Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 56

Chapter 56

Unit 199 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 56Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 561 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 56

Source

अथ षद्पञ्चाशत्तमोऽध्यायः नारद उवाच किमपूर्वं श्रुतं ब्रह्मन्रहस्यं परमाद्भुतम् । अनन्तचरितं धन्यमनन्तस्याच्युतस्य च ।। १ ।। कथं कृष्णो महाविष्णोर्दर्पभङ्ग चकार सः । अन्येषां वा कथमहो तद्भवान्वक्तुमर्हति ।। २ ।। स्वतः श्रीकृष्णचरितमतीव मधुरं श्रुतौ । अतीव मधुरं रम्यं काव्यं कविमुखात्ततः ।। ३ ।। नारायण उवाच महाविष्णोरहंकारो बभूव सहसेति च । सर्वं मल्लोमकूपेषु विश्वान्येवाऽहमीश्वरः ।। ४ ।। संहारभैरवी भुत्वा तं स जग्रास लीलया । स्यिते मुर्धावशेषे च प्रसादं तं चकार सः ।। ५ ।। सर्वात्मना ध्यायमानः स्तुतो भीतं कृपानिधिः । तच्छरीरं सुसंपन्नं पुनरेव चकार सः ।। ६ ।। ब्रह्मणः सहसा ब्रह्मन्निति दर्पो बभुव ह । अहं त्रिजगतां धाता कर्ताऽहमीश्वरः स्वयम् ।। ७ ।। मत्परः पूजितो नास्ति मत्परश्च जितेन्द्रियः । इत्येवं मनसा कृत्वा बहुदर्पो बभूव ह ।। ८ ।। तं ब्रहाणां समूहं च दर्शयामास तत्क्षणम् । गोलोके स्वसमीपे च वसन्तं पुरतो विभोः ।। चतुर्वक्त्रं पञ्चवक्त्रं षड्वक्त्रं च ततोऽधिकम् ।। ९ ।। शतवक्त्रं च प्रत्येकं ब्रह्माण्डौघं च लीलया । त्यक्तुकामं स्वदेहं च व्रीडया नतकंधरम् ।। १० ।। पुनः प्रसादं कृपया तं चकार कृपानिधिः । कालेन मोहिनीद्वारा तमपूज्यं चकार सः ।। ११ ।। स्वकन्यां दर्शयित्वा तं सकामं च चकार ह । पुनस्तद्दर्पभङ्गं च शिवद्वारा चकार सः ।। १२ ।। तत्याज लज्जया देहं पुनर्देहं दधार सः । पुनश्चकार तं पूज्यं ब्रह्माणं ब्रह्मणः प्रभुः ।। १३ ।। ज्ञानं ददौ महाज्ञानी ज्ञानानन्दः सनातनः । विष्णोर्बभूव गर्वश्च जगत्पाताऽहमीश्वरः ।। १४ ।। तमात्मविस्मृतं कृष्णश्चकार रामजन्मनि । अहं विश्वं बिभर्मीति शेषो दर्पी बभूव ह ।। १५ ।। तद्दर्पं गरुडद्वारा चूर्णीभूतं चकार सः । एकदा पूजितो नागैर्गरुडः कृष्णवाहनः ।। १६ ।। न पूजितश्च शेषेण स्वदर्पेण पुरा मुने । गरुडेन जितं कोधात्तमनन्तं मनस्विनम् ।। १७ ।। चकार मोक्षणं तस्य श्रीकृष्णश्च कृपानिधिः । स्वयं शिवः स्वदर्पाच्च विवाहं न चकार सः ।। १८ ।। तं कृत्वा मायया मोहं कारयामास स्त्रीयुतम् । पुनर्जहार तत्पत्नीं दक्षकन्यां महासतीम् ।। १९ ।। वर्ष शुशोच तद्देहं क्रोडे कृत्वा च शंकरः । नानास्थानं च बभ्राम रुदञ्छोकान्मुहुर्मुहुः ।। २० ।। जन्मान्तरे पुनः प्राप्य तां सतीं पार्वतीं मुदा । विसस्मार च स्वज्ञानं दक्षशप्तः पुनः शिवः ।। २१ ।। पुनश्चाऽऽङ्गीरसद्वारा स्मारयामास सत्वरम् । एकदा सरथः शम्भुः प्रेरितस्त्रिपुरे पुरा ।। २२ ।। हत्वा दैत्यं शिवद्वारा त्रिपुरारिं चकार तम् । सर्वं वरं च सर्वस्मै दातुं शंभुः कृपानिधिः ।। २३ ।। स्वयं कल्पतरुर्भूत्वा प्रतिज्ञां च चकार सः । वृकासुरोऽनुष्ठानं च कृत्वा वव्रे वरं विभुम् ।। २४ ।। दास्यामि हस्तं यन्मूर्घ्नि भस्मसाद्भवतु क्षणात् । जगाद जगतां नाथ ईप्सितं ते भविष्यति ।। २५ ।। इति लब्ध्वा वरं रुद्राद्गच्छन्तं शंकरं विभुम् । हस्तं दातुं च तं मूर्ध्नि प्राधावत्सत्वरं पुरा ।। २६ ।। अतीव भीतः शंभुश्च जगाम शरणं हरिम् । भगवांश्च शिवस्यार्थे दैत्यं भस्मीचकार सः ।। २७ ।। शिवं युद्धं च कुर्वन्तं बाणयुद्धे पुरा विभुः । लीलया जृम्भणास्त्रेण जडीभूतं चकार सः ।। २८ ।। समागतं दक्षयज्ञे शंभुं दम्भेन लीलया । वारयामास भगवान्हस्तं दत्त्वा च तद्गले ।। २९ ।। केदारकन्यकाद्वारा शप्तो धर्मोऽतिदैवतः । बभूवातिकृशो भीतः कुह्वामेव यथा शशी ।। ३० ।। तदा तस्याश्च शापान्ते सत्ये पूर्णो बभुव ह । त्रिपाद्बभूव त्रेतायां द्वापरं च द्विपादिति ।। ३१ ।। एकपाच्च कलौ सोऽपि कलेरन्ते पुनः क्षयः । षोडशांशोऽतिक्लिष्टश्च सस्मार चनणं विभोः ।। ३२ ।। तदा सत्ययुगारम्भे परिपूर्णोऽभवत्पुनः । पुनर्युगानुरोधेन क्रमेण च पुनः क्षयः ।। ३३ ।। यमो माण्डवशापेन शूद्रयोनिमवाप ह । तदा पुनः शताब्दान्ते पुनः शुद्धो बभूव ह ।। ३४ ।। साम्बो विमातृशापेन गलत्कुष्ठी बभूव सः । तदा सूर्यव्रतं कृत्वा पुनः शुद्धो बभूव सः ।। ३५ ।। चन्द्रो दर्पमदेनैव जहार च गुरोः प्रियाम् । बभूव दर्पभङ्गोऽस्य यक्ष्मग्रस्तो बभूव सः ।। ३६ ।। सूर्यो दर्पात्तेजसश्च हन्तुं शंकरकिंकरम् । सुमालीत्यभिधं दैत्यं जगामाऽऽशु गिरिं प्रति ।। ३७ ।। अहर्निशं दीप्तिकरं कुर्वन्तं विषयं रवेः । सूर्येण भीतो दैत्यश्च शंकरं शरणं ययौ ।। ३८ ।। सूर्यं दृष्ट्वा शंकरश्च जग्राह शूलमेव च । भीतो दुद्राव सूर्यश्च दृष्ट्वा तं शूलिनं मुने ।। ३९ ।। जघान काश्यां शूलेन शूलीकाशीश्वरो रविम् । मूर्च्छां संप्राप्य शूलेन दर्पंभङ्गो बभूव ह ।। ४० ।। सान्द्रान्धकारः सहसा जग्राह पृथिवीतलम् । आशुतोषो महादेवो जीवयामास तत्क्षणम् ।। ४१ ।। तुष्टाव शंकरं सूर्यो लज्जितोऽपि भयेन च । कृत्वा तमाशिषं तुष्टो ययौ गेहं कृपानिधिः ।। ४२ ।। विभुर्गरुत्मतो दर्पं बभञ्ज लीलया पुरा । निःश्वासैः प्रेरितस्यापि शिवस्य वृषभस्य च ।। ४३ ।। आगच्छन्तं च वैकुण्ठं पृष्ठे कृत्वा शिवं पुरा । द्रष्टुं समागतं भक्त्या देवं नारायणं परम् ।। ४४ ।। वह्निर्दपीं भृगोः शापात्सर्वभक्षो बभूव ह । गुरोः स्वभार्याहिरणाद्दर्पश्चूर्णो बभूव ह ।। ४५ ।। दुर्वाससो दर्पभङ्गो बभूव ह्यम्बरीषतः । सुदर्शनेन चक्रेण विष्णोर्दुर्विषहेण च ।। ४६ ।। जयस्य विजयस्यापि दर्पभङ्गं चकार सः । वैकुण्ठात्पतितस्यापि ब्रह्मशापच्छलेन च ।। ४७ ।। नृसिंहेण हतः सोऽपि हिरण्यकशिपुर्यथा । सूकरेण हिरण्याक्षो लीलया च रसातले ।। ४८ ।। रावणः कुम्भकर्णश्च निहतौ रामबाणतः । जन्मान्तरे च लङ्कायां ब्रह्मणा प्रार्थितस्य च ।। ४९ ।। शिशुपालो हि निहतः कृष्णबाणेन लीलया । दन्तवक्रश्च सहसा परिपूर्णेऽत्र जन्मनि ।। ५० ।। सुराणां दर्पभङ्गं च दैत्यद्वारा चकार ह । असुराणां सुरद्वारा विरोधेन परस्परम् ।। ५१ ।। विधिद्वारा दर्पभङ्गं भवतश्च चकार सः । भवानासीन्नारदश्च पुरा पुत्रः प्रजापतेः ।। ५२ ।। गन्धर्वश्च पितुः शापाच्छूद्रीपुत्रस्ततः क्रमात् । ततः पुनर्नारदश्च प्रसादादधुना विभोः ।। ५३ ।। मम साध्यं विश्वमिति कामदर्पो बभूव ह । तं प्रमतं हरद्वारा भस्मसाच्च चकार सः ।। ५४ ।। पुनः कृत्वा प्रसादं तं जीवयामास लीलया । ऐकान्तिकं च तद्भक्तं स च नास्त्रं करोति हि ।। ५५ ।। चकार दर्पभङ्गं च दर्पिणो लक्ष्मणस्य च । रणे शंकरशूलेन रावणप्रेरितेन च ।। ५६ ।। पुनस्तं जीवयामास रामस्य स्तवनेन च । स्वयं विस्मृतविष्णोश्च ब्रह्मशापेन नारद ।। ५७ ।। चकार दर्पभङ्गं च कार्तवीर्यार्जुनस्य च । जामदग्न्यस्य शस्त्रेणामोघेन पर्शुना पुरा ।। ५८ ।। विप्रपुत्रस्य मरणे हरणे कृष्णयोषिताम् । कर्णेन सार्धं समरे पार्थदर्पं बभञ्ज सः ।। ५९ ।। बाणस्य चोषाहरणे चिच्छेद च भुजान्विभुः । भृगोश्च दक्षयज्ञे च दर्पभङ्गं चकार सः ।। ६० ।। पर्शुरामस्य रामस्य विवाहो पथि गच्छतः । बभञ्ज दर्पं समरे रामद्वारा पुरा विभुः ।। ६१ ।। सुमेरोः शृङ्गभृङ्गं च वायुद्वारा चकार सः । समुद्राणां दर्पभङ्गं चकारागस्त्यभक्षणात् ।। ६२ ।। अकाले सृष्टिहरणे तत्पुत्रमरणे पुरा । कोपयुक्तस्य वायोश्च दर्पभङ्गं चकार सः ।। ६३ ।। उषाहरणयात्रायां द्वारकागमने हरेः । बाणस्य च गवां हेतोवंरुणं च शशाप सः ।। ६४ ।। कलहे गङ्गया वाण्या नारायणाग्रतः । सरस्वतीं च तत्याज तस्या दर्पं बभञ्ज सः ।। ६५ ।। दर्पयुक्तां च दुर्गां च त्यक्त्वा शंभुर्हिमालये । कामं च भस्मसात्कृत्वा तपसे च ययौ विभुः ।। ६६ ।। लज्जामवाप सा देवी तस्या दर्पं बभञ्ज सः । सा ययौ तपसे विष्णोः प्राप्तिहेतोः शिवस्य च ।। ६७ ।। भारते सुचिरं तप्त्वा देवी वीष्णोर्वरेण च । चकार स्वामिनं शंभुं भगवन्तं सनातनम् ।। ६८ ।। महासौभाग्ययुक्ता सा बभूव शंकरप्रिया । विश्वेषु सर्वदेवीषु पूज्या वन्द्या स्तुता सुरैः ।। ६९ ।। दर्पयुक्ता महालक्ष्मीर्बभूव सा महामुने । पराभूता पुरा देवी जयेन विजयेन च ।। ७० ।। प्रविशन्तीं विभोर्द्वारं दत्तवा भक्ताय वाञ्छितम् । निवारिता सा द्वाराच्च तेन दौवारिकेण वै ।। ७१ ।। यदात्मनस्तिरस्कारं साभिमाना महासती । स्मृत्वा हरेः पादपद्मं देहं त्यक्तुं समुद्यता ।। ७२ ।। तदा ब्रह्मा महेशश्च विष्णुर्धर्मश्च भास्करः । चन्द्रश्च कामदेवश्च वैश्वानरो धनेश्वरः ।। ७३ ।। ऋषयो मुनयश्चैव मनवो विघ्ननाशकाः । महेन्द्रो वरुणश्चैव जगत्प्राणो हुताशनः ।। ७४ ।। समाययूरुदन्तस्ते पद्मायाः पुरतः पुरा । तुष्टुवुश्च महालक्ष्मीं मूलप्रकृतिमीश्वरीम् ।। ७५ ।। देवा ऊचुः क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे । शुद्धसत्त्वस्वरुपे च कोपादिपरिवर्जिते ।। ७६ ।। उपमे सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जगत्सर्व मृततुल्यं च निष्फलम् ।। ७७ ।। सर्वसंपत्स्वरुपा त्वं सर्वेषां सर्वरूपिणी । रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ।। ७८ ।। कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका । स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ।। ७९ ।। वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती । गङ्गा च तुलसी त्वं च वृन्दा वृन्दावने वने ।। ८० ।। कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् । रासे रासेश्वरी त्वं च वृन्दा वृन्दावने वने ।। ८१ ।। कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने । विरजा चम्पकवने शतशृङ्गे च सुन्दरी ।। ८२ ।। पद्मावती पद्मवने मालती मालतीवने । कृन्ददन्ती कुन्दवने सुशीला केतकीवने ।। ८३ ।। कदम्बमाला त्वं देवी कदम्बकाननेऽपि च । राजलक्ष्मी राजगेहे गृहलक्ष्मीर्गृहे गृहे ।। ८४ ।। इत्युक्तवा देवताः सर्वे मुनयो मनवस्तथा । रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः ।। ८५ ।। इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् । यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद्ध्रुवम् ।। ८६ ।। अभार्योलभते भार्यां विनीतां च सुतां सतीम् । सुशीलां सुनदरीं रम्यामतिसुप्रियवादिनीम् ।। ८७ ।। पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् । अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ।। ८८ ।। परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम् । भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ।। ८९ ।। हतबन्धुर्लभेद्बन्धुं धनभ्रष्टो धनं लभेत् । कीर्तिंहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद्ध्रुवम् ।। ९० ।। सर्वमङ्गलदं स्तोत्रं शोकसंतापनाशनम् । हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ।। ९१ ।। इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवद्गुणवर्णने लक्ष्मीस्तोत्रकथनं नाम षट्पञ्चाशत्तमोऽध्यायाः ।। ५६ ।।

