Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 36

Chapter 36

Unit 179 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 36Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 361 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 36

Source

।। श्रीराधिकोवाच ।। ।। एतेन नियमेनैव ब्रह्मा तत्याज मोहिनीम् ।। कथं स कुलटाशापादपूज्यः संबभूव ह ।। १ ।। कथं तस्य दर्पभङ्गं चकार कमलापतिः ।। कथयस्व सर्वबीजं सर्वेषामीश्वरः स्वयम् ।।२।। ।। ।। श्रीनारायण उवाच ।। ।। रासेश्वरीवचः श्रुत्वा प्रहस्य रसिकेश्वरः ।। निगूढमितिहासं च तां वक्तुमुपचक्रमे ।। ३ ।। ।। ।। श्रीकृष्ण उवाच ।। ।। ब्रह्मा चिरं तपस्तप्त्वा मत्तो लब्ध्वा वरं वरम् ।। सृष्टिं नानाविधां कृत्वा विधाता स बभूव ह ।। ४ ।। तपसां फलदाता च सर्वेषां शास्तिकृत्प्रभुः ।। आत्मानमीश्वरं ज्ञात्वा महागर्वो बभूव ह ।।५।। ब्रह्माण्डेषु च सर्वेषु गर्वपर्यन्तमुन्नतिः ।। इति मत्वा ब्रह्मणश्च दर्पभङ्गः कृतो मया ।।६।। येषां येषां भवेद्दर्पो ब्रह्माण्डेषु परात्परः ।। विज्ञाय सर्वं सर्वात्मा तेषां शास्ताऽहमेव च ।। ७ ।। प्रथमे ब्रह्मणो गर्वो मया चूर्णीकृतः श्रुतः ।। शङ्करस्य च पार्वत्याश्चन्द्रस्य च रवेस्तथा।।८।। वह्नेर्दुर्वाससश्चैव तथा धन्वन्तरेः प्रिये।। क्रमेण दर्पभङ्गं च कथयामि निशामय ।। ९ ।। क्षुद्राणां महतां चैव येषां गर्वो भवेत्प्रिये ।। एवंविधमहं तेषां चूर्णीभूतं करोमि च ।। 4.36.१०।। ।। श्रीनारायण उवाच ।। ।। श्रीकृष्णस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुका ।। पप्रच्छ राधा यत्नेन संत्रस्ता भयविह्वला ।। ११ ।। ।। श्रीराधिकोवाच ।। ।। कस्य केन प्रभावेण महादर्पो बभूव ह ।। त्वया केन प्रभावेण तस्य भङ्गः कृतः पुरा ।। १२ ।। कथयस्व प्राणनाथ सर्वेषां दर्पभञ्जन ।। दर्पदो भयदः प्राणदानैककारणेश्वर ।। १३ ।। ।। श्रीकृष्ण उवाच ।। ।। येन भूतं गर्वचूर्णं श्रुतं त्रिजगतां विधेः ।। अन्येषां श्रूयतां राधे व्यासेन कथयामि ते ।। १४।। स्वयं शिवो मदंशश्च संहर्ता जगतां च यः ।। तेजसा मत्समः पूर्णो ज्ञानेन च गुणेन च ।। १९।। ध्यायन्ति योगिनो यं स योगीन्द्राणां गुरोर्गुरुः ।। ज्ञानानन्दस्वरूपोऽयं तस्याख्यानं शृणु प्रिये।।१६।। युगषष्टिसहस्राणि तपस्तप्त्वा दिवानिशम् ।। भूत्वा च मत्कलापूर्णो बभूव मत्समो विभुः।।१७।। तपसा तेजसा शश्वत्तेजोराशिर्बभूव ह ।। सूर्यकोटिप्रभावश्च भक्तानां कल्पपादपः ।।१८।। ध्यायंध्यायं च योगीन्द्रास्तत्तेजो बहुकालतः ।। तदन्तरे च पश्यन्ति स्वरूपमतिसुन्दरम्।।१९।। शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रिलोचनम् ।। त्रिशूलपट्टिशकरं व्याघ्रचर्माम्बरं वरम्।।4.36.२०।। जपन्तं स्वात्मनाऽऽत्मानं श्वेताब्जबीजमालया ।। ईषद्धास्यप्रसन्नास्यं चन्द्रचूडं परात्परम् ।। २१ ।। स्वर्णाकारं जटाभारं दधतं शिरसा मुदा।। शान्तं कान्तं त्रिजगतां भक्तानुऽग्रहकातरम्।।२२।। अथ स्वमीश्वरं मत्वा प्रदाता सर्वसंपदाम्।। ददाति सर्वं सर्वेभ्यो वाञ्छितं कल्पपादपः।।२३।। यो यं वाञ्छति तं तस्मै वरं दत्त्वा वरेश्वरः ।। बभूव गर्वसंयुक्तः स्वात्मारामः स्वलीलया ।।२४।। एकदा च वृको दैत्यस्तपस्तेपे शिवस्य च ।। केदारे च कठोरेण वर्षमेकं दिवानिशम् ।। २५ ।। नित्यं याति तत्समीपं कृपया च कृपानिधिः ।। वरं दातुं यथाऽभीष्टं न जग्राहासुरो वरम् ।। २६ ।। वर्षान्ते शङ्करः शश्वत्तस्थौ तत्पुरतः स्वयम् ।। वरदो भक्तिपाशेन क्षणं गन्तुं न स क्षमः ।। २७ ।। सर्वैश्वर्यं सर्वसिद्धिं भुक्तिं मुक्तिं हरः पदम् ।। दैत्यः किंचिन्न गृह्णाति परितः शूलपाणिनः ।। २८ ।। ध्यायमानं तत्पदाब्जं दृष्ट्वा त्रस्तो महेश्वरः ।। अयाचितारं निश्चेष्टं रुरोद प्रेमविह्वलः ।। २९ ।। अतीव रोदनात्तस्य ध्यानभङ्गो बभूव ह ।। ददर्श पुरतः साक्षाद्दातारं सर्वसंपदाम् ।। 4.36.३० ।। यन्मायया वरं वव्रे दैत्येन्द्रो भक्तिपूर्वकम् ।। हस्तं दधे च यन्मूर्ध्नि स भस्म भवितेति च ।।३१ ।। ओमित्युक्त्वा प्रयान्तं तं दुद्राव दैत्यपुंगवः।। मृत्युञ्जयो मृत्युभयाद्दुद्राव त्रासविह्वलः ।। ३२ ।। पपात डमरुस्तस्य व्याघ्रचर्म मनोहरम् ।। दिगम्बरो दशदिशो भेजे दानवभीतये ।। ३३ ।। न हन्ति तं च कृपया भक्तं च भक्तवत्सलः ।। दुष्टानुसारं साधुश्च न करोति कदाचन ।। ३४ ।। साधवो घ्नन्ति घ्नन्तं च भृत्यं पुत्रं प्रियां विना ।। प्रबोधितुं न शक्तश्च स्वात्मानं कृपया समम् ।। ३५ ।। शिवः स्वमृत्युं मत्वा च भीतश्च निरहंकृतः ।। स्मारंस्मारं च मां भद्रे मामेव शरणं ययौ ।। ३६ ।। दृष्ट्वा स्वाश्रममायान्तं शुष्ककण्ठोष्ठतालुकम् ।। हे हरे रक्ष रक्षेति जपन्तं भयविह्वलम् ।।३७।। संस्थाप्य तत्समीपे च स दैत्यो बोधितो मया ।। पृष्टश्च सर्ववृत्तान्तमुवाच मां क्रमेण च ।। ३८ ।। तदा ममाज्ञया तूर्णं वञ्चितो माययाऽसुरः ।। दत्त्वा स्वमूर्ध्नि हस्तं च सद्यो भस्म बभूव ह ।।३९।। तदा सिद्धाः सुरेन्द्राश्च मुनीन्द्रा मनवो मुदा ।। तुष्टुवुर्मां सुभक्त्या च लज्जया लज्जितः शिवः ।।4.36.४०।। बभूव चूर्णस्तद्गर्वो जगाम बोधितो मया ।। वरं ददाति वरदस्ततो बोध्यो ह्यहं शिवः ।। ४१ ।। अथ गर्वान्वितो रुद्रो हन्तुं त्रिपुरमुल्बणम् ।। मत्वा मनसि संहर्ता सर्वेषां जगतामिति ।। ४२ ।। कोऽयं पतङ्गवद्दैत्य इति मत्वा ययौ रणम् ।। विहाय शूलं मद्दत्तं मदीयकवचं परम् ।। ४३ ।। चिरं बभूव समरं वर्षमेकं दिवानिशम् ।। न कोऽपि जेतुं कं शक्तो द्वौ समौ समरे तदा ।।४४।। पृथिव्यां चरणं कृत्वा दैत्येन्द्रो मायया प्रिये ।। अत्यूर्ध्वं च समुत्तस्थौ पञ्चाशत्कोटियोजनम् ।। ४५ ।। उत्तस्थौ शंकरस्तूर्णं हन्तुं दैत्यं जगत्प्रभुः ।। बभूव तत्र युद्धं च मासमेकं निराश्रये ।। ।। ४६ ।। अस्त्राणि चापं चिच्छेद शङ्करस्यासुरो बली ।। रथं बभञ्ज दैत्येन्द्रश्चापमस्त्राणि शङ्करात् ।। ४७ ।। जघान मुष्टिना रुद्रो दानवेन्द्रं प्रकोपतः ।। वज्रमुष्टिप्रहारेण सद्यो मूर्च्छामवाप सः ।। ४८ ।। क्षणेन चेतनां प्राप्य कोपाद्दानवपुंगवः ।। शिवं शयानमुत्तोल्य पातयामास भूतले ।। ४९ ।। सरथे पातिते रुद्रे देवा देवर्षयो भिया ।। तुष्टुवुर्मां परित्राहि कृष्णेत्युक्त्वा पुनःपुनः ।। 4.36.५० ।। हरः सस्मार मामेव निर्भयो भयकारणम् ।। तुष्टाव भक्त्या स्तोत्रेण मया दत्तेन संकटे ।। ५१ ।। तदाऽहं कलया शीघ्रं वृषरूपं विधाय च ।। शयानं शंकरं धृत्वा विषाणाभ्यामुरुक्रमम् ।। ५२ ।। ददौ तस्मै स्वकवचं स्वशूलमरिमर्दनम् ।। प्राप्य तद्दानवस्थानमत्यूर्ध्वं च निराश्रयम् ।। ५३ ।। मया दत्तेन शूलेन जघान त्रिपुरं हरः ।। मामेव दर्पहन्तारं तुष्टाव व्रीडितः पुनः ।। ५४ ।। सद्यः पपात दैत्येन्द्रश्चूर्णीभूतश्च भूतले ।। देवता मुनयः सर्वे तुष्टुवुः शङ्करं मुदा ।।५५।। तत्याज शङकरो दर्पं विघ्नबीजं ततो विभुः ।। ज्ञानानन्दस्वरूपश्च निर्लिप्तः सर्वकर्मसु।।५६।। ततोऽहं वृषरूपेण वहामि तेन तं प्रियम् ।। मम प्रियतमो नास्ति त्रैलोक्येषु शिवात्परः ।।५७।। मनःस्वरूपो ब्रह्मा मे ज्ञानरूपो महेश्वरः ।। बुद्धिर्भगवती दुर्गा मूलप्रकृतिरीश्वरी ।। ५८ ।। निद्रादयः शक्तयो यास्ताः सर्वाः प्रकृतेः कलाः ।। वागधिष्ठातृदेवी या सा स्वयं च सरस्वती ।।५९।। मम कल्याणाधिदेवो हर्षरूपो गणेश्वरः ।। परमार्थः स्वयं धर्मो मम भक्तो हुताशनः ।। 4.36.६० ।। सर्वैश्वर्याधिदेवी मे सर्वगोलोकवासिनः ।। प्राणाधिष्ठातृदेवी त्वं सदा प्राणाघिका मम ।। ६१ ।। गोपाङ्गनास्तव कला अत एव मम प्रियाः ।। मल्लोमकूपजा गोपाः सर्वे गोलोकवासिनः ।। ६२ ।। तेजःस्वरूपः सूर्यश्च प्राणा मे वायवः स्मृताः ।। जलाधिदेवो वरुणः पृथिवी मे मलोद्भवा ।। ६३ ।। मम शून्यो महाकाशो मदनो मानसोद्भवः ।। इन्द्रादयः सुराः सर्वे मत्कलांशांशसंभवाः ।। ६४ ।। एतानि सृष्टिबीजानि महदादीनि चैव हि ।। सर्वेषां बीजरूपोऽहं स्वयमात्मा निराश्रयः ।। ६५ ।। जीवो मे प्रतिबिम्बश्च कर्मभोगाधिकारकः ।। अहं साक्षी निरीहश्च न भोगी सर्वकर्मसु ।। ६६ ।। भक्तध्यानार्थदेहोऽयं मम स्वेच्छामयस्य च ।। प्रकृतिः पुरुषोऽहं च एक एव परात्परः ।। ६७ ।। इत्येवं कथितं राधे शिवदर्पविमोचनम् ।। सृष्टिबीजं च शृणु मे पार्वतीदर्पमोचनम् ।।६८।। श्रीनारायण उवाच ।। इत्युक्तवन्तं श्रीकृष्णं परमात्मानमीश्वरम् ।। पप्रच्छ राधिका देवी निगूढमभिवाञ्छितम् ।। ६९ ।। श्रीराधिकोवाच ।। भगवन्सर्वतत्त्वज्ञ सर्वबीज सनातन ।। वद मे वाञ्छितं प्रश्नं सर्वसंदेहभञ्जनम् ।। 4.36.७० ।। सर्वज्ञानाधिदेवश्च शंकरः सर्वतत्त्ववित् ।। मृत्युंजयः कालकालो भगवांस्त्वत्समो महान् ।।७१।। कथं विभूतिगात्रश्च पञ्चवक्त्रस्त्रिलोचनः ।। दिगम्बरो जटाधारी नागसंघातभूषणः ।। ७२ ।। वृषेणाटति देवेन्द्रो विहाय वरवाहनम् ।। न बिभर्ति कथं रत्नसारनिर्माणभूषणम् ।।७३।। वह्निशुद्धांशुकं त्यक्त्वा धत्ते शार्दूलचर्मकम् ।। धत्ते धत्तूरकुसुमं पारिजातं विहाय च ।।७४।। नास्ति रत्नकिरीटेच्छा जटायां प्रीतिरुत्तमा ।। दिव्यलोकं परित्यज्य श्मशानेषु स्पृहा विभोः ।। ७५ ।। चन्दनागुरुकस्तूरीसुगंधिकुसुमानि च ।। त्यक्त्वा स्पृहा बिल्वपत्रे बिल्वकाष्ठानुलेपने।।