Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 47

Chapter 47

Unit 190 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 47Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 471 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 47

Source

नारद उवाच ।। अथ क्रीडांतरे राधा किं पप्रच्छ हरिं विभुम् ।। कां कथां कथयामास कथ्यतां करुणानिधे ।। १ ।। ।। श्रीनारायण उवाच ।। ।। उत्थाय सुखसंभोगाद्राधां कृत्वा पुरो हरिः ।। उवास मलयद्रोणीं वटमूले मनोहरे ।। २ ।। राधा तं परिपप्रच्छ सस्मितं सुमनोहरम् ।। दर्पभङ्गः वज्रभृतो निगूढं श्रुतिसुन्दरम् ।। ३ ।। ।। श्रीराधिकोवाच ।। श्रुतं यशः शूलभृतो दर्पभङ्गश्च दैवतः ।। पार्वत्या दर्पभङ्गश्च विवाहश्च तयोरहो ।।४।। अधुना श्रोतुमिच्छामि दर्पभङ्गं हरेर्हरे ।। शेषाणां च क्रमेणैव वद व्यस्य जगद्गुरो ।। ५ ।। श्रीकृष्ण उवाच ।। दर्पभंगं सुरपतेस्त्रिषु लोकेषु विश्रुतम् ।। कर्णपीयूषमतुलं सुन्दरं शृणु सुन्दरि ।। ६ ।। पुरा शतमखो दर्पात्कृत्वा शतमखान्मुदा ।। बभूव सर्वदेवानामध्यक्षः संपदा युतः ।। ७ ।। दिनेदिने तदैश्वर्यं वर्द्धते तपसां फलात् ।। दीक्षां तं कारयामास सिद्धमन्नं बृहस्पतिः ।।८।। स जजाप महामन्त्रं पुष्करे शतवत्सरम् ।। बभूव मन्त्रसिद्धश्च परिपूर्णमनोरथः ।। ९ ।। ब्रह्मस्वरूपां प्रकृतिं संपन्मूढो न मन्यते ।। सा तं शशाप स्वगुरोः शापं लेभेऽतिकोपतः।।।।4.47.१०।। एकदा प्रकृतेः शापाद्धतबुद्धिः स्वसंसदि।। गुरुं दृष्ट्वा समुत्थाय न ननाम मुदाऽन्वितः ।। ११ ।। बृहस्पतिस्ततः कोपान्नोवास गृहमाययौ ।। न तस्थौ तारकाभ्याशे तपसे काननं ययौ ।। १२ ।। उवाच मनसा दीनो यातु संपद्धरेरिति ।। अथ शक्रो मतिं प्राप्य क्व गतोऽतो मदीश्वरः ।।१३।। इत्युक्त्वा वेगतः पीठाज्जगाम तारकान्तिकम्।। प्रणम्य मातरं भक्त्या नतस्कन्धः पुटाञ्जलिः ।।।। १४ ।। सर्वं निवेदनं कृत्वा रुरोदोच्चैर्मुहुर्मुहुः ।। पुत्रस्य रोदनं दृष्ट्वा रुरोद तारका भृशम् ।। १५ ।। वत्स गच्छ गृहं नैव गुरुं द्रक्ष्यसि साम्प्रतम् ।। दुर्दिनान्ते गुरुं प्राप्य पुनर्लक्ष्मीमवाप्स्यसि ।। १६।। अधुना कर्मणां भोगं भुङ्क्ष्व मूढ दुराशय।। दुर्दिने स्वगुरौ दोषः सुदिने परितोषणम् ।।१७।। सुदिनं दुर्दिनं शक्र कारणं सुखदुःखयोः ।। इत्युक्त्वा तारका देवी विरराम पतिव्रता ।। १८ ।। जगाम शक्रः स्नानार्थं स्वर्णदीं सुमनोहराम् ।। ददर्श तत्र रुचिरां मार्जन्तीं च नितम्बिनीम् ।।१९।। सस्मितां सकटाक्षां तामहल्यां गौतमप्रियाम् ।। दृष्ट्वा च विपुलश्रोणीं स्तनयुग्मं मनोहरम् ।।4.47.२०।। स तस्याः शक्रः संपश्यन्मुमोह काममोहितः ।। पुनः स चेतनां प्राप्य विहाय स्नानमीश्वरि ।। २१ ।। मूर्तिं विधाय तद्भर्तुस्तत्समीपं जगाम ह ।। गत्वा तु स्निग्धवस्त्रां तां समाकृष्य स्मरातुरः ।। २२।। चकार विविधं तत्र शृंगारं सुमनोहरम् ।। मूर्च्छां संप्राप कामेन तन्द्रां च मुनिकामिनी ।।२३।। निश्चेष्टा सुखसंभोगान्निश्चेष्टस्त्रिदशाधिपः ।। एतस्मिन्नन्तरे तप्त्वा समागत्य मुनीश्वरः ।। २४ ।। ददर्श गेहे मिथुनं मैथुने च रतिप्रिये ।। दृष्ट्वा चुकोप स मुनिर्ज्वलन्निव हुताशनः ।। २५ ।। विज्ञानेनातिरोषेण बभञ्ज सुरतिक्षणम् ।। शक्रः स चेतनां प्राप्य दृष्ट्वा च मुनिपुंगवम् ।। २६ ।। कालस्वरूपं त्रासेन दधार चरणाम्बुजम् ।। कोपरक्तास्यनयनो देवं पादानतं भिया ।। उवाच नीतिवचनं गौतमः शरणागतम् ।। २७ ।। गौतम उवाच ।। धिक् त्वामिन्द्र सुरश्रेष्ठ कश्यपात्मज पण्डित ।। २८ ।। प्रपौत्र जगतां स्रष्टुर्बुद्धिस्ते कथमीदृशी ।। मातामहः स्वयं दक्षोऽदितिर्माता पतिव्रता ।। २९ ।। कर्मसाध्यः स्वभावश्च कुलधर्मं प्रबाधते ।। वेदं विज्ञाय ज्ञानी त्वं योनिलुब्धोऽसि कर्मणा ।। 4.47.३० ।। योनीनां च सहस्रं च तव गात्रे भवत्विह ।। पूर्णवर्षं च सततं योनिगन्धं त्वमाप्नुहि ।। ३१ ।। ततः सूर्यं समाराध्य योनिश्चक्षुर्भविष्यति ।। मम प्राणेश्वरी दुष्टा येन मूढ त्वया कृता ।। ३२ ।। मच्छापेन गुरोः कोपाद्भ्रष्टश्रीर्भव साम्प्रतम् ।। गुरोरपेक्षया मूढ प्राणा नापहृतास्तव ।। ३३ ।। तेजस्विनोऽतिबन्धोर्मे बंधुभेदभिया सुर ।। उत्तिष्ठोत्तिष्ठ देवेन्द्र गच्छ वत्स स्वमन्दिरम् ।। ३४।। शुभाशुभं च यत्किंचित्सर्वं कर्मोद्भवं भवेत् ।। महामुनीन्द्रवचनाद्गतः शक्रश्च पुष्करम् ।।।३५।। चकाराराधनं भक्त्या नैष्कृत्यं च चकार ह ।। पादानतामहल्यां तामुवाच मुनिपुंगवः ।। ३६ ।। वनं गत्वा चिरं तिष्ठ विधाय मूर्तिमश्मनः ।। ।। अकामां चकमे शक्रः सर्वं जानाम्यहं प्रिये ।। ३७ ।। तथा च परभोग्या मे न भोग्या व्रजाधमे ।। परवीर्यं यदुदरे कामतोऽकामतोऽपि वा ।।३८।। अहल्ये याति दैवेन तदुपायं निशामय ।। अकामतो न च दुष्टा सा प्रायश्चित्तेन शुद्ध्यति ।।३९।। कामभोगेन त्याज्या सा कर्मभोगेन शुद्ध्यति ।। पितृपाके दैवपाके पूजायां नाधिकारिणी ।।4.47.४० ।। षष्टिवर्षसहस्राणि कालसूत्रं प्रयाति सा।। षष्टिवर्षसहस्राणि क्षयं कृत्वा स्वकर्मणः ।। ४१ ।। स्वामिनो वचनात्सा तु प्रणम्य स्वामिनं भिया ।। नाथ नाथेति कुर्वन्ती रुदन्ती वनमाप सा ।। ४२ ।। षष्टिवर्षसहस्राणि भुक्त्वा भोगं मुनिप्रिया ।। श्रीरामचरणस्पर्शात्सद्यः शुद्धा बभूव ह ।।४३।। त्रैलोक्यमोहनं रूपं विधाय मुनिकामिनी ।। जगाम गौतमाभ्याशं मुनिः संप्राप्य सुन्दरीम् ।। ४४ ।। अथ शक्रस्य वृत्तांतं परमं शृणु सुन्दरि ।। पापघ्नं पुण्यबीजं तत्संव्यस्य कथयामि ते ।। ४५ ।। एकदा च गुरोः कोपात्प्रकृतेरवहेलनात् ।। ब्रह्महत्या वज्रभृतो बभूव हतचेतसः ।। ४६ ।। शक्रस्त्यक्तगुरुर्दैवग्रस्तो दैत्यनिपीडितः ।। जगाम शरणं भीतो ब्रह्माणं जगतां गुरुम् ।।।। ४७ ।। तदाज्ञया विश्वरूपं चकार च पुरोहितम् ।। बभूव तत्र विश्वस्तो दैवाद्बुद्धिहतो हरिः ।। ४८ ।। दैत्यदौहित्रस्य भावं विज्ञाय च विचक्षणः ।। प्रचिच्छेद शिरस्तस्य तीक्ष्णबाणेन लीलया ।। ४९ ।। विश्वरूपपिता त्वष्टा श्रुत्वा सद्यश्चुकोप ह ।। इंद्रशत्रो विवर्द्धस्वेत्युक्त्वा यज्ञं चकार ह ।। 4.47.