | lakṣmīyuktastvayā lakṣmayā niḥ śrīkaśca tvayā dinā || 75 || yathā nālaṃ kulālaśca ghaṭaṃ kartuṃ mṛdā vinā | ahaṃ śeṣaśca kalayā svāṃśena tvaṃ vasuṃdharā || 76 || tvāṃ sasyaratnādhārāṃ ca bibharmi mūrdhni sundari | tvaṃ ca kāntiśca śāntiśca bhūtirmūrtimatī satī || 77 || tuṣṭiḥ puṣṭiḥ kṣamā lajjā kṣudhā tṛṣṇā parā dayā | nidrā śraddhā ca tandrā ca mūrcchā ca saṃnatiḥ kriyā || 78 || mūrtirūpā bhaktirūpā dehināṃ deharūpiṇī | mamā''dhārā sadā tvaṃ ca tavā'tmā'haṃ parasparam || 79 || yathā tvaṃ ca tathā'haṃ ca samau prakṛtipūruṣau | na hi sṛṣṭirbhaveddevi dvayorekataraṃ vinā || 80 || ityuktvā paramātmā ca rādhāṃ prāṇādhikāṃ priyām | kṛtvā vakṣasi suprīto bodhayāmāsa nārada || 81 || sa ca kīḍāniyuktaśca babhūva ratnamandire | tathā ca rādhāyā sārdhaṃ kāmukyā saha kāmukaḥ || 82 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo ādhyatmika- yogakathanaṃ nāma saptaṣaṣṭitamo'dhyāyaḥ || 67 ||

English translation

Description of Spiritual Yoga Narayana said- Krsna the lord of passion, finding his beloved becoming conscious due to the idea of separation from him, embraced her and moved towards the lake of water-sport. O sage, at that point of time, the great goddess Radha appearing in the lap of Krsna as the clouds appear in the sky and the lightning appearing in the clouds.

All merciful Krsna gracefully enjoyed the company of Radha, Sri Krsna looked in both of them as an emerald in a heap of gems. There was a bed made of the best of the gems and a lamp made of gems was burning. All the ascetics of the divine dance were made of the gems including the ornaments. Lord Krsna was then adorned with the gem-studded ornaments and in the company of Radha, who was also adorned with gem-studded ornament were engrossed in the ocean of love-sport.

Getting disinterested in the love-sport without getting her mind detached from the same, Radha the goddess of the divine dance, spoke to Krsna the lord of the divine dance.

Radhika said- O lord, I always remain delighted with you and without you I feel like a dead person and get faded, like the bunch of great medicinal plants blossoms in the morning and getting faded with the sunshine.

I shine with you like the light of the lamp at the night. Without you my lustre goes on decreasing like the lustre of the moon in the black fortnight. I always illumined like the full moon placing my head on your chest and getting deprived of you. I get destroyed at once like the moon rays in the moonless night.

With you I remain like the flames of fire in which ghee is poured and without you I get faded like the lotus flower in the winter season.

When you leave me get myself drowned in the worries as the sun or the moon cover the earth with darkness after they set.

Without you my costumes, beauty, youthfiilness, consciousness get destroyed in the same way as the stars get destroyed at dawn.

xT TO ^ idVl' 4 d:ll You are the soul of all but you happen to be the only lord of mind. Without you I remain like the body without the soul.

You are my five pranas and as such without you I feel like a dead person, like the eyes which become useless without the eye-balls.

wt TOT frogro tor itt4to toti With you I glitter like a painted surface and without you I look like the earth grown with wild O Krsna, I remain with you like the painted image of gold and without you, I look like an image of clay filled with dust and water. You are the lord of the divine dance and as such all the cowherdesses appear before you as the crystal gems appear in the garland of gold.

O lord of Vraja, the group of kings illumine with you as the constellation surround the moon in the sky.

O son of Nanda, as the fruits and branches decorate the trees similarly you decorate or glorify Yasoda and Nanda.

O lord of Gokula, with you the people of Gokula appear so graceful as the great king is surrounded by his people.

O great king, with you the divine dance also looks pleasant as the city of Amaravatl looks glorious in the heaven of Devaraja Indra.

You are the lustre of the trees of Vmdavana, their lord and the sun, as the lion is considered to be quite glorious in the forest among the wild Without you, the mother Yasoda is engrossed in grief like the cow who cries without her calf.

Without you Nanda feels restless and his mind is reduced to ashes as the paddy gets fried in the TTwtrarr w it: Thus speaking Radhika infatuated with love held the feet of Krsna. Thereafter lord Krsna again enlightened her with spiritual knowledge.

O Narada, the spiritual knowledge removes the illusion in the same way as a sharp edged axe cuts the trees.

Narada said- O best of those well-versed in the Vedas, you enlighten us on the spiritual Mahdyoga which destroys the grief of the people. I am quite anxious to hear about it.

Narayana said- Even the yogis are not quite aware of the spiritual Mahdyoga which is of various kinds and is known to lord Hari O sage, Sri Krsna the lord of Radha, had narrated a few parts of the divine Mahdyoga to Siva getting extremely delighted.

Siva performed tapas up to a thousand Indras.

He happened to be the best of Vaisnavas and quite senior and the best among the mendicants.

In the Padmakalpa Brahma performed severe austerities in the Puskara-ksetra. Finding him there, lord Krsna revealed a little of the Mahdyoga to Brahma. Brahma performed tapas for a period of a hundred Indras, when he was reduced to only a skeleton. Thereafter the compassionate lord gracefully spoke to him.

