Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 42
Sourceवसिष्ठ उवाच ।। अथानरण्यस्य कन्या सिषेवे भक्तितो मुनिम् ।। कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ।। १ ।। एकदा स्वर्णदीं स्नातुं गच्छंतीं सस्मितां सतीम् ।। ददर्श पथि धर्मश्च मायया नृपलिंगकः ।। २ ।। चारुरत्नरथस्थश्च रत्नालंकारभूषितः ।। नवीनयौवनश्रीमान्कामदेवसमप्रभः ।।३।। दृष्ट्वा तां सुन्दरीं रम्यामुवाच मायया विभुः ।। विज्ञातुमन्तस्तत्त्वं च तस्याश्च मुनियोषितः ।। ४ ।। धर्म उवाच ।। अयि सुन्दरि लक्ष्मीव राजयोग्ये मनोहरे ।। अतीव यौवनस्थे च कामिनि स्थिरयौवने।।५।। जरातुरस्य वृद्धस्य समीपे त्वं न राजसे ।। चन्दनागुरुसंलिप्ता राजसे राजवक्षसि।।६।। विप्रं तपःसु निरतं सत्यज्ञं मरणोन्मुखम्।। विहाय पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ।।७।। प्राप्नोति सुन्दरं पुण्यात्सौन्दर्यं पूर्वजन्मतः ।। सफलं तद्भवेत्सर्वं रसिकालिंगनेन च ।। ८ ।। सहस्रसुन्दरीकान्तं कामशास्त्र विशारदम् ।। किंकरं कुरु मां कान्ते परित्यक्ष्यामि ता अपि ।।९।। निर्जले निर्जने रम्ये शैलेशैले नदेनदे ।। पुष्पोद्याने पुष्पिते च सुगन्धिपुष्पवायुना ।।4.42.१०।। मलये चन्दनारण्ये चारुचन्दनवायुना ।। विहरिष्यामि कामेन कामिन्या च त्वया सह।।११।। कामज्वरेण दग्धायाः शांतिं कर्तुमहं क्षमः ।। विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु ।।१२।। इत्येवमुक्तवंतं तं स्वरथादवरुह्य च ।। ग्रहीतुमुत्सुकं हस्तं तमुवाच पतिव्रता ।। १३ ।। पद्मोवाच ।। दूरं गच्छ गच्छ दूरं पापिष्ठ भूमिपाधम ।। मां चेत्पश्यसि कामेन सद्यो भस्म भविष्यसि ।। १४ ।। पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम्।। विहाय त्वां भजिष्यामि स्त्रीजितं रतिलंपटम् ।।१५।। स्त्रीजितस्पर्शमात्रेण सर्वपुण्यं प्रणश्यति ।। न भूमौ पातकी पापात्पापिनां स्त्रीजितात्परः ।। १६ ।। मां मातरं च स्त्रीभावं कृत्वा येन ब्रवीषि च ।। भविष्यति क्षयस्तेन कालेन मम शापतः ।। १७ ।। श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च ।। धृत्वा स्वमूर्तिं देवेशः कंपमान उवाच ताम् ।। १८ ।। धर्म उवाच ।। मातर्जानीहि मां धर्मं धर्मज्ञानां गुरोर्गुरुम् ।। परस्त्रीमातृबुद्धिं च कुर्वन्तं संततं सति ।। १९ ।। अहं तवांतर्विज्ञातुमागतस्तव सन्निधिम् ।। युष्माकं च मनो जाने तथापि दैवबोधितः ।। 4.42.२० ।। कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ।। शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ।। २१ ।। धर्मं स्वधर्मं विज्ञातुं कालं कलयितुं क्षमः ।। विधातारं संविधातुं तस्मै कृष्णाय ते नमः ।।२२।। संहर्तुं यः क्षमः काले संहर्तारं भवं विभुः ।। स्रष्टारं लीलया स्रष्टुं तस्मै कृष्णाय ते नमः ।। २३ ।। शत्रुं विधातुं मित्रं च सुप्रीतिं कलहं क्षमः ।। स्रष्टुं नष्टम् तदेवं च तस्मै कृष्णाय ते नमः ।। २४ ।। शापं प्रदातुं सर्वाश्च सुखदुःखवरान्क्षमः ।। संपदं विपदं यो हि तस्मै कृष्णाय ते नमः ।। २५ ।। प्रकृतिर्निर्मिता येन महाविष्णुश्च निर्मितः ।। ब्रह्मविष्णुमहेशाद्यास्तस्मै कृष्णाय ते नमः ।। २६ ।। येन शुक्लीकृतं क्षीरं जलं शीतं कृतं पुरा ।। दाहीकृतो हुताशश्च तस्मै कृष्णाय ते नमः ।। २७ ।। अतितेजः समुत्थाय तेजोरूपाय मूर्त्तये ।। गुणश्रेष्ठनिर्गुणाय तस्मै कृष्णाय ते नमः ।।२८।। सर्वस्मै सर्वबीजाय सर्वेषामन्तरात्मने।। सर्वबंधुस्वरूपाय तस्मै कृष्णाय ते नमः ।। २९ ।। इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ।। सा साध्वी तं च विज्ञाय सहसोवाच पर्वत ।। 4.42.३० ।। पद्मोवाच ।। त्वमेव धर्मः सर्वेषां साक्षी च सर्वकर्मणाम् ।। सर्वांतरेषु सर्वात्मा सर्वज्ञः सर्वतत्त्ववित् ।। ३१ ।। कथं मनो मे विज्ञातुं विडंबयसि किंकरीम् ।। यत्कृतं त्वत्कृते ब्रह्मन्नपराधो बभूव मे ।।