Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 43
Sourceनारायण उवाच ।। अथ दुर्गां महादेवस्सतीमूर्तिं मनोहराम् ।। अम्लानपद्मवक्त्रां तां शयानां जाह्नवीतटे ।। १ ।। दधतीमक्षमालां च प्रतप्तकाञ्चनप्रभाम् ।। तेजसा प्रज्वलन्तीं च दधानां शुक्लवाससम् ।। २ ।। दृष्ट्वा सतीशरीरं च प्रदग्धो विरहाग्निना ।। तत्त्वराशिर्मूर्तिमांश्च मूर्च्छां प्राप तथापि च ।। ३ ।। कलत्रशोको बलवान्स्वात्मारामं परात्परम् ।। बाधते वेदबीजं तं योगीन्द्राणां गुरोर्गुरुम् ।। ४ ।। क्षणेन चेतनां प्राप्य तामुवाच त्रिलोचनः ।। निरीक्ष्य वदनाम्भोजं स्थाणुः स्थाणुरिवापरः ।। ५ ।। साश्रुनेत्रोऽतिदीनश्च दीनानां शरणप्रदः ।। दीनदैन्यापहारी च विललाप परं वचः ।। ६ ।। शंकर उवाच ।। उत्तिष्ठोत्तिष्ठ सुभगे सति प्राणेश्वरि प्रिये ।। शङ्करोऽहं तव स्वामी पश्य मां निकटागतम् ।। ७ ।। शिवं शिवप्रदं सर्वसंपद्रूपं च सिद्धिदम् ।। सर्वात्मानं च सर्वेशं शवतुल्यं त्वया विना ।। ८ ।। शक्तोऽहं च त्वया सार्द्धं सर्वशक्तिस्वरूपया ।। शक्तिहीनः शवसमो निश्चेष्टः सर्वकर्मसु ।। ९ ।। यश्च शक्तिं न जानाति ज्ञानहीनश्च निन्दति ।। तं त्यक्तुमुचितं विज्ञे कथं मां त्यजसि प्रिये ।। 4.43.१० ।। स्वयं ब्रह्मा स्वयं विष्णुः साध्यभूता वयं तव ।। सस्मितं सकटाक्षं च वद किंचित्सुधोपमम् ।। ११ ।। मधुराभासदृष्ट्या च मां दग्धं सेचनं कुरु ।। मां दृष्ट्वा दूरतः शीघ्रं स्निग्धं वदसि सस्मितम् ।। १२ ।। कथमद्यापि रुष्टेव विलपन्तं न भाषसे ।। प्राणाधिके समुत्तिष्ठ रुदंतं मां न पश्यसि ।। १३ ।। परित्यज्य च नः प्राणान्गन्तुं नार्हसि सुन्दरि ।। जगदम्बे समुत्तिष्ठ प्राणाधारे परात्परे ।। १४ ।। पतिव्रते समुत्तिष्ठ कथं मां नाद्य सेवसे ।। कथं करोषि विज्ञाय व्रतभङ्गं श्रुतिप्रसूः ।। १५ ।। इत्युक्त्वा मृतदेहं च प्रियाया विरहातुरः ।। निधायोरसि संश्लिष्य चुचुम्ब च पुनःपुनः ।। १६ ।। अधरे चाधरं दत्त्वा वक्षो वक्षसि शङ्करः ।। पुनःपुनः समाश्लिष्य पुनर्मूर्च्छामवाप सः ।। १७ ।। पुनः स चेतनां प्राप्य वेगादुत्थाय शोकतः ।। दुद्राव च यथोन्मत्तो ज्ञानिनां च गुरोर्गुरुः ।। १८ ।। सप्तद्वीपसप्तसिन्धुं लोकालोकं च काञ्चनम् ।। बभ्राम भ्रान्तवज्ज्ञानी सतीं कृत्वा स्ववक्षसि ।। १९ ।। शतशृङ्गगिरेः पार्श्वे जम्बुद्वीपे च भारते।। सुनिर्जनेऽक्षयवटे गङ्गातीरे सरित्तटे ।। 4.43.२० ।। रुरोदोच्चैः स्वयं कृत्वा सति साध्वीत्युदीर्य च ।। त्रिनेत्रनेत्रनीरेण संबभूव सरोवरम् ।। २१ ।। तन्नेत्रं च सरो नाम मुनीनां तपसः स्थलम् ।। योजनद्वयविस्तीर्णं पुण्यतीर्थं मनोहरम् ।। २२ ।। यत्र स्नात्वा पुनर्जन्म नराणां न भवेद्गिरे ।। शतजन्मकृतं पापं स्नानमात्रेण नश्यति ।। २३ ।। त्यक्त्वा तां मानवीं मूर्तिं नरा यान्ति हरेः पदम् ।। स तत्र रोदनं त्यक्त्वा पुनर्बभ्राम मेदिनीम् ।। २४ ।। पूर्णमब्दं महायोगी विरहातुरमानसः ।। सतीगलितप्रत्यङ्गैरंगैश्च पर्वतेश्वर ।। २५ ।। बभूव सिद्धपीठानां समूहो वाञ्छितप्रदः ।। शेषाङ्गानां महादेवः संस्कारं वै विधाय च ।।२६।। अस्थिमालां विनिर्माय चकार कण्ठभूषणम् ।। नित्यं तद्भस्म भक्त्या च चकार गात्रलेपनम्।।२७।। सति प्राणेश्वरीत्युक्त्वा पुनर्मूर्च्छामवाप सः ।। विसस्मार ब्रह्म परमात्मानमात्मसंभवः ।।२८।। स्वात्मारामः पूर्णकामो निश्चेष्टो विरहज्वरात् ।। तं शयानं गिरिवरस्याभ्याशे वटमूलके ।।२९।। दृष्ट्वा देवाः समाजग्मुर्विस्मिताः शिवसन्निधिम् ।। नारायणश्च भगवानीश्वरः सह पार्षदैः ।।4.43.३०।। रत्नयानेनाजगाम पद्मार्चितपदाम्बुजः।। रत्नालंकार शोभाढ्यः पीतवासाश्चतुर्भुजः ।। ३१ ।। ईषद्धास्यप्रसन्नास्यो वनमालाविभूषितः ।। ब्रह्मा शेषश्च धर्मश्च सुराः सर्वे महर्षयः ।। ३२ ।। समूषुरीशसदसि लक्ष्मीकान्त प्रणम्य ते ।। श्रीहरिः शङ्करमहो कृत्वा वक्षसि मूर्च्छितम् ।। रुदन्तं बोधयामास ज्ञानीशो ज्ञानिनां गुरुम् ।। ३३ ।। श्रीभगवानुवाच ।। स्वात्माराम निबोधेदं मदीयं वचनं शृणु ।। ३४ ।। हितमध्यात्मसारं च दुःखशोकनिकृन्तनम् ।। सर्वाध्यात्मविद्यमानबीजं ज्ञाननिधिं विधिम् ।। ३५ ।। तथापि बोधयामि त्वां सर्वज्ञं वेधसो विधिम् ।। बुधं बोधयितुं शक्तोऽबुधोऽपि प्राणसंकटे ।। ३६ ।। व्यवहारोऽस्ति लोकेषु सर्वः सर्वपरस्परम् ।। मायाश्रिता गुणाः सर्वे हेतवः सुखदुःखयोः ।।. ।। ३७ ।। विष्णुमाया बलवती गुणयुक्तं प्रबाधते ।। दुःखं शोकं भयं शंभो दुर्दिने भवतीश्वर ।। ३८ ।। तत्रातीते कुतस्तानि सुदिने च समागते ।। हर्ष ऐश्वर्यदर्पश्च संततं तत्र वर्द्धते ।। ३९ ।। सर्वाण्येतानि गण्यन्ते स्वप्नानीव विपश्चितः ।। ज्ञानं लभ महादेव ज्ञानबीज सनातन ।। 4.43.