In the earlier times my father who was quite a religious one, performed tapas in the Simhaks etra which prolonged to fourteen Indras and was rendered quite weak. Therefter, the lord becoming merciful bestowed the knowledge of the spiritual Mahdyoga. Thereafter, the same knowledge was imparted to Sanatkumara who performed tapas for a hundred Indras. He was also imparted with a bit of the knowledge.

Thereafter, O Narada, after performing severe tapas for a long time, the same knowledge, in part, was given to Ananta.

Thereafter Kapila performed severe tapas for a long time on Himalaya and to Bhaskara, who performed hard tapas in the Puskara region, the part of the same divine knowledge was imparted to them. Thereafter the lord who is graceful on his devotees, parted with no part of the same knowledge to Prahlada, Durvasa, Bhrgu and Thereafter lord Krsna had imparted knowledge of the same to Radhika on the charming bank of the lake of the water sport. I am going to speak out the same to you which you please listen to.

Finding his beloved quite sad, the lord, who happens to be the teacher of the yogis, embraced her and started narrating to him the spiritual Sr! Krsna said- O beloved, you remember the happening of the past birth, you recollect the past happening. Why do you forgot yourself? You remember the curse of Sudtoa pronounced by him in the Goloka.

Wll 'Rf I O goddess of humility, we shall be separated from each other for sometime because of the curse of Sudama. O virtuous one, we shall meet We shall again visit Goloka and enjoy the company of the cowherds and cowherdesses Listen, presently I am going to speak about the spiritual yoga to you which removes grief, bestows pleasure, is the form of tattva and provides solace to the mind.

I happen to be the inner soul of everyone, am involved in all the actions, omnipresent and peiwade everywhere in invisible form.

O goddess, then the whole movable and immovable universe happens to be particle Goloka. You reside in Vaikuntha as MahalaksmT, where I reside as Visnu having four arms. Like Goloka it is lodged above Brahmanda where you happen to be Sarasvati. In the Satyaloka you happen to be the beloved Savitrl of Brahma.

In the abode of Siva you become Siva. You are IsvarT and the Mulaprakrti. You are the one who destroyed the demon named Durga and destroyed all the evil forces. Therefore, you are given the name of Durga. The same Durga happened to be the Sati, the daughter of Daksa and then became the daughter of Himavan. This is the reason why the virtuous P^rvati always remains in the heart of Siva the lord of Kailasa.

Sudama at that very place as a result of which you arrived in Bharata. O beautiful one, in order to purify Bharata and Vmdavana you are present here and all the women of the world appear from your amsa.

You happen to be the form of all the women in the universe. With my amsa, I become the fire and you with your amsa appear as the power of burning as Svaha the beloved of Agni. I am in a position to bum and destroy only when you are with me, but without you I feel helpless. By my own rays I shine as the sun in the sky and you happen to be my lustre.

In the ocean of milk, you happen to be the beloved of Visnu in the form of Sindhukanya who emerged out of your ams'a. At the time of creation, I remain present with Brahma, Visnu and Siva and you represent Laksmi, ParvatT, Sarasvati, Savitrl, separately. In the Goloka you appear as Radha and in the divine dance you are known as Rasesvarl In the plesant Vmdavana you are known as Vrnda and on the bank of Viraja river you appear as the cowherdess Viraja. You were cursed by You happen to be Sahjna the beloved of Surya and I shine only when you are with me and without you I cannot shine from my rays. I become the moon and you accordingly become Rohini. By your remaining with me, I am always pleasant and without you I don't have the lustre by my own rays. I conduct myself as Indra and you happen to be Sac! the Laksmi of the heaven with you I happen to be the lord of the gods and without you I happen to be lustrless. By my rays,

I happen to be Dharma and you happen to be DharminI, the spouse of Dharma. I perform all the function of Dharma with you and without you I feel helpless. I am the form of yajna and from my rays and with your am^n you appear as daksind the spouse ofyajna.

With you I bestow the reward and without you I am helpless. With my own rays I represent the abode of manes and from your ams'a you conduct yourself as chaste Svadha. With you on my side I am in a position to accept the offering of pin4as and without you I am helpless. If I am Purusa you happen to be Prakrti and as such I am unable to create the universe without you.

those who possess the body. You are always my base and I happen to be your soul. Therefore, as you are, so am I. Both Prakrti and Purusa have the same form. 0 goddess, the universe cannot survive without either of them.

O Narada, thus speaking lord Krsna embraced his beloved Radha and getting filled with passion, he took the passionate Radha in to the house of gems and enjoyed her company there.

You represent all the riches and therefore with you remaining on my side, I become the lord.

With your remaining with me I am known as the lord of LaksmI and without you I am devoid of all my glory as the potter is unable to make a vase without the clay. Similarly without you, the universe cannot be created. With my rays I happen to be Sesa and from your ams'a you happen to be the goddess earth. O beautiful one, being the place of all the cereals and the gems I hold you always over my head. You are the lustre, peace, fortune, absolutely chaste, satisfaction, growth, forgiveness, shyness, hunger, lust, compassion, sleep, faith, drowsiness, unconsciousness, adoration, the form of all, the form of devotion and the bodies of all,

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122397 (2017-09-17T13:51:45Z); Shanti Lal Nagar English scan pages n1331–n1338: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1331/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.