३२।। त्वं च शप्तो मयाऽज्ञानात्स्त्रीस्वभावात्क्रुधा विभो ।। का व्यवस्था भवेत्तस्य चिन्तयामीति सांप्रतम् ।। ३३ ।। आकाशोऽसौ दिशः सर्वा यदि नश्यन्ति वायवः ।। तथापि साध्वीशापस्तु न नश्यति कदाचन ।। ३४ ।। त्वं च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा ।। इति कर्तव्यतामूढा तथापि त्वां वदाम्यहम् ।। ३५ ।। सत्ये पूर्णश्चतुष्पादैः पौर्णमास्यां यथा शशी ।। विराजसे देवराज सर्वकालं दिवानिशम् ।। ३६ ।। पादक्षयश्च त्रेतायां भगवन्भविता तव ।। पादौ परौ द्वापरे च तृतीयश्च कलौ विभो ।। ३७ ।। कलिशेषे शेषपादस्तवाच्छन्नो भविष्यति ।। पुनः सत्ये समायाते परिपूर्णो भविष्यसि ।। ३८ ।। सत्ये सर्वव्यापकस्त्वं तदन्येषु च कुत्रचित् ।। यत्र स्थानं तवाधारो वदामि श्रूयतां विभो ।।३९ ।। वैष्णवेषु च सर्वेषु यतिषु ब्रह्मचारिषु ।। पतिव्रतासु प्राज्ञेषु वानप्रस्थेषु भिक्षुषु ।। 4.42.४० ।। नृपेषु धर्मशीलेषु सत्सु सद्वैश्यजातिषु ।। द्विजसेविषु शूद्रेषु सत्संसर्गस्थितेषु च ।। ४१।। एषु त्वं सततं पूर्णो धर्मराज विराजसे ।। युगेयुगे तदाधारा यत्र पुण्यतमा जनाः ।। ४२ ।। अश्वत्थवटबिल्वेषु तुलसीचंदनेषु च ।। दीक्षापरीक्षाशपथगोष्ठगोष्पदभूमिषु ।।४३।। विवाहेषु च पुष्पेषु विद्यमानोऽसि शाखिषु ।। देवालयेषु तीर्थेषु सतां शश्वद्गृहेषु च ।। ४४ ।। वेदवेदांगश्रवणे जलेषु च सभासु च । श्रीकृष्णगुणनामोक्त श्रुतिगीतस्थलेषु च ।। ४५ ।। व्रतपूजातपोन्याययज्ञसाक्षिस्थलेषु च ।। गवां गृहेषु गोष्वेव विद्यमानो हि पश्यसि ।। ४६ ।। कृशता तेन भविता धर्म तेषु स्थलेषु च ।। एतदन्येषु कृशता यदगम्यं च तच्छृणु ।। ४७ ।। पुंश्चलीषु च सर्वासु गृहेषु नरघातिनाम् ।। नरघातिषु नीचेषु मूर्खेषु च खलेषु च ।। ४८ ।। देवतागुरुविप्रेष्टपाल्यानां धनहारिषु ।। असन्नरेषु धूर्तेषु चौरेषु रतिभूमिषु ।।४९।। दुरोदरसुरापानकलहानां स्थलेषु च ।। शालग्रामसाधुतीर्थपुराणरहितेषु च ।। 4.42.५० ।। दस्युस्नेहेषु वादेषु तालच्छायासु गर्विषु।। असिजीविमषीजीविदेवलग्रामयाजिषु ।।५१।। वृषवाहस्वर्णकारजीवहिंसोपजीविषु ।। भर्तृनिंदितनारीषु स्त्रीजितेषु च पुंसु च ।। ५२ ।। दीक्षासंध्याविष्णुभक्तिविहीनेषु द्विजेषु च ।। स्वांगकन्याविक्रयिषु स्वयोषिद्विक्रयेष्वथ ।। ५३ ।। शालग्रामसुरग्रंथभूमिविक्रयिषु प्रभो ।। मित्रदोहिकृतघ्नेषु सत्यविश्वासघातिषु ।। ५४ ।। शरणागतदीनेषु चाश्रितघ्नेषु नृष्वपि ।। शश्वन्मिथ्योक्तिशीलेषु तथा सीमापहारिषु ।। ५५ ।। कामात्क्रोधात्तथा लोभान्मिथ्यासाक्षिप्रवादिषु ।। पुण्यकर्मविहीनेषु पुण्यकर्मविरोधिषु ।। ५६ ।। स्थातुमेतेषु निन्द्येषु नाधिकारस्तव प्रभो ।। ममापि वचनं सत्यं बभूव तत्क्षणं तव ।। ५७ ।। यास्यामि पतिसेवायै गच्छ तात स्वमन्दिरम् ।। इत्येवंवादिनीं साध्वीमुवाच विधिनन्दनः ।। प्रसन्नवदनः श्रीमानतीव विनयं वचः ।। ५८ ।। धर्म उवाच ।। धन्याऽसि पतिभक्ताऽसि स्वस्ति तेऽस्तु च संततम् ।। ५९ ।। वरं गृहाण दास्यामि मत्परित्राणकारिणि ।। युवा भवतु भर्ता ते रतिशूरश्च कन्यके ।। ।। 4.42.६० ।। रूपवान्गुणवान्साध्वि संततं स्थिरयौवनः ।। परमैश्वर्यसंयुक्ता त्वं भव स्थिरयौवना ।। ६१ ।। चिरजीवी भवतु स मार्कण्डेयात्परः सुते ।। कुबेराद्धनवांश्चैव शक्रादैश्वर्यवानपि ।। ६२ ।। विष्णुभक्तः शिवसमः सिद्धस्तु कपिलात्परः ।। स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ।। ६३ ।। गृहा भवन्तु ते साध्वि कुबेरभवनाधिकाः ।। माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ।। ।। ६४ ।। स्वभर्तुरधिकानां च भविष्यसि न संशयः ।। इत्येवमुक्त्वा संतस्थौ धर्मराजश्च पर्वत ।।६९।। सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ।। धर्मस्तामाशिषं युक्त्वा जगाम निजमन्दिरम् ।। ६६ ।। पतिव्रतां प्रशशंस प्रतिसंसदि संसदि ।। सा रेमे स्वामिना सार्द्धं यूना रहसि संततम् ।। ६७ ।। पश्चाद्बभूव सत्पुत्रा तद्भर्तुरधिका गुणैः ।। शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ।। ६८ ।। दत्त्वाऽनरण्यः स्वसुतां ररक्ष सर्वसंपदम् ।। त्वमेव कन्यकां दत्त्वा सर्वेषामीश्वराय च ।।