atha ṣadpañcāśattamo'dhyāyaḥ nārada uvāca kimapūrvaṃ śrutaṃ brahmanrahasyaṃ paramādbhutam | anantacaritaṃ dhanyamanantasyācyutasya ca || 1 || kathaṃ kṛṣṇo mahāviṣṇordarpabhaṅga cakāra saḥ | anyeṣāṃ vā kathamaho tadbhavānvaktumarhati || 2 || svataḥ śrīkṛṣṇacaritamatīva madhuraṃ śrutau | atīva madhuraṃ ramyaṃ kāvyaṃ kavimukhāttataḥ || 3 || nārāyaṇa uvāca mahāviṣṇorahaṃkāro babhūva sahaseti ca | sarvaṃ mallomakūpeṣu viśvānyevā'hamīśvaraḥ || 4 || saṃhārabhairavī bhutvā taṃ sa jagrāsa līlayā | syite murdhāvaśeṣe ca prasādaṃ taṃ cakāra saḥ || 5 || sarvātmanā dhyāyamānaḥ stuto bhītaṃ kṛpānidhiḥ | taccharīraṃ susaṃpannaṃ punareva cakāra saḥ || 6 || brahmaṇaḥ sahasā brahmanniti darpo babhuva ha | ahaṃ trijagatāṃ dhātā kartā'hamīśvaraḥ svayam || 7 || matparaḥ pūjito nāsti matparaśca jitendriyaḥ | ityevaṃ manasā kṛtvā bahudarpo babhūva ha || 8 || taṃ brahāṇāṃ samūhaṃ ca darśayāmāsa tatkṣaṇam | goloke svasamīpe ca vasantaṃ purato vibhoḥ || caturvaktraṃ pañcavaktraṃ ṣaḍvaktraṃ ca tato'dhikam || 9 || śatavaktraṃ ca pratyekaṃ brahmāṇḍaughaṃ ca līlayā | tyaktukāmaṃ svadehaṃ ca vrīḍayā natakaṃdharam || 10 || punaḥ prasādaṃ kṛpayā taṃ cakāra kṛpānidhiḥ | kālena mohinīdvārā tamapūjyaṃ cakāra saḥ || 11 || svakanyāṃ darśayitvā taṃ sakāmaṃ ca cakāra ha | punastaddarpabhaṅgaṃ ca śivadvārā cakāra saḥ || 12 || tatyāja lajjayā dehaṃ punardehaṃ dadhāra saḥ | punaścakāra taṃ pūjyaṃ brahmāṇaṃ brahmaṇaḥ prabhuḥ || 13 || jñānaṃ dadau mahājñānī jñānānandaḥ sanātanaḥ | viṣṇorbabhūva garvaśca jagatpātā'hamīśvaraḥ || 14 || tamātmavismṛtaṃ kṛṣṇaścakāra rāmajanmani | ahaṃ viśvaṃ bibharmīti śeṣo darpī babhūva ha || 15 || taddarpaṃ garuḍadvārā cūrṇībhūtaṃ cakāra saḥ | ekadā pūjito nāgairgaruḍaḥ kṛṣṇavāhanaḥ || 16 || na pūjitaśca śeṣeṇa svadarpeṇa purā mune | garuḍena jitaṃ kodhāttamanantaṃ manasvinam || 17 || cakāra mokṣaṇaṃ tasya śrīkṛṣṇaśca kṛpānidhiḥ | svayaṃ śivaḥ svadarpācca vivāhaṃ na cakāra saḥ || 18 || taṃ kṛtvā māyayā mohaṃ kārayāmāsa strīyutam | punarjahāra tatpatnīṃ dakṣakanyāṃ mahāsatīm || 19 || varṣa śuśoca taddehaṃ kroḍe kṛtvā ca śaṃkaraḥ | nānāsthānaṃ ca babhrāma rudañchokānmuhurmuhuḥ || 20 || janmāntare punaḥ prāpya tāṃ satīṃ pārvatīṃ mudā | visasmāra ca svajñānaṃ dakṣaśaptaḥ punaḥ śivaḥ || 21 || punaścā''ṅgīrasadvārā smārayāmāsa satvaram | ekadā sarathaḥ śambhuḥ preritastripure purā || 22 || hatvā daityaṃ śivadvārā tripurāriṃ cakāra tam | sarvaṃ varaṃ ca sarvasmai dātuṃ śaṃbhuḥ kṛpānidhiḥ || 23 || svayaṃ kalpatarurbhūtvā pratijñāṃ ca cakāra saḥ | vṛkāsuro'nuṣṭhānaṃ ca kṛtvā vavre varaṃ vibhum || 24 || dāsyāmi hastaṃ yanmūrghni bhasmasādbhavatu kṣaṇāt | jagāda jagatāṃ nātha īpsitaṃ te bhaviṣyati || 25 || iti labdhvā varaṃ rudrādgacchantaṃ śaṃkaraṃ vibhum | hastaṃ dātuṃ ca taṃ mūrdhni prādhāvatsatvaraṃ purā || 26 || atīva bhītaḥ śaṃbhuśca jagāma śaraṇaṃ harim | bhagavāṃśca śivasyārthe daityaṃ bhasmīcakāra saḥ || 27 || śivaṃ yuddhaṃ ca kurvantaṃ bāṇayuddhe purā vibhuḥ | līlayā jṛmbhaṇāstreṇa jaḍībhūtaṃ cakāra saḥ || 28 || samāgataṃ dakṣayajñe śaṃbhuṃ dambhena līlayā | vārayāmāsa bhagavānhastaṃ dattvā ca tadgale || 29 || kedārakanyakādvārā śapto dharmo'tidaivataḥ | babhūvātikṛśo bhītaḥ kuhvāmeva