७६।। एतद्वेदितुमिच्छामि व्यासेन कथय प्रभो ।। श्रोतुं कौतूहलं नाथ वर्द्धते मे मनःस्पृहा ।। ७७ ।। राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः।। कथां कथितुमारेभे कृत्वा राधां स्ववक्षसि ।। ७८ ।। श्रीकृष्ण उवाच ।। युगषष्टिसहस्राणि तपः कृत्वा महेश्वरः ।। विरराम पूर्णतमो ध्यात्वा मां मनसा मुदा ।।७९।। एतस्मिन्नन्तरे मां च ददर्श पुरतः स्थितम् ।। अतीव कमनीयाङ्गं किशोरं श्यामसुन्दरम्।। ।।4.36.८०.।। अहोनिर्वचनीयं च दृष्ट्वा रूपमनुत्तमम् ।। न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः ।। ८१ ।। पश्यन्निमेषरहित इति मत्वा स्वमानसे ।। भक्त्युद्रेकान्महाभक्तो रुरोद प्रेमविह्वलः ।। ८२ ।। सहस्रवदनोऽनन्तो भाग्यवांश्च चतुर्मुखः ।। बहुभिर्लोचनैर्दृष्ट्वा तुष्टाव बहुभिर्मुखैः ।। ८३ ।। पश्यामि किं वा किं स्तौमि संप्राप्य नाथमीदृशम् ।। आस्यैकेन लोचनाभ्यां चतुर्द्धा स पुनः पुनः ।। ८४ ।। स्व मानसे कुर्वतीदं शंकरे च तपस्विनि ।। तद्बभूव चतुर्वक्त्रं पूर्वेण सह पञ्चमम् ।। ८५ ।। एकैकवक्त्रं शुशुभे लोचनैश्च त्रिभिस्त्रिभिः। बभूव तेन तन्नाम पञ्चवक्त्रस्त्रिलोचनः ।। ८६ ।। स्तवनादधिकप्रीतिः शिवस्य दर्शने मम ।। तेनाधिकानि तस्यैवं बभूवुर्लोचनानि च।। ।। ८७ ।। चक्षूंषि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः ।। सत्त्वं रजस्तम इति तस्य हेतुं निशामय ।। ८८ ।। सत्त्वांशेन दृशा शंभुः पश्यन्पाति च सात्त्विकान् ।। राजसेन राजसिकांस्तामसेन च तामसान् ।। ८९ ।। चक्षुषस्तामसात्पश्चाल्ललाटस्थाद्धरस्य च ।। संहारकाले संहर्तुरग्निराविर्भवेत्क्रुधा ।। 4.36.९० ।। कोटितालप्रमाणश्च सूर्यकोटिसमप्रभः ।। लेलिहानो दीर्घशिखस्त्रैलोक्यं दग्धुमीश्वरः ।।९१।। विभूतिगात्रः स विभुः सतीसंस्कारभस्मना ।। धत्ते तस्या अस्थिमालां प्रेमभावेन भस्म च ।। ९२ ।। स्वात्मारामो यद्यपीशस्तथाऽपि पूर्णमब्दकम् ।। सतीशवं गृहीत्वा च भ्रामंभ्रामं रुरोद ह ।। ९३ ।। प्रत्यङ्गं चापि तस्याश्च पपात यत्र यत्र ह ।। सिद्धपीठस्तत्र तत्र बभूव मन्त्रसिद्धिकृत् ।। ९४ ।। तदा शवावशेषं च कृत्वा वक्षसि शंकरः ।। पपात मूर्च्छितो भूत्वा सिद्धिक्षेत्रे च राधिके ।।९५।। तदा गत्वा महेशं तं कृत्वा क्रोडे प्रबोध्य च ।। अददां दिव्यतत्त्वं च तस्मै शोकहरं परम्।।९६।। तदा शिवश्च संतुष्टः स्वं लोकं च जगाम ह ।। मूर्त्यन्तरेण कालेन तां संप्राप प्रियां सतीम् ।। ९७ ।। दिव्यस्रग्धारियोगेन नेच्छा नित्ये परे विभोः ।। जटां तपस्याकालीनां धत्तेऽद्यापि विवेकतः ।।९८।। न चेच्छा केशसंस्कारे स्वाङ्गवेषेण योगिनः ।। समता चन्दने पङ्के लोष्टे रत्ने मणीश्वरे।।९९।। गरुडद्वेषिणो नागाः शंकरं शरणं ययुः ।। बिभर्ति कृपया स्वाङ्गे तानेव शरणागतान्।।4.36.१००।। वाहनं वृषरूपोऽहमन्यस्तं वोढुमक्षमः ।। त्रिपुरस्य वधे पूर्वं मत्कलांशसमुद्भवः ।।१।। पारिजातादिकं पुष्पसुगन्धि चन्दनादिकम्।। मयि संन्यस्य तेष्वेवं प्रीतिर्नास्ति कदाचन।।२।। धत्तूरे तत्सदा प्रीतिर्बिल्वपत्रानुलेपने ।। गन्धहीने सुगन्धे च योगीष्टे व्याघ्रचर्मणि ।।३।। दिव्यलोके दिव्यतल्पे जनतायां न तन्मनः।। श्मशानेऽतीवरहसि ध्यायते मामहर्निशम्।।४।। आब्रह्मस्तम्बपर्यन्तं समं च मन्यते शिवः।। ममानिर्वचनीयेऽत्र रूपे तन्मग्नमानसम्।।५।। ब्रह्मणः पतनेनापि शूलपाणेः क्षणो भवेत् ।। तस्यायुषः प्रमाणं च नाहं जानामि का श्रुतिः।।६।। ज्ञानं मृत्युंजयः शूलं धत्ते मत्तेजसा समम् ।। विना मया न कश्चित्तं शंकरं जेतुमीश्वरः ।। ७ ।। शंकरः परमात्मा मे प्राणेभ्योऽपि परः शिवः।। त्र्यम्बके मन्मनः शश्वन्न प्रियो मे भवात्परः ।। ८ ।। ब्रह्माण्डनिकरं छन्नं मया मन्मायया सदा ।। स कम्पति हरं शश्वन्न च तं मोहितुं क्षमः ।।९।। न संवसामि गोलोके वैकुण्ठे तव वक्षसि ।। सदा शिवस्य हृदये निबद्धः प्रेमपाशतः ।।4.36.११०।। स्वरसिद्धं सुतानेन पञ्चवक्त्रेण शंकरः ।। शश्वद्गायति मद्गाथां तेनाहं तत्समीपतः ।।११।। स्रष्टुं शक्तो हि नष्टुं च भ्रूभङ्गलीलयाऽपि यः।। ब्रह्माण्डनिकरं योगान्न योगी शंकरात्परः ।।१२।। दिव्यज्ञानेन यः स्रष्टुं नष्टुं भ्रूभङ्गलीलया ।। मृत्युं कालादिकं भक्तो न ज्ञानी शंकरात्परः ।। १३।। मम भक्तिं च दास्यं च मुक्तिं च सर्वसंपदः।। सर्वसिद्धिं दातुमीशो न दाता शंकरात्परः ।।१४।। पञ्चवक्त्रेण मन्नाम यो हि गायत्यहर्निशम् ।। मद्रूपं ध्यायते शश्वन्न भक्तः शंकरात्परः ।। १५ ।। अहं सुदर्शनं शंभुस्तेजसा च वयं समाः ।। ब्रह्मा स्रष्टा च योगेन नास्माभिस्तेजसा समः ।।१६।। इत्येवं कथितं सर्वे शंकरस्य यशोऽमलम् ।। तथाऽप्यस्य दर्पभङ्गं किं भूयः श्रोतुमिच्छसि ।।११७।। इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णकृतशंकरप्रशंसा नाम षट्त्रिंशोऽध्यायः ।।३६।।

|| śrīrādhikovāca || || etena niyamenaiva brahmā tatyāja mohinīm || kathaṃ sa kulaṭāśāpādapūjyaḥ saṃbabhūva ha || 1 || kathaṃ tasya darpabhaṅgaṃ cakāra kamalāpatiḥ || kathayasva sarvabījaṃ sarveṣāmīśvaraḥ svayam ||2|| || || śrīnārāyaṇa uvāca || || rāseśvarīvacaḥ śrutvā prahasya rasikeśvaraḥ || nigūḍhamitihāsaṃ ca tāṃ vaktumupacakrame || 3 || || || śrīkṛṣṇa uvāca || || brahmā ciraṃ tapastaptvā matto labdhvā varaṃ varam || sṛṣṭiṃ nānāvidhāṃ kṛtvā vidhātā sa babhūva ha || 4 || tapasāṃ phaladātā ca sarveṣāṃ śāstikṛtprabhuḥ || ātmānamīśvaraṃ jñātvā mahāgarvo babhūva ha ||5|| brahmāṇḍeṣu ca sarveṣu garvaparyantamunnatiḥ || iti matvā brahmaṇaśca darpabhaṅgaḥ kṛto mayā ||6|| yeṣāṃ yeṣāṃ bhaveddarpo brahmāṇḍeṣu parātparaḥ || vijñāya sarvaṃ sarvātmā teṣāṃ śāstā'hameva ca || 7 || prathame brahmaṇo garvo mayā cūrṇīkṛtaḥ śrutaḥ || śaṅkarasya ca pārvatyāścandrasya ca ravestathā||8|| vahnerdurvāsasaścaiva tathā dhanvantareḥ priye|| krameṇa darpabhaṅgaṃ ca kathayāmi niśāmaya || 9 || kṣudrāṇāṃ mahatāṃ caiva yeṣāṃ garvo bhavetpriye || evaṃvidhamahaṃ teṣāṃ cūrṇībhūtaṃ karomi ca || 4.36.10|| || śrīnārāyaṇa uvāca || || śrīkṛṣṇasya vacaḥ śrutvā śuṣkakaṇṭhoṣṭhatālukā || papraccha rādhā yatnena saṃtrastā bhayavihvalā || 11 || || śrīrādhikovāca || || kasya kena prabhāveṇa mahādarpo babhūva ha || tvayā kena prabhāveṇa tasya bhaṅgaḥ kṛtaḥ purā || 12 || kathayasva prāṇanātha sarveṣāṃ darpabhañjana || darpado bhayadaḥ prāṇadānaikakāraṇeśvara || 13 || || śrīkṛṣṇa uvāca || || yena bhūtaṃ garvacūrṇaṃ śrutaṃ trijagatāṃ vidheḥ || anyeṣāṃ śrūyatāṃ rādhe vyāsena kathayāmi te || 14|| svayaṃ śivo madaṃśaśca saṃhartā jagatāṃ ca yaḥ || tejasā matsamaḥ pūrṇo jñānena ca guṇena ca || 19|| dhyāyanti yogino yaṃ sa yogīndrāṇāṃ gurorguruḥ || jñānānandasvarūpo'yaṃ tasyākhyānaṃ śṛṇu priye||16|| yugaṣaṣṭisahasrāṇi tapastaptvā divāniśam || bhūtvā ca matkalāpūrṇo babhūva matsamo vibhuḥ||17|| tapasā tejasā śaśvattejorāśirbabhūva ha || sūryakoṭiprabhāvaśca bhaktānāṃ kalpapādapaḥ ||18|| dhyāyaṃdhyāyaṃ ca yogīndrāstattejo bahukālataḥ || tadantare ca paśyanti svarūpamatisundaram||19|| śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ trilocanam || triśūlapaṭṭiśakaraṃ vyāghracarmāmbaraṃ varam||4.36.20|| japantaṃ svātmanā''tmānaṃ śvetābjabījamālayā || īṣaddhāsyaprasannāsyaṃ candracūḍaṃ parātparam || 21 || svarṇākāraṃ jaṭābhāraṃ dadhataṃ śirasā mudā|| śāntaṃ kāntaṃ trijagatāṃ bhaktānu'grahakātaram||22|| atha svamīśvaraṃ matvā pradātā sarvasaṃpadām|| dadāti sarvaṃ sarvebhyo vāñchitaṃ kalpapādapaḥ||23|| yo yaṃ vāñchati taṃ tasmai varaṃ dattvā vareśvaraḥ || babhūva garvasaṃyuktaḥ svātmārāmaḥ svalīlayā ||24|| ekadā ca vṛko daityastapastepe śivasya ca || kedāre ca kaṭhoreṇa varṣamekaṃ divāniśam || 25 || nityaṃ yāti tatsamīpaṃ kṛpayā ca kṛpānidhiḥ || varaṃ dātuṃ yathā'bhīṣṭaṃ na jagrāhāsuro varam || 26 || varṣānte śaṅkaraḥ śaśvattasthau tatpurataḥ svayam || varado bhaktipāśena kṣaṇaṃ gantuṃ na sa kṣamaḥ || 27 || sarvaiśvaryaṃ sarvasiddhiṃ bhuktiṃ muktiṃ haraḥ padam || daityaḥ kiṃcinna gṛhṇāti paritaḥ śūlapāṇinaḥ || 28 || dhyāyamānaṃ tatpadābjaṃ dṛṣṭvā trasto maheśvaraḥ || ayācitāraṃ niśceṣṭaṃ ruroda premavihvalaḥ || 29 || atīva rodanāttasya dhyānabhaṅgo babhūva ha || dadarśa purataḥ sākṣāddātāraṃ sarvasaṃpadām || 4.36.30 || yanmāyayā varaṃ vavre daityendro bhaktipūrvakam || hastaṃ dadhe ca yanmūrdhni sa bhasma bhaviteti ca ||31 || omityuktvā prayāntaṃ taṃ dudrāva daityapuṃgavaḥ|| mṛtyuñjayo mṛtyubhayāddudrāva trāsavihvalaḥ || 32 || papāta ḍamarustasya vyāghracarma manoharam || digambaro daśadiśo bheje dānavabhītaye || 33 || na hanti taṃ ca kṛpayā bhaktaṃ ca bhaktavatsalaḥ || duṣṭānusāraṃ sādhuśca na karoti kadācana || 34 || sādhavo ghnanti ghnantaṃ ca bhṛtyaṃ putraṃ priyāṃ vinā || prabodhituṃ na śaktaśca svātmānaṃ kṛpayā samam || 35 || śivaḥ svamṛtyuṃ matvā ca bhītaśca nirahaṃkṛtaḥ || smāraṃsmāraṃ ca māṃ bhadre māmeva śaraṇaṃ yayau || 36 || dṛṣṭvā svāśramamāyāntaṃ śuṣkakaṇṭhoṣṭhatālukam || he hare rakṣa rakṣeti japantaṃ bhayavihvalam ||37|| saṃsthāpya tatsamīpe ca sa daityo bodhito mayā || pṛṣṭaśca sarvavṛttāntamuvāca māṃ krameṇa ca || 38 || tadā mamājñayā