६९।। रक्ष सर्वबन्धुवर्गानात्मनः सर्वसंपदम् ।। सप्ताहे समतीते च दुर्लभेऽतिशुभे क्षणे ।।4.42.७०।। लग्नाधिपे च लग्नस्थे चन्द्रे स्वतनयान्विते ।। मोदते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ।। ७१ ।। मार्गशीर्षे चन्द्रवारे सर्वदोषविवर्जिते ।। सर्वसद्ग्रहसंदृष्टे ह्यसद्ग्रहविवर्जिते ।। ७२ ।। सदपत्यप्रदेऽतीव पतिसौभाग्यदायिनि ।। अवैधव्यप्रदे सौख्यप्रदे जन्मनि जन्मनि ।। ७३ ।। अत्यन्तप्रेमाविच्छेदप्रदायिनि परात्परे ।। कन्यां प्रदाय देवाय त्वं कृती भव पर्वत ।। ७४ ।। जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ।। तेजःस्वरूपां सर्वेषां देवानां देवपूजिताम् ।। ७९ ।। आविर्भूता पुरा कल्पे देवानां रक्षणाय च ।। तेजोराशिः सुरौघाणां प्रज्वलन्तो दिशो दश ।। ७६ ।। अस्याः स्वतेजसा दैत्याः केचिद्दग्धाः पलायिताः ।। केचिद्बभूवुः शैलेन्द्र भस्मीभूताश्च भूतले ।। ७७ ।। बिलं प्रविविशुः केचिन्मूर्च्छां प्रापुश्च केचन ।। केचिद्दन्ते तृणं कृत्वा जग्मुः शरणमीश्वरीम् ।। ७८ ।। केचिच्चिक्षिपुरस्त्राणि स्तम्भिता अपि केचन ।। केचिच्चिरं रणं कृत्वा ययुः स्वर्गमनामयम् ।। ७९ ।। निःशत्रवो बभूवुस्ते सुरा अस्याः प्रसादतः ।। कृष्णाज्ञया सा कल्पान्ते दक्षकन्या बभूव ह ।। 4.42.८० ।। दक्षश्च विधिवद्देवीं प्रददौ शूलपाणये ।। दैवेन मत्पितुर्यज्ञे सहसा सुरसंसदि ।। ८१ ।। बभूव कलहः शैल तेन शूलभृता महान् ।। ब्रह्माणं च नमस्कृत्य ययौ रुष्टस्त्रिलोचनः ।। ८२ ।। दक्षश्च सगणो रुष्टः प्रययौ स्वालयं तदा ।। कोपात्संभृतसंभारो दक्षो यज्ञं चकार ह ।। ८३ ।। न ददौ यज्ञभागं च मात्सर्याच्छूलपाणये ।। दृष्ट्वा सती प्रकुपिता जनकं रक्तलोचना ।। ८४ ।। निर्भर्त्स्य च बहुतरं हृदयेन विदूयता ।। यज्ञस्थानात्समुत्थाय जगाम मातुरन्तिकम् ।। ८५ ।। भविष्यं कथयामास त्रिकालज्ञा परात्परा ।। यज्ञभङ्गादिकं वाऽपि स्वपितुश्च पराभवम् ।। ८६ ।। पलायनं च देवानां यज्ञस्थानाद्गिरीश्वरम् ।। मुनीनामृत्विजां चैव पर्वतानां तथैव च ।। ८७ ।। जयं शंकरसैन्यानां स्वात्मनो मृत्युमेव च ।। शोकात्पर्यटनं भर्तुर्विरहातुरचेतसा ।। ८८ ।। निर्माणं नेत्ररसः प्रबोधं च जनार्दनात् ।। मूर्तिभेदात्पुनः प्राप्तिं विहारं तस्य तत्समम् ।।८९।। अपरं भवितव्यं च सर्वमुक्त्वा जगाम सा ।। स्वमात्रा भगिनीभिश्च प्रतिषिद्धा च दुःखिता ।। 4.42.९० ।। बभूवादर्शना योगात्सर्वासां सिद्धियोगिनी ।। गत्वा सा जाह्नवीतीरं स्मृत्वा संपूज्य शंकरम् ।। ९१ ।। स्मृत्वा तच्चरणाम्भोजं देहं तत्याज सुन्दरी ।। गन्धमादनद्रोणीस्थं शरीरं प्रविवेश ह ।। ९२ ।। संजहार पुरा येन दैत्यानामखिलं कुलम् ।। हाहाकारं प्रचक्रुश्च सुराः सर्वेऽतिविस्मिताः ।। ९३ ।। जग्मुः शंकरसेनाश्च देशयज्ञं विनश्य च ।। पराभवं च सर्वेषां कृत्वा शोकातुराः पराः ।। ९४ ।। सत्वरं सर्ववृत्तान्तं कथयामासुरीश्वरम् ।। श्रुत्वा प्रवृत्तिं संहर्ता सर्वरुद्रगणैर्वृतः ।। जगाम स्वर्णदीतीरं यत्र देवीकलेवरम् ।। ९५ ।। इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे सतीदेहत्यागो नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।
vasiṣṭha uvāca || athānaraṇyasya kanyā siṣeve bhaktito munim || karmaṇā manasā vācā lakṣmīrnārāyaṇaṃ yathā || 1 || ekadā svarṇadīṃ snātuṃ gacchaṃtīṃ sasmitāṃ satīm || dadarśa pathi dharmaśca māyayā nṛpaliṃgakaḥ || 2 || cāruratnarathasthaśca ratnālaṃkārabhūṣitaḥ || navīnayauvanaśrīmānkāmadevasamaprabhaḥ ||3|| dṛṣṭvā tāṃ sundarīṃ ramyāmuvāca māyayā vibhuḥ || vijñātumantastattvaṃ ca tasyāśca muniyoṣitaḥ || 4 || dharma uvāca || ayi sundari lakṣmīva rājayogye manohare || atīva yauvanasthe ca kāmini sthirayauvane||5|| jarāturasya vṛddhasya samīpe tvaṃ na rājase || candanāgurusaṃliptā rājase rājavakṣasi||6|| vipraṃ tapaḥsu nirataṃ satyajñaṃ maraṇonmukham|| vihāya paśya rājendraṃ ratiśūraṃ smarāturam ||7|| prāpnoti sundaraṃ puṇyātsaundaryaṃ pūrvajanmataḥ || saphalaṃ tadbhavetsarvaṃ rasikāliṃganena ca || 8 || sahasrasundarīkāntaṃ kāmaśāstra viśāradam || kiṃkaraṃ kuru māṃ kānte parityakṣyāmi tā api ||9|| nirjale nirjane ramye śaileśaile nadenade || puṣpodyāne puṣpite ca sugandhipuṣpavāyunā ||4.42.10|| malaye candanāraṇye cārucandanavāyunā || vihariṣyāmi kāmena kāminyā ca tvayā saha||11|| kāmajvareṇa dagdhāyāḥ śāṃtiṃ kartumahaṃ kṣamaḥ || viharasva mayā sārddhaṃ janmedaṃ saphalaṃ kuru ||12|| ityevamuktavaṃtaṃ taṃ svarathādavaruhya ca || grahītumutsukaṃ hastaṃ tamuvāca pativratā || 13 || padmovāca || dūraṃ gaccha gaccha dūraṃ pāpiṣṭha bhūmipādhama || māṃ cetpaśyasi kāmena sadyo bhasma bhaviṣyasi || 14 || pippalādaṃ muniśreṣṭhaṃ tapasā pūtavigraham|| vihāya tvāṃ bhajiṣyāmi strījitaṃ ratilaṃpaṭam ||15|| strījitasparśamātreṇa sarvapuṇyaṃ praṇaśyati || na bhūmau pātakī pāpātpāpināṃ strījitātparaḥ || 16 || māṃ mātaraṃ ca strībhāvaṃ kṛtvā yena bravīṣi ca || bhaviṣyati kṣayastena kālena mama śāpataḥ || 17 || śrutvā dharmaḥ satīśāpaṃ nṛpamūrtiṃ vihāya ca || dhṛtvā svamūrtiṃ deveśaḥ kaṃpamāna uvāca tām || 18 || dharma uvāca || mātarjānīhi māṃ dharmaṃ dharmajñānāṃ gurorgurum || parastrīmātṛbuddhiṃ ca kurvantaṃ saṃtataṃ sati || 19 || ahaṃ tavāṃtarvijñātumāgatastava sannidhim || yuṣmākaṃ ca mano jāne tathāpi daivabodhitaḥ || 4.42.20 || kṛtaṃ me damanaṃ sādhvi na viruddhaṃ yathocitam || śāstiḥ samutpathasthānāmīśvareṇa vinirmitā || 21 || dharmaṃ svadharmaṃ vijñātuṃ kālaṃ kalayituṃ kṣamaḥ || vidhātāraṃ saṃvidhātuṃ tasmai kṛṣṇāya te namaḥ ||22|| saṃhartuṃ yaḥ kṣamaḥ kāle saṃhartāraṃ bhavaṃ vibhuḥ || sraṣṭāraṃ līlayā sraṣṭuṃ tasmai kṛṣṇāya te namaḥ || 23 || śatruṃ vidhātuṃ mitraṃ ca suprītiṃ kalahaṃ kṣamaḥ || sraṣṭuṃ naṣṭam tadevaṃ ca tasmai kṛṣṇāya te namaḥ || 24 || śāpaṃ pradātuṃ sarvāśca sukhaduḥkhavarānkṣamaḥ || saṃpadaṃ vipadaṃ yo hi tasmai kṛṣṇāya te namaḥ || 25 || prakṛtirnirmitā yena mahāviṣṇuśca nirmitaḥ || brahmaviṣṇumaheśādyāstasmai kṛṣṇāya te namaḥ || 26 || yena śuklīkṛtaṃ kṣīraṃ jalaṃ śītaṃ kṛtaṃ purā || dāhīkṛto hutāśaśca tasmai kṛṣṇāya te namaḥ || 27 || atitejaḥ samutthāya tejorūpāya mūrttaye || guṇaśreṣṭhanirguṇāya tasmai kṛṣṇāya te namaḥ ||28|| sarvasmai sarvabījāya sarveṣāmantarātmane|| sarvabaṃdhusvarūpāya tasmai kṛṣṇāya te namaḥ || 29 || ityuktvā puratastasyāstasthau dharmo jagadguruḥ || sā sādhvī taṃ ca vijñāya sahasovāca parvata || 4.42.30 || padmovāca || tvameva dharmaḥ sarveṣāṃ sākṣī ca sarvakarmaṇām || sarvāṃtareṣu sarvātmā sarvajñaḥ sarvatattvavit || 31 || kathaṃ mano me vijñātuṃ viḍaṃbayasi kiṃkarīm || yatkṛtaṃ tvatkṛte brahmannaparādho babhūva me ||32|| tvaṃ ca śapto mayā'jñānātstrīsvabhāvātkrudhā vibho || kā vyavasthā bhavettasya cintayāmīti sāṃpratam || 33 || ākāśo'sau diśaḥ sarvā yadi naśyanti vāyavaḥ || tathāpi sādhvīśāpastu na naśyati kadācana || 34 || tvaṃ ca naṣṭo bhavasi cetsṛṣṭināśo bhavettadā || iti kartavyatāmūḍhā tathāpi tvāṃ vadāmyaham || 35 || satye pūrṇaścatuṣpādaiḥ paurṇamāsyāṃ yathā śaśī || virājase devarāja sarvakālaṃ divāniśam || 36 || pādakṣayaśca tretāyāṃ bhagavanbhavitā tava || pādau parau dvāpare ca tṛtīyaśca kalau vibho || 37 || kaliśeṣe śeṣapādastavācchanno bhaviṣyati || punaḥ satye