४० ।। चेतनां कुरु भद्रं ते सतीं प्राप्स्यसि निश्चितम् ।। तत्तोयं शीतता नित्यं नाग्निं मुञ्चति दाहिका ।। ४१ ।। तेजः सूर्यं महीं गन्धो तथा त्वां च सती शिव ।। शैलेत्येवं समाकर्ण्य हरिं किंचिदुवाच ह ।। ४२ ।। नेत्राण्युन्मीलनं कृत्वा त्रिनेत्रः श्रूयतामिति ।। त्रिनेत्र उवाच ।। कस्त्वं तेजःस्वरूपोऽसि क इमे तव सन्निधौ ।। ४३ ।। किन्नाम भवतश्चैषां कानि नामानि का सती ।। कोऽहं को मे भवान्ब्रूते किंकराः कुत आगताः ।। ४४ ।। क्व यास्यसि क्व यास्यामि क्व गच्छन्त इमे वद।। हरिरित्येवमाकर्ण्य रुरोद सगणो गिरे ।। ४५ ।। नेत्रनीरैस्त्रिनेत्रं तं रुदन्तं प्रसिषेच सः ।। हरित्रिनेत्रयोर्नेत्रनीरपातेन तत्र वै ।।४६।। बभूव सरसां श्रेष्ठं तीर्थं भुवनपावनम् ।। भारतेऽस्तगिरेः पश्चात्तत्राक्षयवटांतिके ।। ४७ ।। स्थलं बभूव तपसां मुक्तिबीजं तपस्विनाम् ।। अथोवाच पुनः शीघ्रमाध्यात्मं च हरं हरिः ।। ४८ ।। शृण्वतां सर्वदेवानां मुनीनामूर्ध्वरेतसाम् ।। श्रीभगवानुवाच ।। शृणु शंकर वक्ष्यामि ज्ञानानंद सनातन ।।४९।। ज्ञानं ज्ञाननिधे शोकाद्विस्मृतोऽसि परात्पर ।। सुदिनं दुर्दिनं शश्वद्भवत्येव भवे भवे ।। 4.43.५० ।। सर्वेषां प्राकृतानां च ते बीजे सुखदुःखयोः।। सुखाद्भवति हर्षश्च दर्पः शौर्यप्रमत्तता ।। ५१ ।। राग ऐश्वर्यकामश्च विद्वेषश्च निरन्तरम् ।। दुःखाच्छोकात्समुद्वेगाद्भयं नित्यं प्रवर्तते ।। ५२।। हतान्येतानि सर्वाणि हते बीजे महेश्वर ।। सुदिनं दुर्दिनं चैव सर्वकर्मोद्भवं भव ।। ५३ ।। तत्कर्म तपसा साध्यं कर्मणा च शुभाशुभम् ।। तपः स्वभावसाध्यं च स्वभावोऽभ्यासतो भवेत्।।५४।। संसर्गसाध्यो ऽध्यासश्च संसर्गः पुण्यतो भवेत्।। पुण्यबीजं मनश्चैव पापबीजं च चंचलम् ।। ९५ ।। मनः शंभो ममांशश्च सर्वेंद्रियपुरःसरम्।। सर्वेषां जनकोऽहं च चित्त्वं ब्रह्मा पतिस्त्वयम् ।। ५६ ।। ब्रह्रैकं मूर्तिभेदस्तु गुणभेदेन संततम् ।। तद्ब्रह्म विविधं वस्तु सगुणं निर्गुणं शिव ।। ५७ ।। मायाश्रितो यः सगुणो मायाऽतीतश्च निर्गुणः ।। स्वेच्छामयश्च भगवानिच्छया विकरोति च।। ५८ ।। इच्छाशक्तिश्च प्रकृतिर्नित्या सर्वप्रसूः सदा ।। केचिदेकं वदंत्येव ब्रह्मज्योतिः सनातनम् ।। ५९।। केचिद्वदन्ति द्विविधं ब्रह्म प्रकृतिपूर्वकम् ।। शृणु ये च वदन्त्येकं मायापुरुषयोः परम् ।।4.43.६०।। तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम् ।। अथ चैकं परं ब्रह्म द्विविधं भवतीच्छया ।। ।। ६१ ।। इच्छाशक्तिश्च प्रकृतिः सर्वशक्तिप्रसूः .सदा ।। तत्राशक्तश्च सगुणः सर्वाधारः सनातनः ।। ६२ ।। सर्वेश्वरः सर्वसाक्षी सर्वत्रास्ति फलप्रदः ।। शरीरं द्विविधं शंभो नित्यं प्राकृतमेव च ।। ६३ ।। नित्यं विनाशरहितं नश्वरं प्राकृतं सदा ।। अहं त्वं चापि भगवान्नावयोर्नित्यविग्रहः ।। ६४ ।। आवयोरंशभूता ये प्राकृता नष्टविग्रहाः ।। रुद्रादयस्त्वदंशाश्च मदंशा विष्णुरूपिणः ।। ६५ ।। ममाप्येवं द्विधा रूपं द्विभुजं च चतुर्भुजम्।। चतुर्भुजोऽहं वैकुण्ठे पद्मया पार्षदैः सह ।। ६६ ।। गोलोके द्विभुजोऽहं च गोपीभिः सह राधया ।। द्विविधं ये वदन्त्येवं द्वौ प्रधानौ तु तन्मते।। ६७ ।। पुरुषश्च सदा नित्यो नित्या प्रकृतिरीश्वरी ।। सदा तौ द्वौ च संश्लिष्टौ सर्वेषां पितरौ शिव ।। ६८ ।। सशरीरौ निःशरीरौ स्वेच्छया सर्वरूपिणौ ।। प्राधान्यं च यथा पुंसः प्रकृतेश्च सदा तथा ।। ६९ ।। सतीमिच्छसि चेच्छम्भो प्रकृतेः स्तवनं कुरु ।। यत्स्तोत्रं च त्वया दत्तं पुरा दुर्वाससे मुदा ।। 4.43.७० ।। तद्दिव्यं कण्वशाखोक्तं भज तेन जगत्प्रसूम् ।। शोकनाशो भवतु ते शिवं शिव ममाशिषा ।। ७१ ।। दूरं विप्लवहेतुश्च यातु स्त्रीविरहज्वरः ।। इत्येवमुक्त्वा लक्ष्मीशो विरराम गिरीश्वरम् ।।७२।। स्तवनं कर्तुमारेभे प्रकृतेश्च महेश्वरः ।। स्नात्वा नत्वा च श्रीकृष्णं ब्रह्माणं भक्तिसंयुतः।। पुटाञ्जलियुतो भूत्वा पुलकाञ्चितविग्रहः ।। ७३ ।। महेश्वर उवाच ।। ओं नमः प्रकृत्यै मन्त्रः ।। ब्राह्मि ब्रह्मस्वरूपे त्वं मां प्रसीद सनातनि ।। परमात्मस्वरूपे च परमानन्दरूपिणि ।। ७४ ।। भद्रे भद्रप्रदे दुर्गे दुर्गघ्ने दुर्गनाशिनि ।। पोतस्वरूपे जीर्णे त्वं मां प्रसीद भवार्णवे ।। ।। ७९ ।। सर्वस्वरूपे सर्वेशि सर्वबीजस्वरूपिणि ।। सर्वाधारे सर्वविद्ये मां प्रसीद जयप्रदे ।। ७६ ।। सर्वमङ्गलरूपे च सर्वमङ्गलदायिनि ।। समस्तमङ्गलाधारे प्रसीद सर्वमङ्गले ।। ७७ ।। निद्रे तन्द्रे क्षमे श्रद्धे तुष्टिपुष्टिस्वरूपिणि ।। लज्जे मेधे बुद्धिरूपे प्रसीद भक्तवत्सले ।। ७८ ।। वेदस्वरूपे वेदानां कारणे वेददायिनि ।। सर्ववेदाङ्गरूपे च वेदमातः प्रसीद मे ।। ७९ ।। दये जये महामाये प्रसीद जगदम्बिके ।। क्षान्ते शान्ते च सर्वान्ते क्षुत्पिपासास्वरूपिणि ।। 4.43.