yathā śaśī || 30 || tadā tasyāśca śāpānte satye pūrṇo babhuva ha | tripādbabhūva tretāyāṃ dvāparaṃ ca dvipāditi || 31 || ekapācca kalau so'pi kalerante punaḥ kṣayaḥ | ṣoḍaśāṃśo'tikliṣṭaśca sasmāra canaṇaṃ vibhoḥ || 32 || tadā satyayugārambhe paripūrṇo'bhavatpunaḥ | punaryugānurodhena krameṇa ca punaḥ kṣayaḥ || 33 || yamo māṇḍavaśāpena śūdrayonimavāpa ha | tadā punaḥ śatābdānte punaḥ śuddho babhūva ha || 34 || sāmbo vimātṛśāpena galatkuṣṭhī babhūva saḥ | tadā sūryavrataṃ kṛtvā punaḥ śuddho babhūva saḥ || 35 || candro darpamadenaiva jahāra ca guroḥ priyām | babhūva darpabhaṅgo'sya yakṣmagrasto babhūva saḥ || 36 || sūryo darpāttejasaśca hantuṃ śaṃkarakiṃkaram | sumālītyabhidhaṃ daityaṃ jagāmā''śu giriṃ prati || 37 || aharniśaṃ dīptikaraṃ kurvantaṃ viṣayaṃ raveḥ | sūryeṇa bhīto daityaśca śaṃkaraṃ śaraṇaṃ yayau || 38 || sūryaṃ dṛṣṭvā śaṃkaraśca jagrāha śūlameva ca | bhīto dudrāva sūryaśca dṛṣṭvā taṃ śūlinaṃ mune || 39 || jaghāna kāśyāṃ śūlena śūlīkāśīśvaro ravim | mūrcchāṃ saṃprāpya śūlena darpaṃbhaṅgo babhūva ha || 40 || sāndrāndhakāraḥ sahasā jagrāha pṛthivītalam | āśutoṣo mahādevo jīvayāmāsa tatkṣaṇam || 41 || tuṣṭāva śaṃkaraṃ sūryo lajjito'pi bhayena ca | kṛtvā tamāśiṣaṃ tuṣṭo yayau gehaṃ kṛpānidhiḥ || 42 || vibhurgarutmato darpaṃ babhañja līlayā purā | niḥśvāsaiḥ preritasyāpi śivasya vṛṣabhasya ca || 43 || āgacchantaṃ ca vaikuṇṭhaṃ pṛṣṭhe kṛtvā śivaṃ purā | draṣṭuṃ samāgataṃ bhaktyā devaṃ nārāyaṇaṃ param || 44 || vahnirdapīṃ bhṛgoḥ śāpātsarvabhakṣo babhūva ha | guroḥ svabhāryāhiraṇāddarpaścūrṇo babhūva ha || 45 || durvāsaso darpabhaṅgo babhūva hyambarīṣataḥ | sudarśanena cakreṇa viṣṇordurviṣaheṇa ca || 46 || jayasya vijayasyāpi darpabhaṅgaṃ cakāra saḥ | vaikuṇṭhātpatitasyāpi brahmaśāpacchalena ca || 47 || nṛsiṃheṇa hataḥ so'pi hiraṇyakaśipuryathā | sūkareṇa hiraṇyākṣo līlayā ca rasātale || 48 || rāvaṇaḥ kumbhakarṇaśca nihatau rāmabāṇataḥ | janmāntare ca laṅkāyāṃ brahmaṇā prārthitasya ca || 49 || śiśupālo hi nihataḥ kṛṣṇabāṇena līlayā | dantavakraśca sahasā paripūrṇe'tra janmani || 50 || surāṇāṃ darpabhaṅgaṃ ca daityadvārā cakāra ha | asurāṇāṃ suradvārā virodhena parasparam || 51 || vidhidvārā darpabhaṅgaṃ bhavataśca cakāra saḥ | bhavānāsīnnāradaśca purā putraḥ prajāpateḥ || 52 || gandharvaśca pituḥ śāpācchūdrīputrastataḥ kramāt | tataḥ punarnāradaśca prasādādadhunā vibhoḥ || 53 || mama sādhyaṃ viśvamiti kāmadarpo babhūva ha | taṃ pramataṃ haradvārā bhasmasācca cakāra saḥ || 54 || punaḥ kṛtvā prasādaṃ taṃ jīvayāmāsa līlayā | aikāntikaṃ ca tadbhaktaṃ sa ca nāstraṃ karoti hi || 55 || cakāra darpabhaṅgaṃ ca darpiṇo lakṣmaṇasya ca | raṇe śaṃkaraśūlena rāvaṇapreritena ca || 56 || punastaṃ jīvayāmāsa rāmasya stavanena ca | svayaṃ vismṛtaviṣṇośca brahmaśāpena nārada || 57 || cakāra darpabhaṅgaṃ ca kārtavīryārjunasya ca | jāmadagnyasya śastreṇāmoghena parśunā purā || 58 || vipraputrasya maraṇe haraṇe kṛṣṇayoṣitām | karṇena sārdhaṃ samare pārthadarpaṃ babhañja saḥ || 59 || bāṇasya coṣāharaṇe ciccheda ca bhujānvibhuḥ | bhṛgośca dakṣayajñe ca darpabhaṅgaṃ cakāra saḥ || 60 || parśurāmasya rāmasya vivāho pathi gacchataḥ | babhañja darpaṃ samare rāmadvārā purā vibhuḥ || 61 || sumeroḥ śṛṅgabhṛṅgaṃ ca vāyudvārā cakāra saḥ | samudrāṇāṃ darpabhaṅgaṃ cakārāgastyabhakṣaṇāt || 62 || akāle sṛṣṭiharaṇe tatputramaraṇe purā | kopayuktasya vāyośca darpabhaṅgaṃ cakāra saḥ || 63 || uṣāharaṇayātrāyāṃ dvārakāgamane hareḥ | bāṇasya ca gavāṃ hetovaṃruṇaṃ ca śaśāpa saḥ || 64 || kalahe gaṅgayā vāṇyā nārāyaṇāgrataḥ | sarasvatīṃ ca tatyāja tasyā darpaṃ babhañja saḥ || 65 || darpayuktāṃ ca durgāṃ ca tyaktvā śaṃbhurhimālaye | kāmaṃ ca bhasmasātkṛtvā tapase ca yayau vibhuḥ || 66 || lajjāmavāpa sā devī tasyā darpaṃ babhañja saḥ | sā yayau tapase viṣṇoḥ prāptihetoḥ śivasya ca || 67 || bhārate suciraṃ taptvā devī vīṣṇorvareṇa ca | cakāra svāminaṃ śaṃbhuṃ bhagavantaṃ sanātanam || 68 || mahāsaubhāgyayuktā sā babhūva śaṃkarapriyā | viśveṣu sarvadevīṣu pūjyā vandyā stutā suraiḥ || 69 || darpayuktā mahālakṣmīrbabhūva sā mahāmune | parābhūtā purā devī jayena vijayena ca || 70 || praviśantīṃ vibhordvāraṃ dattavā bhaktāya vāñchitam | nivāritā sā dvārācca tena dauvārikeṇa vai || 71 || yadātmanastiraskāraṃ sābhimānā mahāsatī | smṛtvā hareḥ pādapadmaṃ dehaṃ tyaktuṃ samudyatā || 72 || tadā brahmā maheśaśca viṣṇurdharmaśca bhāskaraḥ | candraśca kāmadevaśca vaiśvānaro dhaneśvaraḥ || 73 || ṛṣayo munayaścaiva manavo vighnanāśakāḥ | mahendro varuṇaścaiva jagatprāṇo hutāśanaḥ || 74 || samāyayūrudantaste padmāyāḥ purataḥ purā | tuṣṭuvuśca mahālakṣmīṃ mūlaprakṛtimīśvarīm || 75 || devā ūcuḥ kṣamasva bhagavatyamba kṣamāśīle parātpare | śuddhasattvasvarupe ca kopādiparivarjite || 76 || upame sarvasādhvīnāṃ devīnāṃ devapūjite | tvayā vinā jagatsarva mṛtatulyaṃ ca niṣphalam || 77 || sarvasaṃpatsvarupā tvaṃ sarveṣāṃ sarvarūpiṇī | rāseśvaryadhidevī tvaṃ tvatkalāḥ sarvayoṣitaḥ || 78 || kailāse pārvatī tvaṃ ca kṣīrode sindhukanyakā | svarge ca svargalakṣmīstvaṃ martyalakṣmīśca bhūtale || 79 || vaikuṇṭhe ca mahālakṣmīrdevadevī sarasvatī | gaṅgā ca tulasī tvaṃ ca vṛndā vṛndāvane vane || 80 || kṛṣṇaprāṇādhidevī tvaṃ goloke rādhikā svayam | rāse rāseśvarī tvaṃ ca vṛndā vṛndāvane vane || 81 || kṛṣṇapriyā tvaṃ bhāṇḍīre candrā candanakānane | virajā campakavane śataśṛṅge ca sundarī || 82 || padmāvatī padmavane mālatī mālatīvane | kṛndadantī kundavane suśīlā ketakīvane || 83 || kadambamālā tvaṃ devī kadambakānane'pi ca | rājalakṣmī rājagehe gṛhalakṣmīrgṛhe gṛhe || 84 || ityuktavā devatāḥ sarve munayo manavastathā | rurudurnamravadanāḥ śuṣkakaṇṭhoṣṭhatālukāḥ || 85 || iti lakṣmīstavaṃ puṇyaṃ sarvadevaiḥ kṛtaṃ śubham | yaḥ paṭhetprātarutthāya sa vai sarvaṃ labheddhruvam || 86 || abhāryolabhate bhāryāṃ vinītāṃ ca sutāṃ satīm | suśīlāṃ sunadarīṃ ramyāmatisupriyavādinīm || 87 || putrapautravatīṃ śuddhāṃ kulajāṃ komalāṃ varām | aputro labhate putraṃ vaiṣṇavaṃ cirajīvinam || 88 || paramaiśvaryayuktaṃ ca vidyāvantaṃ yaśasvinam | bhraṣṭarājyo labhedrājyaṃ bhraṣṭaśrīrlabhate śriyam || 89 || hatabandhurlabhedbandhuṃ dhanabhraṣṭo dhanaṃ labhet | kīrtiṃhīno labhetkīrtiṃ pratiṣṭhāṃ ca labheddhruvam || 90 || sarvamaṅgaladaṃ stotraṃ śokasaṃtāpanāśanam | harṣānandakaraṃ śaśvaddharmamokṣasuhṛtpradam || 91 || iti śrībrahmao mahāo śrīkṛṣṇajanmakhao uttao nāradanāo bhagavadguṇavarṇane lakṣmīstotrakathanaṃ nāma ṣaṭpañcāśattamo'dhyāyāḥ || 56 ||