samāyāte paripūrṇo bhaviṣyasi || 38 || satye sarvavyāpakastvaṃ tadanyeṣu ca kutracit || yatra sthānaṃ tavādhāro vadāmi śrūyatāṃ vibho ||39 || vaiṣṇaveṣu ca sarveṣu yatiṣu brahmacāriṣu || pativratāsu prājñeṣu vānaprastheṣu bhikṣuṣu || 4.42.40 || nṛpeṣu dharmaśīleṣu satsu sadvaiśyajātiṣu || dvijaseviṣu śūdreṣu satsaṃsargasthiteṣu ca || 41|| eṣu tvaṃ satataṃ pūrṇo dharmarāja virājase || yugeyuge tadādhārā yatra puṇyatamā janāḥ || 42 || aśvatthavaṭabilveṣu tulasīcaṃdaneṣu ca || dīkṣāparīkṣāśapathagoṣṭhagoṣpadabhūmiṣu ||43|| vivāheṣu ca puṣpeṣu vidyamāno'si śākhiṣu || devālayeṣu tīrtheṣu satāṃ śaśvadgṛheṣu ca || 44 || vedavedāṃgaśravaṇe jaleṣu ca sabhāsu ca | śrīkṛṣṇaguṇanāmokta śrutigītasthaleṣu ca || 45 || vratapūjātaponyāyayajñasākṣisthaleṣu ca || gavāṃ gṛheṣu goṣveva vidyamāno hi paśyasi || 46 || kṛśatā tena bhavitā dharma teṣu sthaleṣu ca || etadanyeṣu kṛśatā yadagamyaṃ ca tacchṛṇu || 47 || puṃścalīṣu ca sarvāsu gṛheṣu naraghātinām || naraghātiṣu nīceṣu mūrkheṣu ca khaleṣu ca || 48 || devatāguruvipreṣṭapālyānāṃ dhanahāriṣu || asannareṣu dhūrteṣu caureṣu ratibhūmiṣu ||49|| durodarasurāpānakalahānāṃ sthaleṣu ca || śālagrāmasādhutīrthapurāṇarahiteṣu ca || 4.42.50 || dasyusneheṣu vādeṣu tālacchāyāsu garviṣu|| asijīvimaṣījīvidevalagrāmayājiṣu ||51|| vṛṣavāhasvarṇakārajīvahiṃsopajīviṣu || bhartṛniṃditanārīṣu strījiteṣu ca puṃsu ca || 52 || dīkṣāsaṃdhyāviṣṇubhaktivihīneṣu dvijeṣu ca || svāṃgakanyāvikrayiṣu svayoṣidvikrayeṣvatha || 53 || śālagrāmasuragraṃthabhūmivikrayiṣu prabho || mitradohikṛtaghneṣu satyaviśvāsaghātiṣu || 54 || śaraṇāgatadīneṣu cāśritaghneṣu nṛṣvapi || śaśvanmithyoktiśīleṣu tathā sīmāpahāriṣu || 55 || kāmātkrodhāttathā lobhānmithyāsākṣipravādiṣu || puṇyakarmavihīneṣu puṇyakarmavirodhiṣu || 56 || sthātumeteṣu nindyeṣu nādhikārastava prabho || mamāpi vacanaṃ satyaṃ babhūva tatkṣaṇaṃ tava || 57 || yāsyāmi patisevāyai gaccha tāta svamandiram || ityevaṃvādinīṃ sādhvīmuvāca vidhinandanaḥ || prasannavadanaḥ śrīmānatīva vinayaṃ vacaḥ || 58 || dharma uvāca || dhanyā'si patibhaktā'si svasti te'stu ca saṃtatam || 59 || varaṃ gṛhāṇa dāsyāmi matparitrāṇakāriṇi || yuvā bhavatu bhartā te ratiśūraśca kanyake || || 4.42.60 || rūpavānguṇavānsādhvi saṃtataṃ sthirayauvanaḥ || paramaiśvaryasaṃyuktā tvaṃ bhava sthirayauvanā || 61 || cirajīvī bhavatu sa mārkaṇḍeyātparaḥ sute || kuberāddhanavāṃścaiva śakrādaiśvaryavānapi || 62 || viṣṇubhaktaḥ śivasamaḥ siddhastu kapilātparaḥ || svāmisaubhāgyasaṃyuktā bhava tvaṃ jīvanāvadhi || 63 || gṛhā bhavantu te sādhvi kuberabhavanādhikāḥ || mātā tvaṃ daśaputrāṇāṃ guṇināṃ cirajīvinām || || 64 || svabharturadhikānāṃ ca bhaviṣyasi na saṃśayaḥ || ityevamuktvā saṃtasthau dharmarājaśca parvata ||69|| sā taṃ pradakṣiṇīkṛtya praṇamya svagṛhaṃ yayau || dharmastāmāśiṣaṃ yuktvā jagāma nijamandiram || 66 || pativratāṃ praśaśaṃsa pratisaṃsadi saṃsadi || sā reme svāminā sārddhaṃ yūnā rahasi saṃtatam || 67 || paścādbabhūva satputrā tadbharturadhikā guṇaiḥ || śailendra kathitaṃ sarvamitihāsaṃ purātanam || 68 || dattvā'naraṇyaḥ svasutāṃ rarakṣa sarvasaṃpadam || tvameva kanyakāṃ dattvā sarveṣāmīśvarāya ca ||69|| rakṣa sarvabandhuvargānātmanaḥ sarvasaṃpadam || saptāhe samatīte ca durlabhe'tiśubhe kṣaṇe ||4.42.70|| lagnādhipe ca lagnasthe candre svatanayānvite || modate rohiṇīyukte viśuddhe