८० ।। लक्ष्मीर्नारायणक्रोडे स्रष्टुर्वक्षसि भारति ।। मम क्रोडे महामाये विष्णुमाये प्रसीद मे ।। ८१ ।। कलाकाष्ठास्वरूपे च दिवारात्रिस्वरूपिणि ।। परिणामप्रदे देवि प्रसीद दीनवत्सले ।। ८२ ।। कारणे सर्वशक्तीनां कृष्णस्योरसि राधिके ।। कृष्णप्राणाधिके भद्रे प्रसीद कृष्णपूजिते ।। ८३ ।। यशःस्वरूपे यशसां कारणे च यशःप्रदे ।। सर्वदेवीस्वरूपे च नारीरूपविधायिनि ।। ८४ ।। समस्तकामिनीरूपे कलांशेन प्रसीद मे ।। सर्वसंपत्स्वरूपे च सर्वसंपत्प्रदे शुभे ।। ८५ ।। प्रसीद परमानन्दे कारणे सर्वसंपदाम् ।। यशस्विनां पूजिते च प्रसीद यशसां निधे ।। ८६ ।। आधारे सर्वजगतां रत्नाधारे वसुन्धरे ।। चराचरस्वरूपे च प्रसीद मम मा चिरम् । ८७ ।। योगस्वरूपे योगीशे योगदे योगकारणे ।। योगाधिष्ठात्रि देवीशे प्रसीद सिद्धयोगिनि ।। ८८ ।। सर्वसिद्धिस्वरूपे च सर्वसिद्धिप्रदायिनि ।। कारणे सर्व सिद्धीनां सिद्धेश्वरि प्रसीद मे ।।८९ ।। व्याख्यानं सर्वशास्त्राणां मतभेदे महेश्वरि ।। ज्ञाने यदुक्तं तत्सर्वं क्षमस्व परमेश्वरि ।। 4.43.९० ।। केचिद्वदन्ति प्रकृतेः प्राधान्यं पुरुषस्य च ।। केचित्तत्र मतद्वैधे व्याख्याभेदं विदुर्बुधाः ।। ९१ ।। महाविष्णोर्नाभिदेशे स्थितं तं कमलोद्भवम् ।। मधुकैटभौ महादैत्यौ लीलया हंतुमुद्यतौ ।। ९२ ।। दृष्ट्वा स्तुतिं प्रकुर्वन्तं ब्रह्माणं रक्षितुं पुरा ।। बोधयामास गोविन्दं विनाशहेतवे तयोः ।। ९३ ।। नारायणस्त्वद्भक्त्या च जघान तौ महासुरौ ।। सर्वेश्वरस्त्वया सार्द्धमनीशोऽयं त्वया विना ।। ९४ ।। पुरा त्रिपुरसंग्रामे गगनात्पतिते मयि ।। त्वया च विष्णुना सार्द्धं रक्षितोऽहं सुरेश्वरि ।।९५।। अधुना रक्ष मामीशे प्रदग्धं विरहाग्निना।। स्वात्मदर्शनपुण्येन क्रीणीहि परमेश्वरि।।९६।। इत्युक्त्वा विरतः शंभुर्ददर्श गगनस्थिताम् ।। रत्नसाररथस्थां तां देवीं शतभुजां मुदा ।। ९७ ।। तप्तकाञ्चनवर्णाभां रत्नाभरणभूषिताम् ।। ईषद्धास्यप्रसन्नास्यां जगतां मातरं सतीम् ।। ९८ ।। दृष्ट्वा तां विरहासक्तः पुनस्तुष्टाव सत्वरम् ।। दुःखं निवेदयामास प्ररुदन्विरहोद्भवम् ।। ९९ ।। दर्शयामासास्थिमालां स्वांगस्थं भस्मभूषणम् ।। कृत्वा बहु परीहारं तोषयामास सुंदरीम् ।। 4.43.१०० ।। नारायणश्च ब्रह्मा च धर्मः शेषः सुरर्षयः ।। शिवं रक्षेश्वरीत्युक्त्वा तुष्टुवुस्ते सनातनीम् ।१।। बभूव परितुष्टा सा तेषां स्तोत्रेण तत्क्षणम् ।। उवाच कृपया शंभुं प्राणेशं प्राणवल्लभा ।। २ ।। प्रकृतिरुवाच ।। स्थिरो भव महादेव प्राणाधिक मम प्रभो ।। भवानात्मा च योगीशः स्वामी जन्मनि जन्मनि।।३।। अहं शैलेन्द्रकामिन्यां लब्ध्वा जन्म महेश्वर ।। तव पत्नी भविष्यामि मुञ्च त्वं विरहज्वरम् ।।४।। इत्युक्त्वा शिवमाश्वास्य चांतर्धानं चकार सा ।। सुरा जग्मुस्तमाश्वास्य लज्जानम्रात्मकन्धरम् ।। ५ ।। हर्षान्तरात्मा गिरिशः कैलासं तु जगाम ह ।। ननर्त सगणस्तूर्णं संत्यज्य विरहज्वरम् ।। ६।। इदं शिवकृतं स्तोत्रं प्रकृत्या यः पठेन्नरः ।। न भवेत्कामिनीभेदस्तस्य जन्मनि जन्मनि ।। ७ ।। इहलोके सुखं भुक्त्वा स याति शिवमन्दिरम् ।। धर्मार्थकाममोक्षांश्च लभते नात्र संशयः ।। १०८ ।। इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शंकरशोकापनो दनं नाम त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।
nārāyaṇa uvāca || atha durgāṃ mahādevassatīmūrtiṃ manoharām || amlānapadmavaktrāṃ tāṃ śayānāṃ jāhnavītaṭe || 1 || dadhatīmakṣamālāṃ ca prataptakāñcanaprabhām || tejasā prajvalantīṃ ca dadhānāṃ śuklavāsasam || 2 || dṛṣṭvā satīśarīraṃ ca pradagdho virahāgninā || tattvarāśirmūrtimāṃśca mūrcchāṃ prāpa tathāpi ca || 3 || kalatraśoko balavānsvātmārāmaṃ parātparam || bādhate vedabījaṃ taṃ yogīndrāṇāṃ gurorgurum || 4 || kṣaṇena cetanāṃ prāpya tāmuvāca trilocanaḥ || nirīkṣya vadanāmbhojaṃ sthāṇuḥ sthāṇurivāparaḥ || 5 || sāśrunetro'tidīnaśca dīnānāṃ śaraṇapradaḥ || dīnadainyāpahārī ca vilalāpa paraṃ vacaḥ || 6 || śaṃkara uvāca || uttiṣṭhottiṣṭha subhage sati prāṇeśvari priye || śaṅkaro'haṃ tava svāmī paśya māṃ nikaṭāgatam || 7 || śivaṃ śivapradaṃ sarvasaṃpadrūpaṃ ca siddhidam || sarvātmānaṃ ca sarveśaṃ śavatulyaṃ tvayā vinā || 8 || śakto'haṃ ca tvayā sārddhaṃ sarvaśaktisvarūpayā || śaktihīnaḥ śavasamo niśceṣṭaḥ sarvakarmasu || 9 || yaśca śaktiṃ na jānāti jñānahīnaśca nindati || taṃ tyaktumucitaṃ vijñe kathaṃ māṃ tyajasi priye || 4.43.10 || svayaṃ brahmā svayaṃ viṣṇuḥ sādhyabhūtā vayaṃ tava || sasmitaṃ sakaṭākṣaṃ ca vada kiṃcitsudhopamam || 11 || madhurābhāsadṛṣṭyā ca māṃ dagdhaṃ secanaṃ kuru || māṃ dṛṣṭvā dūrataḥ śīghraṃ snigdhaṃ vadasi sasmitam || 12 || kathamadyāpi ruṣṭeva vilapantaṃ na bhāṣase || prāṇādhike samuttiṣṭha rudaṃtaṃ māṃ na paśyasi || 13 || parityajya ca naḥ prāṇāngantuṃ nārhasi sundari || jagadambe samuttiṣṭha prāṇādhāre parātpare || 14 || pativrate samuttiṣṭha kathaṃ māṃ nādya sevase || kathaṃ karoṣi vijñāya vratabhaṅgaṃ śrutiprasūḥ || 15 || ityuktvā mṛtadehaṃ ca priyāyā virahāturaḥ || nidhāyorasi saṃśliṣya cucumba ca punaḥpunaḥ || 16 || adhare cādharaṃ dattvā vakṣo vakṣasi śaṅkaraḥ || punaḥpunaḥ samāśliṣya punarmūrcchāmavāpa saḥ || 17 || punaḥ sa cetanāṃ prāpya vegādutthāya śokataḥ || dudrāva ca yathonmatto jñānināṃ ca gurorguruḥ || 18 || saptadvīpasaptasindhuṃ lokālokaṃ ca kāñcanam || babhrāma bhrāntavajjñānī satīṃ kṛtvā svavakṣasi || 19 || śataśṛṅgagireḥ pārśve jambudvīpe ca bhārate|| sunirjane'kṣayavaṭe gaṅgātīre sarittaṭe || 4.43.20 || rurodoccaiḥ svayaṃ kṛtvā sati sādhvītyudīrya ca || trinetranetranīreṇa saṃbabhūva sarovaram || 21 || tannetraṃ ca saro nāma munīnāṃ tapasaḥ sthalam || yojanadvayavistīrṇaṃ puṇyatīrthaṃ manoharam || 22 || yatra snātvā punarjanma narāṇāṃ na bhavedgire || śatajanmakṛtaṃ pāpaṃ snānamātreṇa naśyati || 23 || tyaktvā tāṃ mānavīṃ mūrtiṃ narā yānti hareḥ padam || sa tatra rodanaṃ tyaktvā punarbabhrāma medinīm || 24 || pūrṇamabdaṃ mahāyogī virahāturamānasaḥ || satīgalitapratyaṅgairaṃgaiśca parvateśvara || 25 || babhūva siddhapīṭhānāṃ samūho vāñchitapradaḥ || śeṣāṅgānāṃ mahādevaḥ saṃskāraṃ vai vidhāya ca ||26|| asthimālāṃ vinirmāya cakāra kaṇṭhabhūṣaṇam || nityaṃ tadbhasma bhaktyā ca cakāra gātralepanam||27|| sati prāṇeśvarītyuktvā punarmūrcchāmavāpa saḥ || visasmāra brahma paramātmānamātmasaṃbhavaḥ ||28|| svātmārāmaḥ pūrṇakāmo niśceṣṭo virahajvarāt || taṃ śayānaṃ girivarasyābhyāśe vaṭamūlake ||29|| dṛṣṭvā devāḥ samājagmurvismitāḥ śivasannidhim || nārāyaṇaśca bhagavānīśvaraḥ saha pārṣadaiḥ ||4.43.30|| ratnayānenājagāma padmārcitapadāmbujaḥ|| ratnālaṃkāra śobhāḍhyaḥ pītavāsāścaturbhujaḥ || 31 || īṣaddhāsyaprasannāsyo vanamālāvibhūṣitaḥ || brahmā śeṣaśca dharmaśca surāḥ sarve maharṣayaḥ || 32 || samūṣurīśasadasi lakṣmīkānta praṇamya te || śrīhariḥ śaṅkaramaho kṛtvā vakṣasi mūrcchitam || rudantaṃ bodhayāmāsa jñānīśo jñānināṃ gurum || 33 || śrībhagavānuvāca || svātmārāma nibodhedaṃ madīyaṃ vacanaṃ śṛṇu || 34 || hitamadhyātmasāraṃ ca duḥkhaśokanikṛntanam || sarvādhyātmavidyamānabījaṃ jñānanidhiṃ vidhim || 35 || tathāpi bodhayāmi tvāṃ sarvajñaṃ vedhaso vidhim || budhaṃ bodhayituṃ śakto'budho'pi prāṇasaṃkaṭe || 36 || vyavahāro'sti lokeṣu sarvaḥ sarvaparasparam || māyāśritā guṇāḥ sarve hetavaḥ sukhaduḥkhayoḥ ||. || 37 || viṣṇumāyā balavatī guṇayuktaṃ prabādhate || duḥkhaṃ śokaṃ bhayaṃ śaṃbho durdine bhavatīśvara || 38 || tatrātīte kutastāni sudine ca samāgate || harṣa aiśvaryadarpaśca saṃtataṃ tatra varddhate || 39 || sarvāṇyetāni gaṇyante svapnānīva vipaścitaḥ || jñānaṃ labha mahādeva jñānabīja sanātana || 4.43.40 || cetanāṃ kuru bhadraṃ te satīṃ prāpsyasi niścitam || tattoyaṃ śītatā nityaṃ nāgniṃ muñcati dāhikā || 41 || tejaḥ sūryaṃ mahīṃ gandho tathā tvāṃ ca satī śiva || śailetyevaṃ samākarṇya hariṃ kiṃciduvāca ha || 42 || netrāṇyunmīlanaṃ kṛtvā trinetraḥ śrūyatāmiti || trinetra uvāca || kastvaṃ tejaḥsvarūpo'si ka ime tava sannidhau || 43 || kinnāma bhavataścaiṣāṃ kāni nāmāni kā satī || ko'haṃ ko me bhavānbrūte kiṃkarāḥ kuta āgatāḥ || 44 || kva yāsyasi kva yāsyāmi kva gacchanta ime vada|| harirityevamākarṇya ruroda sagaṇo gire || 45 || netranīraistrinetraṃ taṃ rudantaṃ prasiṣeca saḥ || haritrinetrayornetranīrapātena tatra vai ||46|| babhūva sarasāṃ śreṣṭhaṃ tīrthaṃ bhuvanapāvanam || bhārate'stagireḥ paścāttatrākṣayavaṭāṃtike || 47 || sthalaṃ babhūva tapasāṃ muktibījaṃ tapasvinām || athovāca punaḥ śīghramādhyātmaṃ ca haraṃ hariḥ || 48 || śṛṇvatāṃ sarvadevānāṃ munīnāmūrdhvaretasām || śrībhagavānuvāca || śṛṇu śaṃkara vakṣyāmi