tūrṇaṃ vañcito māyayā'suraḥ || dattvā svamūrdhni hastaṃ ca sadyo bhasma babhūva ha ||39|| tadā siddhāḥ surendrāśca munīndrā manavo mudā || tuṣṭuvurmāṃ subhaktyā ca lajjayā lajjitaḥ śivaḥ ||4.36.40|| babhūva cūrṇastadgarvo jagāma bodhito mayā || varaṃ dadāti varadastato bodhyo hyahaṃ śivaḥ || 41 || atha garvānvito rudro hantuṃ tripuramulbaṇam || matvā manasi saṃhartā sarveṣāṃ jagatāmiti || 42 || ko'yaṃ pataṅgavaddaitya iti matvā yayau raṇam || vihāya śūlaṃ maddattaṃ madīyakavacaṃ param || 43 || ciraṃ babhūva samaraṃ varṣamekaṃ divāniśam || na ko'pi jetuṃ kaṃ śakto dvau samau samare tadā ||44|| pṛthivyāṃ caraṇaṃ kṛtvā daityendro māyayā priye || atyūrdhvaṃ ca samuttasthau pañcāśatkoṭiyojanam || 45 || uttasthau śaṃkarastūrṇaṃ hantuṃ daityaṃ jagatprabhuḥ || babhūva tatra yuddhaṃ ca māsamekaṃ nirāśraye || || 46 || astrāṇi cāpaṃ ciccheda śaṅkarasyāsuro balī || rathaṃ babhañja daityendraścāpamastrāṇi śaṅkarāt || 47 || jaghāna muṣṭinā rudro dānavendraṃ prakopataḥ || vajramuṣṭiprahāreṇa sadyo mūrcchāmavāpa saḥ || 48 || kṣaṇena cetanāṃ prāpya kopāddānavapuṃgavaḥ || śivaṃ śayānamuttolya pātayāmāsa bhūtale || 49 || sarathe pātite rudre devā devarṣayo bhiyā || tuṣṭuvurmāṃ paritrāhi kṛṣṇetyuktvā punaḥpunaḥ || 4.36.50 || haraḥ sasmāra māmeva nirbhayo bhayakāraṇam || tuṣṭāva bhaktyā stotreṇa mayā dattena saṃkaṭe || 51 || tadā'haṃ kalayā śīghraṃ vṛṣarūpaṃ vidhāya ca || śayānaṃ śaṃkaraṃ dhṛtvā viṣāṇābhyāmurukramam || 52 || dadau tasmai svakavacaṃ svaśūlamarimardanam || prāpya taddānavasthānamatyūrdhvaṃ ca nirāśrayam || 53 || mayā dattena śūlena jaghāna tripuraṃ haraḥ || māmeva darpahantāraṃ tuṣṭāva vrīḍitaḥ punaḥ || 54 || sadyaḥ papāta daityendraścūrṇībhūtaśca bhūtale || devatā munayaḥ sarve tuṣṭuvuḥ śaṅkaraṃ mudā ||55|| tatyāja śaṅakaro darpaṃ vighnabījaṃ tato vibhuḥ || jñānānandasvarūpaśca nirliptaḥ sarvakarmasu||56|| tato'haṃ vṛṣarūpeṇa vahāmi tena taṃ priyam || mama priyatamo nāsti trailokyeṣu śivātparaḥ ||57|| manaḥsvarūpo brahmā me jñānarūpo maheśvaraḥ || buddhirbhagavatī durgā mūlaprakṛtirīśvarī || 58 || nidrādayaḥ śaktayo yāstāḥ sarvāḥ prakṛteḥ kalāḥ || vāgadhiṣṭhātṛdevī yā sā svayaṃ ca sarasvatī ||59|| mama kalyāṇādhidevo harṣarūpo gaṇeśvaraḥ || paramārthaḥ svayaṃ dharmo mama bhakto hutāśanaḥ || 4.36.60 || sarvaiśvaryādhidevī me sarvagolokavāsinaḥ || prāṇādhiṣṭhātṛdevī tvaṃ sadā prāṇāghikā mama || 61 || gopāṅganāstava kalā ata eva mama priyāḥ || mallomakūpajā gopāḥ sarve golokavāsinaḥ || 62 || tejaḥsvarūpaḥ sūryaśca prāṇā me vāyavaḥ smṛtāḥ || jalādhidevo varuṇaḥ pṛthivī me malodbhavā || 63 || mama śūnyo mahākāśo madano mānasodbhavaḥ || indrādayaḥ surāḥ sarve matkalāṃśāṃśasaṃbhavāḥ || 64 || etāni sṛṣṭibījāni mahadādīni caiva hi || sarveṣāṃ bījarūpo'haṃ svayamātmā nirāśrayaḥ || 65 || jīvo me pratibimbaśca karmabhogādhikārakaḥ || ahaṃ sākṣī nirīhaśca na bhogī sarvakarmasu || 66 || bhaktadhyānārthadeho'yaṃ mama svecchāmayasya ca || prakṛtiḥ puruṣo'haṃ ca eka eva parātparaḥ || 67 || ityevaṃ kathitaṃ rādhe śivadarpavimocanam || sṛṣṭibījaṃ ca śṛṇu me pārvatīdarpamocanam ||68|| śrīnārāyaṇa uvāca || ityuktavantaṃ śrīkṛṣṇaṃ paramātmānamīśvaram || papraccha rādhikā devī nigūḍhamabhivāñchitam || 69 || śrīrādhikovāca || bhagavansarvatattvajña sarvabīja sanātana || vada me vāñchitaṃ praśnaṃ sarvasaṃdehabhañjanam || 4.36.70 || sarvajñānādhidevaśca śaṃkaraḥ sarvatattvavit || mṛtyuṃjayaḥ kālakālo bhagavāṃstvatsamo mahān ||71|| kathaṃ vibhūtigātraśca pañcavaktrastrilocanaḥ || digambaro jaṭādhārī nāgasaṃghātabhūṣaṇaḥ || 72 || vṛṣeṇāṭati devendro vihāya varavāhanam || na bibharti kathaṃ ratnasāranirmāṇabhūṣaṇam ||73|| vahniśuddhāṃśukaṃ tyaktvā dhatte śārdūlacarmakam || dhatte dhattūrakusumaṃ pārijātaṃ vihāya ca ||74|| nāsti ratnakirīṭecchā jaṭāyāṃ prītiruttamā || divyalokaṃ parityajya śmaśāneṣu spṛhā vibhoḥ || 75 || candanāgurukastūrīsugaṃdhikusumāni ca || tyaktvā spṛhā bilvapatre bilvakāṣṭhānulepane||76|| etadveditumicchāmi vyāsena kathaya prabho || śrotuṃ kautūhalaṃ nātha varddhate me manaḥspṛhā || 77 || rādhikāvacanaṃ śrutvā prahasya madhusūdanaḥ|| kathāṃ kathitumārebhe kṛtvā rādhāṃ svavakṣasi || 78 || śrīkṛṣṇa uvāca || yugaṣaṣṭisahasrāṇi tapaḥ kṛtvā maheśvaraḥ || virarāma pūrṇatamo dhyātvā māṃ manasā mudā ||79|| etasminnantare māṃ ca dadarśa purataḥ sthitam || atīva kamanīyāṅgaṃ kiśoraṃ śyāmasundaram|| ||4.36.80.