candratārake || 71 || mārgaśīrṣe candravāre sarvadoṣavivarjite || sarvasadgrahasaṃdṛṣṭe hyasadgrahavivarjite || 72 || sadapatyaprade'tīva patisaubhāgyadāyini || avaidhavyaprade saukhyaprade janmani janmani || 73 || atyantapremāvicchedapradāyini parātpare || kanyāṃ pradāya devāya tvaṃ kṛtī bhava parvata || 74 || jagadambāṃ jagatpitre mūlaprakṛtimīśvarīm || tejaḥsvarūpāṃ sarveṣāṃ devānāṃ devapūjitām || 79 || āvirbhūtā purā kalpe devānāṃ rakṣaṇāya ca || tejorāśiḥ suraughāṇāṃ prajvalanto diśo daśa || 76 || asyāḥ svatejasā daityāḥ keciddagdhāḥ palāyitāḥ || kecidbabhūvuḥ śailendra bhasmībhūtāśca bhūtale || 77 || bilaṃ praviviśuḥ kecinmūrcchāṃ prāpuśca kecana || keciddante tṛṇaṃ kṛtvā jagmuḥ śaraṇamīśvarīm || 78 || keciccikṣipurastrāṇi stambhitā api kecana || kecicciraṃ raṇaṃ kṛtvā yayuḥ svargamanāmayam || 79 || niḥśatravo babhūvuste surā asyāḥ prasādataḥ || kṛṣṇājñayā sā kalpānte dakṣakanyā babhūva ha || 4.42.80 || dakṣaśca vidhivaddevīṃ pradadau śūlapāṇaye || daivena matpituryajñe sahasā surasaṃsadi || 81 || babhūva kalahaḥ śaila tena śūlabhṛtā mahān || brahmāṇaṃ ca namaskṛtya yayau ruṣṭastrilocanaḥ || 82 || dakṣaśca sagaṇo ruṣṭaḥ prayayau svālayaṃ tadā || kopātsaṃbhṛtasaṃbhāro dakṣo yajñaṃ cakāra ha || 83 || na dadau yajñabhāgaṃ ca mātsaryācchūlapāṇaye || dṛṣṭvā satī prakupitā janakaṃ raktalocanā || 84 || nirbhartsya ca bahutaraṃ hṛdayena vidūyatā || yajñasthānātsamutthāya jagāma māturantikam || 85 || bhaviṣyaṃ kathayāmāsa trikālajñā parātparā || yajñabhaṅgādikaṃ vā'pi svapituśca parābhavam || 86 || palāyanaṃ ca devānāṃ yajñasthānādgirīśvaram || munīnāmṛtvijāṃ caiva parvatānāṃ tathaiva ca || 87 || jayaṃ śaṃkarasainyānāṃ svātmano mṛtyumeva ca || śokātparyaṭanaṃ bharturvirahāturacetasā || 88 || nirmāṇaṃ netrarasaḥ prabodhaṃ ca janārdanāt || mūrtibhedātpunaḥ prāptiṃ vihāraṃ tasya tatsamam ||89|| aparaṃ bhavitavyaṃ ca sarvamuktvā jagāma sā || svamātrā bhaginībhiśca pratiṣiddhā ca duḥkhitā || 4.42.90 || babhūvādarśanā yogātsarvāsāṃ siddhiyoginī || gatvā sā jāhnavītīraṃ smṛtvā saṃpūjya śaṃkaram || 91 || smṛtvā taccaraṇāmbhojaṃ dehaṃ tatyāja sundarī || gandhamādanadroṇīsthaṃ śarīraṃ praviveśa ha || 92 || saṃjahāra purā yena daityānāmakhilaṃ kulam || hāhākāraṃ pracakruśca surāḥ sarve'tivismitāḥ || 93 || jagmuḥ śaṃkarasenāśca deśayajñaṃ vinaśya ca || parābhavaṃ ca sarveṣāṃ kṛtvā śokāturāḥ parāḥ || 94 || satvaraṃ sarvavṛttāntaṃ kathayāmāsurīśvaram || śrutvā pravṛttiṃ saṃhartā sarvarudragaṇairvṛtaḥ || jagāma svarṇadītīraṃ yatra devīkalevaram || 95 || iti śrībrahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe nārāyaṇanāradasaṃvāde satīdehatyāgo nāma dvicatvāriṃśo'dhyāyaḥ || 42 ||
English translation
Death of Safi RT TRIRRR tTRRT f^: I Vasistha said- The daughter of king Anaranya served the sage physically, mentally and by speech with utmost devotion like LaksmI served Narayana. Once while she was going to, the bank of Gahga smilingly, for taking a bath, Dharma taking to the form of a beautiful king appeared before her in order to test her devotion. He started talking like a passionate person who was mounted over a gem-studded chariot, was adorned with gem- studded ornaments, was quite youthful and was as beautiful as the god of love.
In order to test the inner feeling of the wife of the sage, Dharma spoke to her.