५० ।। यज्ञकुंडात्समुत्तस्थौ वृत्रो नाम महासुरः ।। चकार निग्रहं कोपाद्देवानामवलीलया।। ५१ ।। शक्रो महामुनेरस्थ्नां वज्रं कृत्वा सुदारुणम् ।। जघान वृत्रं देवानां कंटकं दैत्यमर्दनः ।। ५२ ।। ब्रह्महत्या शुनासीरं दुद्राव हतचेतनम् ।। रक्तवस्त्रपरीधाना वृत्रस्त्रीवेषधारिणी ।। ५३ ।। सप्ततालप्रमाणा सा शुष्ककण्ठोष्ठतालुका ।। ईषाप्रमाणदशना महाभीतं चकार तम् ।। ९४ ।। धावंतं परिधावंती बलिष्ठा हतचेतनम् ।। खड्गहस्ता दयाहीना वेगेन परिधावति ।। ५५ ।। इंद्रो दृष्ट्वा च तां घोरां स्मारंस्मारं गुरोः पदम् ।। विवेश मानससरो मृणालसूक्ष्मसूत्रतः ।। ५६।। तत्र गंतुं न शक्ता सा ब्रह्मणः शापकारणात् ।। सा तस्थौ वटशाखायां सरसस्तटसन्निधौ ।। ५७ ।। अथात्र नहुषो भूपस्त्रिलोकेशो बभूव ह ।। स ययाचे शचीं देवान्बलिष्ठो दुर्बलानपि ।। ५८ ।। शची श्रुत्वा महाभीता तारकां शरणं ययौ ।। तारा निर्भर्त्स्य स्वपतिं भृत्यपत्नीं ररक्ष च ।। ५९ ।। शचीमाश्वास्य स्वगुरुर्जगाम तत्सरो मुदा ।। आजुहाव शुनासीरं कातरं हतचेतनम् ।। 4.47.६० ।। बृहस्पतिरुवाच ।। उत्तिष्ठोत्तिष्ठ हे वत्स भयं किं ते मयि स्थिते ।। त्वदीश्वरं स्वरेणैव निशामय भयं त्यज ।। स्वरं बृहस्पतेर्ज्ञात्वा सर्वसिद्धीश्वरो हरिः ।। ६१ ।। सूक्ष्मरूपं परित्यज्य स्वरूपं च दधार सः ।। उत्थाय सद्यः संभ्रातो गुरुं तं सूर्यवर्चसम् ।।६२।। दृष्ट्वा ननाम संप्रीत्या संप्रीतं त्यक्तकोपकम् ।। पदांबुजे निपतितं रुदंतं भयविह्वलम् ।। ६३ ।। निधाय वक्षसि प्रेम्णा रुरोद प्रेमविह्वलः ।। रुदंतं वाक्पतिं तुष्टं तुष्टाव त्रिदशेश्वरः ।। पुटांजलिः पुलकितो भक्तिनम्रात्मकंधरः ।। ६४ ।। इंद्र उवाच ।। क्षमस्व भगवन्दोषं कृपां कुरु कृपानिधे ।। ६५ ।। भृत्यापराधं सततं न गृह्णाति सदीश्वरः ।। स्वभार्यासु स्वशिष्येषु स्वभृत्येषु सुतेषु च ।। ६६ ।। दुर्बलः सबलो वाऽपि को दंडं कर्तुमक्षमः ।। त्रिषु कोटिषु देवेषु देवकोऽहमपंडितः ।।६७।। त्वत्प्रसादात्सुरश्रेष्ठ कृपया वर्द्धितस्त्वया ।। संहर्तुमीशस्त्वं सर्वमहं को वापि कीटवत् ।। ६८ ।। स्वयं विधातुः पौत्रश्च पुनः स्रष्टुं स्वयं क्षमः ।। इति तस्य स्तवं श्रुत्वा परितुष्टो गुरुः स्वयम् ।। उवाच वचनं प्रीत्या प्रसन्नवदनेक्षणः ।। ६९ ।। गुरुरुवाच ।। स्थिरो भव महाभाग निश्चलां कमलां लभ ।। 4.47.७० ।। संप्राप्य परमैश्वर्यं पूर्वस्माच्च चतुर्गुणम् ।। गच्छामरावतीं वत्स राज्यं कुरु पुरंदर ।। ७१ ।। हतशत्रुर्मत्प्रसादाद्गत्वा पश्य शचीं सतीम् ।। इत्येवमुक्त्वा स गुरुः सशिष्यो गंतुमुद्यतः ।। ७२ ।। ददर्श पुरतो घोरां ब्रह्महत्यां सुदुःसहाम् ।। दृष्ट्वा शक्रो महाभीतस्तं गुरुं शरणं ययौ ।। ७३ ।। बृहस्पतिर्महाभीतः सस्मार मधुसूदनम् ।। एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी ।। ७४ ।। स्वल्पाक्षरा च बह्वर्था तां शुश्राव बृहस्पतिः ।। संसारविजयं नाम सर्वाशुभविनाशनम् ।। ७५ ।। राधिके वचनं श्रुत्वा शिष्यं रक्षाधुनेति च।। तदा त्वत्कवचं दत्त्वा शिष्याय शिष्यवत्सलः ।।७६।। चकार भस्मसात्तां च हुंकारेणैव लीलया ।। तदा शिष्यं गृहीत्वा च गत्वा ताममरावतीम् ।।७७।। ददर्श च्छिन्नभग्नां च शत्रुणा वचनाद्गुरोः ।। भर्तुरागमनं श्रुत्वा शची संहृष्टमानसा ।।७८।। प्रणम्य च गुरुं भक्त्या स्वकांतं प्रणनाम सा ।। श्रुत्वाऽऽगमनमिंद्रस्य समाजग्मुः सुराः प्रिये ।। ऋषयो मुनयश्चैव हर्षगद्गदमानसाः ।।७९ ।। योजयामास सत्कारं निर्मातुममरावतीम् ।। पूर्णमब्दशतं शिल्पी निर्ममे त्वमरावतीम्।। 4.47.८० ।। नानारत्नविचित्राढ्यां मणिरत्नेंद्रनिर्मिताम् ।। मनोहरां निरुपमां न हि तुष्टो यया हरिः ।।८१।। विश्वकर्मा गृहं गंतुं न शशाक विनाऽऽज्ञया।। परमोद्विग्नचित्तश्च ब्रह्माणं शरणं ययौ ।। ८२ ।। विज्ञाय तदभिप्रायं तमुवाच विधिः स्वयम् ।। तव कर्मक्षयादेव तावच्छ्वो भवितेति च ।।८३।। श्रुत्वा तद्वचनं कारुः शीघ्रं प्रापामरावतीम् ।। ब्रह्मा जगाम वैकुण्ठे प्रणम्योवाच मातरम् ।।८४।। हरिर्ब्रह्माणमाश्वास्य प्रस्थाप्य स्वगृहं च तम् ।। विप्ररूपं समास्थाय चाजगामामरावतीम् ।। ८५ ।। दण्डी छत्त्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम् ।। अतिखर्वः शुक्लदंतः सस्मितः सुमनोहरः ।। ८६ ।। वयसाऽतिशिशुर्बुद्ध्या ज्ञानवृद्ध्या विचक्षणः ।। स्वयं विधातुर्धाता च दाता च सर्वसंपदाम् ।। ८७ ।। इंद्रद्वारे समुत्तिष्ठन्द्वारपालमुवाच ह ।। ब्रूहीदं ब्रह्मणो द्वारे शीघ्रं त्वां द्रष्टुमागतः ।। ८८ ।। इत्येवं वचनं श्रुत्वा द्वारि ज्ञानं चकार तम् ।। स च शीघ्रं समागम्य ददर्श ब्राह्मणार्भकम् ।। ८९ ।। बालकानां बालिकानां समूहैः परिवेष्टितम् ।। हसद्भिश्च महोत्साहात्सस्मितं तेजसाऽन्वितम् ।। 4.47.९० ।। प्रणनाम हरिर्भक्त्या तं हरिं शिशुरूपिणम् ।। आशिषं युयुजे प्रीत्या तं हरिर्भक्तवत्सलः ।। ९१ ।। मधुपर्कादिकं दत्त्वा शक्रः पूजां चकार तम् ।। पप्रच्छागमनं कस्माद्वदेति विप्रबालकम् ।। ९२ ।। इंद्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः ।। मेघ गम्भीरया वाचा बृहस्पतिगुरोर्गुरुः ।। ९३ ।। ब्राह्मण उवाच ।। समागतोऽहं त्वां द्रष्टुं प्रष्टुं वचनमीप्सितम् ।। चित्रं नगरनिर्माणं समाकर्ण्याद्भुतं हरे ।। ९४ ।। कतिवर्षं च निर्माणे भवान्संकल्पितो यथा ।। कतिचित्तां विश्वकर्मा निर्माणं वा करिष्यति ।।।। ९५ ।। एवंभूतं च निर्माणं न केनैंद्रेण निर्मितम् ।। नैवंविधं सुनिर्माणे विश्वकर्मा परः क्षमः ।।९६।। बालकस्य वचः श्रुत्वा जहास स सुरेश्वरः ।। संपन्मदातिमत्तश्च पुनः पप्रच्छ बालकम् ।। ९७ ।। कतींद्राणां समूहश्च त्वया दृष्टः श्रुतोऽथवा ।। विश्वकर्मा कतिविधस्तं मे ब्रूहि शिशोऽधुना ।। ९८ ।। शक्रस्य वचनं श्रुत्वा प्रहस्य विप्रबालकः ।। तमुवाच श्रुतिसुखं पीयूषसदृशं वचः ।। ९९ ।। ।। ब्राह्मण उवाच ।। जानामि कश्यपं तात तव तातं प्रजापतिम् ।। मुनिं मरीचिनामानं तत्रालं च तपोनिधिम् ।। 4.47.१०० ।। नाभिपद्मोद्भवं विष्णोः स्तुत्वा तं विधिमीश्वरम् ।। रक्षितारं च तं विष्णुं परं सत्त्वगुणान्वितम् ।। १ ।। एकार्णवं च प्रलयं सत्त्वशून्यं भयानकम् ।। सृष्टिं कतिविधां शक्र कल्पं कतिविधं ध्रुवम् ।। २ ।। ब्रह्मांडं च कतिविधं ब्रह्मविष्णुमहेश्वरान् ।। ब्रह्माण्डेषु कतिविधानिन्द्रान्को गन्तुमीश्वरः ।।३।। यदि संख्याऽस्ति रेणूनां धरायां च सुराधिप ।। तथापि संख्या शक्राणां नास्त्येवेति विदुर्बुधाः ।।