English translation

him terrified the merciful lord restored his body Narada said- O Brahman, I have listened to the endless story of Krsna which is quite astonishing, secretive and astonishing.

I would like to listen to the way Sri Krsna shattered the pride of Mahavisnu and others. You kindly tell me this in detail.

The life story of lord Krsna is quite sweet but it is always pleasant to listen to the story from the mouth of a good poet which becomes immensely sweeter (thus by listening to the story of lord Krsna from your mouth, it would add to the sweetness further).

Narayana said- Once Mahavisnu was inflated with pride suddenly that the entire universe was lodged in his hair-pits and therefore he was the supreme lord.

Thereafter lord Krsna took to the form of Sarhhara-bhairava and started swallowing him.

When only the head was left Mahavisnu started offering prayers devotedly to the lord. Finding O Brahman, similarly Brahma also was once so inflated with pride that he was the sole creator of the universe and as such the supreme lord. He thought that there was none else who could be more adorable than him, nor was there anyone else who had so completely controlled his sense organs. Having thus resolved in his mind, he was filled with pride.

Thereafter lord Krsna displayed the forms in which there were creatures with five faces, four faces, six faces and many of them having a hundred faces. He displayed the Brahmanda together with Brahma playfully as a result of which Brahma felt ashamed and he lowered his head in shame and got ready to end his life.

Thereafter the lord who is the ocean of mercy bestowed his grace on him. At the appropriate time he made him unadorable and as a result of the curse of MohinI, he made him passionate by displaying his own daughter before him and thereafter he got his pride shattered through Siva.

Getting ashamed he thought of ending his life and took to another body. Thereafter the great intellectual and eternal who is also the form of intellectuals and an eternal lord took to the form of a Brahmana and appeared before Brahma and made him adorable again bestowing the divine knowledge on him. Similarly lord Vi^pu also was once inflated with pride and thought, "I alone the entire universe and as such I happen to be the supreme lord.".

Thereafter at the time of the incarnation of Rama he shattered his pride by making him forget himself and his pride was shattered. Sesa also once was filled with pride feeling, "I carry the entire universe on my head and there was no one else comparable to me." Finding this the lord got his pride shattered through Garuda. O sage, once all the serpents adored Garuda the vehicle of Krsna, but serpent Sesa refused to do so, swollen with pride. At this Garuda was enraged and subjugated Ananta; thereafter all merciful got him released. Lord ^iva even was not prepared to marry because of the pride in him.

Lord Krsna influenced him with his illusion and got him married; thereafter his wife named Mahasatl the daughter of Daksa was kidnapped she ultimately burnt his body in the fire-altar of Dak§a). Thereafter lord Siva carrying the dead body of Satl in his lap suffered from the pain and grief for many years. He cried again and again because of his grief and roamed about in Thereafter, getting back Satl in the form of Parvati, he was fully delighted but because of the curse of Daksa he forgot all his divine knowledge. Durvasa, the son of Ahgira, helped him in restoring the divine knowledge to ^iva.

Similarly in the earlier times, lord Krsna sent mounted on a chariot for the killing of Tripurasura. Though the compassionate l^iva could bestow all the books on everyone and himself being kalpavrk^a took a vow thereafter, Vrkasura adored lord ^iva and achieved a boon from ^iva, who said, "Your desire will be Thus with the boon of Rudra, the demon before leaving that place intended to place his hand on diva's head.

Finding this, ^iva felt panicky and went to take refuge with the lord. Thereafter, the lord reduced to ashes that demon for the sake of Siva.

In the earlier times, while fighting with Banasura, ^iva was playfully made motionless by the lord Kr§na.

Again in the yajfia of Daksa, the lord removed Siva from the place by holding him by the neck.

Similarly Dharma attracted a great curse from the daughter of Kedara, as a result of which he became very weak like the moon of the dark rRjT -yrttgjiHwr -crfTgTiftsvracig^: i After the end of the curse, in Satyayuga he became complete and healthy. In Tretayuga he had three feet only, in the Dvdpara only two and in the age of Kali he had only one foot left and thereafter he completely disappears. Thus Dharma getting present in sixteen parts was immensely upset and started adoring at the feet of the lord. He was complete in the Satyayuga in all respects. Similarly he went on increasing and decreasing according to the yugas; as a result of the curse of the sage Mandava even Yama had to be bom in the house of Sudra and could be purified only after a hundred years.

Samba attracted leprosy because of the curse of his step-mother. He after performing the vrata of Surya was purified again.

Infatuated with pride Candrama abducted Tara, the wife of Brhaspati as a result, he attracted the disease of consumption and his pride was shattered.

Because of the pride of his lustre, Surya went after Sumall a devotee of Siva in order to kill him. The sun was performing the duty of illumining the universe day and night. Getting terrified by the sun, the demon took refuge with O sage, finding Surya there Siva took up his trident to strike at Surya, as a result of which he was terrified and while running he left Kasl.

Then Siva the lord of KasT attacked Surya with his trident, as a result of which he fainted and fell down on the ground. And thus his pride was shattered. Thereafter the entire universe was plunged in to darkness. Finding this, Siva who gets pleased in no time revived the sun back to Getting ashamed and terrified, Surya then adored Siva. The all merciful Siva delightfully pronounced his blessing on Surya and left for his abode. In earlier times the lord shattered the pride of Gamda in no time, with the breathing of Nandi who was serving as a mount to Siva.

Gamda flew away at the time when Siva was intending to meet Narayana mounted on the back of Nandi.

Similarly the pride of Agni was shattered because of the curse of sage Bhrgu and he became the consumer of everything; the pride of Brhaspati was shattered with the abduction of his wife Tara.

The pride of Durvasa was shattered because of the unbearable Sudarsana-cakra when he wanted to kill Ambarisa a devotee of Visnu.

The lord threw away his attendants Jaya and Vijaya from Vaikuntha with the curse of the Brahmana sage Sanatkumara and shattered their In due course of time both Jaya and Vijaya were bom as the demons named Hiranyakasipu and Hiranyaksa. Out of these too Hiranyakasipu was killed by lord Nrsimha and similarly Hiranyaksa was killed by Visnu in the form of Varaha incarnation who rescued the earth from the deep water.

In due course of time both of them were bom as Ravana and Kumbhakarna and were killed in Laiika by the arrows of Rama. Brahma had already prayed for their killing in earlier times.

Then in the third birth they were bom as Sisupala and Dantavakra who achieved heaven after' having been killed at the hands of Sri Krsna. | Thus lord Krsna created differences between the I gods and the demons, shattered their pride in one way or the other.