Dharma said- O beautiful one, you are as attractive as LaksmI herself. O damsel, you are in youthful age and this youthful life is meant for the enjoyment of a king. Therefore, do you not feel disgraced by living with the sage who is pretty old. Getting your body plastered with sandal-paste and aguru you should adorn the lap of a king.
What is the use of that old Brahmana who is nearing death, is truthful and is always engaged in performing tapas. You disown him and look at me. I am a king. I am well-versed in the love- sport and presently I have been infested with A beautiful damsel achieves a beautiful person because of the good deeds of her earlier birth.
She gets all her desires fulfilled with the embrace of a charming person.
O dear one, I am well-versed in the scriptures on love, possess thousands of beautiful damsels.
I shall disown all of them. O damsel you make me your slave.
Accompanied with a charming damsel like you I shall roam about in the lonely places having no water, charming places, the mountains, the banks of the rivers and rivulets, flower orchards where the breeze is filled with the fragrance of flowers, besides the beautiful sandal-wood trees of the Malaya mountain. I am competent enough to subside the flame of passion arising in your body. You come along with me and enjoy my company making your present birth a success.
Thus speaking he descended from the chariot and he tried to catch hold of the hand of the princes:. At this, the chaste-lady spoke to him denouncing him at the same time.
Padma said- O degraded king you are extremely sinful therefore move away. In case you cast a voluptuous eye on me, you would surely be reduced to ashes. Pippalada is a sage who has, purified his body by great tapas.
Leaving him, shall I enjoy company of a wicked person who has been defeated by the damsels.
You should realise it that with the touch of a person who is controlled by the women, one gets destroyed, there is no other greater sinner on earth like the one who is defeated by the ladies.
Therefore you consider myself as your mother and should not speak like this, otherwise with the pronouncing of a curse by me, you would vanish.
On hearing about the curse of a chaste women, Dharma at once shed away the form of a king and took to a real form and with a trembling voice, he spoke to Padma.
Dharma said- O mother, take me to be Dharma, who is the teacher of all the teachers. O chaste lady I always look at the others wives like I had come to you in order to test your mind in spite of the fact that I know fully well about the mind of the chaste lady. But still moved by the destiny I arrived here to test your chastity, O chaste lady you have done well by denoimcing me. It is not Improper, it is quite appropriate to put a person moving on the wrong path in the I bow in reverence to lord Krsna, who makes even Dharma to follow the Dharma and makes even the god of death to account for everything and is competent enough to create the creator of the worlds.
He is the one who destroys at the appropriate time, creates the creator at the appropriate time. I how in reverence to lord Krsna. The one who can make the enemy as the friend and the friend as the enemy. He is the one who is competent enough to destroy the entire universe, I bow in reverence to lord Krsna.
The one who is competent enough of pronounce curse on everyone bestows pleasure and pain, boons, riches and even the miseries, I bow in reverence to the same Krsna.
fl-tiidHlildl ^ iigili^ujjV'cl rTO:I The one who has created Prakrti, Mahavisnu, Brahma, Visnu, ^iva and other gods I how in reverence to him. The one who in earlier times bestowed whiteness to the milk, coolness to the water, burning to Agni, I bow in reverence to the same Krsna.
The one who is extremely illustrious and the form of tejas, I bow in reverence too the Kfsna who happens to be full of qualities and even without qualities.
The one who is form of all, the-seed of all, the soul of all, the friend of all, I bow in reverence to the same Krsna.
mountain, thus speaking Dharma the teacher of all, stood before the princess and the chaste lady also recognising him spoke.
PadmS said- You are Dharma for all, witness of all the actions, you are the inner soul of everyone, all knowledgeable and are well-versed in all the tattvas than why did you create the situation to know the mind of and insignificant slave girl like me? It is sinful, whatever I have spoken to you. O virtuous one, I spoke all that in anger, foolishness and because of the nature of women and cursed you also. Therefore, I am bow thinking about the curse.
R WRiftf I The sky, all the directions and the wind could be destroyed but the curse of a chaste lady could never be destroyed. And with your destruction, the entire universe would vanish. Thus thinking I am standing here thoughtlessly. In spite of that I tell you that O king of the gods in the Satyayuga, the moon will shine with the full rays having four feet and you will illumine during the day and night. But, O lord in the Tretayuga, you will be deprived of one foot, O virtuous one, during the Dvdpara you will have two feet only and during Kaliyuga your three feet could be destroyed. During the time of Kali, you will have the lustre of one feet only which would the multiplied by four times during Satyayuga, O virtuous one, during the Satyayuga you would remain all-pervading but in other yugas you would pervade partially. Now I am going to spell out the place of your abode. You will remain
fully present with the Vaisnavas recluses, BrahmacMs, the chaste woken, intelligent people, Vdnaprasthas, yogis, the religious rulers the noble people, the noble Vaisyas the Sddras who serve with devotion, the BrShmanas, Ks atriya and Vaisyas, You will be fully present with all of them, in every yuga wherever the noble souls will reside they would become your R 3% ftamR'lsiR i You will remain present in the trees like pipala, banyan, wood-apple, TulasI and sandal¬ wood. You will always remain present on these trees while receiving Dlk§a, at the time of test, taking oaths cowsheds and the land for the cows, in the appropriate flowers and in trees of the gods, you will always remain present. You will also be present only in the temples, sacred places, houses of the noble people which would become your abode.