jñānānaṃda sanātana ||49|| jñānaṃ jñānanidhe śokādvismṛto'si parātpara || sudinaṃ durdinaṃ śaśvadbhavatyeva bhave bhave || 4.43.50 || sarveṣāṃ prākṛtānāṃ ca te bīje sukhaduḥkhayoḥ|| sukhādbhavati harṣaśca darpaḥ śauryapramattatā || 51 || rāga aiśvaryakāmaśca vidveṣaśca nirantaram || duḥkhācchokātsamudvegādbhayaṃ nityaṃ pravartate || 52|| hatānyetāni sarvāṇi hate bīje maheśvara || sudinaṃ durdinaṃ caiva sarvakarmodbhavaṃ bhava || 53 || tatkarma tapasā sādhyaṃ karmaṇā ca śubhāśubham || tapaḥ svabhāvasādhyaṃ ca svabhāvo'bhyāsato bhavet||54|| saṃsargasādhyo 'dhyāsaśca saṃsargaḥ puṇyato bhavet|| puṇyabījaṃ manaścaiva pāpabījaṃ ca caṃcalam || 95 || manaḥ śaṃbho mamāṃśaśca sarveṃdriyapuraḥsaram|| sarveṣāṃ janako'haṃ ca cittvaṃ brahmā patistvayam || 56 || brahraikaṃ mūrtibhedastu guṇabhedena saṃtatam || tadbrahma vividhaṃ vastu saguṇaṃ nirguṇaṃ śiva || 57 || māyāśrito yaḥ saguṇo māyā'tītaśca nirguṇaḥ || svecchāmayaśca bhagavānicchayā vikaroti ca|| 58 || icchāśaktiśca prakṛtirnityā sarvaprasūḥ sadā || kecidekaṃ vadaṃtyeva brahmajyotiḥ sanātanam || 59|| kecidvadanti dvividhaṃ brahma prakṛtipūrvakam || śṛṇu ye ca vadantyekaṃ māyāpuruṣayoḥ param ||4.43.60|| tasmādbhavati tau dvau ca tadbrahma sarvakāraṇam || atha caikaṃ paraṃ brahma dvividhaṃ bhavatīcchayā || || 61 || icchāśaktiśca prakṛtiḥ sarvaśaktiprasūḥ .sadā || tatrāśaktaśca saguṇaḥ sarvādhāraḥ sanātanaḥ || 62 || sarveśvaraḥ sarvasākṣī sarvatrāsti phalapradaḥ || śarīraṃ dvividhaṃ śaṃbho nityaṃ prākṛtameva ca || 63 || nityaṃ vināśarahitaṃ naśvaraṃ prākṛtaṃ sadā || ahaṃ tvaṃ cāpi bhagavānnāvayornityavigrahaḥ || 64 || āvayoraṃśabhūtā ye prākṛtā naṣṭavigrahāḥ || rudrādayastvadaṃśāśca madaṃśā viṣṇurūpiṇaḥ || 65 || mamāpyevaṃ dvidhā rūpaṃ dvibhujaṃ ca caturbhujam|| caturbhujo'haṃ vaikuṇṭhe padmayā pārṣadaiḥ saha || 66 || goloke dvibhujo'haṃ ca gopībhiḥ saha rādhayā || dvividhaṃ ye vadantyevaṃ dvau pradhānau tu tanmate|| 67 || puruṣaśca sadā nityo nityā prakṛtirīśvarī || sadā tau dvau ca saṃśliṣṭau sarveṣāṃ pitarau śiva || 68 || saśarīrau niḥśarīrau svecchayā sarvarūpiṇau || prādhānyaṃ ca yathā puṃsaḥ prakṛteśca sadā tathā || 69 || satīmicchasi cecchambho prakṛteḥ stavanaṃ kuru || yatstotraṃ ca tvayā dattaṃ purā durvāsase mudā || 4.43.70 || taddivyaṃ kaṇvaśākhoktaṃ bhaja tena jagatprasūm || śokanāśo bhavatu te śivaṃ śiva mamāśiṣā || 71 || dūraṃ viplavahetuśca yātu strīvirahajvaraḥ || ityevamuktvā lakṣmīśo virarāma girīśvaram ||72|| stavanaṃ kartumārebhe prakṛteśca maheśvaraḥ || snātvā natvā ca śrīkṛṣṇaṃ brahmāṇaṃ bhaktisaṃyutaḥ|| puṭāñjaliyuto bhūtvā pulakāñcitavigrahaḥ || 73 || maheśvara uvāca || oṃ namaḥ prakṛtyai mantraḥ || brāhmi brahmasvarūpe tvaṃ māṃ prasīda sanātani || paramātmasvarūpe ca paramānandarūpiṇi || 74 || bhadre bhadraprade durge durgaghne durganāśini || potasvarūpe jīrṇe tvaṃ māṃ prasīda bhavārṇave || || 79 || sarvasvarūpe sarveśi sarvabījasvarūpiṇi || sarvādhāre sarvavidye māṃ prasīda jayaprade || 76 || sarvamaṅgalarūpe ca sarvamaṅgaladāyini || samastamaṅgalādhāre prasīda sarvamaṅgale || 77 || nidre tandre kṣame śraddhe tuṣṭipuṣṭisvarūpiṇi || lajje medhe buddhirūpe prasīda bhaktavatsale || 78 || vedasvarūpe vedānāṃ kāraṇe vedadāyini || sarvavedāṅgarūpe ca vedamātaḥ prasīda me || 79 || daye jaye mahāmāye prasīda jagadambike || kṣānte śānte ca sarvānte kṣutpipāsāsvarūpiṇi || 4.43.80 || lakṣmīrnārāyaṇakroḍe sraṣṭurvakṣasi bhārati || mama kroḍe mahāmāye viṣṇumāye prasīda me || 81 || kalākāṣṭhāsvarūpe ca divārātrisvarūpiṇi || pariṇāmaprade devi prasīda dīnavatsale || 82 || kāraṇe sarvaśaktīnāṃ kṛṣṇasyorasi rādhike || kṛṣṇaprāṇādhike bhadre prasīda kṛṣṇapūjite || 83 || yaśaḥsvarūpe yaśasāṃ kāraṇe ca yaśaḥprade || sarvadevīsvarūpe ca nārīrūpavidhāyini || 84 || samastakāminīrūpe kalāṃśena prasīda me || sarvasaṃpatsvarūpe ca sarvasaṃpatprade śubhe || 85 || prasīda paramānande kāraṇe sarvasaṃpadām || yaśasvināṃ pūjite ca prasīda yaśasāṃ nidhe || 86 || ādhāre sarvajagatāṃ ratnādhāre vasundhare || carācarasvarūpe ca prasīda mama mā ciram | 87 || yogasvarūpe yogīśe yogade yogakāraṇe || yogādhiṣṭhātri devīśe prasīda siddhayogini || 88 || sarvasiddhisvarūpe ca sarvasiddhipradāyini || kāraṇe sarva siddhīnāṃ siddheśvari prasīda me ||89 || vyākhyānaṃ sarvaśāstrāṇāṃ matabhede maheśvari || jñāne yaduktaṃ tatsarvaṃ kṣamasva parameśvari || 4.43.90 || kecidvadanti prakṛteḥ prādhānyaṃ puruṣasya ca || kecittatra matadvaidhe vyākhyābhedaṃ vidurbudhāḥ || 91 || mahāviṣṇornābhideśe sthitaṃ taṃ kamalodbhavam || madhukaiṭabhau mahādaityau līlayā haṃtumudyatau || 92 || dṛṣṭvā stutiṃ prakurvantaṃ brahmāṇaṃ rakṣituṃ purā || bodhayāmāsa govindaṃ vināśahetave tayoḥ || 93 || nārāyaṇastvadbhaktyā ca jaghāna tau mahāsurau || sarveśvarastvayā sārddhamanīśo'yaṃ tvayā vinā || 94 || purā tripurasaṃgrāme gaganātpatite mayi || tvayā ca viṣṇunā sārddhaṃ rakṣito'haṃ sureśvari ||95|| adhunā rakṣa māmīśe pradagdhaṃ virahāgninā|| svātmadarśanapuṇyena krīṇīhi parameśvari||96|| ityuktvā virataḥ śaṃbhurdadarśa gaganasthitām || ratnasārarathasthāṃ tāṃ devīṃ śatabhujāṃ mudā || 97 || taptakāñcanavarṇābhāṃ ratnābharaṇabhūṣitām || īṣaddhāsyaprasannāsyāṃ jagatāṃ mātaraṃ satīm || 98 || dṛṣṭvā tāṃ virahāsaktaḥ punastuṣṭāva satvaram || duḥkhaṃ nivedayāmāsa prarudanvirahodbhavam || 99 || darśayāmāsāsthimālāṃ svāṃgasthaṃ bhasmabhūṣaṇam || kṛtvā bahu parīhāraṃ toṣayāmāsa suṃdarīm || 4.43.100 || nārāyaṇaśca brahmā ca dharmaḥ śeṣaḥ surarṣayaḥ || śivaṃ rakṣeśvarītyuktvā tuṣṭuvuste sanātanīm |1|| babhūva parituṣṭā sā teṣāṃ stotreṇa tatkṣaṇam || uvāca kṛpayā śaṃbhuṃ prāṇeśaṃ prāṇavallabhā || 2 || prakṛtiruvāca || sthiro bhava mahādeva prāṇādhika mama prabho || bhavānātmā ca yogīśaḥ svāmī janmani janmani||3|| ahaṃ śailendrakāminyāṃ labdhvā janma maheśvara || tava patnī bhaviṣyāmi muñca tvaṃ virahajvaram ||4|| ityuktvā śivamāśvāsya cāṃtardhānaṃ cakāra sā || surā jagmustamāśvāsya lajjānamrātmakandharam || 5 || harṣāntarātmā giriśaḥ kailāsaṃ tu jagāma ha || nanarta sagaṇastūrṇaṃ saṃtyajya virahajvaram || 6|| idaṃ śivakṛtaṃ stotraṃ prakṛtyā yaḥ paṭhennaraḥ || na bhavetkāminībhedastasya janmani janmani || 7 || ihaloke sukhaṃ bhuktvā sa yāti śivamandiram || dharmārthakāmamokṣāṃśca labhate nātra saṃśayaḥ || 108 || iti śrībrahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe nārāyaṇanāradasaṃvāde śaṃkaraśokāpano danaṃ nāma tricatvāriṃśo'dhyāyaḥ || 43 ||
English translation
Siva Relieved of the Grief NarSyana said- on looking at the body of Parvatl Mahadeva which looked as sleeping, the lustre of whose face was still illumining and had not faded out. She was clad in white garment, holding a rosary in her hand, was illumining with the divine lustre and the charming rays of her body which looked like the molten gold were spreading everywhere. At the sight of the image Siva's mind started burning with separation.
Though he happened to be well-versed in all the tattvas, still he fainted and fell down on the who had been valorous, felt painful with the separation of his wife. He is the one who always roams about is the best among the best, the seed of the Vedas, the teacher of the yogic practices, he also felt painful with the death of After regaining consciousness, immovable Siva looked like the fallen trunk of the tree.
Looking at the lotus-like face of Sati he spoke.
At that point of time his eyes were filled with tears. Though he happens to be the refuge of down-trodden and removes the miseries of the miserable people, still his condition became miserable and he started lamenting.
said- O beautiful one, O chaste lady of my life, get up I happen to be Siva, your husband. You look at me since I have come to Though I possess the form of welfare, bestow welfare and the form of all the riches, bestow success, the soul all and the lord of all but in spite of that I happen to be like a dead body without you.