The lord has also shattered your pride through Brahma because in the earlier times you happened to be Narada the son of Prajapati. With the curse of your father you became a Gandharva, son of a Sudra woman and in due time you were reborn as Narada.

Once the god of love was also inflated with pride thinking that the entire universe was controlled by him. Then the lord got the god of love reduced to ashes through Siva and getting pleased, brought him back to life, since that time the god of love never tries to influence the devotees of the lord.

Lord also shattered the pride of Laksmana in the battle-field when he had to face the trident of Siva which was shot by Ravana.

O Narada, Rama offered prayer who himself had incarnated on earth and had forgotten his tme form because of the curse of Brahma. Laks mana was revived back to life.

In the earlier times the lord shattered the pride of Kartaviryarjuna of the use of the battle-axe by Parasurama. The pride of Arjuna was also shattered with the death of the Brahmana boy, the abduction of the wives of Krsna and at the time of the battle between Kama and Arjuna.

At the time of abduction of Osa, the lord himself cut off the arms of BanSsura and shattered his pride. The pride of Bhrgu was shattered in Ha^yajm of Daksa.

In the marriage of Rama when Parasurama met him on the way, his pride was shattered by The pride of the Sumeru mountain was shattered with the breaking of its peaks by the wind. The pride of the ocean was shattered when Agastya drank its water.

In the earlier times the pride of enraged wind was shattered by the lord when he wanted to untimely destroy the universe by killing the sun.

At the time of journey on the abduction of Us a, the lord left Dvaraka but by pronouncing a curse on Varuna who was abducting the cows of Banasura, his pride was shattered. At the time of quarrel between Gahga and SarasvatT in the presence of Visnu he shattered the pride of SarasvatT by disowning her.

disowned the proud Durga, while living in Himalaya and reduced the god of love to ashes and he himself went for performing tapas.

Thereafter, the goddess felt very much ashamed, after her pride was shattered she started adoring lord Visnu for getting back ^iva as her husband.

For this purpose she went to the forest for While performing tapas in Bharata for a long time, she achieved the eternal lord Siva as her husband with the blessing of lord Visnu.

The goddess became quite fortunate and the beloved of Siva, besides being adorable by all the gods and the goddesses of the universe.

O great sage, in the earlier times, MahSlaksml also was once filled with pride. Then he made Jaya and Vijaya to insult her, as a result of which her pride was shattered. She, after bestowing the boon on her devotees, was entering the door when the gate-keepers stopped her.

The extremely proud and chaste MahalaksmI was enraged because her insult was about to end her life, devoting her mind at the lotus-like feet of the lord.

clcJT sr?IT Mt^l?xl I At that point of time all the gods like Brahma, Siva, Visnu, Dharma, Surya, Moon, Kamadeva, Vaisvanara, Kubera, the sages, the ascetic, Vinayaka, the Manus, Mahendra, Varuna, Vayu and Agni arrived before LaksmI while crying.

They started eulogising the Malaprakrti and Tsvarl known as MahalaksmI.

The gods said- You forgive us 0 mother, 0 Bhagavatl you are beyond everyone and have the form of spotless and sattva. You are beyond anger, forgive us.

You are the best of all the chaste goddesses, adored by all the gods, without you the entire universe is like death and infructuous.

You represent the fortunes of all, you happen to be the form of all, you are Rasesvarl and the great goddess. All the women on earth represent was rays.

You are Prakfti in Kailasa, Sindhuputri, MahalaksmI in the ocean of milk, SvargalaksmI in the heaven and MartyalaksmI on earth.

Similarly in Vaikuntha you are MahalaksmI, Sarasvatl, goddess of the gods, Ganga, TulasI and Savitrl of Brahmaloka.

In the Goloka you are the great goddess Radha who is dearer to Krsna than his life, Rasesvarl at the time of divine dance and Vmda in You are Kfsnapriya in the BhSndlra forest, CandrS in the forest of sandal-wood, Viraja in the forest of campaka flowers and Sundarl in the mountain of a hundred peaks.

You are PadmavatT of Padma forest, Malatl of the Malatl forest, KundadantI in the forest of lotus flower and Suslla in the forest of KetakI You are Kadambamala in the kadamba forest, RajalaksmI in the royal houses, GrhalaksmI in every house.

Thus speaking all the gods, the sages and Manu bowed in reverence to her and started crying with their throats, lips and palates having been dried up.

Thus whosoever recites this LaksmI stotra composed by gods early in the morning, surely One who is deprived of a wife gets a very chaste, noble and charming wife having a sweet tongue besides grandsons and all the riches. He gets a damsel of high family with tender limbs.

The one having no son gets a Vaisnava son having a long life, possessing all the riches and the one who is well educated. The people who are deprived of their kingdom would get it back and regain the lost riches and the lost relatives.

The pauper would receive enough of riches with Thus this stotra is quite beneficial, bestows welfare, destroys grief and always bestows dharma, artha, kdma and moksa besides good The supreme lord is great and is alive for all.

He is without qualities, is the soul of all, blissful and for him there is hardly any difference between a blade of grass and a mountain.

Therefore the one who could by his simple frowning create lakhs of Laksmis and treat equally the wives of others as well as the servants, what is the use of serving him?.

I am the foremost of all his wives, in spite of that the gate-keepers stopped me like him who happens to be the servant of the servants. I am no more attracted towards Krsna. Having been deprived of the fortune of my husband, I am desirous of the fire flames and intend to end my life in them. I can by doing so achieve the welfare which I did earlier.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122386 (2017-09-17T13:47:03Z); Shanti Lal Nagar English scan pages n1273–n1280: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1273/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.