|| ahonirvacanīyaṃ ca dṛṣṭvā rūpamanuttamam || na babhūva vitṛṣṇaśca locanābhyāṃ trilocanaḥ || 81 || paśyannimeṣarahita iti matvā svamānase || bhaktyudrekānmahābhakto ruroda premavihvalaḥ || 82 || sahasravadano'nanto bhāgyavāṃśca caturmukhaḥ || bahubhirlocanairdṛṣṭvā tuṣṭāva bahubhirmukhaiḥ || 83 || paśyāmi kiṃ vā kiṃ staumi saṃprāpya nāthamīdṛśam || āsyaikena locanābhyāṃ caturddhā sa punaḥ punaḥ || 84 || sva mānase kurvatīdaṃ śaṃkare ca tapasvini || tadbabhūva caturvaktraṃ pūrveṇa saha pañcamam || 85 || ekaikavaktraṃ śuśubhe locanaiśca tribhistribhiḥ| babhūva tena tannāma pañcavaktrastrilocanaḥ || 86 || stavanādadhikaprītiḥ śivasya darśane mama || tenādhikāni tasyaivaṃ babhūvurlocanāni ca|| || 87 || cakṣūṃṣi guṇarūpāṇi tasya brahmasvarūpiṇaḥ || sattvaṃ rajastama iti tasya hetuṃ niśāmaya || 88 || sattvāṃśena dṛśā śaṃbhuḥ paśyanpāti ca sāttvikān || rājasena rājasikāṃstāmasena ca tāmasān || 89 || cakṣuṣastāmasātpaścāllalāṭasthāddharasya ca || saṃhārakāle saṃharturagnirāvirbhavetkrudhā || 4.36.90 || koṭitālapramāṇaśca sūryakoṭisamaprabhaḥ || lelihāno dīrghaśikhastrailokyaṃ dagdhumīśvaraḥ ||91|| vibhūtigātraḥ sa vibhuḥ satīsaṃskārabhasmanā || dhatte tasyā asthimālāṃ premabhāvena bhasma ca || 92 || svātmārāmo yadyapīśastathā'pi pūrṇamabdakam || satīśavaṃ gṛhītvā ca bhrāmaṃbhrāmaṃ ruroda ha || 93 || pratyaṅgaṃ cāpi tasyāśca papāta yatra yatra ha || siddhapīṭhastatra tatra babhūva mantrasiddhikṛt || 94 || tadā śavāvaśeṣaṃ ca kṛtvā vakṣasi śaṃkaraḥ || papāta mūrcchito bhūtvā siddhikṣetre ca rādhike ||95|| tadā gatvā maheśaṃ taṃ kṛtvā kroḍe prabodhya ca || adadāṃ divyatattvaṃ ca tasmai śokaharaṃ param||96|| tadā śivaśca saṃtuṣṭaḥ svaṃ lokaṃ ca jagāma ha || mūrtyantareṇa kālena tāṃ saṃprāpa priyāṃ satīm || 97 || divyasragdhāriyogena necchā nitye pare vibhoḥ || jaṭāṃ tapasyākālīnāṃ dhatte'dyāpi vivekataḥ ||98|| na cecchā keśasaṃskāre svāṅgaveṣeṇa yoginaḥ || samatā candane paṅke loṣṭe ratne maṇīśvare||99|| garuḍadveṣiṇo nāgāḥ śaṃkaraṃ śaraṇaṃ yayuḥ || bibharti kṛpayā svāṅge tāneva śaraṇāgatān||4.36.100|| vāhanaṃ vṛṣarūpo'hamanyastaṃ voḍhumakṣamaḥ || tripurasya vadhe pūrvaṃ matkalāṃśasamudbhavaḥ ||1|| pārijātādikaṃ puṣpasugandhi candanādikam|| mayi saṃnyasya teṣvevaṃ prītirnāsti kadācana||2|| dhattūre tatsadā prītirbilvapatrānulepane || gandhahīne sugandhe ca yogīṣṭe vyāghracarmaṇi ||3|| divyaloke divyatalpe janatāyāṃ na tanmanaḥ|| śmaśāne'tīvarahasi dhyāyate māmaharniśam||4|| ābrahmastambaparyantaṃ samaṃ ca manyate śivaḥ|| mamānirvacanīye'tra rūpe tanmagnamānasam||5|| brahmaṇaḥ patanenāpi śūlapāṇeḥ kṣaṇo bhavet || tasyāyuṣaḥ pramāṇaṃ ca nāhaṃ jānāmi kā śrutiḥ||6|| jñānaṃ mṛtyuṃjayaḥ śūlaṃ dhatte mattejasā samam || vinā mayā na kaścittaṃ śaṃkaraṃ jetumīśvaraḥ || 7 || śaṃkaraḥ paramātmā me prāṇebhyo'pi paraḥ śivaḥ|| tryambake manmanaḥ śaśvanna priyo me bhavātparaḥ || 8 || brahmāṇḍanikaraṃ channaṃ mayā manmāyayā sadā || sa kampati haraṃ śaśvanna ca taṃ mohituṃ kṣamaḥ ||9|| na saṃvasāmi goloke vaikuṇṭhe tava vakṣasi || sadā śivasya hṛdaye nibaddhaḥ premapāśataḥ ||4.36.110|| svarasiddhaṃ sutānena pañcavaktreṇa śaṃkaraḥ || śaśvadgāyati madgāthāṃ tenāhaṃ tatsamīpataḥ ||11|| sraṣṭuṃ śakto hi naṣṭuṃ ca bhrūbhaṅgalīlayā'pi yaḥ|| brahmāṇḍanikaraṃ yogānna yogī śaṃkarātparaḥ ||12|| divyajñānena yaḥ sraṣṭuṃ naṣṭuṃ bhrūbhaṅgalīlayā || mṛtyuṃ kālādikaṃ bhakto na jñānī śaṃkarātparaḥ || 13|| mama bhaktiṃ ca dāsyaṃ ca muktiṃ ca sarvasaṃpadaḥ|| sarvasiddhiṃ dātumīśo na dātā śaṃkarātparaḥ ||14|| pañcavaktreṇa mannāma yo hi gāyatyaharniśam || madrūpaṃ dhyāyate śaśvanna bhaktaḥ śaṃkarātparaḥ || 15 || ahaṃ sudarśanaṃ śaṃbhustejasā ca vayaṃ samāḥ || brahmā sraṣṭā ca yogena nāsmābhistejasā samaḥ ||16|| ityevaṃ kathitaṃ sarve śaṃkarasya yaśo'malam || tathā'pyasya darpabhaṅgaṃ kiṃ bhūyaḥ śrotumicchasi ||117|| iti śrībrahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe nārāyaṇanāradasaṃvāde śrīkṛṣṇakṛtaśaṃkarapraśaṃsā nāma ṣaṭtriṃśo'dhyāyaḥ ||36||

