Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 62
Sourceअथ द्विषष्टितमोऽध्यायः नारद उवाच ब्रह्मन् केन प्रकारेण रामो दाशरथिः स्वयम् । चकार मोक्षणं कुत्र युगे गौतमयोषितः ।। १ ।। रामावतारं सुखदं समासेन मनोहरम् । कथायस्व महाभाग श्रोतुं कौतूहलं मम ।। २ ।। नारायण उवाच ब्रह्मणा प्रार्थितो विष्णुर्जातो दशरथात्स्वयम् । कौसल्यायां च भगवांस्त्रेतायां च मृदाऽन्वितः ।। ३ ।। कैकेय्यां भरतश्चैव रामतुल्यो गुणेन च । लक्ष्मणश्चापि शत्रुघ्नः सुमित्रायां गुणार्णवः ।। ४ ।। पिश्वामित्रप्रेषितश्च श्रीरामश्च सलक्ष्मणः । प्रययौ मिथिलां रम्यां सीताग्रहणहेतवे ।। ५ ।। दृष्ट्वा पाषाणारूपा च रामो वर्त्मनि कामिनीम् । विश्वामित्रं च पप्रच्छ कारणं जगदीश्वरः ।। ६ ।। रामस्य वचनं श्रुत्वा विश्वामित्रो महातपाः । उवाच तत्र धर्मिष्ठो रहस्यं सर्वमेव च ।। ७ ।। कारणं तन्मुखाच्छ्रृत्वा रामो भुवनपावनः । पस्पर्श पादाङ्गुलिना सा बभूव च पद्मिनी ।। ८ ।। सा राममाशिषं कृत्वा प्रययौ भर्तृ मन्दिरम् । शुभाशिषं ददौ तस्मै भार्या संप्राप्य गौतमः ।। ९ ।। रामश्च मिथिलां गत्वा धनुर्भङ्गं शिवस्या च । चकार पाणिग्रहणं सीतायाश्चैव नारद ।। १० ।। कृत्वा विवाहं राजेन्द्रो भृगुदर्प निहत्य च । णयोध्यां प्रययौ रम्यां क्रीडाकौतुकमङ्गलैः ।। ११ ।। राजा पुत्रं नृपं कर्तुमिषेय कृतसादरम् । सप्ततीर्थोदकं तूर्णमानीय मुनिपुंगवान् ।। १२ ।। कृताधिवासं श्रीरामं सर्व मङ्गलसंयुतम् । दृष्ट्वा भरतमाता च कैकेयी शोकविह्वला ।। १३ ।। वरयामास राजानं पूर्वमङ्गीकृतं वरम् । रामस्य वनवासं च राजत्वं भरतस्य च ।। १४ ।। वरं दातुं महाराजो नेयेष प्रेममोहितः । धर्मसत्यभयेनैवोवाच रामो नृपं सुधी। ।। १५ ।। श्रीराम उवाच तडागशतदानेन यत्पुण्यं लभते नरः । ततोऽधिकं च लभते वापीदानेन निश्चितम् ।। १६ ।। दशवापीप्रदानेन यत्पुण्यं लभते नरः । ततोऽधिकं च लभते पुण्यं कन्याप्रदानतः ।। १७ ।। दशकन्याप्रदानेन यत्पुण्यं लभते नरः । ततोऽधिकं च लभते यज्ञैकेन नराधिप ।। १८ ।। शतयज्ञेन यत्पुण्यं लभते पुण्यकृज्जनः । ततोऽधिकं च लभते पुत्रास्यदर्शनेन च ।। १९ ।। दर्शने शतपुत्राणां यत्पुण्यं लभते नरः । तत्पुण्यं लभते नूनं पुण्यवान्सत्यबालनात् ।। २० ।। न हि सत्यात्परो धर्मो नानृतात्पातकं परम् । न हि गह्घासमं तीर्यं म देवः केशवात्परः ।। २१ ।। नास्ति धर्मात्परो बन्धुर्नास्ति धर्मात्परं धनम् । धर्मात्प्रियः परः को वा स्पधर्मं रक्ष यत्नतः ।। २२ ।। स्वधर्मे रक्षिते तात शश्वत्सर्वत्र मङ्गलम् । यशस्यं सुप्रतिष्ठा च प्रतापः पूजनं परम् ।। २३ ।। यतुर्दशाब्दं धर्मेण त्यक्त्वा गृहसुखं म्रमन् । वनवासं करिष्यामि सत्यस्य पालनाय ते ।। २४ ।। कृत्वा सत्यं च शपथमिच्छयाऽनिच्छयाऽथवा । न कृर्यात्पालनं यो हि भस्मान्तं तस्य सूतकम् ।। २५ ।। कुम्भीपाके स पचति यावच्चन्द्रदिवाकरौ । ततो मूको भवेत्कुषठी मानवः सप्तजन्मसु ।। २६ ।। इत्योवमुक्त्वा श्रीरामो विधाय कल्कलं जटाम् । प्रययौ च महारण्ये सीतया लक्ष्मणेन च ।। २७ ।। पुत्रशोकान्महाराजास्तत्याज स्वतनुं मुने । पालनाय पितुः सत्यं रामो बभ्रामकानन ।। २८ ।। कालान्तरे महारण्ये भगिनी रावणस्य च । भ्रमन्ती कानने घोरे भर्त्रा सार्धं सुगौतुकात् ।। २९ ।। ददर्श रामं कुलटा कामार्ता राक्षसी तदा । पुलकाञ्चितसर्वाङ्गी सूर्च्छमाप स्मरेण च ।। ३० ।। श्रीरामनिकटं गत्वा सस्मितोवाच कामुकी । शस्वधौवनसंयुक्ताऽतिप्रौढा कामदुर्मदा ।। ३१ ।। शूर्पणखोवाच हेराम हे धनश्याम रूपधाम सुणान्वित । मायानुरक्तां वनितां मां गृहाण सुनिर्जने ।। ३२ ।। श्रुत्वा शूर्पणखावाक्यं धर्मं संस्मृत्य धार्मिकः । उवाच सधुरें वाक्यं शावभीतश्च नारद ।। ३३ ।। श्रीराम उवाच अम्बमातः सभार्योऽहमभार्यं गच्छ मेऽनुजम् । दुःखं प्रियोऽन्यां प्रभजेदितरं च सुखालयम् ।। ३४ ।। रामस्य वचनं श्रुत्वा प्रययौ लक्ष्मणं मुदा । ददर्श लक्षमणं शान्तं कान्तं च लक्षणान्वितम् ।। ३५ ।। मां भजस्व महाभागेत्युवाच च पुनः पुनः । लक्ष्मणास्तद्वचः श्रुत्वा तामुवाच कुतूहलात् ।। ३६ ।। लक्ष्मण उवाच विहाय रामं सर्वेशं हे मूढे