At the time of the reciting or listening of the Vedas and the post Vedic literature, in the courts, the places were the name of Kj*sna and his glory are recited, while performing vratas, tapas, administering of justice, performing of yajhas and at the time of standing witness besides the abodes of cows, you would always remain present, O Dharma, In these places you would appear with full rays without any short-coming and in the places other than these, your deficiency would be visible. Now you listen to me about the places which cannot be visited by You will not be accessible to the loose- women, in the houses of the killers of human beings, the degraded people, those who steals the riches of the gods, the teacher, Brahmanas, the family gods and dependable people, those people having no character, the cheats, thieves, pleasure houses, gambling dens, the places of drinking and quarrelling. The places which are deprived
of ascetics, sacred scriptures and Puranas, the places of robbers, the places of controversies, the shade of tala trees, the arrogant people, those who earn by the use of sword, while those who live with the use of ink, with the temple priests, those who performed yajiias in every village, those who plough the fields, the places of gold¬ smiths, those who live on the killing of animals, the places of women who denounce their husbands the man who sells away his wife or Sdlagrdma or image of the gods or the sacred books or sacred lands those who betray the faith of their friends, who are ungrateful, who betray the truthful person, those who kill the poor and those who arrive to take refuge with them. Those who always utter falsehood, those who cross the limits or those who give false evidence because of passion, anger and grief, the places inhabited by the persons deprived of merits and those who
oppose the performing of merits, you will hot be entitled to stay in such places. O lord in case such an arrangement is made, my words would be truthful.
O father now I am going to the abode of my husband to serve him. you also revert to your own abode. After the chaste women spoke all the above words Dharma delightfully and meekly spoke to her.
gt ■'j?m ncMR:nuicRiR(on Dharma said- O lady you are quite graceful, you are devoted to your husband, you will always meet with welfare, you have protected me and therefore I shall grant a boon to you. You accept it. O girl, your husband would become youthful, would be well-versed in love-sport, beautiful, virtuous and will have and ever-lasting youth. O chaste lady by achieving all the riches and fortunes you would also remain ever young.
O daughter, your husband would live longer than Markandeya would possessed more riches than Kubera, would have more fortunes than Indra, would be more devoted to Visnu and would be a siddha greater than Kapila. Your husband would always enjoy fortunes through out his life. O chaste lady, you would achieve the palaces far greater than the palaces of Kubera, you would achieve ten sons who would be more virtuous and enjoy longer life than your virtuous husband.
There is no doubt about it. O mountain king, thus speaking is lord Dharma kept quiet.
Padma than went round him and offered her salutation to him and then left for her abode.
Dharma also reverted to his abode pronouncing boon on her.
Dharamraja praised the chaste lady in every assembly. Thereafter Padma accompanied by her youthful husband started living delight fully.
Thereafter the noble sons were bom to her who were more virtuous than their father. O king of the mountains, I have narrated to you the The king Anaranya after giving away his daughter, protected all his kingdom and riches.
You also give away your daughter to Siva who is the lord of all and protect your kingdom together with all your relatives.
O lord of Mahalaksm!, after a week an auspicious time would come when the moon would reach in Lagnesa and accompanied with his son Budha. All the moon and the stars would be quite favourable and auspicious it could be Monday of Margasirsa month. This lagna is without any blemish, all the planets favourably- look at the king and there would be no unkind planet. It would be the best time and would bestower of progeny, would provide long life to the husband, deprive of widowhood, would bestow pleasure in all the births, would never make the husband and wife to separate. This would thus be the best of the combination. At that point of time you give away four daughter who happens to be the Miilaprakrti, Isvarl, is the form of the tejas of all the gods, adored by all the gods, mother of the universe while Mahadeva who happens to be the father of the universe and become graceful.
In the earlier kalpa for the protection of the gods Mulaprakrti had emerged out of the lustre of the gods illumining all the ten directions.
O lord of the mountains, many of the demons were reduce to ashes with her lustre and many of them fled away in panic. Some of them were reduce to ashes over on earth and some of them fled away to neither world. Some of them fainted and some of them took refuge with, the goddess keeping a straw in their teeth.
Some of them threw away the weapon, some of them were surprised and some of them achieved the eternal heaven after fighting for By her grace the gods were rid of the enemies.
The same Jagadamba alter the change of kalpa, at the command of lord Kr§na was bom as the daughter of Daksa. Daksa, on his part gave away the daughter in marriage to ^iva the holder of trident. O mountain, thereafter in the yajna of my father there was an assembly of gods, there developed a great row between ^iva and Daksa, as a result of which ^iva offering his salutation to Brahma left this place.
Daksa also getting annoyed left the place with his attendants and reached his abode thereafter Daksa in anger collected the material for yajna and organise a great yajna. Out of jealousy. Daks a did not invite Siva in the yajna Finding this Satl developed a great rage against her father.
Her eyes became red and with a painful heart she went to the place of her fathers yajna and from there she went to her mother.
Thereafter the all knowledgeable and the best of all the goddesses Sat! spoke to her mother all the happening of the future in which the destruction of the yajna the insult of her father and the running away of all the gods towards Himalaya the fleeing of the sages and the performers of the yajna, besides the mountains, the victory of the gai)as of Siva, her own death and the wandering of ^iva infested with the grief of the separation of his wife-in all the directions forming of a lake with the tears flowing from the eyes of ^iva the consoling of Siva by Janardana and his composing himself, her own rebirth in the abode of Himalaya and marriage with Siva.
Thus she narrated everything to her mother.
Thereafter, Sat! with a painful heart left the place in spite of being dissuaded to do so by her She was a Siddhayoginl and with the application of the yogic practices, she disappeared from the sight of everyone, she went to the bank of the Gangs and devoting her mind at the feet of Siva and adoring him, she concentrated her mind at the feet of ^iva and then ended her life. After shedding the body of Sat! she entered in the cave of GandhamSdana mountain and entered the divine form in the cave. She in fact entered the same divine form by which she had killed the demons in earlier times.
All the gods were completely surprised at the sight and started crying in panic. The army of arrived in the abode of Daksa and destroyed of Daksa. Getting filled with grief, they rushed back to 6iva and conveyed the news to him. On hearing this, ^iva went to the bank of the Gahga and found the body of Parvatl lying
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 125426 (2017-10-07T03:32:44Z); Shanti Lal Nagar English scan pages n1200–n1208: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1200/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.