English translation

Praise of Siva by lord Kr§na Radhika said- Because of this, Brahma disowned Mohinl. It is true but how could Brahma become unadorable because of the curse of the wicked women.

Bow could lord Visnu who happens to be the cause of everything and the lord himself shatter the pride of Brahma?.

Narayana said- On hearing the words of Radhika, Krsna smiled and started narrating the Sri Krsna said- Having been blessed by me Brahma performed tapas for a long time and engaged himself in creation of the universe.

Brahma on the other hand, who happens to be the bestower of the reward for all the tapas and who regulates the universe thinking himself to be the great lord was filled with pride.

The progress is seen in all the globes till one is not infested with pride. Realising this, I shattered the pride of all those who are filled with immense pride in the globes.

O dear one, first of all I shattered the pride of Brahma, which I have already narrated to you.

Now I am going to tell you about the story of the shattering of pride of Siva, Parvatl, the sun, the moon, the god of fire, Durvasa and Dhanvantari.

O dear one, whenever all the people irrespective of being big or small are filled with pride, I surely shatter their pride.

Nfirayana said- On hearing the words of ^rl the lips, throat and palate of RadhM were dried up, she was upset with fear and she asked him in panic.

Radhika said- Who was influenced with pride because of whom? How did you shatter their all the yogis and is blissful besides being the store of knowledge. O dear one, you listen to the story about him.

After performing tapas for sixty thousand yugas through out the day and nights he achieved all my rays and becoming complete in all respects, he pervaded the universe. As a result of the performing of the continuously tapas and gaining the lustre, he became the store of lustre.

His influence, exceeded, the three crores of suns.

He is kalpavrk?a for his devotees.

O lord of my life, you are the one who shatter the pride of all. You fill the people with pride, you provide fearlessness to the people besides while restoring life and are their sole lord. You tell me the truth.

Kfsna said- O RSdha, you are already listen, to the story by means of which the pride of Brahma was shattered. How I am going to tell you the story about the shattering of the pride of Lord Siva happens to be my own ams'a and is the destroyer of the three worlds, he is equal to me in lustre, qualities and intelligence, the ascetics meditate upon him. He is the teacher of The ascetics after performing great tapas and meditating upon him for a long time, visualise his beautiful form.

He has a complexion of crystal, five faces and three eyes. He holds a trident and a paffis'a in his hands and is clad in tiger skin. He is adorned with the garland of white lotus flowers and recites his own mantras. He always wears a serene smile on his face, the eternal ^iva has a crescent on his head serving as a crown on the matted locks of hair. He is peaceful in appearance and is always compassionate on his Considering himself to be supreme lord and the bestower of all the riches he fulfils the desires of all like a kalpa tree.

Whenever things are desired by anyone he bestows the same on him. Thus Siva who always roamed about in his own soul was once filled with pride.

With this illusion, the demon with his mind filled with devotion asked for a boon, "The person on whose head I place my hand, he should be reduce to ashes.".

When Siva moved from that place after pronouncing the boon on the demon, he followed Siva. Lord Siva who has already over-come the death felt panicky of the death and started running about.

Once a demon named Vfka went to the Kedara region of ^iva and performed severed tapas there. The compassionate lord Siva always visited that demon in order to bestow a boon on him but the demon did not accept any boon.

At the end of the year Siva started remaining present before him always. Lord Siva having bound with the fetters of devotion of the demon, could not leave that place even for a moment.

Siva offered him all the fortunes, the siddhis, the devotion, salvation and the highest stage of the lord, but the demon did not accept them.

He only continued devoting his mind at his lotus-like feet. Then suddenly finding that the body of the demon become motionless, Siva felt panicky and overwhelmed with love started With the crying of Siva, the meditation of the demon was disturbed. He then found lord Siva, the bestower of toll the riches standing before His damarii and the pleasant tiger-skin fell down, getting terrified from the demon. He roamed about from the fear of the demon unrobed and in terror rushed in all the directions.