दासमिच्छसि । सीतादासी च मत्पत्नी सीतादासोऽहमेव च ।। ३७ ।। भव सीतासपत्नी त्वं गच्छ रामं मदीश्वरम् । तव पुत्रो भविष्यामि सीतायाश्चयथा सति ।। ३८ ।। लक्ष्मणास्य वचः श्रुत्वा कामेन हृतमानसा । उवाच लक्ष्मणं मूढा शुष्ककण्ठेष्ठतालुका ।। ३९ ।। शूर्पणखोवाच यदी त्यजसि मां मूढ कामात्स्वयमुपस्थिताम् । युवयोश्च विपत्तिश्च भविष्य ति न संशयः ।। ४० ।। ब्रह्मा च मोहिनीं त्यक्तवा विश्वेऽपूज्ये बभूव सः । रम्भाशापेन दक्षश्च छागमस्तो बभूव सः ।। ४१ ।। स्वर्वैद्यश्चोर्वशीशापाद्यज्ञभागविवर्जितः । रूपहीनः कुबेरश्च मेनाशापेन लक्ष्मण ।। ४२ ।। कामो घृताचीशापेन बभूव भस्मसाच्छिवात् । बलिर्मदालसाशापाद्भ्रष्टराज्यो बभूव ह ।। ४३ ।। शापेन मिश्रकेश्याश्च हृतभार्यो बृहस्पतिः । मम शापात्तथा रामो हृतभार्यो भविष्यति ।। ४४ ।। कामातुरां यौवनस्थां भार्या स्वयमुपस्थिताम् । न त्यजेद्धर्मभीतश्च श्रुतं माध्यंदिने पुरा ।। ४५ ।। इह त्यक्त्वा पिबद्ग्रस्तः परत्र नरकं व्रजेत् । श्रुत्वा शूर्पणखावाक्यमर्धयन्द्रेण लक्ष्मणः ।। ४६ ।। चिच्छेद नासिकां तस्याः क्षुरधारेण लीलया । तस्या भ्राता च युयुधे बलवान्खरदूषणः ।। ४७ ।। ससैन्यो लक्ष्मणास्त्रेण स जगाम यमालयम् । चतुर्दशसहस्रं च राक्षसान्खरदूषणम् ।। ४८ ।। मृतान्दृष्ट्वा शूर्पणखा भर्त्सयामास रावणम् । सर्वं निवेदनं कृत्वा जगाम पुष्करं तदा ।। ४९ ।। ब्रह्मणश्च वरं प्राप कृत्वा च दुष्करं तपः । उवाच तादृशीं दृष्ट्वा निराहारां तपस्विनीम् ।। ५० ।। सर्वज्ञस्तन्मनो मत्वा कृपासिन्धुश्च नारद ।। ५१ ।। ब्रह्मोवाच अप्राप्य रामं दृष्प्रापं करोषि दुष्करं तपः । जितेन्द्रियाणां प्रवरं लक्ष्मणं धर्मलक्षणम् ।। ५२ ।। ब्रह्मविष्णुशिवादीनामीश्वरं प्रकृतेः परम् । जन्मान्तरे च भर्तारं प्राप्स्यसि त्वं वरानने ।। ५३ ।। इत्येवमुक्त्वा ब्रह्म च जगाम स्वालयं मुदा । देहं तत्याज सा वह्नो सा च कुब्जा बभूव ह ।। ५४ ।। अथ शूर्पणखा वाक्यात्कोपात्कम्पितविग्रहः । जहार मायया सीतां मायावी राक्षसेश्वरः ।। ५५ ।। सीतां न दृष्ट्वा रामश्च मूर्च्छां प्राप चिरं मुने । चेतनां कारयामास भ्राता चऽऽध्यात्मिकेन च ।। ५६ ।। ततो बभ्राम गहनं शैलं च कंदरं नदम् । अहर्निशं च शोकार्तो मुनीनामाश्रमं मुने ।। ५७ ।। चिरमन्वेषणं कृत्वा न दृष्ट्वा जानकीं विभुः । चकार मित्रतां रामः सुग्रीवेण स्वयं प्रभुः ।। ५८ ।। निहत्य वालिनं बाणैर्ददौ राज्यं च लीलया । सुग्रीवाय च मित्राय स्वीकारपालनाय वै ।। ५९ ।। दूतान्प्रस्थापयामास सर्वत्र वानरेश्वाः । तस्थौ सुग्रीवभवने श्रीरामश्च सलक्ष्मणः ।। ६० ।। हनूमते वरं दत्तवा रम्यं रत्नाङ्गुलीयकम् । सीतायै शुभसंदेशं प्राणधारणकारणम् ।। ६१ ।। तं च प्रस्थापयामास दक्षिणां दिशमुत्तमाम् । सुप्रीत्याऽऽलिङ्गनं दत्त्वा पादरेणून्सुदुर्लभान् ।। ६२ ।। हनुमान्पययौ लङ्कां सीतान्वेषणहेतवे । रामादधीतसंदेशो ययौ रुद्रकलोद्भवः ।। ६३ ।। अशोककानने सीतां ददर्श शोककर्शिताम् । निराहारामतिकृशां कुह्वां चन्द्रकलामिव ।। ६४ ।। सततं राम रामेति जपन्तीं भक्तिबूर्वकम् । बिभ्रतीं च जटाभारं तप्तकाञ्चनसंनिभाम् ।। ६५ ।। ध्यायमानां पदाब्जं च श्रीरामस्य दिपानिशम् । शुद्धाशयां सुशीलां च सुव्रतां च पतिव्रताम् ।। ६६ ।। महालक्ष्मीलक्ष्मयुक्तां प्रज्वलन्तीं स्वतेजसा । पुण्यदां सर्वतीर्थानां दृष्ट्वा भुवनपावतीम् ।। ६७ ।। प्रणम्य मातरं दृष्ट्वा रुदतीं वायुनन्दनः । रत्नाङ्गुलीयं रामस्य ददौ तस्यै मुदाऽन्वितः ।। ६८ ।। रुरोद धर्मी तां दृष्ट्वा धृत्वा तच्चरणाम्बुजम् । उवाच रामसंदेशं सीताजीवनरक्षणम् ।। ६९ ।। हनुमानुवाच पारेसमुद्रं श्रीरामः संनद्धश्च सलक्ष्मणः । बभूव राममित्रं च सुग्रीवो बलवान्कपिः ।। ७० ।। रामश्च वालिनं हत्वा राज्यं निष्कण्टकं ददौ । सुग्रीवाय च मित्राय तद्भार्यं वालिना हृताम् ।। ७१ ।। सुग्रीवश्च तवोद्धारं स्वीचकार च धर्मतः । वानराश्च ययुः सर्वे तवान्वेषणकारणात् ।। ७२ ।। प्राप्य मङ्गलवार्तां च मत्तो राजीवलोचनः । गम्भीरं सागरं बद्ध्वा सोऽचिरेणाऽऽगमिष्यति ।। ७३ ।। निहत्य रावणं पापं सपुत्रं च सबान्धवम् । करिष्यत्यचिरेणैव