४।। शक्रस्यायुश्चाधिकारो युगानामेकसप्ततिः ।। अष्टाविंशतिशक्राणां पतनेऽहर्निशं विधेः ।। ५ ।। विधेरष्टोत्तरशतमायुरेव प्रमाणतः।। सुरेंद्राणां च का संख्या नास्ति संख्या विधेरपि ।। ६ ।। ब्रह्मांडसंख्या यत्र क्व ब्रह्मविष्णुमहेश्वराः ।। महाविष्णोर्लोमकूपोद्भवे तोये सुनिर्मले ।। ७।। ब्रह्मांडेऽस्ति यथा नौका भवतोये च कृत्रिमा ।। एवं लोम्नः प्रमाणेन ब्रह्मांडाः संत्यसंख्यकाः ।। ८ ।। ब्रह्मांडे च कतिविधाः सुराः संत्येव त्वत्समाः ।। एतस्मिन्नंतरे तत्र ददर्श पुरुषोत्तमः ।। ९ ।। पिपीलिकासमूहं च व्यायतं धनुषां शतम् ।। क्रमशस्तान्संनिरीक्ष्य जहासोच्चैर्द्विजार्भकः ।।4.47.११०।। नोवाच किंचिन्मौनी च गंभीरः सगणो यथा।। दृष्ट्वा हास्यं विप्रवटोर्गाथां श्रुत्वाऽतिविस्मितः ।। पप्रच्छ च पुनर्विप्रं शुष्ककंठोष्ठतालुकः ।। ११ ।। इंद्र उवाच ।। कथं हससि विप्रेंद्रं मां शीघ्रं कारणं वद ।। त्वं वा को मायया च्छन्नः शिशुरूपी गुणार्णवः ।। १२।। इंद्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः ।। आध्यात्मिकं नीतिसारं ज्ञानबीजं परं वरम् ।। १३ ।। ब्राह्मण उवाच ।। दृष्टः पिपीलिकासंघो हेतुरस्य निगूढकः ।। १४ ।। मा मां पृच्छ शोकबीजं तवान्यज्ञानकारणम् ।। सांसारिकाणां संसारवृक्षमूलनिकृंतनम् ।।१५।। अज्ञानतमसिच्छन्नं ज्ञानदीपमनुत्तमम् ।। निगूढं सर्ववेदेषु सिद्धानामपि दुर्लभम् ।। १६ ।। योगिनां प्राणतुल्यं च मूढाहंकारभंजनम् ।। इत्युक्त्वा तत्र संतस्थौ सस्मितो द्विजपुंगवः ।। पुनः पप्रच्छ शक्रस्तं शुष्ककंठोष्ठतालुकः ।। १७ ।। शक्र उवाच ।। ब्रूहि विप्रबटो शीघ्रं ज्ञानदीपं पुरातनम् ।। न जानामि शिशुः कस्त्वं ज्ञानराशिः स्वमूर्तिमान् ।। १८ ।। इंद्रस्य वचनं श्रुत्वा विप्ररूपी जनार्दनः ।। ज्ञानं भाषितुमारेभे योगींद्राणां सुदुर्लभम् ।। १९ ।। ब्राह्मण उवाच ।। सृष्टः पिपीलिकासंघ एकैकः क्रमशो मया ।। 4.47.१२० ।। सर्वे स्वकर्मणा शक्र शक्रीभूताः सुरालये ।। अधुना कर्मणा सर्वे क्रमशो भूतजन्मनाम् ।। २१ ।। अतीतकाले संप्राप्ता भूतजातिं पिपीलिकाम् ।। कर्मणा जीविनो यांति वैकुंठं च निरामयम् ।। २२ ।। कर्मणा ब्रह्मलोकं च शिवलोकं च कर्मणा ।। स्वर्गं स्वर्गसमास्थानं पातालं च स्वकर्मणा ।। २३ ।। कर्मणा नरकं घोरं स्वात्मदुःखैककारणम् ।। कर्मणा सूकरीगर्भं कर्मणा क्षुद्रजीवनम् ।। २४ ।। कर्मणा पशुपत्नीनां कर्मणा पक्षियोषिताम् ।। कर्मणा कीटयोनिं च वृक्षत्वं च स्वकर्मणा ।।२५।। स्वकर्मणा सुखी दुःखी सेव्यः सेवक एव च ।। कर्मणा ब्राह्मणत्वं च दैवं चापि स्वकर्मणा ।। २६ ।। स्वकर्मणा च प्रेतत्वं ब्रह्मत्वं च स्वकर्मणा ।। कर्मणा व्याधियुक्तश्च कर्मणेवातिसुन्दरः ।। २७ ।। कर्मणा स्वाङ्गहीनश्च स्वाङ्गवृद्धश्च कर्मणा ।। विधाता कर्मसूत्रेण फलदाता च जीविनाम् ।। २८ ।। कर्म स्वभावसाध्यं च स्वभावोऽभ्यासजीवकः ।। इत्येवं कथितं सर्वमाध्यात्मिकपरं वचः ।। २९ ।। सुखदं पुण्यदं सारं नरकार्णवतारकम् ।। संसारः स्वप्नवत्सर्वं देवेन्द्र सचराचरम्।।4.47.१३०।। मृत्युश्च मस्तकस्थायी सर्वेषां कालयोगतः ।। जलबुद्बुदवत्सर्वं जीविनां च शुभाशुभम् ।। ३१ ।। शक्र शश्वद्भ्रमत्येव नाविष्टस्तत्र पण्डितः ।। इत्येवमुक्त्वा विप्रश्च तत्र तस्थौ च सस्मितः ।। ३२ ।। विस्मितास्त्रैदशाध्यक्षो नात्मानं बहु मन्यते ।। एतस्मिन्नन्तरे शीघ्रमाजगाम मुनीश्वरः ।। ३३ ।। अतिवृद्धो महायोगी ज्ञानेन वयसा महान् ।। कृष्णाजिनी जटाधारी बिभ्रत्तिलकमुज्ज्वलम् ।।।। ३४ ।। वक्षःस्थले रोमचक्रं बिभर्ति मस्तके कटम् ।। स्थितं सर्वं मध्यदेशे किंचिदुत्पाटितं स्फुटम् ।। ३५ ।। समागत्य द्वयोर्मध्ये तस्थौ स्थाणुवदेव सः ।। महेन्द्रो ब्राह्मणं दृष्ट्वा प्रणनाम मुदाऽन्वितः ।। ३६ ।। मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ।। पप्रच्छ कुशलं विप्रं चकार विनयं पुनः ।। ३७ ।। तुष्टावातिथिभावेन मुदा सादरपूर्वकम् ।। विप्रार्भकस्तेन सार्द्धं संभाषां च चकार सः ।। स्ववाञ्छितं परं प्राह सर्वं विनयपूर्वकम् ।। ३८ ।। बालक उवाच ।। कुतस्त्वमागतो विप्र किन्नाम तव वा वद ।। को वाऽत्रागमने हेतुर्निवासः केन हेतुना ।। ३९ ।। कटं कथं मस्तके ते लोमचक्रं च वक्षसि ।। अत्युन्नतं मध्यदेशे किंचिदुत्पाटितं मुने ।।।। 4.47.१४० ।। मां चेत्कृपाऽस्ति ते विप्र सर्वं संव्यस्य कथ्यताम् ।। अत्यद्भुतमिदं सर्वं श्रोतुं कौतूहलं मम ।। ४१ ।। स शिशोर्वचनं श्रुत्वा तमुवाच महामुनिः ।। सर्वं स्वकीयवृत्तान्तं शक्रस्य पुरतो मुदा ।।४२।। मुनिरुवाच ।। अल्पायुषा मया विप्र कुत्रापि न कृता गृहाः ।। न विवाहश्चोपजीव्यं भिक्षोपजीविनाऽधुना ।। ४३ ।। लोमशेति च मन्नाम हेतुर्विप्रस्य दर्शनम् ।। वर्षणातपशान्त्यर्थं मस्तकस्थं कटं मम ।। ४४ ।। वक्षस्थलस्थितं रोमचक्रं तत्कारणं शृणु ।। सांसारिकाणां भयदं विवेकजननं परम् ।। ४५ ।। आयुःसंख्याप्रमाणं मे लोमचक्रं च वक्षसि ।। शक्रैकपतनं विप्र लोमैकोत्पाटनं मम ।। ४६।। उत्पादितानि लोमानि तेन मध्ये स्थितानि च ।। ब्रह्मणो द्विपरार्धे च मम मृत्युर्निरूपितः ।। ४७ ।। असंख्यविधयो ब्रह्मन्मरिष्यन्ति मृता अपि ।। कलत्रेण च पुत्रेण गृहेण किं प्रयोजनम् ।। ४८ ।। ब्रह्मणः पतने चक्षुर्निमेषश्च हरेर्भवेत् ।। तत्पादपद्ममतुलं चिन्तयामि निरंतरम् ।। ४९ ।। दुर्लभं श्रीहरेर्दास्यं भक्तिर्मुक्तिर्गरीयसी ।। स्वप्नवत्सर्वमैश्वर्यं तद्भक्तिव्यवधायकम् ।। 4.47.१५० ।। इदं मद्गुरुणा दत्तं शंभुना ज्ञानमुत्तमम् ।। विना भक्तिं न गृह्णामि सालोक्यादिचतुष्टयम् ।। ५१ ।। इत्येवमुक्त्वा स मुनिर्जगाम शिवसन्निधिम् ।। शिशुरूपी हरिस्तत्रैवान्तर्धानं चकार ह ।। ५२ ।। इन्द्रस्तु स्वप्नवद्दृष्ट्वा बभूव तत्र विस्मितः ।। तृष्णामात्रं च संपत्तौ नास्त्येव परमेश्वरे ।। ५३ ।। विश्वकर्माणमानीय प्रियमुक्त्वा शतक्रतुः ।। दत्त्वा रत्नानि संपूज्य तं प्रस्थापितवान्गृहम् ।। ५४ ।। सर्वं विन्यस्य पुत्रे च शरणं गन्तुमुद्यतः ।। शचीं राज्यश्रियं त्यक्त्वा विवेकी क्षयकामुकः ।। ५५ ।। दृष्ट्वा विवेकिनं कान्तं हृदयेन विदूयता ।। शची जगाम शोकार्ता संत्रस्ता शरणं गुरोः ।। ५५ ।। सर्वं निवेदनं कृत्वा समानीय बृहस्पतिम् ।। बोधयामास शक्रं तं नीतिसारेण कामिनी।।५७।। गुरोः शास्त्रविशेषं च दम्पतीरससंयुतम्।। विधाय च स्वयं प्रीत्या पाठयामास तं मुदा ।। ५८ ।। मुनिः शास्त्रविशेषं च बोधयामास वाक्पतिः ।। स चकार तदा राज्यं वृन्दावन विनोदिनि ।। ५९ ।। इत्येवं कथितं सर्वं शक्रदर्पविमोचनम् ।। साक्षाद्दृष्टो दर्पभङ्गो नन्दयज्ञे सुरेश्वरि ।। 4.47.१६० ।। इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधासंवादे सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।

nārada uvāca || atha krīḍāṃtare rādhā kiṃ papraccha hariṃ vibhum || kāṃ kathāṃ kathayāmāsa kathyatāṃ karuṇānidhe || 1 || || śrīnārāyaṇa uvāca || || utthāya sukhasaṃbhogādrādhāṃ kṛtvā puro hariḥ || uvāsa malayadroṇīṃ vaṭamūle manohare || 2 || rādhā taṃ paripapraccha sasmitaṃ sumanoharam || darpabhaṅgaḥ vajrabhṛto nigūḍhaṃ śrutisundaram || 3 || || śrīrādhikovāca || śrutaṃ yaśaḥ śūlabhṛto darpabhaṅgaśca daivataḥ || pārvatyā darpabhaṅgaśca vivāhaśca tayoraho ||4|| adhunā śrotumicchāmi darpabhaṅgaṃ harerhare || śeṣāṇāṃ ca krameṇaiva vada vyasya jagadguro || 5 || śrīkṛṣṇa uvāca || darpabhaṃgaṃ surapatestriṣu lokeṣu viśrutam || karṇapīyūṣamatulaṃ sundaraṃ śṛṇu sundari || 6 || purā śatamakho darpātkṛtvā śatamakhānmudā || babhūva sarvadevānāmadhyakṣaḥ saṃpadā yutaḥ || 7 || dinedine tadaiśvaryaṃ varddhate tapasāṃ phalāt || dīkṣāṃ taṃ kārayāmāsa siddhamannaṃ bṛhaspatiḥ ||8|| sa jajāpa mahāmantraṃ puṣkare śatavatsaram || babhūva mantrasiddhaśca paripūrṇamanorathaḥ || 9 || brahmasvarūpāṃ prakṛtiṃ saṃpanmūḍho na manyate || sā taṃ śaśāpa svaguroḥ śāpaṃ lebhe'tikopataḥ||||4.47.10|| ekadā prakṛteḥ śāpāddhatabuddhiḥ svasaṃsadi|| guruṃ dṛṣṭvā samutthāya na nanāma mudā'nvitaḥ || 11 || bṛhaspatistataḥ kopānnovāsa gṛhamāyayau || na tasthau tārakābhyāśe tapase kānanaṃ yayau || 12 || uvāca manasā dīno yātu saṃpaddhareriti || atha śakro matiṃ prāpya kva gato'to madīśvaraḥ ||13|| ityuktvā vegataḥ pīṭhājjagāma tārakāntikam|| praṇamya mātaraṃ bhaktyā nataskandhaḥ puṭāñjaliḥ |||| 14 || sarvaṃ nivedanaṃ kṛtvā rurodoccairmuhurmuhuḥ || putrasya rodanaṃ dṛṣṭvā ruroda tārakā bhṛśam || 15 || vatsa gaccha gṛhaṃ naiva guruṃ drakṣyasi sāmpratam || durdinānte guruṃ prāpya punarlakṣmīmavāpsyasi || 16|| adhunā karmaṇāṃ bhogaṃ bhuṅkṣva mūḍha durāśaya|| durdine svagurau doṣaḥ sudine paritoṣaṇam ||17|| sudinaṃ durdinaṃ śakra kāraṇaṃ sukhaduḥkhayoḥ || ityuktvā tārakā devī virarāma pativratā || 18 || jagāma śakraḥ snānārthaṃ svarṇadīṃ sumanoharām || dadarśa tatra rucirāṃ mārjantīṃ ca nitambinīm ||19|| sasmitāṃ sakaṭākṣāṃ tāmahalyāṃ gautamapriyām || dṛṣṭvā ca vipulaśroṇīṃ stanayugmaṃ manoharam ||4.47.20|| sa tasyāḥ śakraḥ saṃpaśyanmumoha kāmamohitaḥ || punaḥ sa cetanāṃ prāpya vihāya snānamīśvari || 21 || mūrtiṃ vidhāya tadbhartustatsamīpaṃ jagāma ha || gatvā tu snigdhavastrāṃ tāṃ samākṛṣya smarāturaḥ || 22|| cakāra vividhaṃ tatra śṛṃgāraṃ sumanoharam || mūrcchāṃ saṃprāpa kāmena tandrāṃ ca munikāminī ||23|| niśceṣṭā sukhasaṃbhogānniśceṣṭastridaśādhipaḥ || etasminnantare taptvā samāgatya munīśvaraḥ || 24 || dadarśa gehe mithunaṃ maithune ca ratipriye || dṛṣṭvā cukopa sa munirjvalanniva hutāśanaḥ || 25 || vijñānenātiroṣeṇa babhañja suratikṣaṇam || śakraḥ sa cetanāṃ prāpya dṛṣṭvā ca munipuṃgavam || 26 || kālasvarūpaṃ trāsena dadhāra caraṇāmbujam || koparaktāsyanayano devaṃ pādānataṃ bhiyā || uvāca nītivacanaṃ gautamaḥ śaraṇāgatam || 27 || gautama uvāca || dhik tvāmindra suraśreṣṭha kaśyapātmaja paṇḍita || 28 || prapautra jagatāṃ sraṣṭurbuddhiste kathamīdṛśī || mātāmahaḥ svayaṃ dakṣo'ditirmātā pativratā || 29 || karmasādhyaḥ svabhāvaśca kuladharmaṃ prabādhate || vedaṃ vijñāya jñānī tvaṃ yonilubdho'si karmaṇā || 4.47.30 || yonīnāṃ ca sahasraṃ ca tava gātre bhavatviha || pūrṇavarṣaṃ ca satataṃ yonigandhaṃ tvamāpnuhi || 31 || tataḥ sūryaṃ samārādhya yoniścakṣurbhaviṣyati || mama prāṇeśvarī duṣṭā yena mūḍha tvayā kṛtā || 32 || macchāpena guroḥ kopādbhraṣṭaśrīrbhava sāmpratam || gurorapekṣayā mūḍha prāṇā nāpahṛtāstava || 33 || tejasvino'tibandhorme baṃdhubhedabhiyā sura || uttiṣṭhottiṣṭha devendra gaccha vatsa svamandiram || 34|| śubhāśubhaṃ ca yatkiṃcitsarvaṃ karmodbhavaṃ bhavet || mahāmunīndravacanādgataḥ śakraśca puṣkaram |||35|| cakārārādhanaṃ bhaktyā naiṣkṛtyaṃ ca cakāra ha || pādānatāmahalyāṃ tāmuvāca munipuṃgavaḥ || 36 || vanaṃ gatvā ciraṃ tiṣṭha vidhāya mūrtimaśmanaḥ || || akāmāṃ cakame śakraḥ sarvaṃ jānāmyahaṃ priye || 37 || tathā ca parabhogyā me na bhogyā vrajādhame || paravīryaṃ yadudare kāmato'kāmato'pi vā ||38|| ahalye yāti daivena tadupāyaṃ niśāmaya || akāmato na ca duṣṭā sā prāyaścittena śuddhyati ||39|| kāmabhogena tyājyā sā karmabhogena śuddhyati || pitṛpāke daivapāke pūjāyāṃ nādhikāriṇī ||4.47.40 || ṣaṣṭivarṣasahasrāṇi kālasūtraṃ prayāti sā|| ṣaṣṭivarṣasahasrāṇi kṣayaṃ kṛtvā svakarmaṇaḥ || 41 || svāmino vacanātsā tu praṇamya svāminaṃ bhiyā || nātha nātheti kurvantī rudantī vanamāpa sā || 42 || ṣaṣṭivarṣasahasrāṇi bhuktvā bhogaṃ munipriyā || śrīrāmacaraṇasparśātsadyaḥ śuddhā babhūva ha ||43|| trailokyamohanaṃ rūpaṃ vidhāya munikāminī || jagāma gautamābhyāśaṃ muniḥ saṃprāpya sundarīm || 44 || atha śakrasya vṛttāṃtaṃ paramaṃ śṛṇu sundari || pāpaghnaṃ puṇyabījaṃ tatsaṃvyasya kathayāmi te || 45 || ekadā ca guroḥ kopātprakṛteravahelanāt || brahmahatyā vajrabhṛto babhūva hatacetasaḥ || 46 || śakrastyaktagururdaivagrasto daityanipīḍitaḥ || jagāma śaraṇaṃ bhīto brahmāṇaṃ jagatāṃ gurum |||| 47 || tadājñayā viśvarūpaṃ cakāra ca purohitam || babhūva tatra viśvasto daivādbuddhihato hariḥ || 48 || daityadauhitrasya bhāvaṃ vijñāya ca vicakṣaṇaḥ || praciccheda śirastasya tīkṣṇabāṇena līlayā || 49 || viśvarūpapitā tvaṣṭā śrutvā sadyaścukopa ha || iṃdraśatro vivarddhasvetyuktvā yajñaṃ cakāra ha || 4.47.50 || yajñakuṃḍātsamuttasthau vṛtro nāma mahāsuraḥ || cakāra nigrahaṃ kopāddevānāmavalīlayā|| 51 || śakro mahāmunerasthnāṃ vajraṃ kṛtvā sudāruṇam || jaghāna vṛtraṃ devānāṃ kaṃṭakaṃ daityamardanaḥ || 52 || brahmahatyā śunāsīraṃ dudrāva hatacetanam || raktavastraparīdhānā vṛtrastrīveṣadhāriṇī || 53 || saptatālapramāṇā sā śuṣkakaṇṭhoṣṭhatālukā || īṣāpramāṇadaśanā mahābhītaṃ cakāra tam || 94 || dhāvaṃtaṃ paridhāvaṃtī baliṣṭhā hatacetanam || khaḍgahastā dayāhīnā