You possess all the prowess, I become competent only when you are with me. Without you I loose my sakti and become still in all the O dear, you possess the special knowledge, the one who is not aware of the importance of sakti, such a person devoid of knowledge and denounce her. It is not proper for you to leave me. But why are you disowning me?.
Myself Brahma and Visnu adore you always.
Now you speak smilingly nectar-like words You supply water to the like the rain water who has been burnt out by your separation, you always smiled at me looking from a distance and talked to me lovingly, why are you so much annoyed with me and are not talking to me when I am so lamenting. O lady of my life, get up why don't you look at me.
O beautiful one it is not proper for you to leave me after death like this. O best lady of my life you are beyond everyone, O mother of the universe, get up. O chaste damsel, why don't you serve me today? You are the mother of the Vedas. What is all this being done by you breaking the vratal.
irnror 1^fT?TgT:i Thus speaking Siva infested with the separation of Satl, lifted up the body of his beloved and embraced her, kissing at again and again. He placed his lips over her lips and the chest over her breasts. Thus he embraced her again and again while lamenting.
After regaining consciousness, he got up with force infatuated with grief. Inspire of his being the teacher of the intellectuals, he started wandering like an intoxicated person. Carrying the body of Satl, he wandered in the seven islands, seven oceans various countries and mountains. He started wandering in the fallacy.
While so wandering he went at Satasrhgagiri in Bharata in JambudvTpa, Aksayavata, in the deserted land on the bank of Gahga.
He started crying, ”0 Satl, O chaste women".
Thus crying he started shouting loudly. At that point of time the tears flowing from the eyes of Siva were turned into a lake which was given the name of Netrasara. In due course of time it became the place for performing tapas by the sages. This auspicious and holy place was spread over an area of two yojanas. O mountain, while taking a bath in that sacred place, the humans do not have to be reborn. Having a dip into that water all the sins of the people disappear, qq-q RqRT gq^rq I?-ij 11 Discarding the human body, the people achieve the place of Vispu. Then stopping crying he again started wandering on the earth.
arfMqTiHr fqPiqt'U qqjir qqr3qqtrTq;i fqR q^vPT qqqq q qqnq qrq^qqgi i V911 Siva the great yogi was badly infested with separation and for a full one year he kept on wandering. O king of the mountains, wherever the limbs from the body of Satl fell the place was known Siddhapltha. Thereafter, ^iva cremating the remaining parts of the body of Satl, prepared a garland of her bones and wore it around his neck. The ashes of the body of Satl were applied by Siva on his body.
ctly'itimM ifiiTlvrt?Tfnt^I3ni[ii^?ii Then reciting the name of Sat! the lady of his life, Siva again fainted. The one who was always roaming in his own soul, even forgot Brahman.
Thus the one who fulfilled the desires of others became lifeless with the grief of the separation of Satl and was seated under the banyan tree. He was lying there unconsciousness and finding him in that condition, all the gods were surprised. All of them than went to Siva Lord Narayana also accompanied with his attendants reached at the place. His feet were adorned by Kamala with the ornaments of gems. He was wearing a pitdmbara had four arms, wore a smile on his face, was delightful and adorned with long garland of forest flowers. Dharma accompanied by gods and the sages arrived there and bowed in reverence to the lord of Laksm!, All of them were seated in an assembly there. Thereafter lord Hari took Siva in his lap, who happen to be the teacher of the intellectuals and was crying. He than started consoling him.
The lord said- O lord, you are the one who roams about in his own soul, you listen to my words which are beneficial, divine, essence of the Vedas and destroy the grief.
Though you yourself happen to be the seed of the divine knowledge, possess supreme knowledge, are all knowledgeable and happen to be the creator of the creators, still I am imparting you the divine knowledge. When the life is in danger, even and unwise parson can render advise to a learned person. This is the tradition that the people try to convince one and other at appropriate time. All the virtues are controlled by Mays which result into the pleasure and the pain for the humans. Therefore the powerful illusion of Visnu causes more pain to the virtuous person.
fcRarfr w 3TRTn^i I? d 11 O Sambhu, 0 Isvara, during the bad times one has to face pain, grief and fear. When the bad time is over and the good time arrives everything could be achieved. During that time the pleasure and fortunes go on increasing. Therefore the intellectuals considered it to be like a dream.
O Mahadeva, you receive the knowledge. You are the seed of the knowledge and are eternal.
Regain your consciousness. You will meet with welfare. You will surely get back Satl.
O Siva as the coolness never leaves the waters the power of burning never leaves the fire, the lustre never leaves the sun, the fragrance never leaves the earth, similarly Satl cannot be separated from you. O mountain, on hearing this opened his eyes and looking at Hari he spoke. Whatever he spoke to him, you listen from me.
Siva said- O form of lustre, who are you? Who are all the people surrounding you? What is Satl?
Who am I? Who are you all talking with me where are these attendants going? You please tell aratgpg gr: vflvmsgrw ft ift:i O mountain, on hearing this Hari started robbing with his attendants. He made Siva to bathe with his tears. With the combination of the tears of ^iva and N§rayana, a pleasant lake was formed which was known by the name of Bhuvanapavana-Tirtha. It is located in the land of Bharata, beyond the Astacala-mountain, close to the Aksayata tree which is a sacred place and provides salvation to the ascetics for performing tapas there. Thereafter Hari spoke in the presence of the gods and the chaste sages to Siva, the words which were quite divine in nature.
The lord said- O Siva you are knowledgeable and blissful beside being eternal. You listen to me whatever I speak. O ocean of knowledge, you and the one who is beyond everything, you have forgotten the divine knowledge and are infested in grief. The good and bad days come and go during every one is life, they happen to be the cause of pleasure and pain for the people. One gets delighted with his pleasure and arrogance, prowess and pride, love and the desire for possession, jealousy, always appear on earth.
One gets only feels because of the pain, grief and O Mahesvara, with the destruction of the seed all these get automatically destroyed. O ^iva the good days and bad days are achieved because of the past deeds.
The actions are successful by tapas and one gets the good and bad reward because of his own actions. The tapas can be attained by nature and the nature is the result of the constant practice.
gu g g tt i T g q ry^ g urogig g gogcrgiiqqii The practice is achieved by noble company and while coming across with noble people, one achieves the merits. The unstable mind is the cause of merit or the sin. O Sambhu, the mind as well as all the organ of senses or my arhsas, you are the creator of all and you happen to be the supreme knov/ledge and Brahma is the lord of intelligence. The eternal Brahman and the great soul are one. Because of the difference in qualities, they achieved different forms. The Brahmatattva happens to be the one but appears in various forms, O Siva, it is with qualities and without qualities as well.
The one who takes shelter under the illusion is called Saguna and the one who is devoid of illusion is called Nirguna. The lord always moves at will he appears of his own will in various form.
His will-power is given the name of Prakrti which is eternal and is the creator of all. All the people describe the eternal Brahman in the form of lustre, but some other intellectuals taking him to be associated with Prakrti call him Dvividha.