हे मातस्तव मोक्षणम् ।। ७४ ।। अद्य रत्नमयीं लङ्कां निःशङ्कस्त्वतप्रसादतः । भस्मीभूतां करिष्यामि मातः पश्य च सस्मितम् ।। ७५ ।। मर्कटीडिम्भतुल्यां च लङ्कां पश्यामि सुव्रते । मूत्रतुल्यं समुद्रं च शरावमिव भूतलम् ।। ७६ ।। पिपीलिकासंघमिव ससैन्यं रावणं तथा । संहर्तुं च समर्थोंऽहं मुहूर्तार्धेन लीलया ।। ७७ ।। रामप्रतिज्ञारक्षार्थं न हनिष्यामि सांप्रतम् । स्वस्था भव महाभागे त्यज भीतिं मदीश्वरि ।। ७८ ।। पानरस्य वचः श्रुत्वा रुरोदोच्चैर्मुहुर्मुहुः । उवाच वचनं भीता रामपतिव्रता ।। ७९ ।। सीतोवाच अये जीवति मे रामो मच्छोकार्णवदारुणात् ।। ८० ।। अपि मे कुशली नाथः कौसल्यानन्दनः प्रभु । कीदृशश्च कृशाङ्गश्च जानकीजीवनोऽधुना ।। ८१ ।। किमाहारश्च किं भुङ्क्ते मम प्रणाधिकः प्रियः । अपि पारे समुद्रस्य सत्यं सीतापतिः स्वयम् ।। ८२ ।। अपि सत्यं क संनद्धो न शोकेन हतः प्रभुः । अपि स्मरति मां पापां स्वामिनो दुःखरूपिणीम् ।। ८३ ।। मदर्थे कति दुःखं वा संप्राप स मदीश्वरः । हारो नाऽऽरोर्पितः कण्ठे पुरा व्यवहितो रतौ ।। ८४ ।। अधुनैवाऽऽवयोर्मध्ये समुद्रः शतयोजनः । अपि द्रक्ष्यामि तं रामं करुणासागरं प्रभुम् ।। ८५ ।। कान्तं शान्तं नितान्तं च धर्मिष्ठं धर्मकर्मणि । अपि सेवां करिष्यामि पादपद्मे पुनः प्रभोः ।। ८६ ।। पतिसेवाविहीनाया मूढाया जीवनं दृथा । अपि मे धर्मपुत्रश्च सत्यं जीवति लक्ष्मणः ।। ८७ ।। मच्छोकसागरे मग्नो भग्नदर्पो मया विना । वीराणां प्रवरो धर्मी देवकल्पश्च देवरः ।। ८८ ।। अपि सत्यं ससंन्नद्धो सत्प्रभोरनुजः सदा । अपि द्रक्ष्यामि सत्यं तं लक्ष्मणं धर्मलक्षणम् ।। प्राणानामधिकं प्रेम्णा धन्यं पुण्यस्वरूपिणम् ।। ८९ ।। इत्येवं वचनं श्रुत्वा दत्त्वा प्रत्युत्तरं शुभम् । भस्मीभूतां च तां लङ्कां चकार लीलया मुने ।। ९० ।। पुनः प्रबोधं तस्यै च दत्तवा वायुसुतः कपिः । प्रययौ लीलया वेगाद्यत्र राजीवलोचनः ।। ९१ ।। सर्वं तत्कथायामास वृत्तान्तं मातुरेव च । सीतामङ्गलवृत्तान्तं श्रुत्वा रामो रुरोद च ।। ९२ ।। रुतोदोच्चैर्लक्ष्मणश्च सुग्रीवश्चापि नारद । वानरा रुरुदुः सर्वे सहबलपराक्रमाः ।। ९३ ।। निबध्य सेतुं लङ्कां च प्रययौ रघुनन्दनः । ससैन्यः सानुजः शीघ्रं संनद्धश्चापि नारद ।। ९४ ।। निहत्य रावणं रामो रणं कृत्वा सबान्धवम् । चकार मोक्षणं ब्रह्मन् सितायश्च शुभेक्षणे ।। ९५ ।। कृत्वा पुष्पकयानेन सीतां सत्यपरायणाम् । अयोध्यां प्रययौ शीघ्रं क्रीडाकौतुकमङ्गलैः ।। ९६ ।। क्रीडां चकार भगवान् सीतां कृत्वा च वक्षसि । विजहौ विरहज्वालां सीता रामश्च तत्क्षणम् ।। ९७ ।। सप्तद्वीपेश्वरो रामो बभूव पृथिवीतले । बभूव निखिला पृथ्वी आधिव्याधिविवर्जिता ।। ९८ ।। बभूवतू रामपुत्रौ धार्मिकौ च कुशीलवौ । तयोश्च पुत्रैः पौत्रेश्च सूर्यवंशोद्भवा नृपाः ।। ९९ ।। इति ते कथितं वत्स श्रीरामचरितं शुभम् । सुखदं मोक्षदं सारं पारपोतं भवार्णवे ।। १०० ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo श्रीरामाचरितं नाम द्विषष्टितमोऽध्यायः ।। ६२ ।।
atha dviṣaṣṭitamo'dhyāyaḥ nārada uvāca brahman kena prakāreṇa rāmo dāśarathiḥ svayam | cakāra mokṣaṇaṃ kutra yuge gautamayoṣitaḥ || 1 || rāmāvatāraṃ sukhadaṃ samāsena manoharam | kathāyasva mahābhāga śrotuṃ kautūhalaṃ mama || 2 || nārāyaṇa uvāca brahmaṇā prārthito viṣṇurjāto daśarathātsvayam | kausalyāyāṃ ca bhagavāṃstretāyāṃ ca mṛdā'nvitaḥ || 3 || kaikeyyāṃ bharataścaiva rāmatulyo guṇena ca | lakṣmaṇaścāpi śatrughnaḥ sumitrāyāṃ guṇārṇavaḥ || 4 || piśvāmitrapreṣitaśca śrīrāmaśca salakṣmaṇaḥ | prayayau mithilāṃ ramyāṃ sītāgrahaṇahetave || 5 || dṛṣṭvā pāṣāṇārūpā ca rāmo vartmani kāminīm | viśvāmitraṃ ca papraccha kāraṇaṃ jagadīśvaraḥ || 6 || rāmasya vacanaṃ śrutvā viśvāmitro mahātapāḥ | uvāca tatra dharmiṣṭho rahasyaṃ sarvameva ca || 7 || kāraṇaṃ tanmukhācchrṛtvā rāmo bhuvanapāvanaḥ | pasparśa pādāṅgulinā sā babhūva ca padminī || 8 || sā rāmamāśiṣaṃ kṛtvā prayayau bhartṛ mandiram | śubhāśiṣaṃ dadau tasmai bhāryā saṃprāpya gautamaḥ || 9 || rāmaśca mithilāṃ gatvā dhanurbhaṅgaṃ śivasyā ca | cakāra pāṇigrahaṇaṃ sītāyāścaiva nārada || 10 || kṛtvā vivāhaṃ rājendro bhṛgudarpa nihatya ca | ṇayodhyāṃ prayayau ramyāṃ krīḍākautukamaṅgalaiḥ || 11 || rājā putraṃ nṛpaṃ kartumiṣeya kṛtasādaram | saptatīrthodakaṃ tūrṇamānīya munipuṃgavān || 12 || kṛtādhivāsaṃ śrīrāmaṃ sarva maṅgalasaṃyutam | dṛṣṭvā bharatamātā ca kaikeyī śokavihvalā || 13 || varayāmāsa rājānaṃ pūrvamaṅgīkṛtaṃ varam | rāmasya vanavāsaṃ ca rājatvaṃ bharatasya ca || 14 || varaṃ dātuṃ mahārājo neyeṣa premamohitaḥ | dharmasatyabhayenaivovāca rāmo nṛpaṃ sudhī| || 15 || śrīrāma uvāca taḍāgaśatadānena yatpuṇyaṃ labhate naraḥ | tato'dhikaṃ ca labhate vāpīdānena niścitam || 16 || daśavāpīpradānena yatpuṇyaṃ labhate naraḥ | tato'dhikaṃ ca labhate puṇyaṃ kanyāpradānataḥ || 17 || daśakanyāpradānena yatpuṇyaṃ labhate naraḥ | tato'dhikaṃ ca labhate yajñaikena narādhipa || 18 || śatayajñena yatpuṇyaṃ labhate puṇyakṛjjanaḥ | tato'dhikaṃ ca labhate putrāsyadarśanena ca || 19 || darśane śataputrāṇāṃ yatpuṇyaṃ labhate naraḥ | tatpuṇyaṃ labhate nūnaṃ puṇyavānsatyabālanāt || 20 || na hi satyātparo dharmo nānṛtātpātakaṃ param | na hi gahghāsamaṃ tīryaṃ ma devaḥ keśavātparaḥ || 21 || nāsti dharmātparo bandhurnāsti dharmātparaṃ dhanam | dharmātpriyaḥ paraḥ ko vā spadharmaṃ rakṣa yatnataḥ || 22 || svadharme rakṣite tāta śaśvatsarvatra maṅgalam | yaśasyaṃ supratiṣṭhā ca pratāpaḥ pūjanaṃ param || 23 || yaturdaśābdaṃ dharmeṇa tyaktvā gṛhasukhaṃ mraman | vanavāsaṃ kariṣyāmi satyasya pālanāya te || 24 || kṛtvā satyaṃ ca śapathamicchayā'nicchayā'thavā | na kṛryātpālanaṃ yo hi bhasmāntaṃ tasya sūtakam || 25 || kumbhīpāke sa pacati yāvaccandradivākarau | tato mūko bhavetkuṣaṭhī mānavaḥ saptajanmasu || 26 || ityovamuktvā śrīrāmo vidhāya kalkalaṃ jaṭām | prayayau ca mahāraṇye sītayā lakṣmaṇena ca || 27 || putraśokānmahārājāstatyāja svatanuṃ mune | pālanāya pituḥ satyaṃ rāmo babhrāmakānana || 28 || kālāntare mahāraṇye bhaginī rāvaṇasya ca | bhramantī kānane ghore bhartrā sārdhaṃ sugautukāt || 29 || dadarśa rāmaṃ kulaṭā kāmārtā rākṣasī tadā | pulakāñcitasarvāṅgī sūrcchamāpa smareṇa ca || 30 || śrīrāmanikaṭaṃ gatvā sasmitovāca kāmukī | śasvadhauvanasaṃyuktā'tiprauḍhā kāmadurmadā || 31 || śūrpaṇakhovāca herāma he dhanaśyāma rūpadhāma suṇānvita | māyānuraktāṃ vanitāṃ māṃ gṛhāṇa sunirjane || 32 || śrutvā śūrpaṇakhāvākyaṃ dharmaṃ saṃsmṛtya dhārmikaḥ | uvāca sadhureṃ vākyaṃ śāvabhītaśca nārada || 33 || śrīrāma uvāca ambamātaḥ sabhāryo'hamabhāryaṃ gaccha me'nujam | duḥkhaṃ priyo'nyāṃ prabhajeditaraṃ ca sukhālayam || 34 || rāmasya vacanaṃ śrutvā prayayau lakṣmaṇaṃ mudā | dadarśa lakṣamaṇaṃ śāntaṃ kāntaṃ ca lakṣaṇānvitam || 35 || māṃ bhajasva mahābhāgetyuvāca ca punaḥ punaḥ | lakṣmaṇāstadvacaḥ śrutvā tāmuvāca kutūhalāt || 36 || lakṣmaṇa uvāca vihāya rāmaṃ sarveśaṃ he mūḍhe dāsamicchasi | sītādāsī ca matpatnī sītādāso'hameva ca || 37 || bhava sītāsapatnī tvaṃ gaccha rāmaṃ madīśvaram | tava putro bhaviṣyāmi sītāyāścayathā sati || 38 || lakṣmaṇāsya vacaḥ śrutvā kāmena hṛtamānasā | uvāca lakṣmaṇaṃ mūḍhā śuṣkakaṇṭheṣṭhatālukā || 39 || śūrpaṇakhovāca yadī tyajasi māṃ mūḍha kāmātsvayamupasthitām | yuvayośca vipattiśca bhaviṣya ti na saṃśayaḥ || 40 || brahmā ca mohinīṃ tyaktavā viśve'pūjye babhūva saḥ | rambhāśāpena dakṣaśca chāgamasto babhūva saḥ || 41 || svarvaidyaścorvaśīśāpādyajñabhāgavivarjitaḥ | rūpahīnaḥ kuberaśca menāśāpena lakṣmaṇa || 42 || kāmo ghṛtācīśāpena babhūva bhasmasācchivāt | balirmadālasāśāpādbhraṣṭarājyo babhūva ha || 43 || śāpena miśrakeśyāśca hṛtabhāryo bṛhaspatiḥ | mama śāpāttathā rāmo hṛtabhāryo bhaviṣyati || 44 || kāmāturāṃ yauvanasthāṃ bhāryā svayamupasthitām | na tyajeddharmabhītaśca śrutaṃ mādhyaṃdine purā || 45 || iha tyaktvā pibadgrastaḥ paratra narakaṃ vrajet | śrutvā śūrpaṇakhāvākyamardhayandreṇa lakṣmaṇaḥ || 46 || ciccheda nāsikāṃ tasyāḥ kṣuradhāreṇa līlayā | tasyā bhrātā ca yuyudhe balavānkharadūṣaṇaḥ || 47 || sasainyo lakṣmaṇāstreṇa sa jagāma yamālayam | caturdaśasahasraṃ ca rākṣasānkharadūṣaṇam || 48 || mṛtāndṛṣṭvā śūrpaṇakhā bhartsayāmāsa rāvaṇam | sarvaṃ nivedanaṃ kṛtvā jagāma puṣkaraṃ tadā || 49 || brahmaṇaśca varaṃ prāpa kṛtvā ca duṣkaraṃ tapaḥ | uvāca tādṛśīṃ dṛṣṭvā nirāhārāṃ tapasvinīm || 50 || sarvajñastanmano matvā kṛpāsindhuśca nārada || 51 || brahmovāca aprāpya rāmaṃ dṛṣprāpaṃ karoṣi duṣkaraṃ tapaḥ | jitendriyāṇāṃ pravaraṃ lakṣmaṇaṃ dharmalakṣaṇam || 52 || brahmaviṣṇuśivādīnāmīśvaraṃ prakṛteḥ param | janmāntare ca bhartāraṃ prāpsyasi tvaṃ varānane || 53 || ityevamuktvā brahma ca jagāma svālayaṃ mudā | dehaṃ tatyāja sā vahno sā ca kubjā babhūva ha || 54 || atha śūrpaṇakhā vākyātkopātkampitavigrahaḥ | jahāra māyayā sītāṃ māyāvī rākṣaseśvaraḥ || 55 || sītāṃ na dṛṣṭvā rāmaśca mūrcchāṃ prāpa ciraṃ mune | cetanāṃ kārayāmāsa bhrātā ca''dhyātmikena ca || 56 || tato babhrāma gahanaṃ śailaṃ ca kaṃdaraṃ nadam | aharniśaṃ ca śokārto munīnāmāśramaṃ mune || 57 || ciramanveṣaṇaṃ kṛtvā na dṛṣṭvā jānakīṃ vibhuḥ | cakāra mitratāṃ rāmaḥ sugrīveṇa svayaṃ prabhuḥ || 58 || nihatya vālinaṃ bāṇairdadau rājyaṃ ca līlayā | sugrīvāya ca mitrāya svīkārapālanāya vai || 59 || dūtānprasthāpayāmāsa sarvatra vānareśvāḥ | tasthau sugrīvabhavane śrīrāmaśca salakṣmaṇaḥ || 60 || hanūmate varaṃ dattavā ramyaṃ ratnāṅgulīyakam | sītāyai śubhasaṃdeśaṃ prāṇadhāraṇakāraṇam || 61 || taṃ ca prasthāpayāmāsa dakṣiṇāṃ diśamuttamām | suprītyā''liṅganaṃ dattvā pādareṇūnsudurlabhān || 62 || hanumānpayayau laṅkāṃ sītānveṣaṇahetave | rāmādadhītasaṃdeśo yayau rudrakalodbhavaḥ || 63 || aśokakānane sītāṃ dadarśa śokakarśitām | nirāhārāmatikṛśāṃ kuhvāṃ candrakalāmiva || 64 || satataṃ rāma rāmeti japantīṃ bhaktibūrvakam | bibhratīṃ ca jaṭābhāraṃ taptakāñcanasaṃnibhām || 65 || dhyāyamānāṃ padābjaṃ ca śrīrāmasya dipāniśam | śuddhāśayāṃ suśīlāṃ ca suvratāṃ ca pativratām || 66 || mahālakṣmīlakṣmayuktāṃ prajvalantīṃ svatejasā | puṇyadāṃ sarvatīrthānāṃ dṛṣṭvā bhuvanapāvatīm || 67 || praṇamya mātaraṃ dṛṣṭvā rudatīṃ vāyunandanaḥ | ratnāṅgulīyaṃ rāmasya dadau tasyai mudā'nvitaḥ || 68 || ruroda dharmī tāṃ dṛṣṭvā dhṛtvā taccaraṇāmbujam | uvāca rāmasaṃdeśaṃ sītājīvanarakṣaṇam || 69 || hanumānuvāca pāresamudraṃ śrīrāmaḥ saṃnaddhaśca salakṣmaṇaḥ | babhūva rāmamitraṃ ca sugrīvo balavānkapiḥ || 70 || rāmaśca vālinaṃ hatvā rājyaṃ niṣkaṇṭakaṃ dadau | sugrīvāya ca mitrāya tadbhāryaṃ vālinā hṛtām || 71 || sugrīvaśca tavoddhāraṃ svīcakāra ca dharmataḥ | vānarāśca yayuḥ sarve tavānveṣaṇakāraṇāt || 72 || prāpya maṅgalavārtāṃ ca matto rājīvalocanaḥ | gambhīraṃ sāgaraṃ baddhvā so'cireṇā''gamiṣyati || 73 || nihatya rāvaṇaṃ pāpaṃ saputraṃ ca sabāndhavam | kariṣyatyacireṇaiva he mātastava mokṣaṇam || 74 || adya ratnamayīṃ laṅkāṃ niḥśaṅkastvataprasādataḥ | bhasmībhūtāṃ kariṣyāmi mātaḥ paśya ca sasmitam || 75 || markaṭīḍimbhatulyāṃ ca laṅkāṃ paśyāmi suvrate | mūtratulyaṃ samudraṃ ca śarāvamiva bhūtalam || 76 || pipīlikāsaṃghamiva sasainyaṃ rāvaṇaṃ tathā | saṃhartuṃ ca samarthoṃ'haṃ muhūrtārdhena līlayā || 77 || rāmapratijñārakṣārthaṃ na haniṣyāmi sāṃpratam | svasthā bhava mahābhāge tyaja bhītiṃ madīśvari || 78 || pānarasya vacaḥ śrutvā rurodoccairmuhurmuhuḥ | uvāca vacanaṃ bhītā rāmapativratā || 79 || sītovāca aye jīvati me rāmo macchokārṇavadāruṇāt || 80 || api me kuśalī nāthaḥ kausalyānandanaḥ prabhu | kīdṛśaśca kṛśāṅgaśca jānakījīvano'dhunā || 81 || kimāhāraśca kiṃ bhuṅkte mama praṇādhikaḥ priyaḥ | api pāre samudrasya satyaṃ sītāpatiḥ svayam || 82 || api satyaṃ ka saṃnaddho na śokena hataḥ prabhuḥ | api smarati māṃ pāpāṃ svāmino duḥkharūpiṇīm || 83 || madarthe kati duḥkhaṃ vā saṃprāpa sa madīśvaraḥ | hāro nā''rorpitaḥ kaṇṭhe purā vyavahito ratau || 84 || adhunaivā''vayormadhye samudraḥ śatayojanaḥ | api drakṣyāmi taṃ rāmaṃ karuṇāsāgaraṃ prabhum || 85 || kāntaṃ śāntaṃ nitāntaṃ ca dharmiṣṭhaṃ dharmakarmaṇi | api sevāṃ kariṣyāmi pādapadme punaḥ prabhoḥ || 86 || patisevāvihīnāyā mūḍhāyā jīvanaṃ dṛthā | api me dharmaputraśca satyaṃ jīvati lakṣmaṇaḥ || 87 || macchokasāgare magno bhagnadarpo mayā vinā | vīrāṇāṃ pravaro dharmī devakalpaśca devaraḥ || 88 || api satyaṃ sasaṃnnaddho satprabhoranujaḥ sadā | api drakṣyāmi satyaṃ taṃ lakṣmaṇaṃ dharmalakṣaṇam || prāṇānāmadhikaṃ premṇā dhanyaṃ puṇyasvarūpiṇam || 89 || ityevaṃ vacanaṃ śrutvā dattvā pratyuttaraṃ śubham | bhasmībhūtāṃ ca tāṃ laṅkāṃ cakāra līlayā mune || 90 || punaḥ prabodhaṃ tasyai ca dattavā vāyusutaḥ kapiḥ | prayayau līlayā vegādyatra rājīvalocanaḥ || 91 || sarvaṃ tatkathāyāmāsa vṛttāntaṃ mātureva ca | sītāmaṅgalavṛttāntaṃ śrutvā rāmo ruroda ca || 92 || rutodoccairlakṣmaṇaśca sugrīvaścāpi nārada | vānarā ruruduḥ sarve sahabalaparākramāḥ || 93 || nibadhya setuṃ laṅkāṃ ca prayayau raghunandanaḥ | sasainyaḥ sānujaḥ śīghraṃ saṃnaddhaścāpi nārada || 94 || nihatya rāvaṇaṃ rāmo raṇaṃ kṛtvā sabāndhavam | cakāra mokṣaṇaṃ brahman sitāyaśca śubhekṣaṇe || 95 || kṛtvā puṣpakayānena sītāṃ satyaparāyaṇām | ayodhyāṃ prayayau śīghraṃ krīḍākautukamaṅgalaiḥ || 96 || krīḍāṃ cakāra bhagavān sītāṃ kṛtvā ca vakṣasi | vijahau virahajvālāṃ sītā rāmaśca tatkṣaṇam || 97 || saptadvīpeśvaro rāmo babhūva pṛthivītale | babhūva nikhilā pṛthvī ādhivyādhivivarjitā || 98 || babhūvatū rāmaputrau dhārmikau ca kuśīlavau | tayośca putraiḥ pautreśca sūryavaṃśodbhavā nṛpāḥ || 99 || iti te kathitaṃ vatsa śrīrāmacaritaṃ śubham | sukhadaṃ mokṣadaṃ sāraṃ pārapotaṃ bhavārṇave || 100 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo śrīrāmācaritaṃ nāma dviṣaṣṭitamo'dhyāyaḥ || 62 ||
English translation
The life story of Rama Narada said- O Brahman, when did Rama the son of Dasaratha an incarnation of Visnu redeem Ahalya, in which yuga did he do so and at which O virtuous one, you kindly narrate to me the pleasant story of the incarnation of Rama for which I am getting anxious. Therefore you narrate the story in brief til'll I Narayana said- At the request of Brahma, Narayana narrated the story of lord Visnu's incarnation as Rama in the Tretdyuga who was bom out of the womb of Kausalya. Similarly Bharata who was equal in qualities with Rama was bom of Kaikeyl and Laksmana the ocean of virtues and Satrughna were bom of the womb of xmt gjTfxRtq;i Thereafter with the influence of Visvamitra, Rama visited Mithila together with Laksmana and accepted the hand of JanakI in marriage.
While moving on the way Rama the lord of the universe looked at a rock in the form of a damsel and enquired from Visvamitra the reason for its existence at that place.
Thereafter, the extremely religious and the greatest and the great tapasvi Vis'vamitra narrated to Rama the story relating to the turning of Ahalya into a stone. Rama who could purify the universe, on hearing the story from the mouth of Visvamitra pleased his toe on the stone as a result of which she was instantaneously turned into a human figure of a beautiful woman.
Thereafter pronouncing a blessing on Rama, she at once proceeded towards the abode of her husband. Gautama also on finding his wife back blessed Sr! Rama immensely.
O Narada, thereafter Rama on reaching Mithila broke the bow of Siva and got Sita's hand O best of the king, Sri Rama after the marriage, shattered the pride of Parasurama and playfully performed the welfare sports and moved on to the city of Ayodhya.
The' king Dasaratha gracefully intended to enthrone Rama as the king. The water from seven holy places was collected and all the sages were gracefully invited.
With all the welfare ceremonies the Adhivasa was performed but Kaikeyl, the mother of Bharata, felt extremely envious at the thought of the crowning of Rama. She asked for the encashment of the two boons she had received from Dasaratha in earlier times. According to one boon Rama was to be exciled and Bharata was to be crowned as the king.
Filled with the love of Rama the king was reluctant to grant the boons. But Rama who was well-versed in the scriptures and the dharma insisted on the king to be truthful.
Sri Rama said- The merit one achieves by building of a hundred lakes is comparable to the one like the donating of a step-well.
The merit one earns by donating ten step-wells the same merit is achieved by giving away a daughter in marriage.
O king, the merit one gets by giving away in marriage ten girls, he receives greater merits than that by performing '^yajua.
The merit one earns by perfonning a hundred yajnas he achieves a greater merit by looking at the face of his son.
The merit one gets by looking at the face of a hundred sons, he gets merits greater than that by being truthful.
Because there is no other dharma greater than being truthful and there is no other sin greater than being untaithful. There is no sacred place comparable to the Gahga and there is no other god greater than lord Krsna, There is no other relative greater than the dharma and no other riches are greater than dharma. Nothing is dearer in the universe than dharma. Therefore making all efforts you protect your dharma.
O father, by protecting one's own dharma one always achieves welfare, glory, good name, praise and honour.
Therefore in order to protect the truthfulness of your words, I, performing the dharma, disown the household pleasures and move for roaming about in the forest for fourteen years. I shall conduct my self as a forest-dweller. The one who willingly or unwillingly, by taking an oath for truth fullness, does not follow it he invites impurities which are carried with him as long as the sun and the moon last. Thereafter, he is bom as a dumb person suffering from leprosy for fmm R2ni;i RFRTRftf; RcR TTRt WTR ^TFRII? <i 11 Thus speaking Rama, clad in the bark garment, wearing matted locks of hair, accompanied by Laksmana he moved on to the forest, O sage, the king on the other hand, lost his life in the grief from the separation of his son, Rama. Rama, on the other hand, in order to uphold the truthfulness, started wandering in the After sometime in the great forest, Surpanakha, the sister of Ravana, was wandering
in the forest with her husband. The wicked demoness finding Rama there, was infatuated with passion and her body was overwhelmed with passion and she fainted, Therefore Surpanakha who was intoxicated, youthful and welfversed in the love-sport wearing a smile on her face, went to Sri Rama and said, Surpanakha said- 0 Rama you have the dark complexion and possess all the virtues; you kindly accept me in this secluded place, since I am infatuated with your love.
O Narada, the extremely religious Rama getting terrified beeause of the curse and keeping in mind the dharma, spoke very sweet words.
Rama said- O mother, I am here with my wife therefore you go to my younger brother who doesn't have a wife at the moment. If a husband gets attracted towards another woman in the presence of his wife it becomes quite painful; therefore you go to Laksmana who happens to be the other person.
Listening to the words of Rama, she went to Laksmana and glanced at him, who was quite peaceful, beautiful and having all the auspicious She requested him again and again, saying ”0 virtuous one, you use me." Laksmana on the other hand on listening to her words spoke to her.
Laksmana said- "O foolish one, why do you want to live with a servant like me, leaving aside Rama who is the lord of all. I am the slave of Sita. My wife also is the slave of Sita; therefore, you go to Rama who is my lord and become a co-wife of Sita. O chaste lady, the since I happen to be like the son of Sita and I happen to be your son as well and shall remain-like that.".
On hearing the words of Laksmana the passionate Surpanakha was hurt in her mind and her throat, lips and palate were dried up. The foolish demoness then told Laksmana.
Rfgmfd R I o M WT? t?gmT mj??:i tJFIRRTT I l-Ji ^11 Surpanakha said- O foolish one, I have arrived here of my own will. In case you disown me in spite of that, you will have to face a great misery.
These is no doubt about it. Brahma became unadorable in the universe because of his neglecting Mohini. Daksa had to carry the head of a goat on his body because of the curse of Rambha. Because of the curse of UrvasI, the AsVinIkumaras were deprived of their share in the yajhas. O Laksmana, because of the curse of Mena, Kubera became ugly.
Because of the curse of GhrtacT, Kamadeva was reduced to ashes by Siva; because of the curse of Madalasa, Bali had to be dethroned.
Because of the curse of MisrakesI, Tara the wife of Brhaspati was kidnapped. Similarly with my curse, the wife of Rama would be abducted.
Because in the earlier times in MadhyandiriT- sakha of the Vedas, it has been heard that if a passionate and youthful wife herself comes to a person she should never be disappointed.
frrw cPifefti I ^ o 11 By doing so one meets with misery in the present word and achieves hell in the other world. On hearing the words of Surpanakha Laks mana took out a dagger and with a sharp edged crescent arrow, he severed her nose. Thereafter her valorous brother Khara, Dusana arrived there and fought with Rama but were dispatched to the heavenly abode with the use of weapon by Laks mana. Finding Khara, Dusana having been killed, together with fourteen thousand demons, Surpanakha went to Lanka and denounced Ravana and narrated the entire story to him.