vegena paridhāvati || 55 || iṃdro dṛṣṭvā ca tāṃ ghorāṃ smāraṃsmāraṃ guroḥ padam || viveśa mānasasaro mṛṇālasūkṣmasūtrataḥ || 56|| tatra gaṃtuṃ na śaktā sā brahmaṇaḥ śāpakāraṇāt || sā tasthau vaṭaśākhāyāṃ sarasastaṭasannidhau || 57 || athātra nahuṣo bhūpastrilokeśo babhūva ha || sa yayāce śacīṃ devānbaliṣṭho durbalānapi || 58 || śacī śrutvā mahābhītā tārakāṃ śaraṇaṃ yayau || tārā nirbhartsya svapatiṃ bhṛtyapatnīṃ rarakṣa ca || 59 || śacīmāśvāsya svagururjagāma tatsaro mudā || ājuhāva śunāsīraṃ kātaraṃ hatacetanam || 4.47.60 || bṛhaspatiruvāca || uttiṣṭhottiṣṭha he vatsa bhayaṃ kiṃ te mayi sthite || tvadīśvaraṃ svareṇaiva niśāmaya bhayaṃ tyaja || svaraṃ bṛhaspaterjñātvā sarvasiddhīśvaro hariḥ || 61 || sūkṣmarūpaṃ parityajya svarūpaṃ ca dadhāra saḥ || utthāya sadyaḥ saṃbhrāto guruṃ taṃ sūryavarcasam ||62|| dṛṣṭvā nanāma saṃprītyā saṃprītaṃ tyaktakopakam || padāṃbuje nipatitaṃ rudaṃtaṃ bhayavihvalam || 63 || nidhāya vakṣasi premṇā ruroda premavihvalaḥ || rudaṃtaṃ vākpatiṃ tuṣṭaṃ tuṣṭāva tridaśeśvaraḥ || puṭāṃjaliḥ pulakito bhaktinamrātmakaṃdharaḥ || 64 || iṃdra uvāca || kṣamasva bhagavandoṣaṃ kṛpāṃ kuru kṛpānidhe || 65 || bhṛtyāparādhaṃ satataṃ na gṛhṇāti sadīśvaraḥ || svabhāryāsu svaśiṣyeṣu svabhṛtyeṣu suteṣu ca || 66 || durbalaḥ sabalo vā'pi ko daṃḍaṃ kartumakṣamaḥ || triṣu koṭiṣu deveṣu devako'hamapaṃḍitaḥ ||67|| tvatprasādātsuraśreṣṭha kṛpayā varddhitastvayā || saṃhartumīśastvaṃ sarvamahaṃ ko vāpi kīṭavat || 68 || svayaṃ vidhātuḥ pautraśca punaḥ sraṣṭuṃ svayaṃ kṣamaḥ || iti tasya stavaṃ śrutvā parituṣṭo guruḥ svayam || uvāca vacanaṃ prītyā prasannavadanekṣaṇaḥ || 69 || gururuvāca || sthiro bhava mahābhāga niścalāṃ kamalāṃ labha || 4.47.70 || saṃprāpya paramaiśvaryaṃ pūrvasmācca caturguṇam || gacchāmarāvatīṃ vatsa rājyaṃ kuru puraṃdara || 71 || hataśatrurmatprasādādgatvā paśya śacīṃ satīm || ityevamuktvā sa guruḥ saśiṣyo gaṃtumudyataḥ || 72 || dadarśa purato ghorāṃ brahmahatyāṃ suduḥsahām || dṛṣṭvā śakro mahābhītastaṃ guruṃ śaraṇaṃ yayau || 73 || bṛhaspatirmahābhītaḥ sasmāra madhusūdanam || etasminnaṃtare tatra vāgbabhūvāśarīriṇī || 74 || svalpākṣarā ca bahvarthā tāṃ śuśrāva bṛhaspatiḥ || saṃsāravijayaṃ nāma sarvāśubhavināśanam || 75 || rādhike vacanaṃ śrutvā śiṣyaṃ rakṣādhuneti ca|| tadā tvatkavacaṃ dattvā śiṣyāya śiṣyavatsalaḥ ||76|| cakāra bhasmasāttāṃ ca huṃkāreṇaiva līlayā || tadā śiṣyaṃ gṛhītvā ca gatvā tāmamarāvatīm ||77|| dadarśa cchinnabhagnāṃ ca śatruṇā vacanādguroḥ || bharturāgamanaṃ śrutvā śacī saṃhṛṣṭamānasā ||78|| praṇamya ca guruṃ bhaktyā svakāṃtaṃ praṇanāma sā || śrutvā''gamanamiṃdrasya samājagmuḥ surāḥ priye || ṛṣayo munayaścaiva harṣagadgadamānasāḥ ||79 || yojayāmāsa satkāraṃ nirmātumamarāvatīm || pūrṇamabdaśataṃ śilpī nirmame tvamarāvatīm|| 4.47.80 || nānāratnavicitrāḍhyāṃ maṇiratneṃdranirmitām || manoharāṃ nirupamāṃ na hi tuṣṭo yayā hariḥ ||81|| viśvakarmā gṛhaṃ gaṃtuṃ na śaśāka vinā''jñayā|| paramodvignacittaśca brahmāṇaṃ śaraṇaṃ yayau || 82 || vijñāya tadabhiprāyaṃ tamuvāca vidhiḥ svayam || tava karmakṣayādeva tāvacchvo bhaviteti ca ||83|| śrutvā tadvacanaṃ kāruḥ śīghraṃ prāpāmarāvatīm || brahmā jagāma vaikuṇṭhe praṇamyovāca mātaram ||84|| harirbrahmāṇamāśvāsya prasthāpya svagṛhaṃ ca tam || viprarūpaṃ samāsthāya cājagāmāmarāvatīm || 85 || daṇḍī chattrī śuklavāsā bibhrattilakamujjvalam || atikharvaḥ śukladaṃtaḥ sasmitaḥ sumanoharaḥ || 86 || vayasā'tiśiśurbuddhyā jñānavṛddhyā vicakṣaṇaḥ || svayaṃ vidhāturdhātā ca dātā ca sarvasaṃpadām || 87 || iṃdradvāre samuttiṣṭhandvārapālamuvāca ha || brūhīdaṃ brahmaṇo dvāre śīghraṃ tvāṃ draṣṭumāgataḥ || 88 || ityevaṃ vacanaṃ śrutvā dvāri jñānaṃ cakāra tam || sa ca śīghraṃ samāgamya dadarśa brāhmaṇārbhakam || 89 || bālakānāṃ bālikānāṃ samūhaiḥ pariveṣṭitam || hasadbhiśca mahotsāhātsasmitaṃ tejasā'nvitam || 4.47.90 || praṇanāma harirbhaktyā taṃ hariṃ śiśurūpiṇam || āśiṣaṃ yuyuje prītyā taṃ harirbhaktavatsalaḥ || 91 || madhuparkādikaṃ dattvā śakraḥ pūjāṃ cakāra tam || papracchāgamanaṃ kasmādvadeti viprabālakam || 92 || iṃdrasya vacanaṃ śrutvā tamuvāca dvijārbhakaḥ || megha gambhīrayā vācā bṛhaspatigurorguruḥ || 93 || brāhmaṇa uvāca || samāgato'haṃ tvāṃ draṣṭuṃ praṣṭuṃ vacanamīpsitam || citraṃ nagaranirmāṇaṃ samākarṇyādbhutaṃ hare || 94 || kativarṣaṃ ca nirmāṇe bhavānsaṃkalpito yathā || katicittāṃ viśvakarmā nirmāṇaṃ vā kariṣyati |||| 95 || evaṃbhūtaṃ ca nirmāṇaṃ na kenaiṃdreṇa nirmitam || naivaṃvidhaṃ sunirmāṇe viśvakarmā paraḥ kṣamaḥ ||96|| bālakasya vacaḥ śrutvā jahāsa sa sureśvaraḥ || saṃpanmadātimattaśca punaḥ papraccha bālakam || 97 || katīṃdrāṇāṃ samūhaśca tvayā dṛṣṭaḥ śruto'thavā || viśvakarmā katividhastaṃ me brūhi śiśo'dhunā || 98 || śakrasya vacanaṃ śrutvā prahasya viprabālakaḥ || tamuvāca śrutisukhaṃ pīyūṣasadṛśaṃ vacaḥ || 99 || || brāhmaṇa uvāca || jānāmi kaśyapaṃ tāta tava tātaṃ prajāpatim || muniṃ marīcināmānaṃ tatrālaṃ ca taponidhim || 4.47.100 || nābhipadmodbhavaṃ viṣṇoḥ stutvā taṃ vidhimīśvaram || rakṣitāraṃ ca taṃ viṣṇuṃ paraṃ sattvaguṇānvitam || 1 || ekārṇavaṃ ca pralayaṃ sattvaśūnyaṃ bhayānakam || sṛṣṭiṃ katividhāṃ śakra kalpaṃ katividhaṃ dhruvam || 2 || brahmāṃḍaṃ ca katividhaṃ brahmaviṣṇumaheśvarān || brahmāṇḍeṣu katividhānindrānko gantumīśvaraḥ ||3|| yadi saṃkhyā'sti reṇūnāṃ dharāyāṃ ca surādhipa || tathāpi saṃkhyā śakrāṇāṃ nāstyeveti vidurbudhāḥ ||4|| śakrasyāyuścādhikāro yugānāmekasaptatiḥ || aṣṭāviṃśatiśakrāṇāṃ patane'harniśaṃ vidheḥ || 5 || vidheraṣṭottaraśatamāyureva pramāṇataḥ|| sureṃdrāṇāṃ ca kā saṃkhyā nāsti saṃkhyā vidherapi || 6 || brahmāṃḍasaṃkhyā yatra kva brahmaviṣṇumaheśvarāḥ || mahāviṣṇorlomakūpodbhave toye sunirmale || 7|| brahmāṃḍe'sti yathā naukā bhavatoye ca kṛtrimā || evaṃ lomnaḥ pramāṇena brahmāṃḍāḥ saṃtyasaṃkhyakāḥ || 8 || brahmāṃḍe ca katividhāḥ surāḥ saṃtyeva tvatsamāḥ || etasminnaṃtare tatra dadarśa puruṣottamaḥ || 9 || pipīlikāsamūhaṃ ca vyāyataṃ dhanuṣāṃ śatam || kramaśastānsaṃnirīkṣya jahāsoccairdvijārbhakaḥ ||4.47.110|| novāca kiṃcinmaunī ca gaṃbhīraḥ sagaṇo yathā|| dṛṣṭvā hāsyaṃ vipravaṭorgāthāṃ śrutvā'tivismitaḥ || papraccha ca punarvipraṃ śuṣkakaṃṭhoṣṭhatālukaḥ || 11 || iṃdra uvāca || kathaṃ hasasi vipreṃdraṃ māṃ śīghraṃ kāraṇaṃ vada || tvaṃ vā ko māyayā cchannaḥ śiśurūpī guṇārṇavaḥ || 12|| iṃdrasya vacanaṃ śrutvā tamuvāca dvijārbhakaḥ || ādhyātmikaṃ nītisāraṃ jñānabījaṃ paraṃ varam || 13 || brāhmaṇa uvāca || dṛṣṭaḥ pipīlikāsaṃgho heturasya nigūḍhakaḥ || 14 || mā māṃ pṛccha śokabījaṃ tavānyajñānakāraṇam || sāṃsārikāṇāṃ saṃsāravṛkṣamūlanikṛṃtanam ||15|| ajñānatamasicchannaṃ jñānadīpamanuttamam || nigūḍhaṃ sarvavedeṣu siddhānāmapi durlabham || 16 || yogināṃ prāṇatulyaṃ ca mūḍhāhaṃkārabhaṃjanam || ityuktvā tatra saṃtasthau sasmito dvijapuṃgavaḥ || punaḥ papraccha śakrastaṃ śuṣkakaṃṭhoṣṭhatālukaḥ || 17 || śakra uvāca || brūhi viprabaṭo śīghraṃ jñānadīpaṃ purātanam || na jānāmi śiśuḥ kastvaṃ jñānarāśiḥ svamūrtimān || 18 || iṃdrasya vacanaṃ śrutvā viprarūpī janārdanaḥ || jñānaṃ bhāṣitumārebhe yogīṃdrāṇāṃ sudurlabham || 19 || brāhmaṇa uvāca || sṛṣṭaḥ pipīlikāsaṃgha ekaikaḥ kramaśo mayā || 4.47.120 || sarve svakarmaṇā śakra śakrībhūtāḥ surālaye || adhunā karmaṇā sarve kramaśo bhūtajanmanām || 21 || atītakāle saṃprāptā bhūtajātiṃ pipīlikām || karmaṇā jīvino yāṃti vaikuṃṭhaṃ ca nirāmayam || 22 || karmaṇā brahmalokaṃ ca śivalokaṃ ca karmaṇā || svargaṃ svargasamāsthānaṃ pātālaṃ ca svakarmaṇā || 23 || karmaṇā narakaṃ ghoraṃ svātmaduḥkhaikakāraṇam || karmaṇā sūkarīgarbhaṃ karmaṇā kṣudrajīvanam || 24 || karmaṇā paśupatnīnāṃ karmaṇā pakṣiyoṣitām || karmaṇā kīṭayoniṃ ca vṛkṣatvaṃ ca svakarmaṇā ||25|| svakarmaṇā sukhī duḥkhī sevyaḥ sevaka eva ca || karmaṇā brāhmaṇatvaṃ ca daivaṃ cāpi svakarmaṇā || 26 || svakarmaṇā ca pretatvaṃ brahmatvaṃ ca svakarmaṇā || karmaṇā vyādhiyuktaśca karmaṇevātisundaraḥ || 27 || karmaṇā svāṅgahīnaśca svāṅgavṛddhaśca karmaṇā || vidhātā karmasūtreṇa phaladātā ca jīvinām || 28 || karma svabhāvasādhyaṃ ca svabhāvo'bhyāsajīvakaḥ || ityevaṃ kathitaṃ sarvamādhyātmikaparaṃ vacaḥ || 29 || sukhadaṃ puṇyadaṃ sāraṃ narakārṇavatārakam || saṃsāraḥ svapnavatsarvaṃ devendra sacarācaram||4.47.130|| mṛtyuśca mastakasthāyī sarveṣāṃ kālayogataḥ || jalabudbudavatsarvaṃ jīvināṃ ca śubhāśubham || 31 || śakra śaśvadbhramatyeva nāviṣṭastatra paṇḍitaḥ || ityevamuktvā vipraśca tatra tasthau ca sasmitaḥ || 32 || vismitāstraidaśādhyakṣo nātmānaṃ bahu manyate || etasminnantare śīghramājagāma munīśvaraḥ || 33 || ativṛddho mahāyogī jñānena vayasā mahān || kṛṣṇājinī jaṭādhārī bibhrattilakamujjvalam |||| 34 || vakṣaḥsthale romacakraṃ bibharti mastake kaṭam || sthitaṃ sarvaṃ madhyadeśe kiṃcidutpāṭitaṃ sphuṭam || 35 || samāgatya dvayormadhye tasthau sthāṇuvadeva saḥ || mahendro brāhmaṇaṃ dṛṣṭvā praṇanāma mudā'nvitaḥ || 36 || madhuparkādikaṃ dattvā pūjayāmāsa bhaktitaḥ || papraccha kuśalaṃ vipraṃ cakāra vinayaṃ punaḥ || 37 || tuṣṭāvātithibhāvena mudā sādarapūrvakam || viprārbhakastena sārddhaṃ saṃbhāṣāṃ ca cakāra saḥ || svavāñchitaṃ paraṃ prāha sarvaṃ vinayapūrvakam || 38 || bālaka uvāca || kutastvamāgato vipra kinnāma tava vā vada || ko vā'trāgamane heturnivāsaḥ kena hetunā || 39 || kaṭaṃ kathaṃ mastake te lomacakraṃ ca vakṣasi || atyunnataṃ madhyadeśe kiṃcidutpāṭitaṃ mune |||| 4.47.140 || māṃ cetkṛpā'sti te vipra sarvaṃ saṃvyasya kathyatām || atyadbhutamidaṃ sarvaṃ śrotuṃ kautūhalaṃ mama || 41 || sa śiśorvacanaṃ śrutvā tamuvāca mahāmuniḥ || sarvaṃ svakīyavṛttāntaṃ śakrasya purato mudā ||42|| muniruvāca || alpāyuṣā mayā vipra kutrāpi na kṛtā gṛhāḥ || na vivāhaścopajīvyaṃ bhikṣopajīvinā'dhunā || 43 || lomaśeti ca mannāma heturviprasya darśanam || varṣaṇātapaśāntyarthaṃ mastakasthaṃ kaṭaṃ mama || 44 || vakṣasthalasthitaṃ romacakraṃ tatkāraṇaṃ śṛṇu || sāṃsārikāṇāṃ bhayadaṃ vivekajananaṃ param || 45 || āyuḥsaṃkhyāpramāṇaṃ me lomacakraṃ ca vakṣasi || śakraikapatanaṃ vipra lomaikotpāṭanaṃ mama || 46|| utpāditāni lomāni tena madhye sthitāni ca || brahmaṇo dviparārdhe ca mama mṛtyurnirūpitaḥ || 47 || asaṃkhyavidhayo brahmanmariṣyanti mṛtā api || kalatreṇa ca putreṇa gṛheṇa kiṃ prayojanam || 48 || brahmaṇaḥ patane cakṣurnimeṣaśca harerbhavet || tatpādapadmamatulaṃ cintayāmi niraṃtaram || 49 || durlabhaṃ śrīharerdāsyaṃ bhaktirmuktirgarīyasī || svapnavatsarvamaiśvaryaṃ tadbhaktivyavadhāyakam || 4.47.150 || idaṃ madguruṇā dattaṃ śaṃbhunā jñānamuttamam || vinā bhaktiṃ na gṛhṇāmi sālokyādicatuṣṭayam || 51 || ityevamuktvā sa munirjagāma śivasannidhim || śiśurūpī haristatraivāntardhānaṃ cakāra ha || 52 || indrastu svapnavaddṛṣṭvā babhūva tatra vismitaḥ || tṛṣṇāmātraṃ ca saṃpattau nāstyeva parameśvare || 53 || viśvakarmāṇamānīya priyamuktvā śatakratuḥ || dattvā ratnāni saṃpūjya taṃ prasthāpitavāngṛham || 54 || sarvaṃ vinyasya putre ca śaraṇaṃ gantumudyataḥ || śacīṃ rājyaśriyaṃ tyaktvā vivekī kṣayakāmukaḥ || 55 || dṛṣṭvā vivekinaṃ kāntaṃ hṛdayena vidūyatā || śacī jagāma śokārtā saṃtrastā śaraṇaṃ guroḥ || 55 || sarvaṃ nivedanaṃ kṛtvā samānīya bṛhaspatim || bodhayāmāsa śakraṃ taṃ nītisāreṇa kāminī||57|| guroḥ śāstraviśeṣaṃ ca dampatīrasasaṃyutam|| vidhāya ca svayaṃ prītyā pāṭhayāmāsa taṃ mudā || 58 || muniḥ śāstraviśeṣaṃ ca bodhayāmāsa vākpatiḥ || sa cakāra tadā rājyaṃ vṛndāvana vinodini || 59 || ityevaṃ kathitaṃ sarvaṃ śakradarpavimocanam || sākṣāddṛṣṭo darpabhaṅgo nandayajñe sureśvari || 4.47.160 || iti śrībrahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe nārāyaṇanāradasaṃvāde śrīkṛṣṇarādhāsaṃvāde saptacatvāriṃśo'dhyāyaḥ || 47 ||

English translation

Shattering of the Pride of Indra Narada said- O ocean of compassion, after the completion of the conjugal pleasures, what did Radhika ask from ^rl Krsna and which was the story told by him to her. You kindly tell me.

Narayana said- Getting free after enjoying of the conjugal pleasures, Hari and the pleasant Radha reached under the pleasant root of the banyan tree on the Malayacala and took their seats there.

Radhika then smilingly put a question to the beautiful Kr§na about the shattering of the pride of Indra which was quite secretive and was quite pleasant for the ears.

Radhika said- 0 Hari, the teacher of the universe, I have come to know the story about the glory of ^iva, the holder of trident and the shattering of his pride besides that of Parvatl, the marriage of ^iva and ParvatT. Now you tell me how the pride of Indra and others was shattered. I would like to know in detail all the stories.

Thereafter Indra went to the river MandakinI for taking a bath and he found the beautiful wife of Gautama there, who was smiling serenely with side-glances At the sight of his developed breasts and the pelvic region, Indra was infested with passion and he fainted there. On regaining consciousness, instead of taking bath, he took to the form of her husband Gautama and reached her. The passionate Indra dragged Ahalaya who was wearing a wet Sari towards himself and then enjoyed her company. At that point of time the wife of the sage felt fatigued because of passion and was fainted.

Both Indra and the wife of the preceptor were fainted after the union. In the meantime the sage Gautama arrived there.

O dear one, the sage found Indra and his wife in compromising position. The sage was enraged After knowing about the truth with the application of his divine knowledge, he was disturbed in anger. Regaining consciousness Indra found the sage in the form of the god of death and getting panicky, he fell at his lotus-like feet. Gautama whose face, eyes had grown red in anger looked at Indra who had fallen on his feet getting fearful and spoke to him the appropriate inw ^ijftnRrgi i?? 11 Gautama said- O Indra, disgrace to you. You are the son of Kasyapa, the best of the gods, who was quite intelligent and you are the great grandson of BrahmS the creator of the universe, then how could you. achieve such a nasty mind.

Disgrace to you. The one whose maternal grand father happens to be Daksa Prajapati and the mother is the chaste Aditi, how could their son be so degraded. This is quite astonishing you are the one who is well-versed in the Vedas and are quite intelligent but in your actions you are passionate for the Yoni. Therefore a hundred yonis would develop over your body and for full one year the smell of the yoni would emerge from your body. Thereafter with the adoration of SQrya the yoni would be turned into the form of the eyes. O foolish one the reason for which you have desecrated the chastity of my beloved.

Therefore with my curse and the anger of your teacher you will be deprived of all your riches. O foolish one because of your being my pupil I have not taken life out of you. O foolish one, because of the consideration of my own. teacher I am not ending your life because he happens to be quite an illustrious one and is intimately related to me. In order to avoid any misunderstanding between us I am leaving you alive. Therefore, O son Devendra, get up and go back to your house. Whatever good or bad happens, it does happen because of ones own deeds. At the advise of the great sage Indra went to the Puskara region.

Reaching there he started performing tapas with great devotion and repented immensely. At that point of time, the sage looked at Ahalaya who was rolling on his feet and said, "O beloved, Indra has made use of your body forcibly. You go to the forest and making a stone image of your own stay there. I am quite well-aware of the reality. Still because of the fact that you have been used by an other, you become degraded and you are unfit for my used. O Ahalaya, whether the women is desirous or not, in case per chance the semen of another person enters her womb then I tell you, the method of her purification.

You listen in case a women is used by anyone against her desire she never gets polluted. On the other hand she gets purified after repentance.

In case she herself indulges in the company of others She could be disowned and she could be purified after facing the result of her deeds, she cannot participate in the yajiia of gods, manes and adoration.

She falls into the kalasutra hell and remains there for sixty thousand years. Thereafter she get purified after suffering for her misdeeds.

TO ■?TTI l'!i? 11 On hearing the words of Gautama, the terrified Ahalaya bowed in reverence to the sage and said, O lord, again and again. Thus speaking, she went to the forest.

For her misdeeds after, sixty thousand years, she was purified with the touch of the feet of SrT She then attained a charming face which could attract the three, worlds and went back again to sage Gautama who owned her delightfully.

O beautiful one, now I shall tell you the best of the story of Indra which relieves one of all the sins and makes him attain merit.

Once with the anger of the teacher and moving against nature, Indra the holder of vq/ra, was deprived of intelligence and as such he earned the sin of Brahmahatyd. After having been defeated by the demons, Indra went to Brahma, the teacher of the universe.

TO froroit ifr: i ix <i 11 With the permission of Brahma he made Visvarupa as his priest and started a yajna because of evil times, having lost his wisdom, Indra believed in Visvarupa completely.

Thereafter VisvarQpa who was the maternal grand-son of the Daityas became wicked and Indra came to realise his wickedness. Therefore he cut off the head of VisvarQpa with an arrow.

Hearing about the death of his son, Tvasta the father of VisvarQpa was enraged and he went to Indra. Reaching him he said to him, "O enemy of the Indra, you go on increasing your riches."

Thus speaking he completed theyq/Vjn.

A demon named Vrtra emerged out of the fire alter established his superiority on the gods in no Brahmahatya because of the curse of Brahma could not reach there. Therefore, she was perched over a tree branch standing at the bank of lake MOnasarovara.

At that point of time king Nahusa was made the lord of the three worlds, Nahusa was quite powerful and the gods were quite weak.

Therefore after establishing himself over the thrown of Indra, Nahusa demanded that Indranl, the spouse of Indra should be made to serve him.

Thereafter Indra the destroyer of the demons, made vajra of the bone of the Dadhici and killed Vrtra who was like a thorn for the gods.

But Indra, who was not quite conscious attracted the sin of Brahmahatya. The Brahmahatyd was clad in red garments and looked like an old woman. Her height equated with seven tala trees and her throat, lips and palate had dried up her teeth resembled plough- shafts. She terrified Indra very much.

When Indra was so running away he was followed by her. Brahmahatyd was quite strong and Indra lost his senses. Her nature was quite cruel and holding a sword in her hand, she rushed towards Indra. Finding the terrific Brahmahatyd following him, he remembered the feet of his teacher and through the lotus stalk, he took to a tiny form and reached MSnasarovara.

On hearing this Sad felt terrified and she went to take refuge with goddess Tara. Tara on her part, denounced her husband very badly and than The teacher assured Sad and went to Manasarovara and started calling Indra who was panic-stricken and quite dejected.

Brhaspati said- O son, get up. Why should you be afraid when I am there, you recognise me from my voice that 1 am your teacher don't be afraid and come out.

Recognising the voice of Byhaspati, Indra the lord of all the siddhis, discarded his tiny form and to taking to his original form met his teacher who was illumining like the svm. He had been quite happy discarding all the anger. He bowed in reverence to him with devotion and falling on his feet, he started crying. Getting filled with love the teacher picked up Indra and lovingly embraced him and he himself started crying.

Finding Bjrhaspati having been fully satisfied and weeping, Indra was fully satisfied and overwhelmed. His head was bowed down in reverence and with folded hands he started praising him.

crat I iv3 o 11 Bfhaspati said- O virtuous one, be composed and receive the ever-lasting riches. O son, Indra you will receive four times more, the wealth, return to AmarSvatl and rule on the city.

By my grace all your enemies would be destroyed. You go at once and meet the chaste Indra said- O ocean of mercy, you forgive me for my sins, be compassionate on me, the noble lords do not mind about the sins of their servants.

Which one of the person would be incompetent to punish his own sons, wife, pupil and servant even if he is quite weak having no Of all the three crores of the gods, 1 am the only one who is extremely foolish, but O best of the gods, for your own pleasure, you have always sought for my glory, you will be competent enough to destroy all. Who am I like a small insect, you are yourself the grandson of Brahma are quite competent enough to create the universe. After having been so eulogised by Indra, Brhaspati his teacher was fully satisfied and expressing his pleasure through his face and eyes, he spoke to Indra lovingly.

THsr -qfwkTtr g? w>t Thus speaking, as soon as the both the teacher and the pupil were about the leave that place.

Brahmahatyd in terrific form appeared before them. Indra felt terrified and took refuge with, liis teacher. At that point of time Brhaspati feeling panicky recited the name of Madhusudana. In the meantime there was a divine voice from the sky which carried deep meaning in few words. Brhaspati heard it.

It said, "You save your pupil by giving him the Radha-fcavaca which destroys all the evils.