Those who call him one, you listen to their argument. Brahma, Maya and Jivatama is beyond both. Both of them (M^ya and Jivatama) emerged from the Brahman. Therefore Brahman happens to be the cause of all, the same Brahman in spite of his being one, by his own will is divided into two. His will power is described as Prakrti who happens to be the mother of all the s'aktis. Because of the combination of all, the same great soul is described as Saguna. Indeed it happens to be the foundation of all, being eternal, the lord of all, the witness of ail and the one who bestows the reward to all. O Sambhu, the body also is of two types, one is eternal and other is JfTfirfT I The eternal body never perishes but the body is perishable. O lord, the bodies of both of us are eternal. Such of the creatures who are our amsa5 or bom out of the Trigundtmikd Prakrti and therefore they are called Prakrta. The
Prakrta body is always perishable. Rudra and all other happen to be your arhsas and those who are in the form of Visnu happen to be my arhsa.
I have two forms one having two arms and other having four arms. In my four-aimed form I live in Vaikuntha with Laksml and other courtiers. In my two-armed form I am known by the name of Krsna and reside in Goloka together with the cowherdesses and Radha. Such of the people who consider Brahma Dvividha, there are two main tattvas according to their opinion which include eternal Purusa and eternal Prakri) Isvarl. O Siv?, both of them are united togcthjr and they happen to be the parents of all.
Both of them take to definite form or remain formless according to their will, both of them have the form of all. As the Purusa has the eternal importance, similarly the Prakrti also enjoys the same position O Siva, if you intend to achieve Sati then adore Prakrti, In the earlier times, W'hatever stotra you had delightfully given to Durvasa, it is indeed divine and has been described in the Kanvasakha. You adore the mother of the universe with that stotra. O Siva with my blessings you will get rid of the grief.
Your welfare would increase and you will be deprived of the ocean of the grief caused by the separation of your wife from you very soon. O king of the mountains, thus speaking lord Visnu, the husband of Kamala, kept quiet and lord Siva started adoring Prakrti at the same time. He took his bath and with his mind filled with devotion and overwhelmed he bowed in reverence to Krs na and Brahma.
Mahesvara said-1 bow in reverence to Prakrti.
O Brahmi, you are the from of Brahman and are eternal, be pleased with me. You are the form of great soul and extremely blissful. O Durga, you are the form of welfare, provide welfare and are the destroyer of the demons Durga, besides removing all the dangers. You happen to be the boat for crossing the ocean of the universe. Be pleased with me.
O form of all, the goddess of all, the form of all the seeds, the foundation of all, the knowledge of all and bestower of victory be pleased with me.
O Sarvamahgala, you are the form of welfare, bestow welfare and are the base of all the welfares, be pleased with me. O grace of the devotees, you are sleep drowsiness, you are forgiveness, faith, satisfaction, the preserver, shyness, illustrious and the form of intelligence, be places with me. You are the creator of the Vedas, the form of Vedas, the cause of the Vedas, bestower of the Vedas and the form of all the Vedic literature, be pleased with me.
O mother of the universe, you are merciful, victory, Mahamaya, patience, peace, the destroyer of all and the form of hunger and thirst.
You be pleased with me. O Illusion of Visnu, you are LaksmI in the lap of Narayana, Bharat!
with Brahma and Mahamaya in my lap. Be pleased with me.
O lover of the down-trodden, you are the form of all the directions day and night and bestow the reward for the deeds performed by people, you be happy with me. You are the cause of all the saktiSy you are Radha in the heart of Sri Krsna and dearer to him than his own life. You are adored by Krsna. O virtuous one, be pleased with You are the form of glory, the cause of glory, bestower of glory and the form of all the goddesses. You created the form of women and with your rays you take to the form of damsels.
Be pleased with me. You are the form of all the treasures, bestower of all the riches, quite auspicious, extremely blissful and bestower of all the riches and also are the cause for the same.
You are adored by all the women you are the treasure of all the glories, be happy with me.
You are the base of the entire earth and the diamonds, known as Vasundhara. You have the form of moveable and immovable. You be pleased with me without delay.
O Siddhayoginly you are the form of yoga, the goddess of yoga, the bestower of yoga, the cause of all the yoga and the great goddess of yoga besides being the great goddess of all the goddesses. By pleased with me.
O Siddhesvari, you are the form of all success, bestow success, you are the cause of all the success, be happy with me.
O Mahesvarl, you happen to be the commentary of all the religious scriptures. You are ParmesvarT in the form of knowledge. In case I have spoken anything undesirable, I beg to be forgiven to the same.
Some people consider Prakrti to be the biggest force and some of them describe Purusa to be like that. Some of the intellectuals consider that the two theory emerged from the difference in the descriptive details.
In the earlier times Brahma who was seated on the lotus which had emerged out of the navel of Visnu and the demon named Madhu and Kait abha got ready to kill him. At that point of time Brahma adored you seeking protection from the demon and in order to save Brahma you woke up Narayana from his sleep.
Thereafter, Narayana with the help of your sakti killed both the demons. With your co¬ operation he is known as the lord of all and without you he feels helpless.
O greet goddess, protect me.
O Isvarl presently I am burning in the f o:■ separation from you. You protcci me. O ParmesvarT you purchase me by paying the price of appearing before me.
After thus speaking Siva kept quiet. He than looked towards the sky and found the goddess Prakrti present there. She was mounted on a chariot of gems, having hundred arms, with a delightful face, having the lustre of the molten gold, adorned with the gem-studded ornaments wearing a serene smile on the delightful face.
She was mother of the universe in the form of Sati. Siva who was suffering because of the separation again started offering prayer to her while sobbing and spoke to her the about pain of his separation.
He displayed the garland of bones worn by him and also the ashes applied by him on his body and satisfied the beautiinl Satl.
At that point of time Narayana, Dharma, Brahma, Sesa, the gods and the sages spoke, ”0 IsvarT protect ^iva”. Thus speaking they offered prayer to the goddess.
With the reciting of the stotra, by all of them, she was at once pleased and she spoke to ^iva who was dearer to her than her life.
Prakfti said- O Mahadeva, you keep patience.
O lord you are dearer to me than my life. O Yogisvara, you are my soul and my lord in every birth. O Mahesvara, I would be bom from the womb of Mena the wife of Himalaya the king of the mountains and shall become your wife.
Therefore you shed away the grief of my Thus speaking assuring Siva, the goddess disappeared. Thereafter, the gods bowing in shame before Siva assured him variously and left for their respective abodes.
than left for the Kailasa mountain and freeing himself from the flames of separation, he started dancing with his gaifos.
Whosoever recites this stotra of Prakrti, composed by Siva, would never have to face separation from his wife in any birth.
After enjoying all the worldly pleasures during the present life he would achieve the abode of Siva and enjoys dharma, artha, kdma and moksa, there is no doubt about it.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 125490 (2017-10-08T03:09:39Z); Shanti Lal Nagar English scan pages n1208–n1216: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1208/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.