In spite of that the compassionate I^iva did not want to kill him because the noble people do not get cruel even to the wicked people.

The noble people kill only the people who intend to kill them but the servants, son and the beloved are never killed by them. Siva could not understand well the demon because he treated the demon to be his own son. Finding his death nearing him, Siva was extremely terrified and devoid of all the pride. O dear one, reciting my name again and again, he arrived to take refuge with me.

I found him arriving in my abode. His throat, lips and palate had dried up. He was crying, ”0 lord Hari save me.'' Thus uttering these words again and again, he felt upset.

Making the demon to remain by the side of Siva I addressed him and he narrated to me, the entire story. Thereafter, with the influence of my illusion the demon placed his hand on his own head and was reduced to ashes.

At that point of time all the siddhas, Indra, the sages, Manus and even Siva feeling ashamed, started eulogising me.

His pride was shattered thereafter I enlightened him and he left the place. I myself fulfil the effects of pronouncing a boon.

Thereafter, Siva with his mind filled with pride went to kill Tripurasura. He believed in his mind that he was the only one who could destroy all the three worlds then how could the great demon who was like a fire fly before him, face lord I^iva? He than went to the battle-field while going to the battle-field, he left the trident and the kavaca given by me at his place.

He continued fighting with Tripurasura for one year through out the day and night but no one could be victorious. In the battle-field, both of them appeared to be equals, O dear, the demon while fighting on earth by his illusion rose higher in the space around fifty crores of yojanas.

Siva the lord of the universe also raised himself to fight with the demon. In the space they went on fighting for a month.

The valorous demon shattered the weapon and the bow of Siva broke his chariot and destroyed his all other weapons.

The enraged Siva administered a powerful fist on the chest of the demon. With the blow of the fist by Siva, the demon at once fainted.

Regaining consciousness in a moment, the demon picked up Siva, while he was asleep and threw him on the ground.

When Siva together with his chariot was so badly defeated all the gods felt panicky. Thus started offering prayers to me again and Finding the danger ahead Siva meekly uttered my name again and again. At the time of danger he recited the stotra given by me to him with devotion. Than I, taking to the form of a bull lifted up Siva over my horn. I then gave him my kavaca and the trident which always destroyed the enemies. With the use of that trident he attracted Tripura who had been present in the sky without any base and destroyed him with the attack of my trident. Thereafter lord Siva having his pride shattered praised me again and again.

The demon was than reduced to ashes and fell down on the ground. At the sight of the killing of the demon, the gods, the sages and l^iva started prising me. Thereafter ^iva realising that the pride had been the cause of all the trouble got rid of it. He devoted his mind to the blissful knowledge and indulged in all the deeds in an Since than I started carrying ^iva over my back as his vehicle because no one else in the three worlds is dearer to me than ^iva.

Brahma represents my mind ^iva intelligence and Mflla-Prakrti also known as Durga represents wisdom. All other saktis including sleep they represent the form of Prakfti and Sarasvatl happens to be the goddess of my speech. Gapes'a who bestows all the welfares is the form of my pleasure. Dharma stands for the welfare of all and Agni is fully devoted to me. All these residing in Goloka are the gods of my fortune.

You happen to be the great goddess of my life and are dearer to me than my life.

qiRT anr tPT i All the cowherdesses happen to be your rays and are therefore quite dear to me. All the cowherds residing in Goloka have emerged from my hair-pits.

Thus the sun is the form of my lustre, the wind-god represent breathing Varuna stands for the lord of waters and the earth had emerged out of my refiise.

The space void for me. The god of love was created out of my mind and all the gods including Indra emerged out of my rays.

All the tattvas which form the part of the seed in the universe, I happen to be the base of all of them and the soul of all.

The Jfva happens to be my reflection, who has to face the result of his deeds, I am unattached and the witness of all but I never have to face the reward of any action. This body which has been self-created by me is meant for the adoration of my devotees. I happen to be Prakfti Purusa and the only great lord.

O Radha, thus I have narrated to you the story of out the shattering of the pride of Siva. Now you listen to the story relating to the shattering of the pride of Parvat! who happens to be the seed of all the creation.

Siva remains without robes because he always remain engrossed in yogic practices, the eternal lord is devoid of all the desires The matted locks of hair on his head relate to the period when he performed tapas which he maintains even to this day because of his eternal awareness.

The ascetics have no desire to clad themselves in beautiful garments or to arrange the heed- dress. An ascetic finds no difference between the sandal-paste and mud or a ball of earth; even the gems are treated by him like the dust.

The Nagas getting terrified from Garuda took refuge with lord Siva and with his mind filled with Compassion, he adorned all his limbs with the snakes.

I myself carry him in the form of a bull because no one else is competent enough to transport him. In the earlier times duriiig the killing of Tripurasura, a bull was created with my arhsa.

He has already offered Pdrijdta and other flowers besides the sandal-paste and fragrant articles to me, therefore he never feels attracted towards them.

The flowers of thorn-apple, the leaves of wood apple tree and its fruits and the paste of the wood-apple besides the flowers having no fragrance, the skin of tiger is always like by the yogts. Therefore, he always remains attracted towards them.

He does not feel happy in the divine places, divine beds and the places filled with crowds.

Therefore he prefer to reside in lonely places including the cremation grounds and is always engaged in reciting my name.

He considered everyone right for Brahma to the blade of grass as equal. He only devotes his mind towards me.

After the fall of Brahma only a moment of Siva passes. I am not aware of his age in the measure then how can the srutis know about it.

Siva who has ever-powered death carry the trident that emerged from my lustre and also the intelligence. iMo one else except me would be in a position to conquer Siva. Siva is the lord supreme and is dearer to me than my own life. I always devote my mind to Siva in the form of Tryambaka. No one else is dearer to me than Siva, my illusion pervades the entire universe, but she get panicky at the sight of Siva. She is unable to over-power him.

I never reside in Goloka, Vaikuntha or your heart. On the other hand I am over-powered by the fetters of love of Siva and I always reside in his heart.

Siva always sings my praise in divine tunes from his five mouths therefore I always remain close to him. The one is in a position to reduce the entire universe to ashes with mere frowning and as such no ascetic could ever be compared with Siva. The one who is in a position to playfully destroy and recreate the universe with the application of his divine knowledge. There is no one else more knowledgeable than Siva. Siva is competent enough to bestow my devotion, my slavehood, salvation, all the fortunes and the siddhis and as such there is no one greater than j him in the performing of the charities. I He engages himself always reciting my glory with all his five faces; therefore there is no other devotee in the world better than him.

Myself, Sudarsana-cakra and l^iva are equal in glory. Even Brahma the creator of the universe cannot equate us in yogic practices as well as the Thus I have narrated to you the spotless glory of Siva and the story about the shattering of his pride. What else do you want to listen from me.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 125328 (2017-10-05T02:55:19Z); Shanti Lal Nagar English scan pages n1152–n1161: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1152/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.