Thereafter, she retired to Puskara-ksetra. By performing great tapas there she got a boon from Brahma. O Narada, finding that a female ascetic was performing tapas after fasting completely, Brahma the ocean of mercy understood her desire and said.
Brahma said- You are performing severe tapas to achieve Rama who is self-disciplined or Laks mana who is the incarnation of dharma as your husband. Both of them are beyond Brahma, Vis nu and Siva, Prakrti and are inaccessible.
Therefore, O beautiful one, you will get them as your husband in the next birth.
ITT ^ fwiT II m "if 11 Thus speaking Brahma delightfully went back to his abode. The demoness then entered the fire and ended her life. During the next birth, she was bom as hunch back.
On the other hand listening to the words of Surpanakha, the great demon Ravana was filled with illusion and was immensely enraged. He started trembling. He kidnapped Sita deceitfully.
O sage, finding STta missing, Rama fainted for a long time. His younger brother Laksmana brought him back to his senses after making O sage, thereafter both of them started searching for Sita throughout day and night in thick forest, mountains caves, rivers and various other places like the abodes of the ascetics. Both of them were filled with grief but being unsuccessful in their efforts, they made friends with SugrTva.
In order to upkeep his word Sri Rama killed Bali with his arrow and enthroned SugrTva as the king of Kiskindha.
Thereafter Sugriva the king of the monkeys also fulfilled his word for the searching of Sita and sent his messengers everywhere. RSma and Laksmana continued to stay with Sugriva.
Blessing Hanuman Rama gave away his beautiful ring studded with gems to Hanuman and also gave him a message for Sita by means of which she could maintain her life. Thereafter, he embraced Hanuman lovingly and giving her the inaccessible dust of his feet, sent him towards the southern direction.
Hanuman who was bom of the arhsa of Rudra receiving the message from Rama travelled to Lanka in search of Sita.
On reaching Lanka he found JanakI in Asokavatika who had become quite lean and thin because of grief, remaining without food and was quite lean like the moon rays on a moonless night. She was reciting the name of Rama in her mind filled with devotion. She was carrying the locks of hair on her head and had the complexion of molten gold. She was always devoted to the name of Rama throughout day and night. She had a spotless mind was quite noble, performing the best of vratas, quite chaste, possessing the symptoms of MahalaksmI. She was illumining with her own lustre and was the one who could provide all the merits of the holy places and could purify the entire universe.
Bowing in reverence to the mother, Hanuman found her weeping. Then he handed over the finger ring of Rama to her and holding her feet Hanuman started crying. Thereafter he conveyed the message of Rama to her which could save Sita's life. Hanuman said- Both Rama and Laks mana are getting ready beyond the ocean. The valorous monkeys have made friends with Rama.
Lord Rama after killing Bali, has enthroned Sugriva, his friend, as the king of the monkeys and has also restored his wife to him. Sugriva has taken a vow to free you. All the monkeys have proceeded to all the directions in search of you.
O mother, getting news from me about your presence here, the lotus eyed Rama would bridge the deep ocean and arrive here. Killing the wicked Ravana with his friends or relatives would free you from the bondage.
By your grace, I am going to reduce the city of Lanka, made in gems, to ashes, you will find it O performer of the noble vratas, I look at Lanka like the child of a monkey. Similarly I consider the ocean like urine, the entire earth like a cup, Ravana with his demon army like a heap of ants. In half a Muhurta I shall destroy them all Because of the words of Rama I shall not indulge into whole-sale killing at the moment. O virtuous one, O mistress, you be cheerful discarding all fear.
On hearing the words of the monkey, JanakI started weeping again and again and feeling panicky, the chaste Sita, the wife of Rama, spoke to Hanuman.
Sita said' In the ocean of my grief Rama is Is my lord, the son of Kausalya, hail and hearty? How could RSma be at the moment? He must have grown weak.
Rama who is dearer to me than my life what type of food does he consume? Is it a fact that Rama the husband of Sita is residing beyond the Is it a fact that my lord has firmly resolved to arrive here? Is my lord not infested with grief, does he remember a sinful person like me who has been the cause for his grief.
w Tm gjwwTt 3f^i I m I My lord had to suffer immensely for my sake.
In the earlier times, he, at the time of enjoying conjugal pleasures did not use the garland taking them to be obstructions between the two bodies but at the present moment the obstruction is in the form of a hundred yojanas wide ocean. Shall it be possible for me to have an audience with the ocean of mercy.
Who is beautiful, peaceful, quite religious and the chaste lord? Shall it be possible for me to serve at the lotus-like feet of lord Rama.
The life of a foolish woman who is deprived of the service of her husband, is of no consequence. Is my dharmaputra Laksmana perfectly all right? My husband always remains drowned in the ocean of grief, whose pride is shattered at the moment. My Devara is the best of the warriors, quite chaste and god-like. Does the younger brother of my lord have a firm resolve? Can I have a look at Laksmana who is dearer to me than my life, is quite graceful, the form of merit and the form of dharma.
O sage, on hearing the words of JanakI, Hanuman spoke the words which were filled with welfare and assured her that he could reduce Lanka to ashes without much effort, Thereafter, Hanuman the son of wind-god, reassured JanakI again and quite easily went back to the lord having lotus-like eyes.
On reaching there he conveyed the entire news about JanakI to him. On listening to the news of welfare about Sita, Rama became emotional.
O Narada, at that point of time, Laksmana and Sugriva also became emotional and started crying. Thereafter all the valorous monkeys also followed them.
O son, thus I have spoken to you about the life story of Sri RSma which is quite pleasant, the form of tattvas, bestows salvation and serves as a boat for the crossing of the ocean of the universe.
O Narada, Rama, then got ready with the army and his younger brother. They constructed a bridge on the ocean and then left for Lanka.
tM TlryiTTraWiI^I fg T g s q iR t TftrTT O Brahman, Rama, after waging a war killed Ravana with all his relatives and relieved JanakI of all the dangers and freed her. Thereafter, the truthful Rama was made to board on the Pus Rama embraced Sita there and enjoyed love- sport with her as a result of which the pain of separation between both of them disappeared. Sri Rama became the lord of the seven continents of the earth and the entire earth was freed from mental agonies and diseases.
Lord Rama had two sons named Lava and Kusa. The solar race was further spread with their sons and grandsons.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 136786 (2018-01-06T11:20:51Z); Shanti Lal Nagar English scan pages n1309–n1317: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1309/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.