Thereafter, the teacher to whom the pupil was immensely dear gave to Indra, your kavaca and destroyed the Brahmahatyd with a humkdra.

Thereafter accompanied with the pupil, Brhaspati went to AmarSvatl and found that the city had been destroyed by the enemy, On hearing about the arrival of her husband, Sad was delighted. She bowed in reverence to the teacher and else her husband.

Thereafter hearing about the arrival of Indra, all the gods, the sages and the ascetics felt delighted and were overwhelmed. They all reached before Indra. Indra was entrusted with the task of rebuilding of Amaravatl to Visvakarma the best of the architects. The architect spent a hundred year in rebuilding the city of Amaravatl, it was inlaid with various types of gems, diamonds and precious stones and looked quite charming and beautiful but Indra< was not satisfied with it. On the other hand Visvakarma could not return to his abode, without his permission Therefore with a disturbed mind he went to take refuge with Realising the cause of his arrival Brahma himself said to him, ''Because of your own actions, you have been stopped here and with the destruction of those deeds you would be relieved of your assignment from this place tomorrow."

On hearing the words of Brahma, Visvakarma at once returned to Amaravatl and Brahma went to Vaikuntha. There, he bowed in reverence to his parents and told them about the difficulty of Lord Vispu assured Brahma and sent him back to his abode. He himself took to the form of a Brahmana boy and reached Amaravatl. He was holding a Dartda and Chatra. He was clad in white garments and his forehead was painted with tilakam he was dwarfish in outlook and white teeth. He wore a serene smile on his face which was quite charming He was in the form of a small boy but he possessed the divine intelligence. He himself was Brahma for Brahma and bestower of all the riches.

Reaching at the gate of the palace of Indra, he told the gate-keeper, "You inform Indra that a Brahmana boy has arrived to meet him." On hearing the words of the boy, the gate-keeper informed Indra and Indra at once met the The boy and girls surrounded him joyfully from all sides but he was smiling quite nicely and he was quite illustrious in his form. Indra bowed in reverence to Hari who had arrived in the form of a boy with great devotion. The lord on his part blessed him variously. Indra adored him, offering him madhuparka and other eatables. Thereafter he questioned the boy, "What brings you here.".

words of Indra, the Brahmana boy smiled and spoke the words which were sweet like nectar and were pleasant to listen.

On hearing the words of Indra, the Brahmana boy who happened to be like teacher Brhaspati spoke in a deep voice like the cloud.

Brahmana said- O Hari, I have come to meet you after coming to know about the construction of this astonishing city and to ask you some What is the time schedule fixed for the construction of this city or otherwise for how long Visvakarma would be engaged in the No Indra has so far resorted to this type of construction. No other Visvakarma would be competent enough to carry out such a type of On hearing the words of the boy, Indra getting arrogant because of the immense riches, laughed and enquired from the boy again.

boy how many of the Indras have you seen so far or heard about them and how many type of Visvakarmas have been heard or seen by you.

You kindly let me know in detail. On hearing the Brahmana said-1 am well-aware of your father who happens to be Prajapati Kasyapa. I also know your father who was the great ascetic and was Known by the name of Marici.

I am also well-acquainted with Brahma, the lord of the gods who emerged out of the lotus, that was bom from the navel of Visnu. I have also acquaintance with Mahavisnu who is the protector of Sattvaguna.

I am also well-aware of the deluge of the ocean at the time of dissolution which looked quite terrible and was without any creatures. O Indra definitely the universe is of various types and the kalpas are also different while the Brahmandas are innumerable. In these Mahesvaras and Indras have emerged, who can count their numbers but I am aware of all of O best of the gods even if one is able to count the particles of dust on earth in spite of that the number of Indras cannot be counted. This is the opinion of the intellectuals.

The life and sovereignty of Indra is limited to four yugas. After the fall of twenty eight Indras, a day of Brahma is counted.

Thus Brahma lives for hundred and eight years. The number of Brahmas also cannot be counted, what to speak of the numbers of Indras.

When the number of Brahmandas cannot be counted then how ^ould one count a number of Brahmas, Visnus and Siva. An the hair-pits of Mahavisnu, the position of Brahmandas in the spotless water is the same, as a boat which floats on the waters of the river. Thus as the number of hair-pits on the body of Mahavisnu are innumerable, similarly the Brahmandas are also believed to be innumerable.

oJirari 8ipt wi,i in each one of the Brahmandas, many of the gods like you reside. In the meantime Hari looked at a large number of ants was spread over the length of a thousand bows looking at them the Brahmana boy laughed aloud but did not speak out anything, keeping quiet he looked serious. Realising about the joke of the Brahmana boy and listening to his words, Indra was immensely surprised. His throat, lips and palate dried up. Thereafter he questioned the Indra said* O Brahmana boy, why are laughing; you tell me the reason for it at once.

Otherwise tell me influenced by the illusion and possessing all the virtues who are you in the form of a boy?

On hearing the words of Indra, the Brahmana boy spoke out divine knowledge which was the form of seed for everything.

Brahmana said- Are you looking at the group of the ants, the reason for the same is quite deep.

You don't ask me about the reason for your foolishness and grief This is the destroyer of the roots of the tree? of the universe, surrounded by several creatures. It is covered with the darkness of foolishness. The best of the light is available in the Vedas which is beyond the reached of the siddhas, yogis and destroys the arrogance of the people.

Thus speaking the boy who kept on smiling became mum. Than Indra whose throat, lips and palate had dried up again said to the boys.

Indra said-''0 Brahmana boy you enlighten me about the ancient light of the knowledge. You are the ocean of knowledge and are illustrious one.

Who are you in the form of a boy, I am unable to know about you.** On hearing the words of Indra the boy who was else than Janardana himself, imparted the divine knowledge to Indra which was beyond the reached of even the great yogis.

Brahmana said- O Indra, I have created the entire group of the ants, one by one, all these ants had been established, on a throne of Indra one by one. All of them after having been bom in various yugas have currently been bom as ants.

The people achieved Vaikuntha by means of their actions and by means their karmas alone they achiever Brahmaloka and Sivaloka.

By means of their own karmas they achieve the heaven and the nether-world which is also like heaven. By means of actions, they fall into the hell.

With the same actions, the people are bom from the womb of a pig and by the same actions they are bom as degraded ones. By actions alone one achieves the womb of animals, the birds, the insects, besides the trees and becomes a lord or a By actions alone one is bom as a Brahmana and a god or the position of Brahma.

By ones' own action, one is mounted in a palanquin and with the same process, one becomes a great king. By actions alone one achieves the ailment or the beauty.

By actions alone one is bom without limbs or deformed or with excess of limbs, with the actions alone Brahma provides reward for the The actions are performed by nature and by practice. Thus I have narrated to you everything divine which bestows pleasures, merit and is the form of iattva besides relieving one of the ocean of hell. O Devendra, the entire universe irrespective of the moveable and immovable creatures is perishable.

TRggHgigt ehM4lMd:i In this universe with the combination of time, the death hovers around the head of everyone.

Everything of the creatures irrespective of good and bad are like the water bubbles. O Indra, the intellectuals always roam about in this world but never get attracted towards anyone. Thus speaking the Brahmana boy kept on sitting there.

On hearing this Indra was immensely surprised; he stopped thinking so much of himself. In the meantime a great sage arrived there and was quite old was a great yogi and was immensely filled with knowledge. He was clad in black deer skin, had the matted lock of hair on the head, had applied bright tilakam on the forehead. He had a cakra of hair on the chest and carried a mat on his head. All his hair of the body was intact accept that a few of the hair had been pulled out. He came and stood in between the BrShmana boy and Indra like a log of wood.

Finding the Brahmapa there, Indra bowed in reverence to him and with his mind filled with devotion, offered him madhuparka, adoring him at the same time. Thereafter he meekly asked the BrShmana about his welfare and pleased him with his delightful welcome. Thereafter the Brahmana boy talked to him meekly to express him the feeling of his mind.

etagdiq i The boy said- "O Brahmana, where firom have you arrive? What is your name and the purpose of your arrival here? Where do you live? Why are you carrying a mat over your head? O sage what does the cakra of hair on your chest represent? It is quite vast but in the middle of it some hair has been pulled out? O Brahman, in base you will be graceful to me than you tell me in detail. I am getting anxious to know about this TT ^ wggm-qfigf?; I On hearing the words of the boy, the great sage revealed before Indra delightfully, his story.

siFnguT tRT fer ^ tj?t:i The sage said- O Brahmana, my life is going to end shortly. Therefore, I have not built up any house anywhere. I am not married nor I have arranged for my living. Now a days, I live on charities of others.

My name is Lomasa, I have arrived here to have an audience with the Brahmana. I have placed the mat on my head, in order to protect myself from the rain and the sun-shine.

The circle of hair over my chest has a reason behind it, which would be fearful for the people of the universe but enlightens the intellectuals.

This cakra of my chest is indicative of my age. O Brilhmana with the fall of an Indra a hair from my chest is pulled out.

Similarly many of the hair from the cakra have been pulled out. In spite of that, many of them still remain, with the completion of the second half of Brahma's life, my death has been Innumerable Brahmas have met with their end and would also die in future, I am the least concerned, with the men and women or a houses.

RajalaksmI, he became desirous of the reduction of his fate.

On the other hand, IndrSij! found that her husband was expressing his pain of the heart and had taken the shelter of intelligence, she was upset with grief and getting afraid went to the teacher to take refuge with him.

She narrated the entire story and brought him to her abode. She somehow enlightened Indra on The sage Brhaspati taught them the scriptures on the love for the couples which was himself composed by him.

Brhaspati communicated the gist of the scriptures quite carefully to Indra. O cowherdess of Vfndavana, thereafter Indra started ruling as O great goddess now I have narrated to you the about the shattering of the pride of Indra you have yourself witnessed the waves in which the pride of Indra was shattered in the yajna of

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 401548 (2024-03-30T11:50:15Z); Shanti Lal Nagar English scan pages n1235–n1247: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1235/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.